________________
समयसाराधिकारः ।
योगेषु मूलयोगो भिक्षाचर्या च वर्णिता सूत्रे । अन्ये च पुनर्योगा विज्ञानविहीनैः कृताः ॥ ४६ ॥
११७
टीका - सर्वेषु मूलमुणेषूत्तरगुणेषु मध्ये मूलयोगः प्रधानवतं भिक्षाचर्या कृतकारितानुमतिरहितं प्रासुकं काले प्राप्त भोजनं वर्णिता व्याख्याता सूत्रे प्रवचने, तस्मात्तां भिक्षाशुद्धिं परित्यज्यान्यान् योगानुपवासत्रिकालयोगादिकान् ये कुर्वति तैस्तेऽन्ये योगा विज्ञानविरहितैस्तैश्चारित्रविहीनै: पुनः कृता न परमार्थं जानद्भिरिति, चर्याशुद्ध्या स्तोकमपि क्रियते यत्तपस्तच्छोभनमिति ॥ ४६ ॥
तथा;—
कल्लं कलं पि वरं आहारो परिमिदो पसत्थो य । ण य खमण पारणाओ बहवो बहुसो बहुविधो य ॥ ४७ ॥
कल्यं कल्यमपि वरं आहारः परिमितः प्रशस्तश्च ।
न च क्षमणानि पारणा बहवो बहुशो बहुविधश्च ॥ ४७ ॥ टीका - कल्लं कल्लं श्वस्तनदिने दिने वरं श्रेष्ठमाहारो भोजनं परिमितः प्रमाणस्थः वातपित्तश्लेष्मविकाराहेतुकः प्रशस्तोऽधः कर्मादिदोषरहितः न च क्षमणानि उपवासाः पारणा भोजनदिनानि बव्हय: षष्ठाष्टमदशमद्वादशमासार्द्धमासादिदिनानि बहुशो बहुवारान् बहुविधश्च बहुप्रकारश्च बहुसावद्ययोगयुक्तो महारंभनिष्पन्नो दातृजनसंक्लेशोत्पादको य आहारस्तेन यदि महत्तपः क्रियते न तत्तपो महद्भवति बह्वारंभादिति ॥ ४७ ॥
कस्तर्हि शुद्धयोग इत्याशंकायामाह ;
मरणभयभीरुआणं अभयं जो देदि सव्वजीवाणं । तं दणाणवि दाणं तं पुण जोगेसु मूलजोगं पि ॥४८॥