________________
११८
मूलाचारे
~~~~~~~~~ ~~~~~www.merrrrrr. मरणभयभीरुकेभ्यः अभयं यो ददाति सर्वजीवेभ्यः । तत् दानानामपि दानं तत् पुनः योगेषु मूलयोगोपि ॥ ४८॥ टीका-मरणायद्भयं तस्माद्भीतेभ्योऽभयं यो ददाति सर्वसत्त्वेभ्यस्तदानानामपि दानं सर्वेषां दानानां मध्ये तद्दानं तत्पुनर्योगेषु अपि मूलयोगः प्रधानानुष्ठानं यदभयदानमिति ॥ ४८॥
गुणस्थानापेक्षया चारित्रस्य माहात्म्यमाह;सम्मादिहिस्य वि अविरदस्स ण तवो महागुणो होदि। होदि हु हत्थिण्हाणं चंदच्छिदकम्म तं तस्स ॥४९॥
सम्यग्दृष्टेरपि अविरतस्य न तपो महागुणो भवति । भवति हि हस्तिस्नानं चुंदच्छित्कर्म तत् तस्य ॥ ४९ ॥
टीका-तिष्ठतु तावन्मिथ्यादृष्टिः सम्यग्दृष्टेरप्यविरतस्यासंयतस्य न तपो महागुणः । अयं गुणशब्दोऽनेकार्थे वर्त्तते, तद्यथा-रूपादयो गुणा रूपरसगंधस्पर्शसंख्यापृथक्त्त्वपरिणामादीनि गुणशब्देनोच्यते, तथा गुणभूता वयमत्र नगरे इत्यत्राप्रधानवाची गुणशब्दस्तथा यस्य गुणस्य भावादिति विशेषणे वर्त्तते तथा गुणोऽनेन कृत इत्यत्रोपकारे वर्तते इहोपकारे वर्तमानो गृह्यते । तेन तपो महोपकारं भवति । कर्मनिर्मूलनं कर्तुमसमर्थ तपोऽसंयतस्य दर्शनान्वितस्यापि कुतो यस्माद्भवति हस्तिस्नानं । हु शब्द एवकारार्थः स च हस्तिस्नानेनाभिसंबंधनीयो हस्तिस्नानमेवेति । यथा हस्ती स्नातोऽपि न
नैर्मल्यं वहति पुनराप करेणार्जितपांशुपटलेनात्मानं मलिनयति तद्वत्तपसा निर्जीर्णेऽपि कर्माशे बहुतरादानं कर्मणोऽसंयममुखेनेति । दृष्टांतांतरमप्या
चष्टे-चुंदच्छिदकर्म चंदं काष्ठं छिनत्तीति चंदच्छिद्रज्जुस्तस्याः कर्म क्रिया, यथा चंदच्छिद्रज्जोरुद्वेष्टनं वेष्टनं च भवति तद्वत्तस्यासंयतम्य तत्तपः, अथवा चंदच्छुदगंव-चुदच्युतकमिव मंथनचर्मपालिकेव तत्संयमहीनं तपः । दृष्टांतद्वयोपन्यासः किमर्थ इति चेन्नैष दोषः, अपगतात्कर्मणो बहुत