________________
समयसाराधिकारः ।
रोपादानमसंयमनिमित्तस्येति प्रदर्शनाय हस्तिस्नानोपन्यासः, आर्द्रतनुतया हि बहुतरमुपादत्ते रजः, बंधरहिता निर्जरा स्वास्थ्यं प्रापयति नेतरा बंधसहभाविनीति । किमिवं? चंदच्छिदः कर्मेव-एकत्र वेष्टयत्यन्यत्रोद्वे ष्टयति तपसा निर्जरयति, कर्मासंयमभावेन बहुतरं गृह्णाति कठिनं च करातीति ॥ ४९॥
सन्निपातेन शोभनक्रियाणां कर्मक्षयो भवतीति दृष्टांतेन पोषयन्नाह;वेज्जादुरभेसज्जापरिचारयसंपदा जहारोग्गं । गुरुसिस्सरयणसाहणसंपत्तीए तहा मोक्खो ॥ ५० ॥
वैद्यातुरभैषज्यपरिचरकसंपदा यथा आरोग्यं । गुरुशिष्यरत्नसाधनसंपत्या तथा मोक्षः ॥ ५० ॥ टीका-वैद्यो भिषक् आतुरो व्याधितः भैषज्यमौषधं परिचारका वैयावृत्त्यकारा एतेषां संपत्संयोगस्तया संपदा यथाऽऽरोग्यं व्याधितस्य रोगाभावः संजायते तथा गुरुराचार्यः शिष्यो वैराग्यपरो विनेयो रत्नानि सम्यग्दर्शनादिसाधनानि पुस्तककुंडिकापिच्छिकादीन्यतेषां संपत्तिः संप्राप्तिः संयोगस्तया तेनैव प्रकारेण मोक्षो भवतीति ॥ ५० ॥
दृष्टांत दार्टान्तन योजयन्नाह;आइरिओ वि य वेज्जो सिस्मोरोगी दु भेसजं चरिया। .. खेत्त बल काल पुरिसं णाऊण सणि दृढं कुज्जा ॥५१॥
आचार्योंपि च वैद्यः शिष्यो रोगी तु भेषजं चर्या । क्षेत्रं बलं कालं पुरुषं ज्ञात्वा शनैः दृढं कुर्यात् ॥ ५१ ॥ टीका-आचार्यो नाम वैद्यः शिष्यश्च रोगी भेषेजं चर्या क्षेत्रं शीतमुष्णादिकं बलं शरीरसामर्थ्यादिकं कालः प्रावृडादिकः पुरुषो जघन्यमध्यमो
१ येनैव ग-पुस्तके।