________________
१२०
मूलाचार
त्कृष्टभेदभिन्न एतान् सर्वान् ज्ञात्वा शनैराकुलतामंतरेण शिष्यमाचार्यश्च यथारोग्ययुक्तं कुर्यादिति चर्यौषधं कथनीयमिति ॥ ५१ ॥ __ तत्कथमित्याह;भिक्खं सरीरजोग्गं सुभत्तिजुत्तेण फासुयं दिण्णं । दव्वपमाणं खेत्तं कालं भावं च णादूण ॥५२॥ णवकोडीपडिसुद्धं फासुय सत्थं च एसणासुद्धं । दसदोसविप्पमुक्कं चौदसमलवज्जियं भुंजे ॥ ५३॥
भैक्ष्यं शरीरयोग्यं सुभक्तियुक्तेन प्रासुकं दत्तं । द्रव्यप्रमाणं क्षेत्रं कालं भावं च ज्ञात्वा ॥ ५२ ॥ नवकोटिपरिशुद्ध प्रासुकं शस्तं च एषणाशुद्धं । दशदोषविषमुक्तं चतुर्दशमलवर्जितं भुंजीत ॥ ५३ ॥
टीका-सुभक्तियुक्तेन शरीरयोग्यं भैक्ष्यं प्रासुकं प्रदत्तं नवकोटिपरिशुद्धं प्रासुकं निरवद्यं प्रशस्तं कुत्सादिदोषरहितमेषणासमितिशुद्धं दशदोषविप्रमुक्तं चतुर्दशमलवाज॑तं च द्रव्यप्रमाणं क्षेत्रं कालं भावं च ज्ञात्वा परिणाममंतरण भुंजीतेति ॥ ५२-५३॥
तथा;आहारेदु तवस्सी विगदिंगालं विगदधूमं च । जत्तासाहणमत्तं जवणाहारं विगदरागो ॥ ५४ ॥
आहरेत् तपस्वी विगतांगारं विगतधूमं च । यात्रासाधनमात्र यवनाहारं विगतरागः ॥ ५४॥ टीका-आहारं, किं विशिष्टं ? विगतांगारं विगतधूमं यात्रासाधनमात्रं १ राकुलमन्तरेण ख-ग-पुस्तके। .