SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ मूलाचारे उत्कष्टेन आहारो वर्षसहस्राधिकेन भवनानां । ज्योतिष्काणां पुनः भिन्नमुहूर्तेन इति शेषाणामुत्कृष्टं ॥ १०५ ॥ टीका - उक्कस्सेण - उत्कृष्टेनाहारी भोजनाभिप्रायः, वाससहस्स - वर्षसहस्रेण अहिएण - अधिकेन पंचदशवर्षशतैरित्यर्थः भवणाणां-भवनानां भवनवास्यसुराणां जोदिसियाणं - ज्योतिष्काणां चंद्रादित्यादीनां पुणपुनः भिण्णमुहुत्तेण भिण्णमुहूर्त्तेनेति, एवं सेस - शेषाणां नवानां भवनवासिकुमाराणां सर्वदेवीनां च, किंतु केषांचिन्मुहूर्त्त पृथक्त्वेन उक्कसं- उत्कृष्टं । असुराणां वर्षसहस्रेण साधिकेनाहारग्रहणं भवति, ज्योतिषां शेषकुमाराणां · व्यंतराणां सर्वदेवीनां चांतर्मुहूर्त्तेन, केषांचिदन्तर्मुहूर्त्त पृथक्त्वेनेति ॥ १०५ ॥ अथोच्छ्रासः कथं तेषामित्याशंकायामाह; -- उक्कस्सेणुस्सासो पक्खेणहिएण होइ भवणाणं । मुहुत्तपुधत्तेण तहा जोइसणागाण भोमाणं ॥ १०६ ॥ उत्कृष्टेन उच्छ्रासः पक्षेणाधिकेन भवनानां । २५२ , मुहूर्तपृथक्त्वेन तथा ज्योतिष्क नागभौमानां ॥ १०६ ॥ टीका -- उक्कस्से - उत्कृष्टेन, उस्सासो - उच्छ्रासः, पक्खेण पक्षेण, पंच'दशाहोरात्रेण अहिएण अधिक्रेन, होइ - भवति भवणाणं - भवनानामसुराणां मुहुत्त धत्तेण - मुहूर्त्त पृथक्त्वेन यद्यप्यत्र मुहूर्त्त पृथक्त्वमुक्तं तथाप्यत्रान्तमुहूर्त्त पृथक्त्वं ग्राह्यं तथोपदेशात् त्रैराशिकन्यायाद्भिन्नमुहूर्त्तानुवर्त्तनाच्च, तहा तथा तेनैव प्रकारेण, जोइसणागाण भोमाणं - ज्योतिष्क नागभौमानां तथाशब्देन शेषकुमाराणां । सुराणां पक्षेण साधिकेनोच्छासो नागानां कल्पवासिदेवीनां च, अंतर्मुहूर्त्त पृथक्त्वेन भिन्नमुहूर्त्त पृथक्त्वैव ज्योतिष्क भौमानां शेषकुमाराणां तद्देवीनां भिन्नमुहूर्त्तेनेति ॥ १०६ ॥ इंद्रिय विषयद्वारेणैव देननारकाणामवधिविषयं प्रतिपादयन्नाह - सक्कीसाणा पढमं विदियं तु सणक्कुमारमाहिंदा । बंभालं तव तदियं सुक्कसहस्सारया चउत्थी दु ॥ १०७ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy