________________
१२४
मूलाचारे
- टीका-विरतानां नो कल्प्यते न युज्यते विरतीनामार्यिकाणामुपाश्रये स्थातुं कालांतरं धर्मकार्यमन्तरेण, तत्र च शय्या निषद्या स्वाध्याय आहारः कायिकादिक्रिया प्रतिक्रमादिकं चन कयंते युक्ताचारस्य साधोरिति ॥ ६१॥
कुतो यतः;होदि दुगंछा दुविहा ववहारादो तथा य परमट्ठ। पयदेण य परमहे ववहारेण य तहा पच्छा ॥ ६२॥ भवति जुगुप्सा द्विविधा व्यवहारात् तथा च परमार्थेन । प्रयत्नेन च परमार्था व्यवहारेण च तथा पश्चात् ॥ ६२ ॥
टीका-तत्रार्यिकोपाश्रये वसतः साधोर्दिप्रकारापि जुगुप्सा, व्यवहाररूपा तथा परमार्थां च, लोकापवादो व्यवहाररूपा, व्रतभंगश्च परमार्थतः यत्नेन परमार्थरूपा जायते जुगुप्सा, व्यवहारतश्च ततोऽथवा व्यवहारतो भवति पश्चात्परमार्थतश्चेति ॥ ६२ ॥
तथा संसर्गजं दोषमाह;-- वड्ढदि बोही संसग्गेण तह पुणो विणस्सेदि । संसग्गविसेसेण दु उप्पलगंधो जहा कुंभो ॥ ६३ ।। वर्धते बोधिः संसर्गेण तथा पुनर्विनश्यति । संसर्गविशेषेण तु उत्पलगंधो यथा कुंभः ॥ ६३ ॥ टीका-संसर्गेण संपर्केण बोधिः सम्यग्दर्शनादिशुद्धिर्वर्द्धते तथा पुनरपि विनश्यति च । सदाचारप्रसंगेन वर्द्धते कुत्सिताचारसंपर्केण विनश्यति, यथा संसर्गविशेषेणोत्पलगंधः जलकुंभ उत्पलादिसंपर्केण सुगंधः शीतलश्चाग्न्यादिसंयोगेनोष्णो विरसश्चेति ॥ ६३॥
१-२ कल्पते ख-ग-पुस्तके ।