SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ समयसाराधिकारः । १२३ गिरिकंदरां स्मशानं शून्यागारं च वृक्षमूलं च । स्थानं वैराग्यबहुलं धीरो भिक्षुः निषेवयतु ॥ ५९॥ .. टीका-गिरिकंदरां श्मशानं शून्यागारं वृक्षमूलं च धीरो भिक्षुर्निषेवयतु भावयतु यत एतत्स्थानं वैराग्यबहुलं चारित्रप्रवृत्तिहेतुकमिति ॥ ५९ ॥ तथैतच्च क्षेत्रं वर्जयत्विति कथनायाह;णिवदिविहूणं खेत्तं णिवदी वा जत्थ दुट्ठओ होज । पव्वज्जा च ण लम्भइ संजमघादो य तं वज्जे ॥६०॥ नृपतिविहीनं क्षेत्रं नृपतिर्वा यत्र दुष्टो भवेत् । प्रव्रज्या च न लभ्यते संयमघातश्च तत् वर्जयेत् ॥ ६० ॥ टीका-नृपतिविहीनं यत् क्षेत्रं यस्मिन् देशे नगरे ग्रामे गृहे वा प्रभुर्नास्ति स्वेच्छया प्रवर्त्तते सर्वो जनः, यत्र च क्षेत्रे नृपतिर्दुष्टः यस्मिंश्च देशे नगरे ग्रामे गृहे वा स्वामी दुष्टः कदर्थनशीलो धर्मविराधनप्रवणः, यत्र च प्रव्रज्या न लभ्यते न प्राप्यते*, यत्र यस्मिंश्च देशे शिष्याः श्रोतारोऽध्ये-- तारो व्रतरक्षणतनिष्ठा दीक्षाग्रहणशीलाश्च न संभवंति, संयमाघतश्च यत्र बाहुल्येनातीचारबहुलं तदेतत्सर्व क्षेत्रं च वर्जयेत्, यत्नेन परिहरतु साधुरित्त्युपदेशः ॥ ६०॥ तथैतदपि वर्जयेत् - णो कप्पदि विरदाणं विरदीणमुवासयह्मि चेदृहूँ । तत्थ णिसेज्जउवट्टणसज्झायाहारवोसरणे ॥ ६१॥ नो कल्प्यते विरतानां विरतीनामुपाश्रये स्थातुं । तत्र निषद्योद्वर्तनस्वाध्यायाहारव्युत्सर्गम् ॥ ६१ ॥ * पुष्पमध्यगत पाठस्थाने ख-ग-पुस्तके प्रव्रज्या च न लभते' इत्येव पाठः । १ वर्जयतु ख-ग-पुस्तके।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy