________________
१२२
मूलाचारे
संयममविराधयन् करोतु व्यवहारशोधनं भिक्षुः । व्यवहारजुगुप्सामपि च परिहरतु व्रतानि अभंजयन् ॥ ५७ ॥ टीका-भिक्षुः संयमं चारित्रमविराधयन्नपीडयन् करोतु व्यवहारशोधन लोकव्यवहारशोधनं प्रायश्चितं च व्यवहारजुगुप्सां च, येन कर्मणा लोके विशिष्टजनमध्ये कुत्सितो भवति तत्कर्म परिहरतु च व्रतान्यहिंसादीनि अभंजयन्नखंडयन् । किमुक्तं भवति-संयम मा विराधयतु व्यवहारशुद्धिं च करोतु व्रतानि मा भंजयतु व्यवहारजुगुप्सां च परिहरतु साधुरिति ॥ ५७ ॥
द्रव्यशुद्धिं विधाय क्षेत्रशुद्ध्यर्थमाह;जत्थ कसायुप्पत्तिरभत्तिंदियदारइत्थिजणबहुलं । दुक्खमुवसग्गबहुलं भिक्खू खेत्तं विवज्जेऊ ॥ ५८ ॥
यत्र कषायोत्पत्तिरभक्तिरिद्रियद्वारस्त्रीजनबाहुल्यं । दुःखमुपसर्गबहुलं भिक्षुः क्षेत्रं विवर्जयेत् ॥ ५८ ॥
टीका-यस्मिन् क्षेत्रे कषायाणामुत्पत्तिः प्रादुर्भावस्तथा यस्मिन् क्षेत्रेऽभक्तिरादरामावः शाठ्यबाहुल्यं,यत्र चेंद्रियद्वारबाहुल्यमिन्द्रियद्वाराणां चक्षुरादीनां बाहुल्यं सुष्ठ रागकारणविषयप्राचुर्य, स्त्रीजनबाहुल्यं च यत्र स्त्रीजनो बाहुल्यन शृंगाराकारविकारविषयलीलाहावभावनृत्तगतिवादनहासापहासादिनिष्ठस्तथा दुःख क्षेत्रं क्लेशप्रचुर, उपसर्गबहुलं बाहुल्येनोपसर्गोपेतं च तदेतत्सर्व क्षेत्र भिक्षुः साधुर्विवर्जयतु परिहरतु सम्यग्दर्शनादिशुद्धिकरणायेति ॥ ५८ ॥ ___ इत्थंभूतं च क्षेत्रं सेवयत्विति कथयन्नाह;गिरिकंदरं मसाणं सुण्णागारं च रुक्खमूलं वा । ठाणं विरागबाहर धीरो भिक्खु णिसेवेऊ ॥ ५९ ॥
१ भनक्तु ख-ग-पुस्तके।