________________
समयसाराधिकारः।
१२५
तथैतैश्च संसर्ग वर्जयोदति प्रतिपादयन्नाह;चंडो चवलो मंदो तह साहू पुट्टिमंसपडिसेवीं। गारवकसायबहुलो दुरासओ होदि सो समणो ।।६४॥
चंडश्चपलो मंदस्तथा साधुः पृष्ठिमांसप्रतिसेवी। गौरवकषायबहुलो दुराश्रयो भवति स श्रमणः ॥ ६४॥ टीका-चंडो रौद्रो मारणात्मको विषतरुरिव, चपलोऽस्थिरप्रकृतिर्वाचि-. कादिक्रियायां स्थैर्यहीनः, मंदश्चारित्रालसस्तथा साधुः पृष्ठमांसप्रतिसेवी पश्चाहोषकथनशीलः पैशून्यतत्परः, गौरवबहुलः, कषायबहुलश्च पदं पदं प्रति रोषणशीलः, दुराश्रय एवंभूतः श्रमणो दुःसेव्यो भवति केनाप्युपकारेणात्मीयः कर्तुं न शक्यते यत एवंभूतं श्रमणं न सेवयेदिति संबंधः ॥ ६४ ॥
तथा;वेजावञ्चविहूणं विणयविहूणं च दुस्सुदिकुसीलं । समणं विरागहीणं सुजमो साधू ण सेविज ॥६५॥ - वैयावृत्त्यविहीनं विनयविहीनं च दुःश्रुतिकुशीलं ।
श्रमणं विरागहीनं सुयमः साधुन सेवेत ॥६५॥ टीका–वैयावृत्त्यविहीनं ग्लानदुर्बलव्याधितादीनामुपकाररहितं, विनयविहीनं पंचप्रकारविनयरहित, दुःश्रुतिं दुष्टश्रुतिसमन्वितं, कुशीलं, कुत्सिताचरणशीलं, श्रमणं नाग्न्यायुपेतमपि, विरागहीनं रागोत्कटं, पूर्वोक्तः साधुः संयती न सेवेत न कदाचिदप्याश्रयेत् दुष्टाश्रयत्वादिति ॥ ६५ ॥ ___ तथा;दभं परपरिवादं पिसुणत्तण पावसुत्तपडिसेवं । चिरपव्वइदं पि मुणी आरंभजुदं ण सेविज ॥६६॥
१ विहीनं ख-ग-पुस्तके।