________________
१२६
मूलाचारmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
दंभं परपरिवादिनं पैशून्यवन्तं पापसूत्रप्रतिसेविनं। . चिरप्रव्रजितमपि मुनि आरंभयुतं न सेवेत ॥६६॥
टीका--दंभं वंचनशीलं कुटिलभावं, परपरिवादिनं परोपतापिनं, पैशून्योपपन्नं दोषोद्भावनेन तत्परं, पापसूत्रप्रतिसेविनं मारणोच्चाटनवशीकरणमंत्रयंत्रतंत्रठकशास्त्रराजपुत्रकोकवात्स्यायनपितृपिंडविधायकं सूत्रं मांसादिविधायकवैद्यसावद्यज्योतिषशस्त्रादिरतमित्थंभूतं मुनिं चिरप्रव्रजितमपि आरंभयुतं च न कदाचिदपि सेवेत न तेन सह संगं कुर्यादिति ॥ ६६ ॥
तथा;चिरपब्वइदं पि मुणी अपुट्ठधम्मं असंपुडं णीचं । लोइय लोगुत्तरियं अयाणमाणं विवज्जेज ॥ ६७ ॥ चिरप्रव्रजितमपि मुनि अपुष्टधर्म असंवृतं नीचं। लौकिकं लोकोत्तरमजानंतं विवर्जयेत् ॥ ६७ ॥
टीका तथा चिरप्रव्रजितं बहुकालीनं श्रमणं, अपुष्टधर्म मिथ्यात्वोपेतं असंवृतं स्वेच्छावचनवादिनं नीचं नीचकर्मकरं लौकिकं व्यापारं लोकोत्तरं च व्यापारं अजानंतं लोकविराधनपरं परलोकनाशनपरं च श्रमणं विवर्जयेत् परित्यजेन्न तेन सह संवासं कुर्यादिति ॥ ६७ ॥
तथा पापश्रमणस्य लक्षणमाह;आयरियकुलं मुच्चा विहरदि समणो य जो दु एगागी। ण य गेण्हदि उवदेसं पावस्समणोत्ति वुच्चदि दु ॥६८॥
आचार्यकुलं मुक्त्वा विहरति श्रमणश्च यस्तु एकाकी। न च गृह्णाति उपदेशं पापश्रमणं इति उच्यते तु ॥६८॥ १ दोषाणां दोषाद्भावनेन ग-पुस्तके । अदोषोद्भावेन ख-पुस्तके । २ रतं ख-ग-पुस्तके।