________________
१७०
मलाचारेmammmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm romanmmmmmore लब्धे रूपाधिके दशभिः पृथिव्यादिभिर्भागे हृते रूपं लब्धं द्वे रूपे च शेषभूते तत्रैकवारं भ्रमित्वाक्षो द्वितीयरूपे व्यवस्थितस्ततो रूपे रूपं प्रक्षिप्य क्षात्यादिभिर्भागे हृते न किंचिल्लब्धं द्वितीयरूपे चाक्षः स्थितः, एवं सर्वत्र नष्टोऽक्ष आनयितव्योऽव्यामोहेन । यथा शीलेष्वेवं गुणेष्वपि द्रष्टव्य इति ॥ २४॥
पुनरक्षद्वारेण रूपाणि नष्टान्यानयन्नाह;संठाविऊण रूवं उवरीदो संगुणितु सगमाणे । अवणिज्ज अणकिदयं कुज्जा पढमति याचेव ॥ २५ ॥ . संस्थाप्य रूपं उपरितः संगुणय्य स्वकमानैः। अपनीयं अनंकितं कुर्यात् प्रथमांतं यावच्चैव ॥ २५ ॥ टीका-संठाविऊण-संस्थाप्य सम्यक् स्थापयित्वा, रूवं-रूपं, उवरीदो-उपरित आरभ्य, संगुणित्तु-संगुणय्य, सगमाणे-स्वकप्रमाणैः, अवणिज-अपनीयं निराकरणीयं, अणंकिदयं-अनंकितं रूपं, कुज्जा-कुर्यात्, पढमंति याचेव-प्रथममारभ्यांतकं यावत् रूपं संस्थाप्य दशभी रूपैर्गुणनीयं । अष्टरूपाण्यनंकितानि परिहरणीयानि ततो द्वे रूपे शेषभूते ततो दशभी रूपैर्गुणयितव्ये ततो दशभी रूपैर्गुणिते विंशतिरूपाणि भवंति ततोऽष्टरूपाणि निराकरणीयानि ततो द्वादशरूपाणि पंचत्रिर्गुणितानि षष्टिरूपाणि भवंति द्वे रूपेऽनंकिते ते निराकृत्यष्टापंचाशद्रूपाणि भवंति तानि चतुर्भी रूपैर्गुणितानि द्वात्रिंशदधिके द्वे शते भवतः, अनंकितं न किंचिद्विद्यते ततस्तानि लब्धरूपाणि त्रिभिर्गुणितानि षण्णवत्यधिकानि षट्शतानि भवंति अनंकिते द्वे रूपे ते निराकृत्य चतुर्णवत्यधिकानि षट्शतानि भवंति ततस्तानि त्रिभी रूपैर्गुणितानि द्वे सहस्रे क्यशीत्यधिके भवतस्ततो