________________
१६८
भूलाचारे
प्रथमः पिंडः स्यात् । भूम्यादयो दश द्वितीयः पिंड : प्रथमपिंडं अशीतिशतप्रमाणं दशवारान् संस्थाप्य तस्योपरि पृथिव्यादिकमेकैकं अशीतिशतवारं अशीतिशतवारं संस्थापनीयं तत एतत्सर्वं प्रथमः पिंड :, क्षांत्यादयो दश द्वितीयः पिंड, एवं प्रथमपिंडं अष्टादश शतमात्रं दशसु स्थानेषु संस्थाप्य तस्योपरि क्षांत्यादिकमेकैकं अष्टादशशतवारं अष्टादशशतवारं कृत्वा संस्थापनीयं ततो विषमः प्रस्तारः संपूर्णः स्यापिंडं प्रति निक्षिप्ते सत्येवं तथैव विशेषा अपि विकल्पाः कर्त्तव्याः । गुणप्रस्तारोऽपि विषमोऽनेनैव प्रकारेण साध्यत इति ॥ २२ ॥
अक्षसंक्रमस्वरूपेण शीलगुणान् प्रतिपादयन्नाह; --
पढमक्खे अंदगदे आदिगदे संकमेदि विदियक्खो । दोणिवि गंणतं आदिगदे संकभेदि तदियक्खो ॥ २३ ॥
प्रथमाक्षेतगतं आदिगते संक्रामति द्वितीयोक्षः । द्वापि गत्वांत आदिगते संक्रामति तृतीयाक्षः ॥ २३ ॥
टीका- गुप्तिकरणसंज्ञेद्रिय कायधर्मानुपर्युपरि संस्थाप्य ततः पूर्वोच्चार - . णक्रमेणाक्षसंक्रमः कार्यः । प्रथमाक्षेऽतमवसानं गते प्राप्ते रातोंऽतं प्राप्यादिगतेऽक्षे संक्रामति द्वितीयोऽक्षः करणस्थस्ततो द्वावक्षावंतं गत्वा आदिं प्राप्तयो: संक्रामति तृतीयोऽक्षस्तेषु त्रिष्वक्षेषु अंतं प्राप्यादिं गतेषु संक्रामति तृतीयोऽक्षस्तेष्वंतं प्राप्यादिगतेषु संक्रामति चतुर्थोऽक्षस्ततस्तेषु चतुर्ष्वक्षेच्वंतं प्राप्यादिंगतेषु संक्रामति पंचमोऽक्षस्ततस्तेषु पंचस्वक्षेष्वंतं प्राप्यादिं गतेषु संक्रामति षष्ठोक्षः एवं तावत्संक्रमणं कर्त्तव्यं यावत्सर्वेऽक्षा अंते व्यवस्थिताः स्युस्ततोऽष्टादशशीलसहस्राणि संपूर्णान्यागच्छंतीत्येवं गुणाममननिमित्तमप्यक्षसंक्रमः कार्योऽव्याक्षिप्तचतसेति ॥ २३ ॥