________________
शीलगुणाधिकारः।
शतमात्रः प्रत्येकं चतुरशीतिप्रमाणं कृत्वा तावत् स्थाप्यो यावञ्चतुरशीतिलक्षमात्र, तत उपरि स्त्रीसंसर्गादिविराधना दश प्रत्येकं चतुरशीतिशतानि चतुरशीतिशतानि कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षप्रमाणं संपूर्ण, तत उपरि आकंपितादयो दोषा दश प्रत्येकं चतुरशीतिसहस्राणि कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षमात्रं स्यात्तत उपरि अलोचनादिशुद्धयो दश प्रत्येकमष्टलक्षाधिकचत्वारिंशत्सहस्राणि अष्टलक्षाभ्यधिकचत्वारिंशसहस्राणि कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षमात्रं संपूर्णः स्यात्ततश्चतुरशीतिलक्षगुणगमननिमित्तः समः प्रस्तारः स्यादिति ॥२१॥ ___ एवं समप्रस्तारं निरूप्य विषमप्रस्तारस्य स्वरूपं निरूपयन्नाह;णिक्खित्तु विदियमेत्तं पढमं तस्सुवरि विदियमेकेकं । पिंडं पडि णिक्खित्ते तहेव सेसावि काव्वा ॥ २२॥
निक्षिप्य द्वितीयमानं प्रथमं तस्योपरि द्वितीयमेकैकं । पिंडं प्रति निक्षिप्ते तथैव शेषा अपि कर्तव्याः ॥ २२ ॥
टीका-णिक्खित्तु-निक्षिप्य प्रस्तीर्य, विदियमत्तं-द्वितीयमात्रं, पढमंप्रथमं मनोवाक्कायत्रिकं द्वितीयं त्रिकमात्रं त्रीन वारान संस्थाप्य ततस्तस्योपरि तस्मादूर्ध्वं, विदियं-द्वितीयं करणत्रिकं एकैकं प्रत्येकं द्वितीयप्रमाण त्रीन वारान् कृत्वा तावत् स्थाप्यं यावत्प्रथमप्रस्तारप्रमाणं भवति तत एतसर्व प्रथमं भवति, संज्ञाचतुष्कं द्वितीयं भवति संज्ञामात्रं प्रथमं संस्थाप्य मनोवचनकायपिंडं नवप्रमाणं चतुःसंख्यामात्र संस्थाप्य तस्योपरि एकैका संज्ञा नवनववारान् संस्थाप्य तत एतत्सर्व प्रथमपिंडो भवति, पंचेंद्रियाणि द्वितीयपिंडो भवति, एवं प्रथमपिंडं षट्त्रिंशत्प्रमाणं पंचवारान् संस्थाप्य तस्योपर्येककमिंद्रियं षट्त्रिंशत् षट्त्रिंशत्प्रमाणं स्थापनीयं तत एतत्सर्व