SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ मूलाचारे टीका-पढमं—प्रथमं मनोवाक्कायत्रिकं । सीलपमाणं-शीलप्रमाण अष्टादशशीलसहस्रमानं । कमेण-क्रमेण । णिक्खिविय-निक्षिप्य प्रस्तीर्य मनोवाक्काय मनोवाक्काय इत्येवं तावदेकैकं निक्षेपणीयं यावदष्टादशसहस्राणि पूर्णानि भवंति । ततः उवरिमाणंच-उपरिस्थितानां च करणादीनामष्टादशसहस्रमात्रो निक्षेपः कर्त्तव्यस्तद्यथा-अष्टादशसहस्रमात्राणां योगानां निक्षिप्तानामुपरि मनःकरणं मनःकरणं मनःकरणं वाक्करणं वाक्करणं वाक्करणं कायकरणं कायकरणं कायकरणं एवमेकैकं त्रीन् वारान् कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि । तत उपरि आहारभयमैथुनपरिग्रहसंज्ञाः पृथक् पृथक् एकैका संज्ञा नव नववारान् कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि । तत उपरि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणींद्रियाणि पंचैकैकं षट्त्रिंशद्वारान् कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि संपू र्णानि भवंति । तत उपरि पृथिवीकायिकाकायिकतेजःकायिकवायुकायिकप्रत्येककायिकानंतकायिकद्दींद्रियत्रीन्द्रियचतुरिन्द्रियपंचेन्द्रिया दशैकैकमशीतिशतवारं कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि भवंति । तत उपरि क्षान्तिमार्दवार्जवलाघवतपःसंयमाकिंचन्यब्रम्हचर्यसत्यत्यागा दशैकैक अष्टादशशतान्यष्टादशशतानि कृत्वा तावत्प्रस्तरणीयं यावदष्टादशसहस्राणि पूर्णानि । तत एवं पिडं प्रति एकैके निक्षिप्ते समः प्रस्तारो भवति, मनोवाक्काय एकः पिंडः त्रीणि करणान्यपरः पिंडस्त्रिकभावेन तथा संज्ञा नव नव भूत्वा परः पिंडः तथेन्द्रियाणि षट्त्रिंशद्भूत्वा परः पिंडस्तथा पृथिव्यादयो दश अशीतिशतानि कृत्वा परः पिंडस्तथा क्षात्यादयो दशाष्टशतान्यष्टादशशतानि भूत्वा परः पिंडः एवं पिंडं प्रति पिंडं प्रति एकैके निक्षिप्ते समप्रस्तारोभवति इति । तथा प्राणातिपातायेकविंशतिः पुनः पुनस्तावत् स्थाप्या यावञ्चतुरशीतिलक्षप्रमाणं पूर्ण भवति, तत उपर्यतिक्रमव्यतिक्रमातीचारानाचाराः प्रत्येकमेकविंशतिप्रमाणं कृत्वा तावत्प्रस्तरणीयं यावच्चतुरशीतिलक्षप्रमाणं संपूर्ण स्यात्, तत उपरि पृथिव्यादिविराधनाविकल्पः
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy