SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ शीलगुणाधिकारः। १६५ संक्रमश्चैव । तथा शीलानां गुणानां च, णडं-नष्टता । उद्दिष्टुं-उद्दिष्टता च, उच्चारणा दृष्टा अक्षा नष्टास्तेषामक्षाणामुच्चारणावशनोत्पादनं नष्टमित्युच्यते, अक्षा दृष्टा उच्चारणा नष्टा अक्षवशेन तासामुद्दिष्टमित्युच्यते । पंच वि वत्थूणि णेयाणि-एवं पंचापि वस्तूनि ज्ञातव्यानि भवंति । एवं शीलानां गुणानां च पंच विकल्पा ज्ञातव्या भवंतीति ॥ १९ ॥ संख्यानयनाय तावदाह;सव्वेपि पुव्वभंगा उवरिमभंगेसु एक्कमेक्सु । मेलंतेत्तिय कमसो गुणिदे उप्पज्जदे संखा ॥ २०॥ सर्वानपि पूर्वभंगान उपरि भंगेषु एकमेक। मेलयित्वा क्रमशो गुणिते उत्पद्यते संख्या ॥ २० ॥ टीका-शीलानां गुणानां च सर्वानपि पूर्वभंगान् पूर्वविकल्पानुपरि भंगेषु उपरिस्थितविकल्पेषु मेलयित्वा एकमेकं क्रमशो गुणयित्वा वा संख्या समुत्पादनीया । अथवा सर्वेषु पूर्वभंगेषु उपरिभंगेषु पृथक् पृथक् मिलितेषु संख्योत्पद्यते, अथवा सर्वेषु पूर्वभंगेषु उपरिभंगेषु च परस्परं गुणितेषु संख्योत्पद्यते । एकविंशतिश्चतुर्भिर्गुणनीया पुनः शतेन पुनरपि दशभिः पुनरपि दशभिः पुनरपि दशभिर्गुणिते च चतुरशीतिलक्षा गुणा उत्पद्यत इति । एवं शीलानामपि द्रष्टव्यमिति ॥ २० ॥ . प्रस्तारस्योत्पादनार्थमाह;पढम सीलपमाणं कमेण णिक्खिविय उवरिमाणं च । पिंड पडि एकेक णिक्खित्ते होइ पत्थारो ॥२१॥ प्रथमं शीलप्रमाणं क्रमेण निक्षिप्योपरिस्थितानां च । पिंड प्रत्येकैके निक्षिप्ते भवति प्रस्तारः ॥ २१ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy