________________
१६४
मूलाचारे
पृथिवीकायिकानां योऽयं पुनरारंभस्तस्मिन् सुसंयते वा धीरे धीरस्य वा साधोः । इत्थीसंसग्गविजुदे-स्त्रीसंसर्गवियुक्ते स्त्रीजनसंसर्गविमुक्तस्य वा । आकंपियदोसकरणउम्मुक्के-आकंपितदोषस्य यत्करणं तेनोन्मुक्तस्योन्मुक्ते वा। आलोयणसोधिजदे-आलोचनशुद्धियुक्ते आलोचनशुद्धियुक्तस्य वा, आदिगुणोआदिगुणः प्रथमो गुणः संजातः । एवं, सेसया–शेषाश्च गुणाः । णेया-ज्ञातव्या उत्पादनीया इति । हिंसाद्येकविंशतिं संस्थाप्य तत ऊर्ध्वं अतिकमणादयश्चत्वारः संस्थापनीयाः पुनस्तत ऊर्ध्वं पृथिव्यादिशतं स्थापनी तत ऊर्ध्व दश विराधनाः स्त्रीसंसर्गादयो व्यवस्थाप्यास्तत ऊर्ध्व आकंपितादयो दश दोषाः स्थापनीयाः पुनस्तत ऊर्ध्व आलोचनादयो दश शुद्धयः स्थापनीयास्तत एवमुच्चारणं कर्त्तव्यं-धीरे मुनौ प्राणातिपातविरते पुनरग्यतिक्रमणदोषकरणोन्मुक्ते पुनरपि पृथिव्या पृथिवीपुनरारंभसुसंयते पुनरपि स्त्रीसंसर्गवियुक्ते पुनरप्याकंपितदोषकरणोन्मुक्ते पुनरप्यालोचनशुद्धियुक्ते आदिगुणो भवति । ततो मृषावादविरतेऽतिक्रमणदोषकरणोन्मुक्ते पुनरप्यालोचनशुद्धियुक्ते आदिगुणो भवति ? ततो मृषावादविरतेऽतिक्रमणदोषकरणोन्मुक्ते एवं शेषाणामप्युच्चार्य वाच्यो द्वितीयगुणस्ततोऽदत्तादानविरचिते, एवं शेषेष्वप्युच्चारितेषु तृतीयो गुणः, एवं तावदुच्चार्य यावच्चतुरशीतिलक्षा गुणानां संपूर्णा उत्पन्ना भवंतीति ॥ १७-१८॥
शीलानां गुणानां च पंच विकल्पान् प्रतिपादयन्नाह;सीलगुणाणं संखा पत्थारो अक्खसंकमो चेव । णटुं तह उद्दिद्वं पंच वि वत्थूणि णेयाणि ॥ १९ ॥ शीलगुणानां संख्या प्रस्तारोः अक्षसंक्रमश्चैव ।
नष्टं तथोद्दिष्टं पंचापि वस्तूनि ज्ञेयानि ॥ १९ ॥ - टीका-सीलगुणाणं-शीलगुणानां । संखा-संख्या प्रमाणं । शीलानां गुणानां च, पत्थारो-प्रस्तारः । शीलानां गुणानां च, अक्खसंकमो-अक्ष