SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः। इति संज्ञा । हसनं हासो यस्य कर्मस्कंधस्योदयेन हास्यनिमित्तो जीवस्य राग उत्पद्यते तस्य हास इति संज्ञा कारणे कार्योपचारात् । रम्यतेऽनयेति रमणं वा रतिः कुत्सिते रमते येषां कर्मस्कंधानामुदयेन द्रव्यक्षेत्रकालभावेष रतिरुत्पद्यते तेषां रतिरिति संज्ञा । न रमते न रम्यते वा यया साऽरतिर्यस्य पुद्गलस्कंधस्योदयेन द्रव्यादिष्वरतिर्जायते तस्यारतिरितिसंज्ञा । शोचनं शोचयतीति वा शोकः यस्य कर्मस्कंधस्योदयेन शोकः समुत्पद्यते जीवस्य तस्य शोक इति संज्ञा । भीतिर्यस्मादिभेति वा भयं य: कर्मस्कंधैरुदयमागतैर्जीवस्य भयमुत्पद्यते तेषां भयमिति संज्ञा । जुगुप्सनं जुगुप्सा येषां कर्मस्कंधानामुदयेन द्रव्यादिषु जुगुप्सा उत्पद्यते तेषां जुगुप्सेति संज्ञा । एवं नवविधमेव नोकषायवेदनीयं ज्ञातव्यमिति । कषायवेदनीयाख्यभेदास्तूर्द्धमेतस्माच्चागमाज्ज्ञातव्या इति ॥ १९२ ॥ आयुषो नाम्नश्च प्रकृतेर्भेदान् प्रतिपादयन्नाहःणिरियाऊ तिरियाऊ माणुसदेवाण होंति आऊणी। गदिजादिसरीराणि य बंधणसंघादसंठाणा ॥ १९३॥ नारकायुः तैरश्चायुः मानुषदेवानां भवंति आयूंषि । गतिजातिशरीराणि च बंधनसंघातसंस्थानानि ॥ १९३॥ टीका-नारकादिषु संबंधत्वेनायुषो भेदव्यपदेशः क्रियते नारकेषु भवं नारकायुः, तिर्यक्षु भवं तैरश्चायुः, मनुष्येषु भवं मानुष्यायुः, देवेषु भवं दैवायुः, एवमायूंषि चत्वारि । येषां कर्मस्कंधानामुदयन जीवस्याधोगतिस्वभावेषु नरकेषु तीव्रशीतोष्णवेदनेषु दीर्घजीवनेनाधः स्थानं भवति तेषां नारकायुरिति संज्ञा, येषां पुद्गलस्कंधानामुदयेन तिर्यङ्मनुष्यदेवभवानामेव स्थानं भवति तेषां तैरश्चमानुषदैवायूंषि इति संज्ञेति । गतिर्भवः संसार; यदुदयादात्मा भातरं गच्छति सा गतिर्यदि गतिनाम कर्म न स्यात्तदाऽगति वः स्यात् । यस्मिन् जीवभावे सत्यायुःकर्मणो यथावस्थानं शरारादीनि कर्माणि
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy