________________
३०२
मूलाचारे
जुत्वं लोभो गृहमूर्छा अनंतानुभवान्मिथ्यात्वासंयमादौ अनुबंधः शीलं येषां तेऽनंतानुबंधिनस्ते च ते क्रोधमानमायालोभा अनंतानुवंधिक्रोधमानमायालोभाः, अथ वाऽनंतेषु भवेष्वनुवंधो विद्यते येषां तेऽनंतानुबंधिनः संसारापेक्षयानंतकालत्वं एते सम्यक्त्वचारित्रविरोधिनः शक्तिद्वयापनोदायेति, अथ वाऽनंतानुवंधिन इति संज्ञा भवंति एत इति । प्रत्याख्यानं संयम ईषत्प्रत्याख्यानं संयमासंयम इत्यर्थः, अत्रावरणशब्दो द्रष्टव्यः, अप्रत्याख्यानमावपवंतीत्यप्रत्याख्यानावरणाः । प्रत्याख्यानं संयममावृण्वंतति प्रत्याख्यानावरणाः । अथवा येषु सत्सु प्रत्याख्यानसंयमादिरहितं सम्यक्त्व भवतीति अप्रत्याख्यानसंज्ञाः क्रोधमानमायालोभास्तादात्ताच्छब्द्यमिति । तथा येषु सत्सु प्रत्याख्यानं सम्यक्त्वसहितः संयमासंयमो भवति क्रोधमानमायालोमाः प्रत्याख्यानसंज्ञा भवंत्यत्रापि तादर्थ्यात्ताच्छब्यमिति । तथा संयमेन सहकीभूय संज्वलंति संयमो वा ज्वलत्येषु सस्विति वा संज्वलनाः क्रोधमानमायालोभा इति । आयाः सम्यत्क्वसंयमघातिनः, द्वितीया देशसंयमघातिनः, तृतीयाः संयमघातिनः, चतुर्थाः, यथाख्यातसंयमघातिन इति ॥ १९१ ॥
नोकषायभेदान्प्रतिपादयन्नाह;-- इत्थीपुरिसणउंसयवेदा हास रदि अरदि सोगो य । भयमेतोय दुगंछा णवविह तह णोकसायभेयं तु ॥१९२।। स्त्रीपुरुषनपुंसकवेदाः हासो रतिः अरतिः शोकश्च । भयमेतस्मात् जुगुप्सा नवविधस्तथा नोकषायभेदस्तु ॥१९२॥ टीका-स्तृणाति छादयति दोषैरात्मानं परं च स्त्री । पुरौप्रकृष्टे कर्मणि शेते प्रमादयति तानि करोतीति वा पुरुषः । न पुमान् न स्त्री नपुंसकं । येषां पुद्गलस्कंधानामुदयेन पुरुष आकांक्षोत्पद्यते तेषां स्त्रीवेद इति संज्ञा । येषामुदयेन पुद्गलस्कंधानां वनितायामाकांक्षा जायते तेषां पुंवेद इति संज्ञा । येषां च युद्गलस्कंधानामुदयेनेष्टकाग्निसदृशेन द्वयोराकांक्षा जायते तेषां नपुंसकवेद