SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पर्याप्त्यधिकारः । ३०१ षायाः, स्थित्यनुभागोदये कषायेम्य एतेषां स्तोकत्वं यत ईषत्कषायत्वं युक्तमिति ॥ १८९ ॥ दर्शनमोहनीयस्य कषायनोकषायाणां च भेदानाह; तिण्णिय दुवेय सोलस णवभेदा जहाकमेण णायव्वा । मिच्छत्तं सम्मत्तं सम्मामिच्छत्तमिदि तिण्णि ॥ १९० ॥ त्रयो द्वौ षोडश नव भेदा यथाक्रमेण ज्ञातव्याः । मिथ्यात्वं सम्यक्त्वं सम्य मिथ्यात्वमिति त्रयः ॥ १९० ॥ टीका-त्रयो, द्वौ - षोडश नव भेदा यथाक्रमेण ज्ञातव्याः । दर्शनमोहनीयस्य त्रयो भेदाः । चारित्रमोहनीयस्य द्वौ भेदौ, चारित्रकषायमोहनीयस्य षोडश भेदाः चारित्रनोकषायमोहनीयस्य नव भेदाः । अथ दर्शनमोहनीयस्य के ते त्रयो भेदा इत्याशंकायामाह ; - मिथ्यात्वं सम्यक्त्वं सम्यङ्घ्रिथ्यात्वमिति त्रयो भेदाः दर्शनमोहनीयस्य यस्योदयेनाप्तागमपदार्थेषु श्रद्धा न भवति तन्मिथ्यात्वं कोद्रवतुषरूपं, यस्योदयेनाप्तागमपदार्थेषु श्रद्धायाः शैथिल्यं तत्सम्यक्त्वं कोद्रवतंदुलसदृशं यस्योदयेनाप्तानाप्तागमपदार्थषु अक्रमेण श्रद्धे उत्पद्यते तत्सम्यनिथ्यात्वं, दर्शनमोहनीयस्यं पूर्वादिकरणैर्दलितस्य कोद्रवस्येव त्रिधा गतिर्भवति । तच्च बंधं प्रत्येकं सत्ताकर्म प्रति त्रिविधं तत्सम्यङ् मिथ्यात्वस्यैककारणत्वादिति ॥ १९० ॥ षोडशकषायभेदं प्रतिपादयन्नाह; - कोहो माणो माया लोहोणंताणुबंधिसण्णा य । अप्पच्चक्खाण तहा पच्चक्खाणो य संजलणो ॥ १९९ ॥ क्रोधो मानो माया लोभोऽनंतानुबंधिसंज्ञा च । अप्रत्याख्यानं तथा प्रत्याख्यानं च संज्वलनः ॥ १९९ ॥ टीका - क्रोधो रोषसंरंभ: मानो गर्वः स्तब्धत्वं माया निकृतिर्वेचना अनु
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy