________________
३००
मूलाचारे
चक्षुदर्शनरूपं दर्शनक्षमं तस्यावरणं चक्षुर्दर्शनावरणं । शेषेद्रियज्ञानोत्पादकप्रयत्नानुविद्धगुणीभूतविशेषसामान्यालोचनमचक्षुर्दर्शनं तस्यावरणमचक्षुदर्शनावरणं । अवधिज्ञानोत्पादकप्रयत्नानुविद्धसन्निपातगुणीभूतविशेषरूपिवस्तुसामान्यालोचनमवधिदर्शनं तस्यावरणमवधिदर्शनावरणं । युगपत्सर्वद्रव्यपर्यायसामान्यविशेषप्रकाशकं केवलं केवलं जानाति भाविकेवलदर्शनं तस्यावरणं केवलदर्शनावरणं । मिथ्यात्वासंयमकषाययोगेकरूपेण परिणतो जीवसमवेतदर्शनगुणप्रतिबंधकस्तदर्शनावरणामिति ॥ १८८ ॥ वेदनीयमोहीययोरुत्तरप्रकृतीः प्रतिपादयन्नाह;सादमसादं दुविहं वेदणियं तहेव मोहणीयं च ! दसणचरित्तमोहं कसाय तह णोकसायं च ॥१८९ ॥
सातमसातं द्विविधं वेदनीयं तथैव मोहनीयं च । दर्शनचरित्रमोहः कषायस्तथा नोकषायश्च ॥ १८९॥ टीका-सातमसातं द्विविधं वेदनीयं, तथैव मोहनीयमपि द्विविधं दर्शनमोहनीयं चरित्रमोहनीयं च, द्विविधमुत्तरत्र भणति तेन सह संबंधः । चरित्रमोहनीयमपि द्विविधं कषायमोहनीयनोकषायमोहनीयभेदेन सातं सुखं सांसारिकं तद्भोजयति वेदयति जीवं सातवेदनीयं, असातं दुःखं तद्भोजयति वेदयति जीवमसातवेदनीयं ! यदुदयाद्देवादिगतिषु शारीरिकमानसिकसुखप्राप्तिस्तत्सातवेदनीयं, यदुदयान्नरकादिगतिषु शारीरमानसदुःखानुभवनं तदसातवेदनीयं । एवं वेदनीयकर्मणो द्वे प्रकृती सुखदुःखानुभवननिवंधनः पुद्गलस्कंधचयो मिथ्यात्वादिप्रत्ययवशेन कर्मपर्यायपरिणतो जीवः समवेतो वेदनीयमिति । अप्राप्तसमयपदार्थेषु रुचिः श्रद्धा दर्शनं तन्मोहयति परतंत्रं करोति दर्शनमोहनीयं, पापक्रियानिवृत्तिश्चारित्रं तत्र घातिकर्माणि पापं तेषां क्रिया मिथ्यात्वासंयमकषायास्तेषामभावश्चारित्रं दुःखसस्यं कर्मक्षेत्रं कृषति फलवत्कुर्वतीति कषायाः, ईषत्कषाया नोक