________________
पर्याप्त्याधिकाराः।
२९९.
दर्शनावरणप्रकृतिभेदानाह;णिदाणिद्दा पयलापयला तह थीणगिद्धि णिद्दा य । पयला चक्खु अचक्खू ओहीणं केवलस्सेदं ॥ १८८ ॥ निद्रानिद्रा प्रचलाचला तथा स्त्यानगृद्धिः निद्रा च । प्रचला चक्षुः अचक्षुः अवधीनां केवलस्येदं ॥ १८८ ॥ टीका-आवरणमित्यनुवर्तते तेन सह संबंधः । निद्रानिद्रा प्रचलाप्रचला स्त्यानगृद्धिः निद्रा प्रचला अत्र दर्शनावरणं सामानाधिकरण्येन दृश्यते निद्रानिद्रा चासौ दर्शनावरणं च एवं प्रचलाप्रचला दर्शनावरणं स्त्यानगृद्धिदर्शनावरणं निद्रा दर्शनावरणं प्रचला दर्शनावरणं, उत्तरत्र वैयधिकरण्येन चक्षुर्दर्शनावरणमक्षुर्दर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरणं चेति नवविधं दर्शनावरणमेतदिति । तत्र मदस्वेदक्लमविनोदार्थ स्वापो निद्रा तस्या उपर्युपरि वृत्तिनिद्रानिद्रा, स्वापक्रिययात्मानं प्रचलयति सा प्रचला शोकश्रममदादिप्रभवा आसीनस्यापि नेत्रगात्रविकृतिसूचिकासौ च पुनः पुनर्वतमाना प्रचलाप्रचला, स्वप्ने वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिःस्त्यायतेरनेकार्थत्वात् स्वापार्थ इह गृह्यते गृधेरपि दृप्तिः स्त्याने स्वप्ने गृध्यते दृप्यते यदुदयादात्मा रौद्रं बहुकर्म करोति स्त्यानगृद्धिः । तत्र निद्रानिद्रादर्शनावरणोदयेन वृक्षाग्रे समभूमौ यत्र तत्र देशे घोरं खं घोरयन्निर्भरं स्वपिति, प्रचलाप्रचलातीवोदयेन आसीन उत्थितो वा गलल्लालामुखं पुनः शरीरं शिरः कंपयन् निर्भरं स्वपिति, स्त्यानगृद्धिदर्शनावरणोदयेन उत्थितोऽपि पुनः स्वपिति सुप्तोऽपि कर्म करोति दंतान् कटकटायमानः शेते इति । निद्रायास्तीवोदयेनाल्पकालं स्वपिति उत्थाप्यमानः सोऽपि शीघ्रमुत्तिष्ठति अल्पशब्देन चेतयते । प्रचलायास्तीवोदयेन वालुकाभृते इव लोचने भवतः गुरुभारावष्टब्धमिव शिरो भवति पुनः पुनर्लोचने उन्मीलयति स्वपंतमात्मानं वारयति । चक्षुर्ज्ञानोत्पादकप्रयत्नानुविद्धगुणीभूतविशेषसामान्यालोचनं