________________
२९८
मूलाचारे
मनोवर्गणाया अनंतभागं जानाति क्षेत्रतोऽसंख्याताँल्लोकान् जानाति कालतोऽसंख्यातलोकसमयान् भावतोऽसंख्यातलोकपर्यायान् जानाति । सर्वावधिद्रव्यत एकं परमाणुं जानाति क्षेत्रतोऽसंख्याताँल्लोकान् जानाति कालतोऽसंख्यातलोकसमयान जानाति भावतोऽसंख्यातलोकपर्यायान जानाति । सर्वत्रासंख्यातगुणो गुणकारो द्रष्टव्यः पूर्वपूर्वापेक्षयाऽनुगाम्यननुगामिवर्द्धमानहीयमानावस्थितभेदात् षडिधो वावधिः, एतस्यावधिज्ञानस्यावरणमवधिज्ञानावरणं । मनःपर्ययज्ञानमृजुविपुलमतिभेदेन द्विविधमृजुमतिमनःपर्ययज्ञानं विपुलमतिमनःपर्ययज्ञानं चेति । ऋज्वी प्रगुणा निर्वर्तिता वाक्कायमनस्कृतार्थस्य परमनोगतस्य विज्ञानं निर्वर्तिता कुटिला विपुला च मतिविपुलमतिर्निवर्तिता वाक्कायमनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानात्, अथवा ऋज्वी मतिर्यस्य ज्ञानविशेषस्यासौ ऋजुमतिविपुला मतिर्यस्यासौ विपुलमतिः। ऋजुमतिर्विपुलमतिश्च मनःपर्ययः । तत्र ऋजुमतिद्रव्यतो जघन्यनैकसामयिकी सौदारिकशरीरनिर्जरां जानात्युत्कृष्टत एकसामयिकी चक्षुरिंद्रियनिर्जरां जानाति, क्षेत्रतो जघन्येन गव्यूतिपृथक्त्वं, उत्कृष्टतो योजनपृथक्त्वं जानाति, कालतो जघन्येन द्वौ वा त्रीन्वा भवान्, उत्कृष्टतः सप्ताष्टौ भवान् जानाति, भावतो जघन्येनोत्कृष्टेन चासंख्यातभावान् जानाति किं तु जघन्यादुत्कृष्टानां साधिकत्वं इति । विपुलमतिद्रव्यतो जघन्येनैकसमयिकी चक्षुरिन्द्रियनिर्जरां जानाति उत्कृष्टेनैकसमयप्रबद्धकर्मद्रव्यस्य मनोवर्गणाया अनंतभागेन भागे हृते एकखंडं जानाति, क्षेत्रतो जघन्येन योजनपृथक्त्वं साधिकं जानाति उत्कृष्टतो मनुध्यक्षेत्रं जानाति, कालतो जघन्येन सप्ताष्टभवान् जानात्युत्कृष्टतोऽसंख्यातान् भवान् जानाति, भावतो जघन्येनासंख्यातपर्यायान जानाति उत्कृष्टतस्ततोऽधिकान् पर्यायान् जानाति । एतस्य मनःपर्ययस्यावरणं मनःपर्ययावरणं । केवलंज्ञानमसहायमन्यनिरपेक्षं तस्यावरणं केवलज्ञानावरणं । एवं पंचप्रकारमावरणं; ज्ञानावारकः पुद्गलस्कंधनिचयः प्रवाहस्वरूपेणानादिबद्धः ज्ञानावरणमिति ॥ १८७ ॥