SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२६ मूलाचारे तत्राजनि प्रभाचन्द्रः सूरिचन्द्रो जिताङ्गजः । दर्शनज्ञानचारित्रतपोवीर्यसमन्वितः ॥ १२॥ श्रीमान बभूव मार्तण्डस्तत्पट्टोदयभूधरे । पद्मनन्दी बुधानन्दी तमश्छेदी मुनिप्रभुः ॥ १३ ॥ तत्पट्टाम्बुधिसच्चन्द्रः शुभचन्द्रः सतां वरः । पंचाक्षवनदावाग्निः कषायमाधराशनिः ॥ १४ ॥ तदीयपट्टाम्बरभानुमाली क्षमादिनानागुणरत्नशाली । भट्टारकश्रीजिनचन्द्रनामा सैद्धान्तिकानां भुवि योऽस्ति सीमा ॥ १५ ॥ स्याद्वादामृतपानतृप्तमनसो यस्यातनोत् सर्वतः कीर्तिभूमितले शशाङ्कधवला सज्ज्ञानदानात् सतः । चार्वाकादिमतप्रवादितिमिरोष्णांशोर्मुनीन्द्रप्रभोः सूरिश्रीजिनचन्द्रकस्य जयतात् संघो हि तस्यानवः ॥ १६ ॥ तच्छिष्या बहुशास्त्रज्ञा हेयादेयविचारकाः । शमसंयमसम्पूर्णा मूलोत्तरगुणान्वितः ॥ १७ ॥ जयकीर्तिश्चारुकीर्तिजयनन्दी मुनीश्वरः । भीमसेनादयोऽन्ये च दशधर्मधरा वराः ॥ १८ ॥ युग्मं ॥ अस्ति देशवताधारी ब्रह्मचारी गणाग्रणीः । नरसिंहोऽभिधानेन नानाग्रन्थार्थपारगः ॥ १९ ॥ तथा भूरिगुणोपेतो भूरानामा महत्तमः । श्रीमानश्वपतिश्चान्यः सुमतिर्गुरुभक्तिकृत् ॥ २० ॥ अन्यो नेमाभिधानोऽस्ति नेमिर्द्धर्मरथस्य यः । परस्तीकमसंज्ञश्च ज्ञातयज्ञोऽस्तमन्मथः ॥ २१ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy