SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिपाठः। ३२५ . अथ प्रशस्ति-पाठः। प्रणमामि महावीरं सिद्धं शुद्धं जिग्नेश्वरं । यस्य ज्ञानाम्बुधौ भाति जगद्विन्दूपमं स्थितं ॥१॥ कृतात्मनो जना यत्र कर्म प्रक्षिप्य हेलया। रमन्ते मुक्तिलक्ष्मी तज्जैनं जयति शासनं ॥ २॥ जयन्तु गौतमस्वामिप्रमुखा गणनायकाः । सूरयो जिनचन्द्रान्ताः श्रीमन्तः क्रमदेशकाः ॥ ३॥ वर्षे षडेकपंचैकपूरणे विक्रमे नतः ( ?)। शुक्ले भाद्रपदे मासे नवम्यां गुरुवासरे ॥ ४ ॥ श्रीमढेरकाचार्यकृतसूत्रस्य सद्विधेः । मूलाचारस्य सद्वत्तेर्दातुर्नामावली ब्रुवे ॥ ५ ॥ अथ-- श्रीजंबूपपदे द्वीपे क्षेत्रे भरतसंज्ञके । कुरुजाङ्गलदेशोऽस्ति यो देशः सुखसम्पदां ॥६॥ तत्रास्ति हस्तिना नाम्ना नगरी मागरीयसी । शान्तिकुंवरतीर्थेशा यत्रासन्निन्द्रवंदिताः ॥ ७ ॥ विद्यते तत्समीपस्था श्रीमती योगिनीपुरी । यां पाति पातिसाहिश्रीर्बहलोलाभिधो नृपः ॥ ८॥ तस्याः प्रत्याग्दिशि ख्यातं श्रीहिसारपिरोजकं । नगरं नगरंभादिवल्लीराजिविराजितं ॥ ९ ॥ तत्र राज्यं करोत्यष श्रीमान् कुतबखानकः । तथा हैवतिखानश्च दाता भोक्ता प्रतापवान् ॥ १० ॥ अथ श्रीमूलसंघेऽस्मिन्नन्दिसंघेऽनघेऽजनि । बलात्कारगणस्तत्र गच्छः सारस्वतस्त्वभूत् ॥ ११ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy