SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२४ मूलाचारे तत औदारिकदेहं नामगोत्रं च केवली युगपत् । आयुः वेदनीयं चत्वारि क्षपयित्वा नीरजा भवति । २०६ ॥ टीका-तत ऊर्ध्वं सयोगिकेवली औदारिकशरीरं सनिश्वास एवायं नामगोत्रे कर्मणी आयुर्वेदनीयं च युगपत् क्षपयित्वा नरिजाः सिद्धो भवति । विशेषमाह;-अयोगिकेवली आत्मकालद्विचरमसमयेऽनुदय वेदनीयदेवगतिपंचशरीरपंचसंघातपंचशरीरबंधनषट्संस्थानव्यंगोपांगषट्संहननपंचवर्णद्विगंधपंचरसाष्टस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छासद्विविहायोगत्यपर्याप्तस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायशःकीर्तिनिमाननीचैर्गोत्राणि एता द्वासप्ततिप्रकृतीः क्षपयति ततोनंतरं सोदयवेदनीयमनुष्यायुर्मनुष्यगतिपंचेंद्रियजातिमनुष्यगतिप्रायोग्यानुपूर्व्यत्रसवादरपर्याप्तोच्चैर्गोत्रप्रत्येकतीर्थकरनामादययशःकीर्तिसंज्ञकास्त्रयोदशप्रकृतीश्चरमसमये पयति, ततो द्रव्यरूपमौदारिकशरीरं त्यक्त्वा नीरजा निर्मलः सिद्धो निर्लेपः सर्ववंद्वरहितोऽनंतज्ञानदर्शनसुखवीर्यसमन्वितोऽक्षयो युगपत्सर्वव्यपर्यायावभासकोऽनंतगुणाधारः परमात्मा भवतीति ॥ २०६ ॥ इतिश्रीमदाचार्यवर्यवकेरिप्रणीतमूलाचारे श्रीवसुनंदिप्रणीतटी कासहिते द्वादशोऽधिकारः । स्रग्धरावृत्तम्। वृत्तिः सर्वार्थसिद्धिः सकलगुणनिधिः सूक्ष्मभावानुवृत्ति-- राचारस्यात्तनीतेः परमजिनपतेः ख्यातानिर्देशवृत्तेः । शुद्धैक्यैिः सुसिद्धा कलिमलमथनी कार्यसिद्धिमुनीनां स्थेयाज्जैनेंद्रमार्गे चिरतरमवनौ वासुनंदी शुभा वः ॥ इति ॥ इति मूलाचारविवृतौ द्वादशोऽध्यायः । कुन्दकुन्दाचार्यप्रणीतमूलाचारा ख्यविवृतिः । कृतिरियं वसुनन्दिनः श्रीश्रमणस्य ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy