________________
२८६
मूलाचारे
टीका-मनुष्यगतौ सर्वस्तोका मनुष्या श्रेण्यसंख्येयभागमात्राः।१३। तेभ्यो मनुष्येभ्योऽसंख्यातगुणाः श्रेणयः । २ । नारकाः तेभ्यश्च नारकेभ्यो देवगतौ देवा असंख्यातगुणाः प्रतरासंख्येयभागमात्राः । ४९ । इति ॥१७॥
तथा;तेहिंतो गंतगुणा सिद्धिगदीए भवंति भवरहिया । तेहिंतो णंतगुणा तिरयगदीए किलेसंता ॥ १७१ ॥
तेभ्योऽनंतगुणाः सिद्धिगतौ भवति भवरहिताः।। तेभ्योऽनंतगुणा तिर्यग्गतौ क्लिश्यतः ॥ १७१॥
टीका-तेभ्यो देवेभ्यः सकाशासिद्धिगतौ भवरहिताः सिद्धा अनंतगुणास्तेभ्यः सिद्धेभ्यस्तिर्यग्गतौ तिर्यश्चः क्लिश्यतोऽनंतगुणाः ॥ १७१ ॥
सामान्येनाल्पबहुत्वं प्रतिपाद्य विशेषेण प्रतिपादयन्नाह;-- थोवा दु तमतमाए अणंतराणंतरे दु चरमासु । होति असंखिजगुणा णारइया छासु पुढवीसु ॥ १७२॥ स्तोकास्तु तमस्तमायां अनंतरारंतरे तु चरमासु । भवंति असंख्येयगुणा नारका षद्सु पथिवीषु ॥ १७२ ॥ टीका-स्वस्थानगतमल्पवहुत्वमुच्यते-सप्तमपृथिव्यां नारकाः सर्वस्तोकाः श्रेण्यसंख्ययभागप्रमिताः श्रेणिद्वितीयवर्गमूलेन खंडिता श्रोण । तेभ्यश्च सप्तमपृथिवीनारकेभ्य षष्टीपृथिवीनारका असंख्यातगुणाः श्रेणितृतीयवर्गमूलेनाहतश्रेणिमात्राः । तेभ्यश्च षष्ठपृथिवीनारकेभ्यः पंचमपृथिवीनारका असंख्यातगुणाः श्रेणिषहर्गमूलापहतश्रेणिलब्धमात्राः है । तेभ्यश्च पंचमपृथिवीनारकेभ्यश्चतुर्थपृथिवीनारका असंख्यातगुणाः श्रेण्यष्टवर्गमूलापहृतश्रेणिपरिमिताः १ । तेभ्यश्चतुर्थपृथिवीनारकेभ्यस्तृतीयपृथिवीनारका असंख्यातगुणाः श्रेणिदशवर्गमूलापहतश्रेणिलब्धमात्राः । तेभ्यस्तृतीयपृथिवीनारकेभ्यो द्वितीयपृथिवीनारका असंख्येयगुणाः श्रोणदशवर्गमूलखं