________________
३१४
मूलाचारेस्थितिः समाना तन्निर्देशार्थमुच्यते;तिण्हं खलु पढमाणं उक्कसं अंतराययस्सेव । तीसं कोडाकोडी सायरणामाणमेव ठिदी ॥ २००॥
त्रयाणां खलु प्रथमानां उत्कृष्टं अंतरायस्यैव । त्रिंशत् कोटीकोट्यः सागरनाम्नामेव स्थितिः ॥ २० ॥
टीका--त्रयाणां प्रथमानां ज्ञानावरणदर्शनावरणवेदनीयानां सामीप्यात्साहचर्यादा सर्वेषां प्रथमत्वमंतरायस्य च उत्कृष्टा स्थितिः सागरनाम्नां त्रिंशत्कोटीकोट्यो नाधिकाः । पंचानां ज्ञानावरणीयानां नवानां दर्शनावरणीयानां सातवेदनीयस्यासातवेदनीयस्य पंचांतरायारणां चोत्कृष्टः स्थितिवंधः स्फुटं त्रिंशत्सागरोपेमका कोट्यः । एत कर्मरूपपुद्गला एतावता कालेन कर्मस्वरूपाभावे क्षयमुपवजंतीति ॥ २० ॥
तथाःमोहस्स सत्तरि खलु बीसं णामस्स चेव गोदस्स । तेतीसमाउगाणं उवमाओ सायराणं तु ॥२०१॥ मोहस्य सप्ततिः खलु विंशतिः नाम्नश्चैव गोत्रस्य । त्रयस्त्रिंशत् आयुष उपमाः सागराणां तु ॥ २०१॥ टीका-मोहस्य मिथ्यात्वस्य सागरोपमानां कोटीकोटीनां सप्ततिरुत्कृष्टा स्थितिः, नामगोत्रयोः कर्मणोरुत्कृष्टस्थितिःसागराणां कोटीकोटीनां विंशतिः पूर्वोक्तेन सागरनाम्नां कोटीकोटी इत्यनेन संबंधः । आयुषः पुनः कोटीकोटीशब्दो नास्तीति संबंधस्तथानभिधानादागमे इत्यतः सागरशब्दनैव संबंधः । कुतः पुनः सागरोपमग्रहणादायुष उत्कृष्टस्थितिः उपमा सागराणां त्रयस्त्रिंशस्थितः सागरैस्त्रयास्त्रिंशद्भिरुपमा । तुशब्दः सर्वविशेषणसंग्रहार्थ