SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिपाठः । तयोरायोऽस्ति संघेशो नृसिंहः पद्मसिंहकः । चकार नेमिनाथस्य यात्रां यो दुःखहारिणीं ॥ ४६॥ तत्कलत्रं लसद्गात्रं पद्मश्री म कामदं । गृहे पात्रे समायाते यदानन्दयते चिरं ॥ ४७ ॥ तस्य पुत्रास्त्रयः सन्ति दीर्घायुषो भवन्तु ते । हेमराजो गजमल्लोऽपरः श्रवणसंज्ञकः ॥ ४८॥ चोषापुत्रो द्वितीयोऽस्ति रूल्हानामा गुणाकरः । रूल्हश्रीमहिला तस्य देवराजाख्य अंगजः ॥ ४९ ॥ एतैः श्रीसाधुपार्श्वस्य चोषाख्यस्य च कायजैः । वसद्भि झणूस्थाने रम्ये चैत्यालयैवरैः ॥ ५० ॥ चाहमानकुलोत्पन्ने राज्यं कुर्वति भूपतौ । श्रीमत्समसखानाख्ये (?) न्यायान्यायविचारके ॥ ५१ ॥ सूरिश्रीजिनचन्द्रस्य पादपंकजषट्पदैः । साधुभीमादिभिः सर्वैः साधुपद्मादिभिस्तथा ॥ ५२ ॥ कारितं श्रुतपंचम्यां महदुद्यापनं च तैः । श्रीमदेशव्रताधारिनरसिंहोपदेशतः ॥ ५३॥ चतुष्कलं । तदा तैर्जिनबिम्बानामभिषेकपुरस्सरा । कारितार्चा महाभक्त्या यथायुक्ति च सोत्सवा ॥ ५४ ॥ भुंगारकलशादीनि जिनावासेषु पंचसु । क्षिप्तानि पंच पंचैव चैत्योपकरणानि च ॥ ५५ ॥ एतच्छास्त्रादिभक्त्या तैनिदानमदायि च । ब्रह्मश्रीनरसिंहाख्यतिहुणादियतीशिने ॥ ५६ ॥ चतुर्विधाय संघाय सदाहारश्चतुर्विधः । प्रादाय्यौषधदानं च वस्त्रोपकरणादि च ॥ ५७ ॥
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy