SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ शीलगुणाधिकारः । १६१ भूसणयं - भूषणानि शरीरमंडनादीनि मुकुटकटकादीनि शरीरशोभा विषयाकांक्षा वा पंचैतानि । छटुं पुण - षष्ठं पुनः । गीयवाइयं-गीतं षड्जादिकं वादित्रं तंतविततघनसुधिरादिकं करवादनं च, गीतं च वादित्रं च गीतवादित्रं रागादिकांक्षया नृत्तगेयाभिलाषकरणं । अत्थस्स संपओगो - अर्थस्य संप्रयोगः सुवर्णादिद्रव्यसंपर्क: । कुसीलसंसग्गि - कुत्सितं शीलं येषां ते कुशीलास्तैः संसर्गः संवासः कुशीलसंसर्गो रागाविष्टजनसंपर्कः । रायसेवा य - राजसेवा च विषयार्थिनो राज्ञामुपश्लोकादिकरणं । रत्ती विय संयरणं- रात्रावपि संचरणं कार्यंतरेण निशायां पर्यटनं । दस दश । सीलविराहणा - शीलविराधनाः । भणिदा - भणिताः प्रतिपादिताः । एते स्त्रीसंसर्गादयो दश शीलविराधनाः परमागमे समुक्ताः । एतैर्दशविकल्पैः पूर्वोतानि चतुरशीतिशतानि गुणितानि चतुरशीतिसहस्राणि भवतीति ॥१३-१४ आलोचनादोषान् प्रतिपादयन्नाह ; आकंपिय अणुमणिय जं दिट्ठे वादरं च सुहुमं च । छण्णं सद्दाकुलियं बहुजणमव्त्रत्त तस्सेवी ॥ १५ ॥ आकंपितमनुमानितं यद् दृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलितं बहुजनमव्यक्तं तत्सेवी ॥ १५ ॥ टीका - आकंपिय— आकंपितदोषो भक्तपानोपकरणादिनाऽऽचार्यमाकंप्यात्मीयं कृत्वा यो दोषमालोचयति तस्याकंपितदोषो भवति । अणुमा - णिय – अनुमानितं शरीराहारतुच्छबलदर्शनेन दीनवचनेनाचार्यमनुमान्यात्मनि करुणापरमाचार्य कृत्वा यो दोषमात्मीयं निवेदयति तस्य द्वितीयोऽनुमानितदोषः । जं दिट्टं यद् दृष्टं अन्यैर्यदवलोकितं दोषजातं तदालोचयत्यदृष्टमवगूहयति यस्तस्य तृतीयो दृष्टनामाऽऽलोचनादोषः । बादरं च-स्थूलं च व्रतेष्वहिंसादिकेषु य उत्पयते दोषस्तमालोचयति सूक्ष्मं नालोच ११
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy