SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ मूलाचारे यति यस्तस्य चतुर्थो बादरनामालोचनादोषः स्यात् । सुहुमं च सूक्ष्म च सार्द्रहस्तपरामर्शादिकं सूक्ष्मदोषं प्रतिपादयति महाव्रतादिभंगं स्थूलं तु नाचष्टे यस्तस्य पंचमं सूक्ष्मं नामालोचनदोषजातं भवेत् । छण्णं-प्रच्छन्नं व्याजेन दोषकथनं कृत्वा स्वतः प्रायश्चित्तं यः करोति तस्य षष्ठं प्रच्छन्नं नामालोचनदोषजातं भवति । सद्दाकुलियं-शब्दाकुलितं पाक्षिकचातुर्मासिकसांवत्सरिकादिप्रतिक्रमणकाले बहुजनशब्दसमाकुले आत्मीयापराधं निवेदयति तस्य सप्तमं शब्दाकुलं नामालोचनादोषजातं । बहुजणं-बहुजनं एकस्मै आचार्यायात्मदोषनिवेदनं कृत्वा प्रायश्चित्तं प्रगृह्य पुनरश्रद्दधानोऽपरस्मै आचार्याय निवेदयति यस्तस्य बहुजनं नापाष्टममालोचनादोषजातं स्यात् । अव्वत्त-अव्यक्तः प्रायश्चित्ताद्यकुशलो यस्तस्यात्मीयं दोषं कथयति यो लघुप्रायश्चित्तनिमित्तं तस्याव्यक्तनाम नवममालोचनादोषजातं भवेत् । तस्सेवी-तत्सेवी य आत्मना दोषैः संपूर्णस्तस्य यो महाप्रायश्चित्तभयादात्मीयं दोषं प्रकटयति तस्य तत्सेवी नामा दशम आलोचनादोषो भवेत् । एवमेतैर्दशभिश्चतुरशीतिसहस्राणि गुणितान्यष्टलक्षाभ्यधिकानि चत्वारिंशत्सहस्राणि भवंतीति ॥ १५ ॥ आलोचनादिप्रायाश्चत्तानां स्वरूपं प्रतिपादयन्नाह;आलोयण पडिकमणं उभय विवेगो तधा विउस्सग्गो। तव छेदो मूलं पि य परिहारो चेव सद्दहणा ॥ १६ ॥ आलोचनं प्रतिक्रमणमुभयं विवेकस्तथा व्युत्सर्गः। तपश्छेदो मूलमपि च परिहारश्चैव श्रद्धानम् ॥ १६ ॥ टीका-आलोयण-आलोचनं दशदोषविवर्जितं गुरवे प्रमादनिवेदनमालोचनं । पडिकमणं-प्रतिक्रमणं व्रतातीचारनिर्हरणं । उभय-उभयं आलोचनप्रतिक्रमणे संसर्गदोषे सति विशोधनात्तदुभयं । विवेगो-विवेकः संसक्तानपानोपकरणादिविभजनं विवेकः । तधा-तथा। विउस्सग्गो
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy