________________
मूलाचारे
ArAmarrrrrrrrrrrrror
. टीका-कायशब्दः प्रत्येकमभिसंबध्यते । पृथिवीकायिका अप्कायिका आनिकायिका मारुतकायिकाः प्रत्येककायिका अनन्तकायिकाश्चैव । अत्रापि इन्द्रियशब्दः प्रत्येकमभिसंबध्यते । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पंचेन्द्रियाश्चेति । अण्णोण्णवधाय-अन्योन्यव्यथिता दशैते पृथिवीकायिकादयः परस्परेणाहताः सन्तः पूर्वोक्तैश्चतुरशीतिविकल्पैर्गुणिताश्चतुरशीतिशतभेदा भवन्ति । चतुरशीतिः शतेन गुणिता यत एतावन्त एव विकल्या भवन्तीति ॥ १२॥
अब्रम्हकारणविकल्पान् प्रतिपादयन्नाह;इत्थीससंग्गी पणिदरसभोयण गंधमल्लसंठप्पं । सयणासणभूसणयं छ8 पुण गीयवाइयं चेव ॥ १३ ॥. अत्थस्स संपओगो कुसीलसंसग्गि रायसेवा य । रत्ती वि य संयरणं दस सीलविराहणा भणिया ॥१४॥ स्त्रीसंसर्गः प्रणीतरसभोजनं गंधमाल्यसंस्पर्शः । शयनासनभूषणानि षष्ठं पुनर्गीतवादित्रं चैव ॥ १३ ॥ अर्थस्य संप्रयोगः कुशीलसंसर्गः राजसेवा च । रात्रावपि च संचरणं दश शीलविराधना भणिताः ॥ १४ ॥ टीका-इत्थीसंसग्गी-स्त्रीसंसर्गः वनिताभिः सहातीव प्रणयः रागाहतस्य । पणिदरसभोयण-प्रणीतरसभोजनं अतीव गृझ्या पंचेंद्रियदर्पकराहारग्रहणं । गंधमल्लसंठप्प-गंध आर्द्रमहिषीयक्षकर्दमादिको माल्यं मालतीचंपकादिकुसुमादिकं ताभ्यां संस्पर्शो गन्धमाल्यसंस्पर्शः सुगंधद्रव्यैः सुगंधपुष्पैश्च शरीरसंस्करणं । सयणासणं-शयनं तूलिकादिपर्यकस्पर्श आसनं मृदुलोहासनादिकं शयनं चासनं च शयनासने मृदुशय्यामृदासनगृद्धिः ।
१ रागाहतिश्च प्रेस-पुस्तके।