SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ शीलगुणाधिकारः। .. १५९ र्शनं जिनेन्द्रमतस्याश्रद्धानं । पमादो-प्रमादश्चायत्नाचरणं विकथादिस्वरूपं । पिसुणत्तणं-पैशून्यं परस्यादोषस्य वा सदोषस्य वा दोषोद्भावनं पृष्ठमांसभक्षित्वं । अण्णाणं-अज्ञानं यथावस्थितस्य वस्तुनो विपरीतावबोधः । अणिग्गहो-अनिग्रहः स्वेच्छया प्रवृत्तिः, इंदियाण-इंद्रियाणां चक्षुरादीनामनिग्रहश्चेत्येते एकविंशतिभेदा हिंसादयो द्रष्टव्या इति ॥९-१० ॥ अतिक्रमणादीनां स्वरूपं प्रतिपादयन्नाह;अदिकमणं वदिकमणं अदिचारो तहेव अणाचारो। एदेहिं चदूहि पुणो सावज्जो होइ गुणियब्वो ॥ ११ ॥ अतिक्रमणं व्यतिक्रमणमतीचारस्तथैवनाचारः । एतैश्चतुभिः पुनः सावधो भवति गुणितव्यः ॥ ११ ॥ टीका-अदिकमणं-अतिक्रमणं संयतस्य संयतसमूहमध्यस्थस्य विषयाभिकांक्षा । वदिकमणं-व्यतिक्रमणं संयतस्य संयंतसमूहं त्यत्त्वा विषयोपकरणार्जनं । अदिचारो-अतिचारः व्रतशैथिल्यं ईषदसंयमसेवनं च । तहेव-तथैव । अणाचारो-अनाचारो व्रतभंगः सर्वथा स्वेच्छयां प्रवतनं । एदेहि-एतैरतिक्रमणादिभिः । चदूहि-चतुर्भिः । पुणो-पुनः । सावज्जो-सावयो हिंसाद्यकविंशतिः । होइ-भवति । गुणियव्वो-गुणितव्यः संगुणनीयः । ततश्चतुर्भिरेकविंशतिर्गुणिता चतुरशीतिर्भवतीति ॥ ११ ॥ कायभेदानां स्वरूपं प्रतिपादयन्नाह;पुढविदगागणिमारुयपत्तेयअणंतकाइया चेव । वियतियचदुपचिंदिय अण्णोण्णवधाय दस गुणिदा १२ पृथिव्यवग्निमारुतप्रत्येकानंतकायिकाश्चैव । द्विकत्रिकचतुःपंचेंद्रिया अन्योन्यव्यथिता दशगुणिताः॥१२॥ १ संयतशब्दो ख-ग-पुस्तके नास्ति । २ स्वेच्छाप्रवर्तनं ख-ग-पुस्तके ।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy