SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३२२ ' मूलाचारे तगुणश्रेण्या उपशमयन्नंतर्मुहूर्त गत्वा द्विप्रकारां मायां मायासंज्वलनं चिरतनसत्कर्मणा सह युगपदुपशमयति ततो वे आवल्यौ समयोने गत्वा मायासंज्वलननवकंबंधमुपशमयति ततोऽतर्मुहूर्त गत्वा द्विप्रकारं लोभं लोभसंज्वलनेन चिरंतनसत्कर्मणा सह लोभवेदकाद्वा द्वितीयत्रिभागे सूक्ष्मां किट्टिकां मुत्क्वा शेषं बादरलोभं स्पर्द्धकगतं सर्वनवकवंधोच्छिष्टावलिकवयं अनिवृत्तिचरमसमयैर्निवृत्तिरुपशयमति नपुंसकवेदमादिं कृत्वा यावल्लोभसंज्वलनं एतेषामनिवृत्तेरुपशमकं भवति ततोऽनंतरसमये सूक्ष्माकट्टिकास्वरूपं वेदलोभं वेदयन् नष्याऽनिवृत्तिसंज्ञो सूक्ष्मसांपरायो भवति ततश्चात्मनश्चरमसमये लोभसंज्वलनं सूक्ष्मकिट्टिकास्वरूपं निःशेषमुपशमयति तत उपशांतकषायः वीतरागछमस्थो भवति । उदयोदीरणात्कर्षणोपकर्षणपरप्रकृतिसंक्रमणस्थित्यनुभागखंडकघातैर्विना स्थानमपि समनाम्नैष मोहनीयोपशमनविधिः इति । अथ क्षपणविधिं वक्ष्ये । क्षपणं नाम अष्टकर्मणां मूलोत्तरभेद इति न प्रकृतिस्थित्यगुभागप्रदेशानां जीवा ज्योतिः शेषे विन्यास इति ? । अनंतानुवंधिक्रोधमानमायालोममिथ्यात्वसम्यनिथ्यात्वसम्यत्क्वाख्याः सप्रप्तकृतीरेता असंयतसम्यग्दृष्टिः संयतासंयतः प्रमत्तसंयतोऽप्रमत्तो वा क्षपयति, किमक्रमेण नेत्याह;-पूर्वमनंतानुवंधिचतुष्कं त्रीन करणान् कृत्वाऽनिवृत्तिकरणचरणमसमयेऽक्रमेण क्षपयति पश्चात्पुनरपि त्रीन करणान् कृत्वा अधः प्रवृत्तिकरणापूर्वकरणौ द्वावतिक्रम्यानिवृत्तिकरणकालसंख्ययभागं गत्वा मिथ्यात्वं क्षपयति ततोऽतर्मुहूर्तं गत्वा सम्यमिथ्यात्वं क्षपयति ततोऽतर्मुहूर्त गत्वा सम्यक्त्वं क्षपयति ततोऽधः प्रवृत्तिकरणं कृत्वांऽतर्मुहूर्तेनापूर्वकरणो भवति स एकमपि कर्म क्षपयति किंतु समयं प्रति असंख्येयगुणस्वरूपेण प्रदेशनिर्जरां करोति अंतर्मुहूर्तेनैकैकस्थितिखंडकं पातयन्नात्मनः कालाभ्यंतरे असंख्यातसहस्राणि स्थितिखंडकानि पातयति तावन्मात्राणि च स्थितिवंधापसरणानि करोति तेभ्यश्च संख्यातसहस्रगुणानुभागखंडकघातान् करोति यत एकानुभागखंडकोत्कीर्णकालादेकस्य स्थितिखंडकोत्कीर्णकालः संख्यातगुण
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy