________________
द्वादशानुप्रेक्षाधिकारः ।
११
टीका- ये केचन भोगा देवा मानुषाश्वानुभूताः सेवितास्तेषु भोगेषु अनंतवारान् दुःखं च प्राप्तं नरकेषु तिर्यग्योनिषु च दुःखमनंतवारान् प्राप्तमिति ॥ १८ ॥
तथा;
--
संजोगविप्पओगा लाहालाहं सुहं च दुक्खं च । संसारे अणुभूदा माणं च तहावमाणं च ॥ १९ ॥ संयोगविप्रयोगा लाभोऽलाभः सुखं च दुःखं च । संसारे अनुभूता मानं च तथापमानं च ॥ १९ ॥
टीका - अस्मिन् संसारे जीवेन संयोगा इष्टसमागमाः, विप्रयोगा अनिष्टसमागमाः, स्वेष्टवस्तुनो लाभः प्राप्तिः, अलाभोऽप्राप्ति सर्वेऽप्यनुभूतास्तथा सुखं दुःखं चानुभूतं, तथा मानं पूजा, अपमानं परिभवश्वानुभूतमिति ॥ १९ ॥ संसारानुप्रेक्षामुपसंहरन्नाह; --
एवं बहुप्पयारं संसारं विविहदुक्खथिरसारं । णाऊण विचिंतिज्जो तहेव लहुमेव णिस्सारं ॥ २० ॥ एवं बहुप्रकारं संसारं विविधदुःखस्थिर सारं । ज्ञात्वा विचितयेत् तथैव लघुमेव निस्सारं ॥ २० ॥
टीका - एवं बहुप्रकारं संसारं विविधानि दुःखानि स्थिरः सोरो यस्यासौ विविधदुःखस्थिरसारस्तं संसारं ज्ञात्वा लघुमेव शीघ्रं निःसारं चिन्तयेत् भावयेदिति ॥ २० ॥
लोकानुप्रेक्षां विवृण्वन्नाह; — एगविहो खलु लोओ दुविहो तिविहो तहा बहुविहो वा दव्वेहिं पज्जएहिं य चिंतिज्जो लोयसम्भावं ॥ २१ ॥
१' संसारो' इति पाठ: प्रेस - पुस्तके |