________________
१२
मूलाचारे
एकविधः खलु लोकः द्विविधः त्रिविधः तथा बहुविधो वा । द्रव्यैः पर्यायैः च चिंतयेत् लोकसद्भावं ॥ २१ ॥ टीका-बधिरनियोगद्वारैर्लोकोऽपि ज्ञातव्यः । सामान्यनैकविधः, लोक्यन्त उपलभ्यन्ते पदार्था यस्मिन्निति स लोकः । ऊर्ध्वाधःस्वरूपेण द्विविधः, ऊर्ध्वाधस्तिर्यस्वरूपेण त्रिविध उत्पादव्ययधौव्यस्वरूपेण वा त्रिविधः, गतिरूपेण चतुर्विधः, अस्तिकायादिभेदेन पंचविधः, षद्रव्यस्वरूपेण षड्डिधः, पदार्थद्वारेण सप्तविधः, कर्मरूपेणाऽष्टविधः, इत्येवं बहुविधः, द्रव्यैः पर्यायश्च द्रव्यभेदेन पर्यायभेदेन लोकसद्भावं बहुप्रकारं चिन्तयेत् ध्यायेदिति ॥२१॥
लोकस्वरूपमाह;लोओ अकिहिमो खलु अणाइणिहणो सहावणिप्पण्णो जीवाजीवहिं भुडो णिच्चो तालरुक्खसंठाणो ॥२२॥ लोकः अकृत्रिमः खलु अनादिनिधनः स्वभावनिष्पन्नः । जीवाजीवैः भृतः नित्यः तालवृक्षसंस्थानः ॥ २२॥ टीका-लोकोऽकृत्रिमः खलु न केनाऽपि कृतः, खलु स्फुटमेतत्प्रमाणविषयत्वात्, अनादिनिधन आद्यन्तवर्जितः, स्वभावनिष्पन्नो विश्वसारूप्येण स्थितः, जीवाजीवैश्च पदार्थैर्भूतः पूर्णः, नित्यः सर्वकालमुपलभ्यमानत्वात्, तालवृक्षसंस्थानस्तालवृक्षाकृतिः, अधो विस्तीर्णः सप्तरज्जुप्रमाणो मध्ये संकीर्ण एकरज्जुप्रमाणः पुनरपि ब्रह्मलोके विस्तीर्णः पंचरज्जुप्रमाण ऊर्ध्व संकीर्ण एकरज्जुप्रमित इति ॥ २२॥
लोकस्य प्रमाणमाह;धम्मधम्मागासा गदिरागदि जीवपुग्गलाणं च । जावत्तावल्लोगो आगासमदो परमणंतं ॥ २३ ॥