________________
पर्याप्तत्यधिकारः i
कत्वापादनं भवति तत्संघातनाम । यदि संघातनामकर्म न स्यात्तिलमोदक इव जीवशरीरं स्यात् । तञ्च्चौदारिकशरीरसंघातादिभेदेन पंचविधं । यदुदयादौदारिकादिशरीराकृतेनिर्वृतिर्भवति तत्संस्थाननाम, येषां कर्मस्कंधानामुदयेन जातिकर्मोदयपरतंत्रेण शरीरस्य संस्थानं क्रियते तच्छरीरसंस्थानं । यदि तन्न स्याज्जीवशरीरम संस्थानं स्यात् । तच्च षोढा विभज्यते - समचतुरस्रसंस्थाननाम, न्यग्रोधपरिमंडल संस्थाननाम, सातिशरीरसंस्थाननाम, वामनसंस्थाननाम, कुब्जसंस्थाननाम, हुंडकसंस्थाननाम । समचतुरस्रं समचतुरस्रमिव विभक्तमित्यर्थः । न्यग्रोधो वृक्षस्तस्य परिमंडलमिव परिमंडलं यस्य तन्न्योग्रोधपरिमडलं नाभेरूर्ध्वं सर्वावयवपरमाणु बहुत्वं न्यग्रोधपरिमंडलमिव न्यग्रोधपरिमंडलशरीरसंस्थानमायतवृत्तमित्यर्थः । साति वाल्मीकं शाल्मलिर्वा तस्य संस्थानमिव संस्थानं यस्य तत्सातिशरीरसंस्थानं नाभेरधोवयवानां विशालत्वमूर्ध्न सौक्ष्म्यं । कुब्जस्य शरीरं कुब्जशरीरं तस्य संस्थानमिव संस्थानं यस्य तत्कुब्जशरीरसंस्थानं यस्योदयेन शाखानां दीर्घत्वं भवति तत्कुब्ज शरीरसंस्थाननाम । वामनस्य शरीरं वामनशरीरं तस्य संस्थानं वामनशरीरसंस्थान नाम यस्योदयात् शाखानां ह्रस्वत्वं कायस्य च दीर्घत्वं भवति । विषमपाषाणभृताद्रिरिव विषमं हुंडं यस्य शरीरं तस्य संस्थानमिव संस्थानं यस्य तद्धुंडकशरीरसंस्थानं यस्योदयेन पूर्वोक्तपंच संस्थानेभ्योऽन्यवीभत्सं संस्थानं भवति । अथ बंधन संघातसंस्थानेषु को भेद इति चेन्नैष दोषो यस्य कर्मण उदयेनौदारिकशरीरपरमाणवोऽन्योन्यं वंधमागच्छंति तदौदारिकशरीरवंधनं नाम । यस्य कर्मण उदयेनौदारिकशरीरस्कंधानां शररिभावमुपगतानां बंधननामकर्मोदयेनैकवं घनवद्वानामौदर्यं भवति तदौदारिकशरीरसंघांत नाम । यस्य च कर्मण उदयेन शरीरस्कंधानामाकृतिर्भवति तत्संस्थानमिति महान्भेदो यत । एवं सर्वत्र द्रष्टव्यमिति ॥ १९३॥
२०
३०५