________________
अनगारभावनाधिकारः ।
मन्ति परिहरन्तीत्यर्थः, तथा मृषावादं, अदत्तग्रहणं, मैथुनप्रसंगं, परिग्रहं च त्यजन्ति मनोवचनकायैर्यावज्जीवं मरणान्तं दृढधृतयो मुनयः - स्थिरमतियुक्तान साधवः प्राणिवधादिकं सर्वकालं परिहरन्तीति ॥ १४ ॥
व्रतविषयां शुद्धिमाह; —
ते सव्वगंथमुक्का अममा अपरिग्गहा जहाजादा । वोसट्टचत्तदेहा जिणवरधम्मं समं र्णेति ॥ १५ ॥
ते सर्वग्रंथमुक्ता अममा अपरिग्रहा यथाजाताः । व्युत्सृष्टत्यक्तदेहा जिनवरधर्मं समं नयंति ॥ १५ ॥
४३
टीका - ते मुनयः सर्वग्रन्थमुक्ता मिथ्यात्ववेदकषायरागहास्यरत्यरतिशोक-भयजुगुप्सा इत्येतैश्चतुर्दशाभ्यन्तरग्रंथैर्मुक्ताः, अममाः स्नेहपाशान्निर्गताः, अपरिग्रहाः क्षेत्रादिदशविधपरिग्रहान्निर्गताः, यथाजाता नाग्न्यगुप्तिं गताः, व्युत्सृष्टत्यक्तदेहा मर्दनाभ्यंगोद्वर्तनस्नानादिदेहसंस्काररहिता एवंभूता जिनवरधर्म चारित्रं युगपन्नयति भवान्तरं प्रापयन्तीति ॥ १५ ॥
कथं ते सर्वग्रंथमुक्ता इत्याशंकायामाह ; -
---
सव्वारंभणियत्ता जुत्ता जिणदेसिदम्मि धम्मम्मि । ण य इच्छंति ममत्तिं परिग्गहे बालमित्तम्मि ॥ १६ ॥
सर्वारंभनिवृत्ता युक्ता जिनदेशिते धर्मे ।
न च इच्छंति ममत्वं परिग्रहे बालमात्रे ॥ १६ ॥
टीका - यतस्ते मुनयः सर्वारंभेभ्योऽसिमषिकृषिवाणिज्यादिव्यापारेभ्यो निवृत्ता जिनदेशिते धर्मे चोयुक्ता यतः श्रामण्यायोग्यबाल मात्रपरिग्रहबिषये ममत्वं नेच्छन्ति यतस्ते सर्वग्रन्थविमुक्ता इति ॥ १६ ॥
१ बालमात्रमपि प्रेस-पुस्तके |