SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४२ मूलाचारे चारित्रशुद्धिस्वरूपमाह;धम्ममणुत्तरमिमं कम्ममल पडलपाडयं जिणक्खादं । संवेगजायसङ्ग्रा गिव्हंति महव्वदा पंच ॥ १२ ॥ धर्ममनुत्तरमिमं कर्ममलपटलपाटकं जिनाख्यातं । संवेगजातश्रद्धा गृह्णति महाव्रतानि पंच ॥ १२ ॥ टीका --- धर्ममुत्तमक्षमादिलक्षणमनुत्तरमद्वितीयमिमं कर्ममलपटलपाटन-समर्थ जिनाख्यातं गृह्णन्ति महाव्रतानि च संवेगजातहर्षाः, अथवा धर्मोयं कृत्वा गृह्णन्ति महाव्रतानि पंच । अनेन तात्पर्येण लिंगशुद्धिर्व्याख्याता वेदितव्या ॥ १२ ॥ कानि तानि महाव्रतानीत्याशंकायां व्रतशुद्धिं च निरूपयँस्तावद्वतान्याह ;सञ्चवणं अहिंसा अदत्तपरिवज्जणं च रोचंति । तह बंभचेरगुत्ती परिग्गहादो विमुत्तिं च ॥ १३ ॥ सत्यवचनं अहिंसां अदत्तपरिवर्जनं च रोचंते । तथा ब्रह्मचर्यगुप्तिं परिग्रहात् विमुक्तिं च ॥ १३ ॥ टीका - सत्यवचनं हिंसाविरतिं अदत्तपरिवर्जनं रोचन्ते सम्यगभ्युपगच्छन्ति तथा ब्रह्मचर्यगुप्तिं समिच्छन्ति परिग्रहाद्विमुक्तिं च लिंगग्रहणोत्तरकालं प्रयच्छन्तीति ॥ १३॥ यद्यपि व्यतिरेकमुखेनावगतः प्राणिवधादिपरिहारस्तथापि पर्यायार्थिकशि - ष्यप्रतिबोधनायान्वयमाह; --- पाणिवह मुसावाद अदत्त मेहुण परिग्गर्ह चेव । तिविहेण पडिक्कंते जावज्जीवं दिढधिदीया ॥ १४ ॥ प्राणिवधं मृषावादं अदत्तं मैथुनं परिग्रहं चैव । त्रिविधेन प्रतिक्रामंति यावज्जीवं दृढधृतयः ॥ १४ ॥ टीका - प्रतिक्रामति परित्यजंतीति पृथगभिसंबध्यते, प्राणिवधं परिका
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy