________________
अनगारभावनाधिकारः ।
४१
तथा;
पवरवरधम्मतित्थं जिणवरवसहस्स वडूमाणस्स । तिविहेण सद्दति य णत्थि इदो उत्तरं अण्णं ॥ १० ॥ प्रवरवरधर्मतीर्थं जिनवरवृषभस्य वर्धमानस्य । त्रिविधेन श्रद्दधति च नास्ति इत उत्तरमन्यत् ॥ १० ॥
टीका-प्रवराणां वरं प्रवरवरं श्रेष्ठादपि श्रेष्ठं धर्मतीर्थं जिनवरवृषभस्य वर्द्धमानस्य चतुर्विंशतितीर्थकरस्य त्रिप्रकारेण मनोवचनकायशुद्ध्या श्रद्दधति भावयन्ति । इत ऊंर्ध्वं नास्त्यन्यदिति कृत्वास्माद्वर्द्धमानतीर्थकर तीर्थादन्यत्तीर्थं नास्ति यतोऽनया लिंगशुद्ध्या सम्यग्दर्शनशुद्धिर्ज्ञानशुद्धिश्च व्याख्यातेति ॥ १० ॥
तपः शुद्धिस्वरूपं निरूपयन्नाह;उच्छाहणिच्छिदमदी ववसिदववसायबद्धकच्छा य । भावाणुरायरत्ता जिणपण्णत्तम्मि धम्मम्मि ॥ ११ ॥ उत्साहनिश्चितमतयो व्यवसितव्यवसायबद्धकक्षाश्च । भावानुरागरक्ता जिनप्रज्ञप्ते धर्मे ॥ ११ ॥
टीका - उत्साह उद्योगो द्वादशविधे तपसि तन्निष्ठता तस्मिन्नितान्तं निश्चितमतयस्तत्र कृतदराः, व्यवसितव्यवसायाः कृतपुरुषकाराः, बद्धकक्षाः सुसंयमितात्मानः कर्मनिर्मूलनसंस्थापितचेतोवृत्तयः, भावानुरागरक्ताः परमार्थभूतो योऽयमनुरागोऽर्हद्भक्तिस्तेन रक्ता भाविताः, अथवा भावविषयः पदार्थविषयोऽनुरागो दर्शनं ज्ञानं च ताभ्यां रक्ताः सम्यगेकीभूताः, जिनप्रज्ञप्ते धर्मे भावानुरक्तास्तस्मिन् बद्धकक्षाश्चेति ॥ ११ ॥
१ इति उत्तरमू प्रेस - पुस्तके । २ कृतावतारा: ख- पुस्तके । ३ चित्तवृत्तयः -ख-पुस्तके |