SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ अनगारभावनाधिकारः। ४५ wwwwwwwwwwwwwwwwwwwww टीका-वृत्त्यावृतो ग्रामस्तस्मिन्नेकरात्रं वसन्ति तत्रैकयैव रात्र्या सर्वसंवेदनात्, चतुर्गोपुरोपलक्षितं नगरं तत्र पंचदिवंसं वसन्ति पंच दिनानि नयन्ति यतः पंचदिवसैः सर्वतीर्थादियात्रायाः सिद्धिरुत्तरत्र ममत्वदर्शनात्, धीरा धैर्योपेताः, श्रमणाः, प्रासुकबिहारिणः सावद्यपरिहरणशीलाः, विविक्ते स्त्रीपशुपांडकवर्जिते देश एकान्ते प्रच्छन्ने वसंतीत्येवं शीला विविक्तैकांतवासिनः, यतो विविक्तैकांतवासिनो यतश्च निरवद्याचरणशीला यतो ग्राम एकरात्रिवासिनो नगरे पंचाहर्वासिनश्चोत्तरत्रौदेशिकादिदर्शनान्मोहादिदर्शनाच्च न वसंतीति ॥ १९॥ एकान्तं मृगयतामेतेषां कथं सुखमित्याशंकायामाह;एगंतं मग्गंता सुसमणा वरगंधहत्थिणो धीरा। सुक्कज्झाणरदीया मुत्तिसुहं उत्तमं पत्ता ॥२०॥ . एकांतं मृगयमाणाः सुश्रमणा वरगंधहस्तिनः धीराः । . शुक्लध्यानरतयः मुक्तिसुखमुत्तमं प्राप्ताः ॥ २० ॥ 'टीका-एकांतमेकत्वं विविक्तं मृगयमाणा अन्वेषयंत: सुश्रमणा वरगंधहस्तिन इव धीराः शुक्लध्यानरतय उत्तमं मुक्तिसुखं प्राप्ताः । यथा गंधहस्तिन एकांतमभ्युपगच्छंतः सुखं प्रामुवंति तथा श्रमणा एकांतं मृगयमाणा अपि सुखं प्राप्ता यतः शुक्लध्यानरतय इति ॥ २० ॥ कथं ते धीरा इत्याशंकायामाह;एयाइणो अविहला वसति गिरिकंदरेसु सप्पुरिसा । धीरा अदीणमणसा रममाणा वीरवयणम्मि ॥ २१ ॥ एकाकिनः अविकला वसंति गिरिकंदरेषु सत्पुरुषाः। धीरा अदीनमनसो रममाणा वीरवचने ॥ २१ ॥ १ दिवसान् ख-पुस्तके । २ पांडकशब्दो नपुंसकार्थे ज्ञायते।
SR No.022303
Book TitleMulachar Satik Part 02
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1924
Total Pages338
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy