Page #1
--------------------------------------------------------------------------
________________
पुरोहित
गोपीनाथ
वनस्थली विद्यापीठ
पुस्तकालय
Page #2
--------------------------------------------------------------------------
________________
काव्यमाला. ७०.
श्री हेमचन्द्रविरचितं
काव्यानुशासनम् ।
सटीकम् ।
जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारककेदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्यायपण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपरबोपापाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितम् ।
तच्च
-
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः ata Entered
4024 $300
१९०१६ 1-4 JUL 2005
( अस्य प्रन्धस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागर मुद्रायन्त्रालयाधिपतेरेवाधिकारः 1) · ·
मूल्यं सपादं रूप्यकद्वयम् ।
644�✔❤
1983 09881000
Page #3
--------------------------------------------------------------------------
________________
544JTHALI VIDYAPI!
;.(entral Library *** W 16359. Dece ber - - - - -
Page #4
--------------------------------------------------------------------------
________________
KÂVYAMÂLÂ. 70.
THE
KÁVYÂNUS'ÂSANA
or
HEMACHANDRA.
With his own gloss.
EDITED BY
· MAHÂMAHOPADYÂYA PANDIT SIVADATTA Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSÎNÂTH PÂNDURANG PARAR."
PRINTED AND PUBLISHED
BY TUKÂRÂM JAVAJÍ PROPRIETOR OF JAVAJI DADAJI'S NIRNAYA-SAGARA' PRESS.
BOMBAY
1901.
Price 2. Rupees.
Page #5
--------------------------------------------------------------------------
________________
(Registered according to Act XXV of 1867.).
[ All rights reserved by the publisher. ]
Page #6
--------------------------------------------------------------------------
________________
हेमचन्द्रः।
अयं श्वेताम्बरजैनाचार्यश्रीहेमचन्द्रः कदा कतमं भूमिमण्डलं मण्डयामासेति जिज्ञासायामनेकग्रन्थपर्यालोचने प्रवृत्ते Dr. P. Peterson महाशयानां Fifth Report पुस्तके
'तत्पट्टपूर्वाद्रिसहस्ररदिमः सोमप्रभाचार्य इति प्रसिद्धः ।
श्रीहेमसूरेश्च कुमारपालदेवस्य चेदं न्यगदच्चरित्रम् ॥' इति सोमप्रभाचार्यविरचितहेमकुमारचरित्रकाव्यतः,
'स्तुमस्त्रिसंध्यं प्रभुहेमसूररनन्यतुल्यामुपदेशशक्तिम् । अतीन्द्रियज्ञानविवर्जितोऽपि यः क्षोणिभर्तुळधित प्रयोधम् ॥ सत्त्वानुकम्पा न महीभुजां स्यादित्येप कुप्तो वितथः प्रवादः । जिनेन्द्रधर्म प्रतिपद्य येन श्लाघ्यः स केपां न कुमारपालः॥
इति सोमप्रभकथिते कुमारनृप-हेमचन्द्रसंवादे ।
जिनधर्मप्रतिवोधे प्रस्तावः पञ्चमः प्रोक्तः ॥' इति सोमप्रभविरचितकुमारपालप्रतिवोधकाव्यतः,
'शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च
श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः । संभूतो मुनिभद्रबाहुरिव · द्वौ तस्य शिष्योत्तमौ
संभूतस्य च पादपद्ममधुलिश्रीस्थूलभद्रायः ॥ वंशक्रमागतचतुर्दशपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्टान्तिपत्समजनिष्ट विशिष्टलब्धिः । शिष्योऽन्यो दशपूर्वभृन्मुनिवृपो नाम्ना सुहस्तीत्यरुटू
यत्पादाम्बुजसेवनात्समुदिते राज्ये प्रवोधर्धिकाः । चक्रे संप्रतिपार्थिवः प्रतिपुरग्रामाकरं भारते__ऽस्मिन्नधै जिनचैत्यमण्डितमिलापृष्टं समन्दादपि ॥ अजनि सुस्थित-सुप्रतिवुद्ध इत्यभिधयायसुहस्तिमहामुनेः ।
शमधनो दशपूर्वधरान्तिपद्भवमहातरुभञ्जनकुञ्जरः ॥ १. अस्य जिनधर्मप्रतिबोधकाव्यस्य निर्माणसमयस्तु-'शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताटम्याम् । जिनधर्मप्रतिवोधः कुप्तोऽयं गुर्जरेन्द्रपुरे ॥' इति वदता ग्रन्थक
व १२४१ (A. D. 1184) विक्रमसंवत्सरात्मक उक्तः. २. 'इति च' इति भवेत्. '३. सुस्थितः, सुप्रतिवद्धः, इति मुनिद्वयम्.
Page #7
--------------------------------------------------------------------------
________________
महर्षिसंसेवितपादसंनिधेः प्रचारभागालवणोदसागरम् । महान्गणः कोटिक इत्यभूत्ततो गङ्गाप्रवाहो हिमवद्गिरेरिव ॥ तस्मिन्गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रशाखावज्रं महामुनिरजायत वज्रसूरिः॥
दुर्भिक्षे समुपस्थिते प्रलयवद्भीमत्वभाज्यन्यदा __ भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे। योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महापुर्यो मङ्घ सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥ तस्माद्वज्राभिधा शाखाभूत्कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखानितयगोचरा ॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायतो गच्छश्चन्द्र इत्याख्ययाभवत् ॥ धर्मध्यानसुधासुधांशुरमलः संघार्थरत्नाकरो
भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः । गच्छे तत्र वभूव संयमधनः कारुण्यराशियशो
भद्रः सूरिरपूरि येन भुवनं शुद्धैर्यशोभिर्निजैः । श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां
कृत्वादौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाकू । तिष्टञ्छान्तमनास्त्रयोदशदिनान्याश्चर्यमुत्पादय
नुच्चैः पूर्वमहर्षिसंयमकथाः सत्यापयामासिवान् ॥ श्रीमान्प्रद्युम्नसूरिः समजनि जनितानेकभव्यप्रबोध
स्तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद्यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनीरै
रातत्यस्थानकानि श्रुतिविषयसुधासारसभ्यञ्चि विष्वक् ॥ सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः
कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरिः क्ष्मां पावयन्धर्मराट् ।
सेनानीगुणसेनसूरिभवच्छिष्यस्तदीयस्ततः ॥ शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्यकृज्जङ्गमः __ स्याद्वादत्रिदशापगाहिमगिरिविश्वप्रबोधार्यमा । कृत्वा स्थानकवृत्तिशान्तिचरिते प्राप्तः प्रसिद्धि परां
सूरि रितपःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ॥
Page #8
--------------------------------------------------------------------------
________________
आचार्यों हेमचन्द्रोऽभूत्तत्पादाम्भोजपट्पदः ।
तत्प्रसादादधिगतज्ञानसंपन्महोदयः ॥ जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापरान्तं कुरू
सिन्धूनन्यतमांश्च दुर्गविषयान्दोवीर्यशक्त्या हरिः । चौलुक्यः परमाहतो विनयवा-श्रीमूलराजान्वयी · तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥ पापर्द्धिद्यूतमद्यप्रभृति किमपि यनारकायुनिमित्तं
तत्सर्व निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । खामिनुा निषिद्धं धनमसुतमृतस्याथ मुक्तं तथाई
चैत्यैरुत्तंसिता भूरभवमिति समः संप्रतेः संप्रतीह ॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो यानया ___ साङ्गं व्याकरणं सवृत्ति सुगमं चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्याश्रय
च्छन्दोलंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः । मादृग्जनस्य परिवोधकृते शिलाका] पुंसां प्रकाशयत वृत्तमिदं त्रिषष्टेः ॥
तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम् । धर्मोपदेशैकफलप्रधानं न्यवीविशचारु गिरां प्रपञ्चे ॥ जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं
यावद्यावच्च धत्ते जलनिधिरवनेरन्तरीयत्वमुच्चैः। . यावयोमाध्वपान्थौ तरणिशशधरौ भ्राम्यतस्तावदेत. काव्यं नाना शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम् ॥' इत्याचार्यहेमचन्द्रविरचितशलाकापुरुषचरितप्रशस्तितश्च चौलुक्यकुमारपालराज्ये हेमचन्द्राचार्याणां सत्ताया अवगतेः,
'नृपस्य जीवाभयदानडिण्डिमैर्महीतले नृत्यति कीर्तिनर्तकी । श्रीहेमचन्द्रप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्तरकान्तराळ्याक्षरावली येन मम व्यलोपि ॥
बोधयित्वा महाराज देवलोकं जगाम यः ।
पश्चात्कुमारपालोऽयं शोक गत्वा मुमूर्छ सः ॥ तदनु धैर्यमवलम्ब्य धर्मध्यानं करोति ।' इति हेमकुमारचरितकाव्ये हेमचन्द्राचार्याणां देवलोकगमनस्योक्तेश्च कुमारपालराज्यसमयं एवाचार्यहेमचन्द्रसमयः, कुमारपालराजधान्येव भूमिमण्डलमित्यवाधमवगतम्. विशेषकथा तु प्रवन्धकोश-प्रवन्धचिन्तामणिभ्यामवगन्तव्या.
Page #9
--------------------------------------------------------------------------
________________
कुमारपालराज्यसमयस्तु--
ओं नमः शिवाय । ब्रह्माद्वैतधिया मुमुक्षुभिरभिध्यातस्य वद्धाक्षरै
रिच्छाशक्तिमभिष्टवीमि जगतां पत्युः श्रुतीनां निधेः । या व्यापारितसंहृतेः स्वसमये ब्रह्माण्डपिण्डैर्नवैः __ क्रीडन्ती मणिकन्दुकैरिवं सदा खच्छन्दमाह्लादते ॥ . गीर्वाणैर्वीतगर्व दनुजपरिभवात्प्रार्थितस्त्रायकार्थ __वेधाः संध्यां नमस्यन्नपि निजचुलुके पुण्यगङ्गाम्बुपूर्णे । सद्यो वीरं चुलुक्याह्वयमसृजदिमं येन कीर्तिप्रवाहैः __ पूतं त्रैलोक्यमेतन्नियतमनुहरत्येव हेतोः फलं श्रीः ॥ वंशः कोऽपि ततो बभूव विविधाश्चर्यैकलीलास्पदं ___ यस्माद्भूमिभृतोऽपि वीतगणिता(णना): प्रादुर्भवन्त्यन्वहम् । छायां यः प्रथितप्रतापमहतीं दधे विपन्नोऽपि स
न्यो जन्यावधि सर्वदापि जगतो विश्वस्य दत्ते फलम् ॥ वंशस्यास्य यशःप्रकाशनविधौ निर्मूल्यमुक्तामणिः
क्षोणीपालकिरीटकल्पितपदः श्रीमूलराजोऽभवत् । यो मूलं कलिदावदग्धनिखिलन्याय[मोत्पादने __ यो राजेव करैः प्रकामशिशिरैः प्रीति निनाय प्रजाः ॥ यश्चापोत्कटराजराज्यकमलां स्वच्छन्दवन्दीकृतां __ विद्वद्वान्धवविप्रबन्दिभृतकव्यूहोपभोग्यां व्यधात् ।। यत्खड्गाश्रयिणीं तदा श्रियमलं युद्धस्फुरद्विक्रम- . .
क्रीताः सर्वदिगन्तरक्षितिभुजां लक्ष्म्याश्चिरं भेजिरे ॥ सूनुस्तस्य बभूव भूपतिलकश्चामुण्डराजाह्वयो
यद्गन्धद्विपदानगन्धपवनाघ्राणेन दूरादपि । विभ्रश्यन्मदगन्धभन्मकरिभिः श्रीसिन्धुराजस्तथा
नष्टः क्षोणिपतेर्यथास्य यशसां गन्धोऽपि निर्णाशितः ॥ तस्माद्वल्लभराज इत्यभिधया मापालचूडामणि
जज्ञे साहसकर्मनिर्मितचमत्कारः क्षमामण्डले। . यत्कोपानलजृम्भितं पिशुनयत्येतत्प्रयाणश्रुति
क्षुभ्यन्मालवभूपचक्रविकसन्मालिन्यधूमोद्गमः ॥ ___. ... मूलराजराज्यम्-वि० सं० ९९३-१०५३. २. चामुण्डराजराज्यम्-वि. सं
१०५३-१०६६.
Page #10
--------------------------------------------------------------------------
________________
५
श्रीमद्दुर्लभराजनामनृपतिभ्रातास्य राज्यं दधे शृङ्गारेऽपि निषण्णधीः परवधूवर्गस्य यो दुर्लभः । यस्य क्रोधपरायणस्य किमपि भ्रूवल्लरी भगुरा
सद्यो दर्शयति स्म लाटवसुधाभङ्गस्वरूपं फलम् ॥ भीमोऽपि द्विषतां सदा प्रणयिनां भोग्यत्वमासेदिवान्क्षोणीभारमिदं(मं) बभार नृपतिः श्री भीमदेवो नृपः । धारापञ्चकसाधनैकचतुरैस्तद्वाजिभिः साधिता
क्षिप्रं मालवचक्रवर्तिनगरी धारेति को विस्मयः ॥ तस्माद्भूमिपतिर्बभूव वसुधाकर्णावतंसः स्फुर
त्कीर्तिप्रीणितविश्वकर्णविवरः श्री कर्णदेवाह्वयः । येन ज्याप्रथितखनं च्युतशरं धर्म पुरस्कुर्वता
न्यायज्ञेन न केवलं रिपुगणः कालोऽपि विद्धः कलिः ॥ दृप्यन्मालवभूपवन्धनविधित्रस्ताखिलक्ष्मापति
र्भक्त्याकृष्टवितीर्णदर्शनशिवो मूर्तः प्रभावोदयः । सद्यः सिद्धरसानृणीकृतजगद्गीतोपमा(तावदा)नस्थिति - र्जज्ञे श्रीजयसिंहदेवनृपतिः सिद्धादिराजस्ततः ॥ वश्या वेश्म रसातलं च विलसद्भोगि
........
........
भोक्तुम क्षत्राणि रक्षांसि च । यः क्षोणीधरयागिनीं च सुमहाभोगां सिषिवे चिरं हेलासिद्धरसाः सदा क्षितिभुजः ... संख्यातीतवितीर्णदाननिवहैः संपन्न पुण्योच्चयः क्रीडाक्रान्तदिगन्तराल
"रे ॥
॥
। वलाम्ब
• कुलभूप क्रीडाकोड इवोद्दधार वसुधां देवाधिदेवाज्ञया । देवः सोऽथ कुमारपालनृपतिः श्रीराज्यचूडामणिर्यः खर्गादवतीर्णवान्हरिरिति ज्ञातः प्रभावाज्जनैः ॥ .
?
1
१. दुर्लभराजराज्यम् — वि० सं० १०६६- १०७८.
२. भीमदेवराज्यम् - वि०
सं० १०७८ - ११२०. ३. कर्णदेवराज्यम् - वि० सं० ११२० - ११५०. ४. सिद्धराजापरपर्यायजयसिंहराज्यम् - वि० सं० ११५० - ११९९. ५. कुमारपालराज्यम् - वि० सं० ११९९ - १२३०.
'".
Page #11
--------------------------------------------------------------------------
________________
अर्णोराजनराधिराजहृदये क्षिप्त्वैक(व)वाणवज
थ्योतलोहिततर्पणादमदयच्चण्डी भुजस्थायिनीम् । द्वारालम्वितमालवेश्वरशिरःपद्मन यश्चाहर
लीलापङ्कजसंग्रहव्यसनिनी चौलुक्यराजान्वयः ॥ शुद्धाचारनवावतारसरणिः सद्धर्मकर्मक्रम__ प्रादुर्भूतविशारदो नयपथप्रस्थानसार्थाधिपः । यः संप्रत्यवतारयन्कृतयुगं योगं कलेलङ्घय
न्मन्ये संहरति स्म भूमिवलयं कालव्यवस्थामपि ॥ प्रत्यू..... खण्डिताङ्गुलिदलैः पर्युल्लसत्पल्लवो __नष्टोदीच्यनराधिपोज्झितसितच्छत्रैः प्रसूनोज्ज्वलः । छिन्नः प्राच्यनरेन्द्रमौलिकमलैः प्रौप्प(प्रोद्य)त्फलद्योतित. श्छायां दूरमवर्धयनिजकुले यस्य प्रतापद्रुमः ॥: आचारः किल तस्य रक्षणविधेर्विनेशनि (D)शित
प्रत्यूहस्य फलावलोकिशकुनज्ञानस्य सं....''वः । देवीमण्डलखण्डिताखिलरिपोर्युद्धं विनोदोत्सवः ।
श्रीसोमेश्वरदत्तराज्यविभवस्याडम्बरं वाहिनी ॥ राज्ञानेन च भुज्यमानसुभगा विश्वंभरा विस्फुर
द्रनद्योतितवारिराशिरशना शीताद्रिविन्ध्यस्तनी । एषाभूषयदस्थिकुण्डलमिव श्रुत्याश्रयं "प्टता
विभ्राणा नगराह्वयं द्विजमहास्थानं सुवर्णोदयम् ॥ आब्रह्मादिऋषिप्रवर्तितमहायज्ञक्रमोत्तम्भितै
यूपैर्दत्तकरावलम्बनतया पादव्यपेक्षाच्युतः । धर्मोऽत्रैव चतुर्युगेऽपि कलितानन्दः परिस्पन्दते
तेनानन्दपुरेति यस्य विबुधैर्नामान्तरं निर्मितम् ।। अश्रान्तद्विजवर्गवेदतुमुलैर्बाधिर्यमारोपितः
शश्वद्धोमहुताशधूमपटलैरान्ध्यव्यथां लम्भितः । नानादेवनिकेतनध्वजशिखाघातैश्च खजीकृतो
यस्मिन्नद्य कलिः स्वकालविहितोत्साहोऽपि नोत्सर्पति ।। सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः
स्मेराः संततगीतमङ्गलरवैर्वाचालतां प्रापिताः। १. अयमर्णोराजश्च वीरधवलमहाराजपितामह इति कीर्तिकौमुदीकाव्यस्य. नरेन्द्रवंशवर्णनात्मके द्वितीयसर्गे व्याख्यात एव भवेत्.
Page #12
--------------------------------------------------------------------------
________________
୭
अस्ता (श्रा) न्तोत्सवलक्ष्यमाणविभवोत्कर्षप्रकाशस्थितौ मागी एवं वदन्ति यत्र नृपतेः सौराज्यसंपद्गुणम् ॥ अस्मिन्नागरवंशजद्विजजनस्त्राणं करोत्यध्वरे
रक्षां शान्तिकपौष्टिकैर्वितनुते भूपस्य राष्ट्रस्य च । मा भूतस्य तथापि तीव्रतपसो वाधेति भक्त्या नृपो
वप्रं विप्रपुराभिरक्षणकृते निर्मापयामास सः ॥ अस्मिन्वगुणेन तोयनिलयाः प्रीणन्ति लोकं जलैः कामं क्षेत्रभुवोऽपि वप्रकलितास्तन्वन्ति धान्यश्रियम् । एवं चेतसि संप्रधार्य सकलब्रह्मोपकारेच्छया
चक्रे वप्रविभूषितं पुरमिदं चौलुक्यचूडामणिः ॥ पादाक्रान्तरसातलो गिरिरिव श्लाघ्यो महाभोगतः
शृङ्गारीव तरङ्गिणीपतिरिव स्फारोदयद्वारभूः । उत्सर्पत्कपिशीर्षको जय इव क्रव्यादनाथद्विपां
नारीवर्ग इवेष्टकान्तरुचिरः सालोऽयमालोक्यते ॥ भोगाभोगमनोहरः फणशतैरुत्तुङ्गतां धारय
न्यातः कुण्डलितां च यज्ञपुरुषस्याज्ञावशेनागतः । रत्नखर्णमहानिधिं पुरमिव त्रातुं स शेषः स्थितः
प्राकारः सुधया सितोपलशिराः संलक्ष्यते वृत्तवान् ॥ कामं कामसमृद्धिपूरकरमारामाभिरामाः सदा स्वच्छन्दखनतत्परैर्द्विजकुलैरत्यन्तवाचालिताः । उत्सर्पद्गुणशालिवप्रवलयप्रीतैः प्रसन्ना जनै
रत्रान्तश्च वहिश्च संप्रति भुवः शोभाद्भुतं विभ्रति ॥ लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौढोदयाधिष्ठितविग्रहोऽयम् । 'विभ्राजते नागरकाम्यवृष्टिर्वप्रश्र चौलुक्यनराधिपच ॥ यावत्पृथ्वी पृथुविरचिताशेषभूभृन्निवेशा
यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोऽयम् । तावन्नन्द्याद्विजवर महास्थानरक्षानिदानं
श्रीचौलुक्यक्षितिपतियशः कीर्तनं वत्र एपः ॥
एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेतामकरोत्प्रशस्ताम् ॥
संवत् १२०८ वर्षे आश्विन शुदि २ गुरौ लिखितं नागरब्राह्मणपण्डितबालणेन ॥' इति काव्यमाला पुस्तकान्तर्गतप्राचीन लेखमालायां G. Büühler Ph. D., L. 1. D., C. I. E, महाशयप्रेषित ४५ तमलेखतः विक्रमसंवत् १२०८ ( A. D
Page #13
--------------------------------------------------------------------------
________________
1151) रूपः स्फुटमेव प्रतीयते. एवं च द्वादशी ख्रिस्तशतिका हेमचन्द्रसत्ताधारभूतावगम्यते.
अनेनाचार्यश्रीहेमचन्द्रेणेयन्तो ग्रन्था निर्मिता इति निश्चितं नैव, परंतु तन्निर्मितग्रन्थेघु-अनेकार्थकोषः, अनेकार्थशेषः, अभिधानचिन्तामणिः (नाममालाव्याख्या), अलंकारचूडामणिः (काव्यानुशासनव्याख्या), उणादिसूत्रवृत्तिः, काव्यानुशासनम् , छन्दोनुशासनम् , छन्दोनुशासनवृत्तिः, देशीनाममाला सवृत्तिः, याश्रयकाव्यं सवृत्तिः,] धातुपाठः सवृत्तिः, धातुपारायणं सवृत्ति, धातुमाला, नाममाला, नाममालाशेषः, निघण्टुशेषः, [प्रमाणमीमांसा सवृत्तिः,] बलावलसूत्रवृहद्वृत्तिः, बालभाषाव्याकरणसूत्रवृत्तिः, [योगशास्त्रम्,] विभ्रमसूत्रम् , लिङ्गानुशासनं सवृत्ति, शब्दानुशासन सवृत्ति, शेषसंग्रहः, शेषसंग्रहसारोद्धारः, एते ग्रन्थाः Catalogus Catalogorum अन्थे Dr. Theodor Aufrecht महाशयैः प्रकाशिताः.
एवमनेकलक्षात्मकग्रन्थकर्तृश्वेताम्बरजैनाचार्यश्रीहेमचन्द्रकृतं काव्यानुशासनं खोपज्ञमस्माभिर्मुद्रयितुं दत्तं तदेतस्य ग्रन्थस्य मुद्रणाय शोधनसमये येषां सुहृदयहृदयानां पुस्तकानि प्राप्तानि, तेषां नामानि धन्यवादपुरःसरं प्रकाश्यन्ते. १ काव्यानुशासनम्
पुण्यपत्तनपुस्तकालयतः. १ काव्यानुशासनविवेकः - प० ज्येष्ठाराममुकुन्दशर्मणाम्.
अस्मद्गृहस्थम्. तदेवमनेकपुस्तकाधारेण शोधितमुद्रिते सव्याख्ये काव्यानुशासनेऽस्मदोषादक्षरयोजकदो___षाद्वा यत्र कुत्रचनाशुद्धिः स्थिता जाता वा तत्र सुहृदयाः सौहार्देण शोधयिष्यन्ति । यतः--
गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः। .. हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥
इति प्रार्थयतः पण्डित-शिवदत्त-काशीनाथौ।
--
Page #14
--------------------------------------------------------------------------
________________
काव्यमाला।
आचार्यहेमचन्द्रविरचितं
काव्यानुशासनम् । खोपज्ञालंकारचूडामणिसंज्ञकवृत्तिसमेतम् ।
पत॥
प्रथमोऽध्यायः । 'प्रणम्य परमात्मानं निजं काव्यानुशासनम् ।
आचार्यहेमचन्द्रेण विद्वत्प्रीत्यै प्रतन्यते ॥ ग्रन्थारम्भे शिष्टसमयपरिपालनाय शास्त्रकारः समुचितेष्टदेवतां प्र_णिधत्ते
अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् ।
सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ । रागादिजेतारो जिनास्तेषामियं जैनी जिनोपज्ञा । अनेन कारणशुद्ध्यो-पादेयतामाह । उच्यते इति वाक्, वर्णपदवाक्यादिभावेन भाषा द्रव्यपरि
णतिस्तामुपास्महे । उपासनं योगप्रणिधानम् । अकृत्रिमखादून्यनाहार्यमाधुर्याणि पदानि नामिकादीनि यस्यां सा तथोक्ता । स्वच्छस्वादुप्रभृतयो हि गुणमात्रवचना अपि दृश्यन्ते । अथ वा अकृत्रिमाण्यसंस्कृतान्यत एव स्वादूनि मन्दधियामपि पेशलानि पदानि यस्यामिति विग्रहः। उक्तं हि—'बालस्त्रीमूढमूर्खाणां नृणां चारित्रकाशिणाम् । अनुग्रहार्थ
विवरीतुं क्वचिदृब्धं नवं संदर्भितुं क्वचित् ।
काव्यानुशासनस्यायं विवेकः प्रवितन्यते ॥ १. वृत्तिसमेतस्यैव मूलग्रन्थस्य नाम काव्यानुशासनमितीति प्रतीयते. काव्यानुशासनपदमेव वा खव्याख्यावाचकम्.
Page #15
--------------------------------------------------------------------------
________________
काव्यमाला।
तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ॥ तदेतद्गीतादिसाधारणमिति विशिनष्टि-परमार्थो निःश्रेयसं तदभिधानशीलां परमार्थाभिधायिनीम् । द्रव्याद्य नुयोगानामपि पारम्पर्येण निःश्रेयसप्रयोजनत्वात् । तथा सर्वेषां सुरनरतिरश्चां विचित्रासु भाषासु परिणतां तन्मयतां गतां सर्वभाषापरिणताम् । एकरूपापि हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिवदाश्रयानुरूपतया परिणमति । यदाह-'देवा दैवीं नरा नारी शबराश्चापि शाबरीम् । तिर्यञ्चोऽपि हि तरैश्ची मेनिरे भगवद्विरम् ॥' न ह्येवंविधभुवनाद्भुतमतिशयमन्तरेण युगपदनेकसत्त्वोपकारः शक्यः कर्तुम् ॥ . अथ प्रेक्षावत्प्रवृत्त्यङ्गं प्रयोजनं वक्तुं तत्प्रस्तावनामाह
शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः। तासामिदानी काव्यत्वं यथावदनुशिष्यते ॥२॥ शब्दानुशासने 'सिद्धहेमचन्द्राभिधाने' । विवेचिता असाध्वीभ्यो वाग्भ्यः पृथकृताः । इदानीं शब्दानुशासनादनन्तरं तासां वाचां काव्यत्वं काव्यीभावो यथावत्तात्त्विकेन रूपेणानुशिष्यते । वाचां हि साधुत्वे निश्चिते सुकरः काव्योपदेशः । अनेन शब्दानुशासन-काव्यानुशासनयोरेककर्तृकत्वं चाह । अत एव हि प्रायोगिकमन्यैरिव नारप्स्यते। शब्दानुशासनेनैव चरितार्थत्वात् ॥
शास्त्रप्रयोजनमुक्त्वा अभिधेयप्रयोजनमाहकाव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च ।
द्रव्याद्यनुयोगानामपीति । इहानुयोगश्चतुर्धा । आचरणकरणधर्मकथागणितद्रव्यभेदात् । तत्राद्यस्य सम्यग्ज्ञानदर्शनपवित्रिते नवकर्मानुपादानातीतकर्मनिर्जरारूपे संयमतपसी प्रतिपाद्ये इति सर्वकर्मविमोक्षलक्षणमोक्षपरत्वात्परमार्थाभिधायित्वं प्रतीतमेव । शेषाणां तु पारम्पर्येण द्रव्यस्य चोपायत्वेन प्रधानतया विवक्षितत्वात्पश्वानुपूर्व्यादावुपदेशः । तथा हि । नयप्रमाणवलेन दुर्णयतिरस्कारात्स्याद्वादाधीनं सकलभावानामर्थक्रियाकारित्वलक्षणं सत्त्वं प्ररूप्यते । चेतनाचेतनरूपसकलद्रव्याणां योनयश्चेति वस्तुतत्त्वनिरूपणेन द्रव्यस्य गणितवलेन सुरादीनां सर्वमानायूंषि चन्द्राद्युपरागादयश्च निश्चीयन्ते इत्यायुरादिज्ञानेन गणितस्य वैराग्योपजननमिति वृत्तं प्रश्रूयते । इत्यवदात
Page #16
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
लोकोत्तरं कविकर्म काव्यम् । यदाह-'प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता । तदनुप्राणना जीवद्वर्णनानिपुणः कविः । तस्य कर्म स्मृतं काव्यम् ॥' इति । सद्यो रसास्वादजन्मा निरस्तवेद्यान्तरा ब्रह्मास्वादसदृशी प्रीतिरानन्दः । इदं सर्वप्रयोजनोपनिषद्भूतं कविसहृदययोः काव्यप्रयोजनम् । यशस्तु कवेरेव । यत इयति संसारे चिरातीता अप्यद्य यावत्कालिदासादयः सहृदयैः स्तूयन्ते कवयः । प्रभुतुल्येभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यो मित्रसंमितेभ्योऽर्थप्रधानेभ्यः पुराण प्रकरणादिभ्यश्च शब्दार्थयोर्गु - णभावे च रसप्राधान्ये च विलक्षणं काव्यं कान्तेव सरसतापादनेन संमुखीकृत्य 'रामादिवद्वर्तितव्यं न रावणादिवत्' इत्युपदिशतीति सहृदयानां प्रयोजनम् । तथा चोक्तं हृदयदर्पणे—
३
कथनेन वैराग्योत्पत्तिहेतुत्वाद्धर्मकथायाः परमपुरुषार्थाभिधायकत्वं परम्परयास्तीति ॥ सर्वप्रयोजनोपनिषद्भूतमिति । यशोव्युत्पत्तिफलत्वेऽपि पर्यन्ते सर्वत्रानन्दस्यैव साध्यत्वात् । तथा हि । कवेंस्तावकीर्त्यापि प्रीतिरेव संपाद्या । यदाह – 'कीर्ति स्वर्ग - फलामाहुः' इत्यादि । श्रोतॄणां व्युत्पत्तिर्यद्यप्यस्ति, तथापि तत्र प्रीतिरेव प्रधानम् । अन्यथा प्रभुसंमितेभ्यो वेदादिभ्यो मित्रसंमितेभ्यश्चेतिहासादिभ्यः कोऽस्य काव्यरूपस्य व्युत्पत्तिहेतोर्जायासंमितत्वलक्षणो विशेष इति । चतुर्वर्गव्युत्पत्तिरपि चानन्द एव पार्यस्ति (ति) कं मुख्यफलमिति ॥ कविसहृदययोरिति । यः काव्यं कुरुते स कविः । यस्य तु काव्यानुशीलनाभ्यासवशाद्विशदीभूते मनोमुकुरे वर्णनीयतन्मयीभवनायोग्यतासहृदयसंवादभाक् स सहृदयः । काव्य कर्तृत्वलक्षणपूर्वावस्थापेक्षया कवि) | शब्दनिर्देशः । यतः - कवेरपि भावकावस्थायामेव रसाखादः संपद्यते, पृथगेव हि कवि(त्वाद्भावकत्वम् । यदाह - ' सरखत्यास्तत्त्वं कविसहृदयाख्यं विजयते' इति ॥ यश'स्त्विति । यदाह – 'अमरसदनादिभ्यो भूता न कीर्तिरनश्वरी भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये । तदलममलं कर्तुं काव्यं यतेत समाहितो जगति सकले व्यासादीनां विलोक्य परं यशः ॥' कवेरेवेति । न तु सहृदयस्य ॥ प्रभुतुल्येभ्य इति । कर्तव्यमिदमित्याज्ञामात्र परमार्थेभ्य: ॥ मित्रसंमितेभ्य इति । अस्येदं वृत्तममुष्मात्कर्मणः इत्येवं युक्तियुक्तकर्म फलसंबन्धप्रकटन कारिभ्यः । उपदिशतीति । अप्रयासेन शिक्षयति । व्युत्पत्तिं करोतीति यावत् । अयमभिप्रायः -- ये शास्त्रेतिहासे - भ्योऽलब्धव्युत्पत्तयोऽथ वावश्यव्युत्पाद्याः प्रजार्थं संपादनयोग्यताक्रान्ता
1
Page #17
--------------------------------------------------------------------------
________________
काव्यमाला।
'शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदुः । अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयोः ।
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीभवेत् ॥' इति । धनमनैकान्तिकं व्यवहारकौशलं शास्त्रेभ्योऽप्यनर्थनिवारणं प्रकारान्तरेणापीति न काव्यप्रयोजनतयास्माभिरुक्तम् ॥
प्रयोजनमुक्त्वा काव्यस्य कारणमाह--- प्रतिभास्य हेतुः।
प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । अस्य काव्यस्य । इदं प्रधान कारणम् । व्युत्पत्त्यभ्यासौ तु प्रतिभाया एव संस्कारकाविति वक्ष्यते ॥
सा च सहजौपाधिकी चेति द्विधा । तत्र सहजामाहसावरणक्षयोपशममात्रात्सहजा ॥
सवितुरिव प्रकाशस्वभावस्यात्मनोऽभ्रपटलमिव ज्ञानावरणीयाद्याचरणं तस्योदितस्य क्षयेऽनुदितस्योपशमे च यः प्रकाशाविर्भावः सा सहजा प्र
पुत्रप्रायास्तेषां जायासंमितत्वेन परमप्रीतिकारिण: काव्यात् [सहृदयानुप्रवेशमुखेन चतुर्वर्णोपायव्युत्पत्तिराधेया । हृदयानुप्रवेशश्च रसास्वादमय एवासवरसश्चतुर्वर्गोपायव्युत्पत्तिनान्तरीयकविभावादिसंयोगप्रसादोऽपनत इत्येवं रसोचितविभावाद्युपनिवन्धे रसास्वादवैवस्य(श्य)मेव स्वरसभाविन्यां व्युत्पत्तौ प्रयोजकमिति प्रीतिरेव व्युत्पत्तेः प्रयोजिकेत्यर्थः । ननु-'चरां बाल्येडिस्तां(?) तरुणिमनि यूनः परिणतावपीप्सामो वृद्धान्परिणयविधिस्तु स्थितिरियम् । त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोत्रेषु त्रिः कचिदपि सतीलाञ्छनमभूत् ॥' इत्यादिकाव्यमसदुपदेशकं दृश्यते । व्युत्पत्तिरपि च तस्मात्तादृग्विषया संभाव्यते। ततश्च तदनुपदेश्यमित्यायातम् । सत्यम् ।। अस्त्ययमुपदेशः । किं तु निषेध्यत्वेन, न विधेयत्वेन । य एवंविधा विधयः परस्त्रीषु पुंसां संभवन्ति तानवबुध्य परिहरेदिति कवीनां भावः ॥ एवमानन्दयशश्चतुर्वर्गोपायव्युत्पत्तीनां काव्यप्रयोजनतामसाधारणी प्रतिपाद्य यत् कैश्चित् 'श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानमित्यादेर्मयूरादीनामिवानर्थनिवारणं च' प्रयोजनत्रयमुपन्यस्तम्, तत्प्रतिक्षिपति-धनमनैकान्तिकमिति । न हि काव्याद्धनं भवत्येवेत्यनैकान्तिकमित्यर्थः । तथा चाह-उपशमफलाद्विद्यावीजात्फलं धनमिच्छतो भवति विफलो यद्यायासस्तदत्र किमद्भुतम् । न नियतफलाः कर्तुर्भावाः फलान्तरमीशते जनयति खलु व्रीहेबीजं न जातु यवाङ्कुरम् ॥' इति ॥ शास्त्रेभ्य इति । चाण
Page #18
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
तिभा । मात्रग्रहणं मन्त्रादिकारणनिषेधार्थम् । सहजप्रतिभाबलाद्धि गुणभृतः सद्यो द्वादशाङ्गीमासूत्रयन्ति स्म ॥
द्वितीयामाह - मन्त्रादेरौपाधिकी।
मन्त्रदेवतानुग्रहादिप्रभवौपाधिकी प्रतिभा । इयमप्याचरणक्षयोपशमनिमित्तैव । दृष्टोपाधिनिबन्धनत्वात्तु औपाधिकीत्युच्यते ॥
सा चेयं द्विधापि प्रतिभाव्युत्पत्यभ्यासाभ्यां संस्कार्या ।
व्युत्पत्त्यभ्यासौ वक्ष्यमाणौ ताभ्यां संस्करणीया । अत एव न तौ काव्यस्य साक्षात्कारणं प्रतिभोपकारिणौ तु भवतः । दृश्येते हि प्रतिभाही - नस्य विफलt व्युत्पत्त्यभ्यासौ ॥
व्युत्पत्तिं व्यनक्ति
-
लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः ।
लोके स्थावरजङ्गमात्मके लोकवृत्ते च शास्त्रेषु शब्द च्छन्दोनुशासनाभिधानकोशश्रुतिस्मृतिपुराणेतिहासागमतर्कनाय्यार्थ कामयोगादिग्रन्थेषु का
क्यादिप्रणीतेभ्यः ॥ प्रकारान्तरेणापीति । मन्त्रानुष्ठानादिना ॥ लोके इति । इह लोकशब्देन स्थावरजङ्गमात्मको लोकः । तद्व्यवहारश्चाभिधीयत इत्यर्थः । स च देशकालादिभेदादनेकप्रकारः प्रकृतिव्यत्ययाख्ये रसदोषे प्रपश्चयिष्यते ॥ शब्देत्यादि । शब्दानुशासनं व्याकरणं ततो हि शब्दशुद्धिः । तन्नैपुण्यं यथा - 'द्विगुरपि सद्वन्द्वोऽहं गृहे च रमे सततमव्ययीभावः । तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः ॥' छन्दोनुशासनं छन्दोविचितिः । काव्याभ्यासाद्वृत्तपरिज्ञानेऽपि हि मात्रावृत्तादौ तत एव निश्चयः । (तन्नैपुण्यं यथा - 'उद्धिही च संसृतौ स्यानुवरओगुरुनो भवेद्यदि क्षितौ श्रीजिनेन्द्रशासनम् ॥ अभिधानकोशो नाममाला । ततो हि पदार्थनिश्चयः । अपूर्वाभिधानलाभार्थत्वं प्रयुक्तमभिधानकोशस्याप्रयुक्तस्याप्रयोज्यत्वात् । यदि तर्हि प्रयुक्तं प्रयुज्यते किमितिपदस्य संदिग्धार्थत्वमाशङ्कितम्, तत्र सामान्येनार्थगतिः संभवति । यथा नीवीशब्देन जघनवस्त्रग्रन्थिरुच्यते इति कस्यचिन्निश्चयः स्त्रियाः पुरुषस्य वेति संशयः । 'नीविराग्रन्थनं नार्या जघनस्थस्य वाससः' इति नाममालाप्रतीकमपदिश्यते था ॥ अपौरुषेयवचनं श्रुतिः । यथा - 'उर्वशी हाप्सराः पुरूरवसमैड चकमे । तन्नै यदि यथा - 'चन्द्राद्बुधः समभवद्भगवान्नरेन्द्रमाद्यं पुरूरवसमैलमसावतस्त (सूत) ।
C
Page #19
--------------------------------------------------------------------------
________________
काव्यमाला |
६
1
तं वाप्सराः स्मरवती चकमे किमन्यदत्रोवेशी स्मितवशीकृतशक्रचेताः ॥' श्रुत्यर्थस्मरणात्स्मृतिः । यथा - 'बहुर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना । संभावितैकदेशेन देयं यदभियुज्यते ॥' तन्नैपुण्यं यथा - 'हंस प्रयच्छ मे कान्तां गतिस्तस्याश्च या हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥' वेदाख्यानोपनिबन्धनप्रायं पुराणम् । यथा'हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत । भयभ्रान्तैः सुरैश्चके त्रिसंध्यं त्रिर्दिशे नमः ॥' तन्नैपुण्यं यथा - 'स संचरिष्णुर्भुवनत्रयेऽपि यां यदृच्छयाशिश्रियदाश्रयः। श्रियाम् | अकारि तस्यै मुकुटोपलस्खलत्कारैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ॥ पुराणप्रति - भेद एवेतिहासः । यथा - ' न स संकुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालि पथमन्वगाः ||' तन्नैपुण्यं यथा - 'मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । जगजिघत्सातुरकण्ठपद्धतिर्न वालिनैवाहिततृप्तिरेककः ॥' आप्तवचनमागमः । तत्र शैवागमनैपुण्यं यथा --- 'घोरघोरतरातीत ब्रह्मविद्याकलातिगः । परापदपदव्यापी पायाद्वः परमेश्वरः ॥' बौद्धागमनैपुण्यं यथा— 'क'लिकलुषकृतानि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः । मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु ॥' एवमागमान्तरेष्वपि ॥ तर्कः षट्प्रकारः तत्रार्हतो यथा - शरीरपरिमाण आत्मा । अन्यथा शरीराफल्यमात्माफल्यं वा । तन्नै - पुण्यं यथा— 'शरीरमात्रमात्मानं ये विदन्ति जयन्ति ते । तच्चुम्बनेति ( ? ) यज्जातः सर्वाङ्गपुलकोऽस्य मे ॥' बौद्धीयो यथा- विवक्षापूर्वी हि शब्दास्तामेव विवक्षां सूचयेयुः । तन्नैपुण्यं यथा - ' भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां वलात्परिचुम्वति । न न न न म म मा मा स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम् ॥' लौकायतिको यथा-भूतेभ्यश्चैतन्यं मदशक्तिवत् । तन्नैपुण्यं यथा - 'बहुविधमिह साक्षिचिन्तकाः प्रवदन्त्यन्यमितः कलेवरात् । अपि मदतिहिते (?) च चिन्तकाः प्रलयं यान्ति सहैव चिन्तया ॥' सांख्यीयो यथा--' नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्वदर्शिभिः ॥' तन्नैपुण्यं यथा - 'य एते यज्वानः प्रथितमहसो येऽप्यवनिपा मृगक्षो(गाक्ष्यो ) याश्चैताः कृतमपरसंसारकथया । अभी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो । जगत्येवंरूपा विलसति मृदेषा भगवती ॥' न्यायवैशेषिकीयो यथा—स किंसामग्रीक ईश्वरः कर्तेति पूर्वपक्षे निरतिशयैश्वर्यस्य कर्तृत्वमिति सिद्धान्तः । तन्नैपुण्यं यथा—‘किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति कि- 1 मुपादानमिति च । अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥' नाट्यशास्त्रनैपुण्यं यथा --- ' आतन्वत्सरसां स्वरूपरचनामानन्दिविन्दूद्वयं भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । उच्चैर्वृत्तिसपुष्करव्यतिकरं संसारविष्कम्भकं भिद्याद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥' अर्थ
१. 'निहिते' इति भवेत्.
"
Page #20
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
व्येषु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः लोकादिनिपुणता । संस्कृतप्रतिभा हि तदनतिक्रमेण काव्यमुपनिबध्नाति ॥
शास्त्र नैपुण्यं यथा मुद्राराक्षसनाटके । कामशास्त्र नैपुण्यं यथा - 'अधरे बिन्दुः कण्ठे | मणिमाला कुचयुगे शशतकम् । तव सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ॥' योगशास्त्र नैपुण्यं यथा - 'पृथुशास्त्रकथा कन्थारोमन्येण वृथात्र किम् । अन्वेष्टव्यं प्रयत्नेन तत्वज्ञैज्र्ज्योतिरन्तरम् ॥' आदिग्रहणादायुर्वेदशास्त्रनैपुण्यं यथा'अङ्गे चन्दनपङ्कपङ्कजविसच्छेदावलीनां मुहुस्तापः शाप इवैष शोषणपटुः कंस्यः सषी( कस्य नः । श्वासा संवृतसारहाररुचयः संभिन्नपीनांशुकाजातः प्रागनिदान वेदनमहारम्भः स तस्या ज्वरः ॥' ज्योतिःशास्त्र नैपुण्यं यथा - - 'द्यामासीकयतां कलाः कलयतां छायां | समादिन्वतां क्लेशः केवलमङ्गुलीगणयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एंव क्षणो यत्राज्ञाचरणप्रियानयनयोः सीमानमेति प्रिया ॥' गजलक्षणनैपुण्यं यथा---' कर्णाभ्यर्ण विकीर्णचामरमरुद्विस्तीर्णनिःश्वासवाञ्शङ्खच्छत्र विराजिराज्यविभवद्वेषी निलीनेक्षणः । स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनीं कानने संत्यक्तां चिरमुक्तभोगकवलं क्लेशोष्मणा शुष्यति ॥ तुरगशास्त्रनैपुण्यं यथा – 'आवर्त शोभः पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकृति कर्तुमिवोद्यतान्धिः ॥' रत्नपरीक्षानैपुण्यं यथा - ' द्वौ वज्रवण जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्वारससंनिकाशः ॥' धातुवादनैपुण्यं यथा--'नखदलित हरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डु(भावः । चलवति सति यस्मिन्सार्धमावर्त्य हस्ता रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥' द्यूतनैपुण्यं यथा -- ' यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चास्ते । इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ काल: काल्या सह बहुकलः क्रीडति प्राणिशारैः ॥ इन्द्रजालनैपुण्यं यथा --- 'एष ब्रह्मा सरोजे | राज निकर कलाशेखरः शंकरोऽयं दोर्भिदैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिद्वैश्चतुर्भिः । एषोऽप्यैरावणस्थ स्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योनि चैताश्वलचरणरण'नूपुरा दिव्यनार्यः ॥' चित्रनैपुण्यं यथा - 'अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समनिनोन्नतानीव चित्रकर्मविदो जनाः ॥ धनुर्वेदनैपुण्यं यथा - 'आर्याशास्त्र - घनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालंकृतिः । निःस्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः॥' एवमन्यदपि ॥ लोकादिनिपुणता । संस्कृतप्रतिभा हीति । यदाह'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला । जायते यन्न काव्याङ्गमहाभारो
-
--
-
था. १. 'शशी कस्य' इति भवेत्. २. 'द्यामालोकयतां' इति भवेत्. ३. 'समादित्सतां ' यदि भवेत्.
Page #21
--------------------------------------------------------------------------
________________
काव्यमाला। अभ्यासं व्याचष्टे- . . काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः।
काव्यं कर्तुं जानन्ति विचारयन्ति वा ये ते काव्यविदः कविसहृदयाः। वेत्तेविन्तेश्चावृत्त्या रूपम् । तेषां शिक्षया वक्ष्यमाणलक्षणया काव्य एव पौनःपुन्येन प्रवृत्तिरभ्यासः। अभ्याससंस्कृता हि प्रतिभा काव्यामृतकामधेनुर्भवति । यदाहुः—'अभ्यासो हि कर्मसु कौशलमावहति । नहि सकृन्निपतितमात्रेणोदबिन्दुरपि ग्रावणि निम्नतामादधतीति शिक्षयेत्युक्तम्' इति ॥ शिक्षा लक्षयति
सतोऽप्यनिबन्धोऽसतोऽपि निवन्धो नियमश्छायाधुपजीवनादयश्च शिक्षाः। · सतोऽपि जातिद्रव्यगुणक्रियादेरनिबन्धनम् , असतोऽपि जात्यादेरेव निबन्धनम्, नियमोऽतिप्रसक्तस्य जात्यादेरेवैकत्रावधारणम्, छायायाः प्रतिबिम्बकल्पतया आलेख्यप्रख्यतया तुल्यदेहितुल्यतया परपुरप्रवेशप्रतिमतया
गुरुः कवेः ॥ इति ॥ छायाया इति । छायाया अर्थादर्थस्य । तदुपजीवनं क्वचित्प्रतिविम्वतुल्यतया । यथा-'ते पाण्डवाः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । चन्द्रामृतांशुकणसेकसुखप्ररूढैयैरङ्कुरैरिव विराजति कालकूटः ॥' यथा च-'जयन्ति नीलकण्ठस्य नीलाः कण्ठे महाहयः । गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव ॥ यदाह-'अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र । तदपरमार्थविभेदं काव्यं प्रतिबिम्बकल्पं स्यात् ॥' क्वचिदालेख्यप्रख्यतया । तत्रैवार्थे यथा'जयन्ति धवलव्याला: शंभोजुटावलम्बिनः । गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इच ॥ यदाह-'कियतापि वस्तुसंस्कारकर्मणा वस्तु भिनवद्भाति । तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥' क्वचित्तुल्यदेहितुल्यतया । यथा-'अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुधन्यस्तावत्प्रतिवसति यो जीवति सुखम् । अमीषां निर्माणं किमपि तदभूद्वद्धकरिणां वनं वा क्षोणीभृद्भवनमथ वा येन शरणम् ॥' अत्रार्थे-'प्रतिगृहमुपलायामेक एव प्रकारो मुहुरुपकरणत्वादर्थिताः पूजिताश्च । स्फुरति ह नु मणीनां किं तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः ॥ यदाह-'विषयस्य यत्र भेदेऽप्यभेदबुद्धिनितान्तसादृश्यात् । तत्तुल्य देहितुल्यं काव्यं वध्नन्ति सुधियोऽपि ॥' क्वचित्परपुरप्रवेशप्रतिमतया । यथा-'यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्वरं
१. 'कल्पतया' इति मूलपुस्तके उपलभ्यते.
Page #22
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरिव स्फाराभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किंचित्कुञ्चितलोचनाभिरसकृद्माताः कदम्बानिलाः ॥' अत्राथे'आच्छिच प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यत्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् । हे मातः परिचुम्वितं नयनयोयस्तं हृदि स्थापितं सीमन्ते निहितं कथं. चन ततः कर्णावतंसीकृतम् ॥' यदाह-'मूलैक्यं यत्र भवेत्परिकरवन्धस्तु दूरतोऽनेकः । तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥' यथोत्तरं चामीषां चतुर्णामपि प्राधान्यम् । पदोपजीवनं यथा-'दूराकृष्टशिलीमुखव्यतिकरानो किं 'किरातानिमानाराध्यावृतपीतलोहितमुखान्कि वा पलाशानपि । पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥ यथा च-'मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥' पादोपजीवनं यथा-'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त(त्व)रा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रवाहविगलद्धारासमे जीविते को जानाति पुनस्त्वया लह मम स्याद्वान वा संगमः॥ यथा च-'हंहो स्निग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिनानि भवता नास्मत्सकाशात्कचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥' पादद्वयोपजीवनं यथा-तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति । अभ्युद्गते तुहिनधामनिधौ तु तस्मिन्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥' यथा च–'तत्तावदेव शशिनः स्फुरितं महीयो यावन्न किंचिदपि गौरितरं हसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभिरिन्दोः सिताभ्रशकलस्य च को विशेषः॥' पादत्रयोपजीवनं यथा-'अरण्ये निर्जने रात्रावन्तर्वेश्मनि 'साहसे । न्यासापह्नवने चैव दिव्या संभवति क्रिया ॥' यथा चोत्तराधै—तन्वङ्गी यदि लभ्येत दिव्या संभवति क्रिया ॥' पादचतुष्टयोपजीवने तुः परिपूर्ण चौर्यमेवेति न तनिर्दिश्यते ॥ आदिग्रहणात्पदैकदेशोपजीवनम् । यथा-'नाश्चय यदनार्याप्तावस्तप्रीतिरयं मयि । मांसोपयोगं कुर्वीत कथं क्षुद्रं हितो जनः ॥' यथा च--'कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्तेऽधरः किं वा चुम्बनकारणाद्दयि तनोवायोर्विकारादयम् । तत्त्वं शुक्रसुगन्धिमाहितरसं (स्निग्धं भजखादरान्मुग्धे सांसरसं ब्रुवनिति तया गाढं समालिङ्गितः ॥' उत्तयुपजीवनं यथा-'ऊरुद्वन्द्वं सरसकदलीकाण्डसब्रह्मचारी' इति । यथा च-ऊरुद्वयं कदलकन्दलयोः सवंशश्रोणिः सि(शि)लाफलकसोदरसंनिवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः । उक्तयोर्यथान्तरसंक्रान्ता न प्रत्यभिज्ञायते स्वदत्ते च (१) ॥ नन्विदमुपदेश्यमेव न भवति । यदित्थं कथयन्ति- 'पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यते । अपि पुत्रेषु पौत्रेषु
Page #23
--------------------------------------------------------------------------
________________
काव्यमाला। चोपजीवनम् , आदिशब्दात्पदपादादीनां च काव्यान्तराद्यथौचित्यमुप जीवनम् । पुनरादिपदात्समस्यापूरणाद्याः शिक्षाः । तत्र
वाक्चौर्य न विशीर्यते ॥' इत्याशङ्कयाह-यथौचित्यमिति । अयमप्रसिद्धः प्रसिद्धि । मानहम् , अयमप्रतिष्ठः प्रतिष्ठावानहम् , अप्रक्रान्तमिदम् अस्य संविधानकं प्रक्रान्तम्व, मम, गुडूचीवचनोऽयं मृद्वीकावचनोऽहम् , अनादृतभाषाविशेषोऽयम् आदृतभाषाविशेषोऽहम् , प्रशान्तज्ञातृकमिदं देशान्तरकर्तृकमिदम् , उत्सन्ननिवन्धनमूलमिदं म्लेच्छि . तकोपनिबद्ध मिदम् , इत्येवमादिभिः कारणैः शब्दहरणार्थहरणे चाभिरमेत्येवन्तिसुन्दरी (?) । आहुश्च-'नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । स नन्दति . विना वाच्यं यो जानाति निगुहितुम् ॥ उत्पादकः कविः कश्चित्कश्चित्तु परिवर्तकः । आच्छादकस्तथा चान्यस्तथा संवर्धकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किंचना नूतनम् । उल्लिखेत्किचन प्राच्यं दृश्यतां स महाकविः ॥' समस्यापूरणाद्या इति। तत्र पादसमस्या यथा-'मृगासिंहः पलायते' इति, 'समुद्राद्धूलिकच्छिते' इति चैतौ चतुर्थौ पादौ । यथाक्रममन्यत्पादत्रयं यथा-'मदमन्थरमातङ्गकुम्भपाटनलम्पटः । दैवे पराङ्मुखे कष्टं मृगात्सिहः पलायते ॥' 'सीतासमागमोत्कण्ठाकर्णान्ताकृष्टधन्वनः । राघवस्य शराङ्गारैः समुद्राद्धूलिकच्छिते ॥' ॥ पादद्वयसमस्या यथा-'चव्यचित्रकनागरैः,' 'लङ्कायां रावणो हतः' इति द्वितीयचतुर्थौ पादौ । प्रथमतृतीयौ तु–'मुमूर्षो किं तवाद्यापि चव्यचित्रकनागरैः । स्मर नारायणं येन लङ्कायां रावणो हतः॥ 'किमपि किमिह दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । भ्रमति विहगसार्थानित्थमापृच्छ्यमानो रजनिविरहभीतश्चक्रवाको वराकः ॥' यथा च-'जयति सितविलोलव्यालयज्ञोपवीती घनकपिलजटान्तर्धान्तगङ्गाजलौघः । अविदितमृगचिह्नामिन्दुलेखां दधानो परिणतशितिकण्ठश्यामकण्ठः पिनाकी ॥' यथा च-'कुमुदवनमपनि श्रीमदम्भोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मियोति शीतांशुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥ इति वृत्तः यात्प्रथमद्वितीयचतुर्थपादत्रयसमस्यायास्तृतीयपादेन पूरणं यथा-'किमपि किमि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तन्तिगङ्गाजलौघः । निवसति: पिनाकी यत्र यायात्तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः॥' ) धग्रहणाद्वाक्यार्थशून्यवृत्ताभ्यासो यथा-'आनन्दसंदोहपदारविन्दकुन्देन्दुकन्दोदित विन्दुवृन्दम् । इन्दिन्दिरान्दोलितमन्दमन्दनिष्पन्दनन्दन्मकरन्दवृन्दम् ॥' पुरातनवृत्ते पदपरावृत्त्याभ्यासो यथा-वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥' 'वाण्यर्थाविव संपृक्तौ वाण्यर्थप्रतिपत्तये । जगतो जनकौ वन्ते शर्वाणीशशिशेखरौ ॥' एवं महाकाव्यार्थचर्वणपरकृतकाव्यपाठाद्याः शिक्षा अप्यूह्य किं च-'स्वास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता । स्मृतिदायमनि:
Page #24
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
وم
. सतोऽपि सामान्यस्यानिबन्धो यथा--मालत्या वसन्ते, पुष्पफलस्य चन्दनद्रुमेषु, । फलस्याशोकेषु । द्रव्यस्य यथा—कृष्णपक्षे सत्या अपि ज्योत्सायाः, शुक्लपक्षे त्वन्धकारस्य । गुणस्य यथा-कुन्दकुडमलानां कामिदन्तानां च रक्तत्वस्य, कमलमुकुलप्रभृतेश्च हरितत्वस्य, प्रियङ्गुपुष्पाणां तु पीतत्वस्य । क्रियाया यथा-दिवा नीलोत्पलानां विकासस्य, निशा- .. · निमित्तस्य शेफालिकाकुसुमानां विस्रंसस्य च ॥
असतोऽपि सामान्यस्य निबन्धो यथा-नदीषु पद्मनीलोत्पलानाम्, ज
मातरोऽष्टौ कवित्वस्य ॥' इति । मालत्या वसन्त इति । 'अनिवन्धः' इति पूर्वस्मात्प्रत्येकमभिसंवध्यते । मालत्या वसन्तेऽनिवन्धो यथा---'मालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम् । आश्चर्य जातिहीनस्य कथं सुमनसः प्रियः(याः) ।' पुष्पफलस्य
वन्दनद्रुमेष्वनिवन्धो यथा-'यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः। (निजवपुषैव परेषां तथापि संतापमपनयति ॥' फलस्याशोकेष्वनिवन्धो यथा-'दैवायत्ते हि फले किं क्रियतामेकमत्र तु वदामः । नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥' कृष्णपक्षे ज्योत्स्नाया अनिवन्धो यथा-'ददृशाते जनस्तत्र यात्रायां सकुतूहलैः । वलभद्रप्रलम्वनौ पक्षाविव सितासितौ ॥' शुक्लपक्षेऽन्धकारस्यानिवन्धो यथा-'मासि मासि समा ज्योत्स्ना पक्षयोः कृष्णशुकयोः । तत्रैकः शुक्लतां यातो यशः पुण्यैरवाप्यते ॥' कुन्दकुमलानां का मिदन्तानां च रक्तत्वस्यानिवन्धो यथा-'द्योतितान्तःप्रभैः कुन्दकुड्मलाग्रदतः स्मितैः । स्लपितेवाभवत्तस्य शुद्धवर्णा सरखती ॥' कमलमुकुलानां हरितत्वस्यानिवन्धो यथा-'उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मनां लावणसैन्धवेत(म्भ)सि महीमुद्यच्छतो हेलया। तत्कालाकुलदेवदानवनुतैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः ॥' प्रियङ्गुपुष्पाणां पीतत्वस्यानिवन्धो यथा--'प्रियङ्गुश्याममम्भोधि(?)रन्ध्रीणां स्तनमण्डलम् । अलंकर्तुमिव खच्छाः स्तुते मौक्तिकसंपदः ॥' दिवा नीलोत्पलानां विकासस्यानिवन्धो यथा-'आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे । जातः पुनर्विकसनावसरोऽयमस्येत्युक्त्वा सखी कुवलयं श्रवणे चकार ॥' निशानिमित्तस्य शेफालिकाकुसुमानां विख्रसस्यानिवन्धो यथा-'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दु:खं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥' नदीवित्यादि । 'निवन्धः' इति प्रत्येकमभिसंवध्यते । तत्र नदीपु पद्मनिवन्धो यथा-'दीर्घाकुर्वन्वहु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूल: सिप्रावातः- प्रियतम इव प्रार्थना..
Page #25
--------------------------------------------------------------------------
________________
काव्यमाला।
लाशयमात्रेऽपि हंसादीनाम्, यत्र तत्र पर्वते सुवर्णरत्नादीनामिति । द्रव्यस्य यथा-तमसि मुष्टिग्राह्यत्वस्य, सूचीभेद्यत्वस्य च । ज्योत्स्नायां च कुम्भोपवाह्यत्वादेः । गुणस्य यथा-यशोहासादौ शौक्लयस्य, अयशःपापादौ काष्र्ण्यस्य, क्रोधानुरागयो रक्तत्वस्य । क्रियाया यथा-चकोरेषु चन्द्रिकापानस्य, चक्रवाकमिथुनेषु निशि भिन्नतटाश्रयणस्य ॥
चाटुकारः ॥' नीलोत्पलानि यथा-'गगनगमनलीलालम्भितान्वेदविन्दून्मृदुभिरनिलचारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यद्दिनपतिसुतयेव व्यक्तदन्ताकपालीम् ॥' एवं कुमुदाद्यपि । जलाशयमात्रे हंसादयो यथा-'आ. सीदस्ति भविष्यतीह च जनो धन्यो धनी धार्मिको यः श्रीकेशववत्करिष्यति पुन श्रीमत्कुडङ्गेश्वरम् । हेलान्दोलितहंससारसकुलङ्कारसंमूर्छितैरित्याघोषयतीव तनवनदी यच्चेष्टितं वीचिभिः ॥' यत्र तत्र पर्वते सुवर्णं यथा-'नागावासश्चित्रपोताभिरामः स्वर्णस्फातिव्याप्तदिक्कक्ष(क्चक्र)वाल: । साम्यात्सख्यं जग्मिवानम्वुराशेरेष ख्यातस्तेन जीमूतभर्ता ॥' रत्नानि यथा-'नीलाश्मरश्मिपटलानि महेभमुक्त सूत्कारशीकर विसृज्ञि(ञ्जि)तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्यः । तमसो मुष्टिग्राह्यत्वं यथा-'तनुलग्ना इव ककुभः क्षमावलयं चरणचारमात्रमिव । दिवमिव वालकदन्नी मुष्टिग्राह्यं तमः कुरुते ॥' सूचीभेद्यत्वं यथा-'पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भये । मथि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥' ज्योत्स्नायाः कुम्भोपवाह्यत्वादि यथा-'शङ्खद्रावितकेतकोदरदलस्रोतःश्रियं विभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्रागभूत् । उत्सेव्या(क्या) कलशीभिरञ्जलिपुटैग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥' यशसः शौक्लयं यथा-क्षेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिमध्ये क्षीराब्धिमन्नाः स्फुटमथ च वयं कोऽयमीहकप्रकारः । इत्यं दिग्भित्तिरोधःक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्तें मृगाक्ष्यः ॥' हासस्य यथा-'अट्टहासच्छलेनास्याः पश्य फेनौघपाण्डुराः । जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः ।।' अयशसः काय॒ यथा-'प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसंचलिताः प्रतिदिशमिव मालतीमालाः ॥' पापस्य यथा--'उत्खातनिर्मलकृपाणमयूखलेखाश्यामायिता तनुरभूद्दशकंधरस्य । सद्यःप्रकोपकृतकेशववंशनाशसंकल्पसंजनितपापमलीमसेव ॥' क्रोधस्य रक्तत्वं यथा-'आस्थानकुहिमतलप्रतिविम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण । भौमेन मूर्छितरसातलकुक्षिभाजा भूमिश्चचाल चलनोदरवर्तिनेव ॥' अनुरागस्य यथा-'गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥' चकोरेषु चन्द्रिका
Page #26
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
जातेनियमो यथा-समुद्रेवेव मकराः, ताम्रपर्ष्यामेव मौक्तिकानि । द्रव्यस्य यथा--मलय एव चन्दनस्थानम्, हिमवानेव भू|त्पत्तिपदम् । गुणस्य यथा—सामान्योपादाने रत्नानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथा--ग्रीष्मादौ संभवदपि कोकिलरुतं वसन्त एव, मयूराणां वर्षाखेव विरुतं नृत्यं चेति ॥
अथ वा नियमः समयः कवीनां यथा--कृष्णनीलयोः कृष्णहरितयोः
पानं यथा-'एतास्तो(स्ता) मलयोपकण्ठसरितामेणाक्षि रोधोभुवश्चापाभ्यासनिकेतनं भगवतः प्रायो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥' चक्रवाकमिथुनस्य निशि भिनतबाश्रयणं यथा-'संक्षिपता यावमतीस्तटिनीनां तनयतापयःपूरान् । र(ल)घु चरणायवयसा(सां) किं नोपकृतं निदाघेन ।' समुद्रेष्वेव मकरा यथा-'गोत्रापहारं() न
तो गृहत्वं खनाममुद्राङ्कितमम्बुराशिम् । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकयस्य वन्द्यः ॥' ताम्रपामेव मौक्तिकानि यथा-'कामं भवन्तु सरितो भुवि सुप्रतेष्टाः खादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय वरवर्णिनि ताम्रपर्णी जान्य(न्या)त्र संभवति मौक्तिककामधेनुः ।।' मलय एव चन्दनस्थानं यथा-'तापापनारचतुरो नागावास: सुरप्रियः । नान्यत्र मलयादद्रेदृश्यते चन्दनद्रुमः ।।' हिमवानेव भूजोत्पत्तिपदं यथा--'न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरविन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम् ॥' माणिक्यानां च शोणतैव यथा-'सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरवनराजिषु संभृतानि । रत्नानि ते दधति कच्चिदिहायताक्षि मेघौघरोदितविनाधिपविम्बशङ्काम् ॥' पुष्पाणां शुक्लतैव यथा--'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं प्रस्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥' मेघानां कृष्णतैव यथा-'मेघश्यामेन रामेण पूतवेदिविमानराट् । मध्ये महेन्द्रनीलेन रत्नराशिरिवावभौ ॥' कोकिलरुतं वसन्त एव । यथा-'वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥' मयूरनृत्यगीते वर्षास्खेव यथा--'मण्डलीकृत्य वर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ।' कृष्णनीलयोरैक्यं यथा-'नदी तूर्णं कर्णोऽप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटवला बद्धवानीरहारा । तटे सह्य स्योच्चैः खसलिलनिवहो भाति नील: स यस्या प्रियस्यांसे पीने लुलित इव धन: केशपाशः सुकेश्याः ॥' कृष्णहरितयोरक्यं यथा-'मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् । तदुभयमुदकं
१. रत्नानां' मूलपाठ: समीचीनः, 'सामान्योपादाने' इत्युपक्रमात्.
Page #27
--------------------------------------------------------------------------
________________
काव्यमाला ।
कृष्णश्यामयोः पीतरक्तयोः शुक्लगौरयोः, चन्द्रे शशमृगयोः, कामकेतने मकरमत्स्ययोः, अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोः, द्वादशानामप्यादित्यानाम् , नारायणदामोदरविष्णुमाधवकूर्मादेः, कमलासंपदोः, नागसर्पयोः, क्षीरक्षार
चदिशासु मुञ्चति मिलमायाभिषिक्तमौक्तिकशिल वा एतत्सुन्दा
पुनातु वो हरिहरयोरिव संगतं वपुः ॥' कृष्णश्यामयोरैक्यं यथा-'एतत्सुन्दरि नन्दनं शशिमणि स्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति । यत्र श्यामनिशासु मुञ्चति मिलन्मन्दप्रदोषानिलामुद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम् ॥' पीतरक्तयोरैक्यं यथा-'लेख्यया विमलविद्रुमभासा संततं तिमिरमिन्दुरुदासे । दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः ॥' शुक्लगौरयोरैक्यं यथा—'कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि दर्श किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥' एवं वर्णान्तरेष्वपि । चन्द्रे शशमृग योरैक्यं यथा-'मा भैः शशाङ्क मम सीधुनि शास्ति राहुः खे रोहिणी वसति कात्य किं बिभेषि । प्रायो विदग्धवनिता नवसंगमेषु पुंसां मनः प्रचलयन्ति किमत्र कित्रम् ॥' यथा च–'अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः । केसरी निष्ठुरक्षिप्तम्या गपुङ्गो(यूथो) मृगाधिपः ॥' कामकेतने मकरमत्स्ययोरैक्यं यथा-'चापं पुष्पमा गृहाण मकरः केतुः समुत्थीयतां चैते लक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन ते । दग्धा कापि तवाकृतेः प्रतिकृतिः कामोऽसि किं गृहसे रूपं दर्शय ना. शंकरभयं सर्वे वयं वैष्णवाः ॥' यथा च-'मा(मी)नध्वत(ज)स्त्वमसि नो(?) नव(ह.. पुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि । इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं प्रलापः ॥' यथा च–'आपातमारतविलोडितसिन्धुनाथो हाकारभीतपरिवर्तितमत्स्यचिह्नम् । उल्लङ्घय यादवमहोदधिभीमवेलं द्रोणाचलं पवनसूनुरिवोद्धरामि ॥' अत्रिनेत्रसमुद्रोत्पन्नयोश्चन्द्रयोरैक्यं यथा-'वन्द्या विश्वसृजो युगादिगुरवः खायंभुवाः सप्त ये तत्रात्रिर्दिवि संदधे नयनजं ज्योतिः स चन्द्रोऽभवत् । एका यस्य शिखण्डमण्डनमणिर्देवस्य शंभोः कला शेषाभ्योऽमृतमाप्नुवन्ति च सदा खाहाखधाजीविनः ॥' यथा च–'यदिन्दोरन्वेति व्यसनमुदयं वारिधिरपामुपाधिस्तत्रायं जयति जनिकर्तुः प्रकृतिता। अयं कः संवन्धो यदनुहरते तस्य कुमुदं विशुद्धाः शुद्धानां ध्रुवमनभिसंधिप्रणयिनः ॥' द्वादशानामप्यादित्यानामैक्यं यथा-'यस्याधोऽधस्तथोपर्युपरि निरवधि भ्राम्यते विश्वमश्वरावृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः । सोऽव्यादुत्तप्तकातखरसरलशरस्पर्धिभिर्धामदण्डैरुद्दण्डैः प्रापयन्वः प्रचुरतरतमःस्तोममस्तं समस्तम् ॥' नारायणादेरैक्यं कमलासंपदोश्च यथा--'येन ध्वस्तमनोभवेन वलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधेऽन्धकक्षयकरो यो वर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सोऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥' यथा च-'दोर्मन्दीरितमन्दरेण जलधेरुत्था
Page #28
--------------------------------------------------------------------------
________________
काव्यानुशासनम् । समुद्रयोः, सागरसमुद्रयोः, दैत्यदानवासुराणां चैक्यम् । तथा चक्षुरादेरनेकवर्णोपवर्णनम्, बहुकालजन्मनोऽपि शिवचन्द्रमसो बालत्वम् , कामस्य मूर्तत्वममूर्तत्वं चेत्यादि ।
पिता या खयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयन् । तां लक्ष्मी पुरुषोत्तमः पुनरसौ लीलाश्चितभ्रलतानिर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥' नागसर्पयोरैक्यं यथा-'हे नागराज बहुमस्य नितम्वभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः । सोढा विषह्य वृषवाहनयोगलीला पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥' क्षीरक्षारसमुद्रयोरैक्यं यथा-'शेतां हरिभवतु रत्नमनन्तमन्तर्लक्ष्मीप्रसूतिरिति नो विवदामहेऽहो । हादूरदूरसपया(?)स्तृषितस्य जन्तोः किं त्वस्ति सिक्तपयसः स मरोर्जघन्यः ॥' सागरमहासमुद्रयोरैक्यं यथा-'रङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमि. वापगाः । स ददर्श पुरो गङ्गां सप्तसागरवल्लभाम् ॥' दैत्यदानवासुराणामिति । हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिवाणादयो दैत्याः, विप्रचित्तिशंवरनमुचिपुलोमप्रभृतयो दानवाः, वलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः, तेषामैक्यं यथा-'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदक्ष्यम्वकपादपांसवः ॥' यथा च-तं शंभुरासुरसुराशनिशल्यसारकेयूररत्नकिरणारुणवाहुदण्डम् । पीतांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत्कः ॥' यथा च'आसीदैत्यो ह्यग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं वाह्वोः सितच्छवस्मिताः श्रियः ॥' यथा च हयग्रीवं प्रति-'दानवाधिपते भूयो भुजोऽयं किं न नीयते । सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥' यथा च-'महासुरसमाजेऽस्मिन्न च कोऽप्यस्ति सोऽसुरः । यस्य नाशनिनिष्पेषनीराजितमुरःस्थलम् ॥ एवमन्येऽपि भेदा अभ्यूह्याः ॥ चक्षुरादेरनेकवर्णोपवर्णनमिति । चक्षुषः शुक्लता यथा--'तिष्ठन्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तद्वारं मयि निःसहालसतनौ वीजामृदु प्रेक्षति । हीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमाः शशिखण्डपाण्डिममुखे(खा) मुक्ताः कटाक्षच्छटाः ॥' श्यामता यथा-'अथ पथि गमयित्वा रम्यकृप्तोपकार्ये कतिचिदवनिपालः शर्वरी(?)शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरुद्गतानाम् ॥' कृष्णता यथा-'पादन्यासक्कणितरशनासूतलीलावधूत रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वन्नो नखपदसुखान्प्राप्य वर्षाग्रविन्दूनामोक्षत्तैत्वयैव(?) मधुकरश्रेणिदीर्घान्कटाक्षान् ॥' मिश्रवर्णना यथा-तामुत्तीर्थ ब्रजपरिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णसारप्रभाणाम् । कुन्दे क्षेपानुगमधुकरश्रीमुखामात्मविम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥' शिवचन्द्रमसो वालत्वं यथा--'मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुमं भवस्य । दाक्षायणीदर्पणविभ्रमश्रि बाले
Page #29
--------------------------------------------------------------------------
________________
काव्यमाला।
काव्यस्य हेतुमुक्त्वा खरूपमाहअदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । चकारो निरलंकारयोरपि शब्दार्थयोः क्वचित्काव्यत्वख्यापनार्थः । यथा'शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
___ लजानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥' गुणदोषयोः सामान्येन लक्षणमाह--- रसस्योत्कर्षापकर्षहेतू गुणदोषौ भत्त्या शब्दार्थयोः ।
रसो वक्ष्यमाणस्वरूपस्तस्योत्कर्षहेतवो गुणाः, अपकर्षहेतवस्तु दोषाः । । ते च रसस्यैव धर्माः उपचारेण तु तदुपकारिणोः शब्दार्थयोरुच्यन्ते । रसाश्रयत्वं च गुणदोषयोरन्वयव्यतिरेकानुविधानात् । तथा हि यत्रैव दोपास्तत्रैव गुणाः, रसविशेषे च दोषा न तु शब्दार्थयोः । यदि हि तयोः स्युस्तर्हि बीभत्सादौ कष्टत्वादयो गुणा न भवेयुर्हास्यादौ चाश्लीलत्वादयः । अनित्याश्चैते दोषाः । यतो यस्याङ्गिनस्ते दोषास्तदभावे न दोषास्तद्भावे तु दोषा इत्यन्वयव्यतिरेकाभ्यां गुणदोषयो रस एवाश्रयः ॥
न्दुखण्डं भवतः पुनातु ॥' कामस्य मूर्तत्वं यथा---'अयं स भुवनत्रयप्रथितसंयमः शंकरो विभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहास: स्मरः ॥' अमूर्तत्वं यथा-'धनु- . मौला मौवीं क्वणदलिकुलं लक्ष्यमबलामनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । इयजेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः ॥' निरलंकारयोरपीति । अनेन काव्ये गुणानामवश्यंभावमाह-तथा हि अनलंकृतमपि गुणबहवः(बहुलं) खदते । यथोदाहरिष्यमाणं 'शून्यं वासगृहम्-' इत्यादि । अलंकृतमपि निर्गुणं न स्वदते । यथा—'स्तनकर्परपृष्ठस्था वार्जिनी छदमण्डकाः । वियोगाम्यूष्मणा पक्काः कन्दुकिन्येव ते स्त्रिया ॥' इति । उपचारेणेति । यथा 'आकार एवास्य शूरः' इति शौर्यमुपचा[रादाका]राद्यभिव्यञ्जके शरीरे
Page #30
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
१७
अलंकाराणां सामान्यलक्षणमाहअङ्गाश्रिता अलंकाराः ।
रसस्याङ्गिनो यदङ्गं शब्दार्थौ तदाश्रिता अलंकाराः । तेषां च रसस्य सतः क्वचिदुपकारिणः क्वचिदनुपकारिणः । रसाभावे तु वाच्यवाचकवैचित्र्यमात्रपर्यवसिता भवन्ति ॥
तत्र रसोपकारप्रकारानाह—
तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहेऽप्यङ्गत्वे रसोपकारिणः ।
अलंकारा इति वर्तते । तत्परत्वं रसोपकारकत्वेनालंकारस्य प्रवेशः, न बाधकत्वेन, नापि ताटस्थ्येन ॥
व्यवहियते । तथा शब्दार्थयोर्माधुर्यादय इत्यर्थः ॥ अङ्गाश्रिता इति । ये त्वङ्गिनि • रसे भवन्ति ते गुणाः । एष एव गुणालंकारविवेकः ॥ एतावता -- 'शौर्यादिसदृशा गुणाः, केयूरादितुल्या अलंकाराः' इति विवेकमुक्त्वा 'संयोगसमवायाभ्यां शौर्यादीना - मस्ति भेदः । इह तूभयेषां समवायेन स्थितिरित्यभिधाय ' तस्माद्गडरिका प्रवाहेण गुणालंकारभेदः' इति भामह विवरणे यद्भोद्भटोऽभ्यधात्, तन्निरस्तम् । तथा हि । कवितारः संदर्भेष्वलंकारान्व्यस्यन्ति न्यस्यन्ति च न गुणान् । न चालंकृतीनामपोद्धाराहाराभ्यां वाक्यं दुष्यति पुष्यति वा । तत्र शब्दालंकारापोद्धरणं यथा—'अलंकृतजटाचक्रं चारुचन्द्रमरीचिभिः । मृडानीदत्तदेहार्धं नमामः परमे - श्वरम् ॥' यथा च - 'अलंकृतजटाचकं तरुणेन्दुमरीचिभिः' इति । अर्थालंकारापोद्धरणं यथा—‘श्यामां स्मितासितसरोजदृशं करायैरिन्दौ विभूषयति वालमृणालकल्पैः । आरेभिरे रचयितुं प्रतिकर्म नार्यः कार्याणि नायतदृशोऽवसरे त्यजन्ति ॥' यथा च'श्यामां स्मितासितसरोजदृशं करायैरिन्दौ विभूषयति केलिचकोरलेयैः' इति । अर्थालंकाराहरणं यथा— नीलाश्मरश्मीति । यथा च - 'नीलाश्मरश्मिपटलानि महेभमुक्त फूत्कारसीकरविसृञ्जि मृगाक्षिसानौ' इति । गुणानामपोद्धाराहारौ तु न संभवत इति । तथा 'काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशय हेतवस्त्वलंकारा:' इति वामनेन यो विवेकः ः कृतः सोऽपि व्यभिचारी । तथा हि - ' गतोऽस्तमर्को भातीन्दुर्यान्ति वासाय पक्षिणः' इत्यादौ प्रसादश्लेषसमतामाधुर्य सौकुमार्यार्थव्यक्तीनां गुणानां सद्भावेऽपि काव्यव्यवहाराप्रवृत्तेः । 'अपि काचिच्छूता वार्ता तस्यन्निद्यविधायिनः । इतीव प्रष्टुमायाते तस्याः कर्णान्तमीक्षणे ॥' इत्युत्प्रेक्षालंकारमात्रादविवक्षित त्रिचतुरगुणात्काव्यव्यवहारदर्शनात् । तस्माद्यथोक्त एव गुणालंकारविवेकः श्रेयानिति । गुणाश्च त्रय
३
ܐ
Page #31
--------------------------------------------------------------------------
________________
काव्यमाला।
यथा
'चलापाझा दृष्टिं स्पृशसि बहुशो वेपथुमती
__रहस्याख्यायीव खनसि मृदु कर्णान्तिकगतः । . करौ व्याधुन्वत्याः पिबसि रतिसर्वखमधरं
__ वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥' अत्र भ्रमरखभावोक्तिरलंकारो रसपरत्वेनोपनिबद्धो रसोपकारी ॥ बाधकत्वेन यथा'स्रस्तः स्रग्दामशोभां त्यजति विरचितामाकुलः केशपाशः
क्षीबाया नूपुरौ च द्विगुणतरमिमौ क्रन्दतः पादलग्नौ । व्यस्तः कम्पानुबन्धादनवरतमुरो हन्ति हारोऽयमस्याः
क्रीडन्त्याः पीडयेव स्तनभरविनमन्मध्यभङ्गानपेक्षम् ॥' . अत्र पीडयेवेत्युत्प्रेक्षालंकारोऽङ्गी संस्तदनुग्राहकश्चार्थश्लेषः करुणोचितान् विभावानुभावान् संपादयन् बाधकत्वेन भातीति न प्रकृतरसोपकारी ॥ ताटस्थ्येन यथा
'लीलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव ॥
एवेति गुणवर्णनाध्याये विवेचयिष्यते ॥ चलापाङ्गामिति । शकुन्तलावलोकने जनिताभिलाषस्य दुष्यन्तस्योक्तिरियम् । किमियमस्मजातीया न वा, खतन्त्रा परतन्त्रा वा, इति तत्त्वान्वेषणपरवशा वयमसंप्राप्तैतत्समागमाः प्रतिहताभिलाषाः संप्रति मधुकर त्वमेव पूर्वोपार्जितपुण्यसंभारो यदस्यां वल्लभवृत्तान्तमाचरसि । तथा हि । चलौ विलासवशात्तरलावपाङ्गौ पर्यन्तरूपौ यस्यास्तां दृष्टिं त्वत्स्पर्शनसंत्रासविधुरितनिजस्थितिमनवरतं कम्पवतीं तया मुग्धतया शोभातिशयशालिनी प्रवातकम्पितनीलोत्पलधिया स्पृशतीत्यस्माकमभिलाषतः परिचुम्बनप्रवृत्तानां तरलनयनप्रान्तपरिचुम्बनसमयनयनस्पर्शविधानमुचितमत्रभवतानुष्ठितमिति । कथमिव न सुकृती भवान् । तथा लोचनकुवलयस्पर्शपराङ्मुखः स्वजातिसमुचितकमलकोशनिलयनाभ्यासवशवर्णकुहरानुप्रवेशाभिलाषेण तन्निकटवर्ती मृदुप्रियकारि मधुरं स्वनसि शिञ्जितमातनोषि तत्किलास्माकं नयनप्रान्तचुम्बनाभिमुखीकृतकान्ताकर्णोपान्तनिविशिताननानां तदवसरो
Page #32
--------------------------------------------------------------------------
________________
काव्यानुशासनम् । पुलहकलिखितसागरिकाप्रतिबिम्बदर्शनाभिजाताभिलाषस्य वत्सराजस्येयमुक्तिस्तटस्थस्येव कविनोपरचितेति श्लेषानुगृहीतोपमालंकारप्राधान्येन प्रस्तुतो रसो गुणीकृतोऽपरिजिघटिषया ॥ अङ्गत्वेऽपि कालेऽवसरे ग्रहणं यथा'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजम्भां क्षणा___ दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः । अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोऽपि विपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥' अत्रोपमा तदनुग्राहकश्च श्लेष ईाविप्रलम्भस्य भाविनश्चर्वणाभिमुख्यं कुर्वन्नवसरे रसस्य प्रमुखीभावदशायामुपनिबद्ध उपकारी ।। न त्वेवम् । यथा'वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं
ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्हिभिः । . तेऽपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकै
दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥'
चिताभिमताभिप्रायनिवेदनपरतया रहोवृत्तान्ताख्यानमुचितमनुष्ठितं भवतेति भवानेव सुकृती । तथा नयनस्पर्शकर्णोपान्तखननव्यामृतोऽशङ्कितोपलब्धसुगन्धिमुखनिःश्वासामोदाकृष्टस्तदधरपल्लवनिवेशासक्तमतिर्दशनभयाद्विधूनितपाणिपल्लवायास्तद्वश्चनापूर्वकमधरोपविष्टो रतिविषये सुरतोपभोगस्याधररसाखादसारतया सर्वखमधररसपानमनुभवसीयस्मत्कृत्यसंपादनात्त्वमेव सुकृती । किल. रहोवृत्तान्ताख्यानेनाङ्गीकारितसुरतरसायाः प्रथममधररसामृतपानमस्माभिर्विधेयमिति ॥ उद्दामोत्कलिकामिति । वासवदत्तापरिगृहीता नवमालिकालता संप्रति न प्रफुल्ला माधवी लता तु मत्परिगृहीता प्रफुल्लेति तद्दर्शनाद्वेषवशेन विपाटलद्युति मुखमहं देव्याः करिष्यामीति वत्सराजोक्तिरियम् । उद्दामा बह्वय उद्गताः कलिका यस्याः । उत्कलिकाश्च रुहरुहिकाः । क्षणात्तस्मि. नेवावसरे प्रारब्धा लम्भाविकासो यया क्षमा मन्मथकृतोऽवमर्दः । श्वसनोद्गमैर्वसन्त
१. 'संभोगशृङ्गाररूपः' इत्यर्थः. २. 'ईर्ष्याविप्रलम्भरूपस्य' इत्यर्थः. ३. 'प्रारम्भ इत्यर्थः. ४. 'नीतं क्षयमिति प्रत्यन्तरे' इत्यर्थः.
१:-२. 'जृम्भा' स्यात्.
Page #33
--------------------------------------------------------------------------
________________
२०
काव्यमाला |
अत्र वाताहारत्वं पश्चाद्वाच्यमप्यादावुक्तमित्यतिशयोक्तिरनवसरे गृहीता । तथा हि प्रथमत एव प्रथमपादे हेतूत्प्रेक्षया यदतिशयोक्तेरुपादानं न तत्प्रकृतस्य दम्भप्रकर्षप्रभावतिरस्कृतगुणगणानुशोचनमयस्य निर्वे - दस्याङ्गतामेति । नं हि वाताहारत्वादधिको दम्भस्तोयकणत्रतं नापि ततोऽधिकं दम्भनत्वं मृगाजिनवसनमिति ॥ गृहीतस्याप्यवसरे त्यागो यथा - ‘रक्तस्त्वं नवपल्लवैरहमपि लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' अत्र प्रबन्धप्रवृत्तोऽपि श्लेषो व्यतिरेकविवक्षया त्यज्यमानोऽपि विप्रलम्भोपकारी ॥
न त्वेवम् । यथा—
'आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्दुहिणान्वये च तदहो नेदृग्वरो लभ्यते
स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥ ' अत्र न रावण इत्यस्मादेव त्यागो युक्तः । तथा हि रावण इत्येतज्जगंदाक्रन्दकारित्वाद्यर्थान्तरं प्रतिपादयञ्जनकस्य धर्मवीरं प्रत्यनुभावतां प्रतिपाद्यते । ऐश्वर्यं पाण्डित्यं परमेशभक्तिर्देशविशेषोऽभिजन इत्येतत्सर्वं लोकमपबाधमानस्याधर्मपरस्य नार्थक्रियाकारकमिति तावतोऽर्थस्य तिरस्कारकत्वेनैव रावणचेष्टितं निर्वाहणीयम् । यत्त्वन्यदुपात्तं क्व नु पुनरिति
1
मारुतोला सैरात्मनो "लक्षणस्यायासमायासनमन्दोलना यत्र तमातन्वतीं निःश्वासपरम्पराभिश्चात्मन आयासं हृदयस्थितं संतापमातन्वतीं प्रकटीकुर्वाणाम् । सह मदनाख्येन वृक्षविशेषेण मदनेन कामेन च । ध्रुवशब्दश्व भावीयवकाशदानजीवि - तमिति ॥ रक्तस्त्वमिति । सीतावियोगोपनतविसंस्थूलावस्थस्य दाशरथेरियमुक्तिः । रक्तो लोहितः अहमपि रक्तः प्रबुद्धानुरागः । तत्र च प्रबोधको विभावः पल्लवराग
Page #34
--------------------------------------------------------------------------
________________
काव्यानुशासनम् । . २१ तद्यदि ससंदेहत्वेन योज्यतेऽथाक्षेपत्वेनाथापि नेदृग्वरो लभ्यते इत्यर्थान्तरन्यासत्वेन तथापि प्रकृतस्य धर्मवीरस्य न कथंचिन्निर्वाहः । नात्यन्तं निर्वाहो यथा'कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं
नीत्वा वासनिकेतनं दयितया सायं सखीनां पुरः । भूयो नैवमिति स्खलत्कलगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निहुतिपरः प्रेयान्रुदत्या हसन् ॥' अत्र रूपकमारब्धमनियूदं च रसोपकाराय । न त्वेवं यथा
'खञ्चितपक्षमकपाटं नयनद्वारं खरूपताडेन ।
उद्घाट्य मे प्रविष्टा देहगृहं सा हृदयचौरी ॥' अत्र नयनद्वारमित्येतावदेव सुन्दरं शृङ्गारानुगुणं न त्वन्यद्रूपणम् । निर्वाहेऽप्यङ्गत्वं यथा-- 'श्यामाखङ्गं चकितहरिणीप्रेक्षिते दृष्टिपाता
न्गण्डच्छायां शशिनि शिखिना बहेभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा
न्हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥'
इति मन्तव्यम् । एवं प्रतिपादमाद्योऽर्थों विभावत्वेन व्याख्येयः ॥ सखीनां पुर इति । भवत्योऽनवरतं ब्रुवते नायमेवं करोति तत्पश्यन्त्विदानी मिति भावः । स्खलन्ती कोपावेशेन कला च मधुरा गीर्यस्याः । कासौ गीरित्याह-भूयो नैवमित्येवंरूपा । एवमिति यदुक्तं तत्किमित्याह--दुश्चेष्टितं नखपदादि । संमु(सू)च्य अ. गुल्या निर्देशेन । हन्यत एवेति । न तु सख्यादिकृतोऽनुनयोऽनुरुध्यते । यतोऽसौ हननं निमित्तीकृत्य निगुतिपरः प्रियतमश्च तदीयं व्यलीकं का सोढुं समर्थेति ॥ अनियंढं चेति । वाहुवलतिकायाः पाशत्वेन यदि रूपणं निर्वाहयेद्दयिता व्याधवधूसिगृहं कारागारपञ्जरादीति । तदा रसभङ्गः स्यादिति ॥ श्यामास्विति । सुगन्धिप्रियङ्गुलतासु पाणिम्ना(?)तनिम्ना कण्ट कितत्वेन च योगात् । शशिनीति । पाण्डुरत्वात् । उत्पश्यामीति । यत्नेनोत्प्रेक्षे । जीवितसंधारणायेत्यर्थः । हन्तेति । कष्टमेकस्थसादृश्याभावे हि दोलायमानोऽहं सर्वत्र स्थितो न कुत्रचिदेकत्र धृतिं लभे इति भावः । भीर्विति । यो हि कातरहृदयो भवति, नासौ सर्वमेकस्थं धारयती
Page #35
--------------------------------------------------------------------------
________________
२२
काव्यमाला |
अत्र छुत्प्रेक्षायास्तद्भावाध्यारोपरूपाया अनुप्राणकं सादृश्यं यथोपक्रान्तं तथा निर्वाहितमपि विप्रलम्भरसोपकाराय |
न त्वेवं यथा
'न्यञ्चत्कुञ्चितमुत्सुकं हसितवत्साकूत माकेकरं
व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उ भ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥' अत्र रावणस्य दृग्विशतौ वैचित्र्येण स्वभावोक्तिर्निर्वाहितापि रसस्याङ्गत्वेन न योजितेति ॥
शब्दार्थयोः खरूपमाहमुख्यगौणलक्ष्यव्यङ्गयार्थभेदान्मुख्यगौण लक्षकव्यञ्जकाः शब्दाः। मुख्यार्थविषयो मुख्यो गौणार्थविषयो गौणो लक्ष्यार्थविषयो लक्षको व्यङ्ग्यार्थविषयो व्यञ्जकः शब्दः, विषयभेदाच्छब्दस्य भेदो न खाभाविक इत्यर्थः ॥
मुख्यमर्थं लक्षयतिसाक्षात्संकेतविषयो मुख्यः ।
अव्यवधानेन यत्र संकेतः क्रियते स मुखमिव हस्ताद्यवयवेभ्योऽर्थान्तरेभ्यः प्रथमं प्रतीयते इति मुख्यः, स च जातिगुणक्रियाद्रव्यरूपस्तद्वि
त्यर्थः ॥ न योजितेति । रसवशादेकैकमन्य क्रियमिति ह्येतावन्मात्रेऽप्युक्ते तद्रसगतव्यभिचारिभेदोपनिपाताय यौगपद्याशुभावित्वसंभावनाय च । किंचिद्विभाववैचित्र्यं वक्तव्यं यथा--‘सभायां तादृश्यां नरपतिशतैरक्ष कितवैः समभ्याकीर्णायामृजतु परितामेकवसना । यदक्राक्षीद्दुःशासननरपशुः केशनिचयान्न कस्यासीत्तेन भ्रुकुटिविषमो बाष्पविसरः ॥' अत्र हि भ्रुकुटिः क्रोधस्यानुभावो वाष्पश्च शोकस्य शोकक्रोधयोश्च यौगपद्यमाशु भावो वा विभाववलाद्दर्शितम् । सा हि तादृशी शोकस्य विभावो दुःखानश्च तथानुचितकारी क्रोधस्य तच्च विभावद्वयं झटिति पुरः पतितमनुभाववैचित्र्यमाधत्ते इति युक्तं विरुद्धस्सदीप्ततममसृणतमचित्तं वृत्त्युचितानुभावयोजनम् । 'न्यक्षकुञ्चितम् -' इत्यादौ तु तत्प्रकृतानुगुण्यप्रतिजागरणं कविना सावलेपतया न कृत
Page #36
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
२३
---
षयः शब्दो मुख्यो वाचक इति चोच्यते । यथा - गौः, शुक्लः, चलति, देवदत्तः, इति । यदाह महाभाष्यकार : - ' चतुष्टयी शब्दानां प्रवृत्तिः' इति । जात्यादिखरूपं च प्रकृतानुपयोगान्नेह विपञ्च्यते । जातिरेव संकेत - · विषय इत्येके । तद्वानित्यपरे । अपोह इत्यन्ये ॥
मिति । चतुष्टयीति । जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्च । तथा हि । सर्वेषां शब्दानां स्वार्थाभिधानाय प्रवर्तमानानामुपाध्युपदर्शित विषयविवे[च]कत्वादुपाधिनिबन्धना प्रवृत्तिः । उपाधिश्व द्विविधः । वस्तुकृतसंनिवेशितो वस्तुधर्मश्च । तत्र यो वक्ता ( फा ) यदृच्छया तत्तत्संज्ञिविषयशक्तिव्यक्तिद्वारेण तस्मिंस्तस्मिन् संज्ञिनि निवेश्यते स वस्तुकृतसंनिवेशितः । यथा डित्थादीनां शब्दानामन्त्यबुद्धि निर्ग्राह्यं संहृतक्रमं खरूपम् । तत्खलु तां तामभिधाशक्तिमभिव्यञ्जयता वा यदृच्छया तस्मिं - स्तस्मिन् संज्ञिन्युपाधितया संनिवेश्यते अतस्तन्निबन्धनाद्यदृच्छाशब्दा डित्थादय: ॥ येषामपि च [ ए ] डकारादिवर्णव्यतिरिक्तसंहृतक्रमस्वरूपाभावान्न डित्यादिशब्दस्वरूपं संहतक्रमसंज्ञिष्वध्यस्यत इति तेषामपि वक्तृयदृच्छाभिव्यज्यमानशक्तिभेदानुसारेण काल्पनिकसमुदायरूपस्य डित्थादेः शब्दस्य तत्संज्ञाभिधानाय प्रवर्तनत्वात् यदृच्छाशब्दत्वं डित्थादीनामुपपद्यत एव ॥ वस्तुधर्मस्य च द्वैविध्यम् । सिद्धसाध्यताभेदात् । तत्र साध्योपाधिनिबन्धनाः क्रियाशब्दाः । यथा - पचतीति । सिद्धस्य तूपाधेद्वैविध्यम् । जातिगुणभेदात् । तत्र पदार्थ प्राणप्रद उपाधिर्जातिः । न हि कश्चित्पदार्थो जातिसंबन्धमन्तरेण स्वरूपं प्रतिलभते । यदुक्तं वाक्यपदीये - 'गौः खरूपेण न गौर्नाप्यगौगत्वाभिसंबन्धात्तु गौः ' इति ॥ लब्धस्वरूपस्य च वस्तुनो विशेषाधान हेतुर्गुणः । न हि शुक्लादेर्गुणस्य पटादि वस्तुस्वरूपप्रतिलम्भनिबन्धनत्वम् । जातिमहिम्नैव तस्य वस्तुनः प्रतिलब्धस्वरूपत्वात् ॥ जातिरेवेति । तथा हि-- गुणशब्दानां तावच्छुक्लादीनां पयः शङ्खबलाकाद्याश्रयसमवेता ये शुक्लादिलक्षणा गुणास्तत्सम वेतसामान्यर्वाचिनः । एवं क्रियाशब्दानामपि गुडतिलतन्दुलादिद्रव्याश्रिता ये पाकादयोऽन्योन्यमन्यत्वेनावस्थिताः क्रियाविशेषास्तत्समवेतं सामान्यमेव वाच्यम् । यदृच्छाशब्दानां तु डित्थादीनां शुकसारिकामनुष्याद्युदीरितेषु डित्थादिशब्देषु समवेतं डित्थत्वादिकं सामान्यमेव यथायोगं संज्ञिष्वध्यस्तमभिधेयम् । यदि वोपचयापचययोगितया डित्थादौ संज्ञिनि प्रतिकलं भिद्यमानेऽप्यभिद्यमानो यन्महिम्ना डित्थो डित्य इत्येवमादिरूपत्वेनाभिन्नाकारः प्रत्ययो बाधशून्यः संजायते तत्तथाभूतं डित्यादिशब्दावयवस्तुसमवेतमेव डित्थत्वादिसाम्यमत्रेष्टव्यम् । तच डित्थादिशब्दैरभिधीयते । इति गुणक्रियायदृच्छाशब्दानामपि जातिशब्दत्वाज्जातिरेवैकः शब्दार्थ इति । तद्वानिति । जातेरर्थक्रियायामनुपयोगाद्विफल : संकेत: । यदाह - जातिर्दाहपाकादाबु
--
१. 'चल:' इति स्यात्.
१. ' वाचिता' इति भवेत्.
Page #37
--------------------------------------------------------------------------
________________
२४
काव्यमाला।
गौणं लक्षयतिमुख्यार्थवाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः।
गौर्वाहीको गौरेवायमित्यादौ मुख्यस्यार्थस्य सास्नादिमत्त्वादेः प्रत्यक्षादिना प्रमाणेन बाधे निमित्ते च सादृश्यसंबन्धादौ प्रयोजने ताद्रूप्यप्रतिपत्तिरूपे सत्यारोप्यारोपविषययोर्भेदेनाभेदेन च समारोपितोऽतथाभूतोऽपि तथात्वेनाध्यवसितो गुणेभ्य आयातत्वाद्गौणः तद्विषयः शब्दोऽपि गौणः, उपचरित इति चोच्यते । तत्र सादृश्ये निमित्ते भेदेनारोपितो यथा'गौर्वाहीकः' । इदं वक्ष्यमाणरूपकालंकारस्य बीजम् । अभेदेन यथा'गौरेवायम्' इति । इदमतिशयोक्तिप्रथमभेदस्य ॥ ___ अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने निमित्तत्वमुपयान्तीति केचित् ॥ | स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते, न तु परार्थोऽभिधीयते इत्यन्ये ॥
साधारणगुणाश्रयेण परार्थ एव लक्ष्यते इत्यपरे ॥ । संबन्धे कार्यकारणभावे आयुर्घतम् , आयुरेवेदम् । अत्रान्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम् । तादयें-इन्द्रार्था स्थूणा इन्द्रः । स्वखामिभावे-राजकीयः पुरुषो राजा ग्रामस्खामी ग्रामः । अवयवावयविभावे--अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः । मानमेयभावे-आढको व्रीहिः । संयोगे--रक्तद्रव्यसंयोगाद्रक्तः पटः । तात्क\---अतक्षा तक्षा । वैपरीत्ये-अभद्रमुखे भद्रमुखः ॥
लक्ष्यमर्थ लक्षयति
मुख्यार्थसंबद्धस्तत्वेन लक्ष्यमाणो लक्ष्यः । पयुज्यत इति । व्यक्तेश्वार्थक्रियाकारित्वेऽप्यानन्त्यव्यभिचाराभ्यां न संकेतः कर्तुं शक्यत इति जात्युपहिता व्यक्तिः शब्दार्थ इति । जातिव्यक्तितद्योगजातिमद्बद्धयाकारणाशब्दार्थत्वस्यानुपपद्यमानत्वाद्गवादिशब्दानामगोव्यावृत्त्यादिरूपस्तद्विशिष्टं वा बुद्धिप्रतिबिम्बकं सर्वथा वाह्यार्थस्पर्शशून्यमन्योपोहशब्दवाच्यं शब्दार्थ इति ॥ मुख्या इति । इदमेव हि शब्दानां मुख्यानां मुख्यत्वं यत्साक्षात्संकेतविषयत्वम् । संकेते च रूढिरेव कारणम् । १. वीजम्' इति शेषः.
Page #38
--------------------------------------------------------------------------
________________
काव्यानुशासनम् । .. मुख्यार्थों गङ्गादिशब्दानां स्रोतःप्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्त्वेनाभेदेन लक्ष्यमाणो लक्ष्यः । तत्त्वेन लक्ष्यमाण इति वचनाद्भेदाभेदाभ्यामारोपित इति न वर्तते, शेषं तु गौणलक्षणमनुवर्तत एव । तद्विषयः शब्दो लक्षकः । यथा---'गङ्गायां घोषः, कुन्ताः प्रविशन्ति' । अत्र गङ्गाया घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य वा संभवान्मुख्यार्थबाधः, सामीप्यं साहचर्य च निमित्तम् , गङ्गातट इति कुन्तवन्त इति च प्रयोगाद्येषां न तथा प्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथा प्रतिपादनं प्रयोजनम् ।
गौरनुबन्ध्य इति तु नोदाहरणीयम् । अत्र हि श्रुतिनोदितमनुबन्धनं जातौ न संभवतीति जात्यविनाभावित्वाध्यक्तिराक्षिप्यते, न तु शब्देनोच्यते।
विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिविशेषणे ।' इति न्यायात् । न चात्र प्रयोजनमस्ति । अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिष्यते तदा क्रियतामित्यत्र कर्तुः, कुरु इत्यत्र कर्मणः, प्रविश पिण्डीम् इत्यादौ गृहं भक्षयेत्यादेश्च लक्ष्यत्वं स्यात्। 'पीनो देवदत्तो दिवा 'न मुझे इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यते, अपि तु अर्थापत्त्या
आक्षिप्यते इति ॥ इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स गौणोऽर्थः, यत्र न तथा स लक्ष्य इति विवेकः । कुशलद्विरेफद्विकादयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति न रूढिर्लक्ष्यस्यार्थस्य हेतुत्वेनास्माभिरुक्ता ॥
व्यङ्गयं लक्षयतिमुख्याध्यतिरिक्तः प्रतीयमानो व्यङ्गन्यो ध्वनिः ।
ततो यदि रूढिमपेक्ष्य लक्षणा प्रवर्तेत तदातिप्रसङ्गः स्यादिति ॥ अस्माभिरिति । न तु भट्टमुकुलादिभिः । तैर्हि रूढिमपि प्रयोजनतया उपन्यस्य लक्षणतया प्रवर्तिता।
१. 'अनुसरणीयो हन्तव्यो वा' टिप्पणी. २. 'अत्र परै रूढिसक्ता सानेन प्रकारेण गता' टिप्पणी.
Page #39
--------------------------------------------------------------------------
________________
काव्यमाला ।
.. मुख्यगौणलक्ष्यार्थव्यतिरिक्तः प्रतीतिविषयो व्यङ्गयोऽर्थः । स च ध्वन्यते द्योत्यते इति ध्वनिरिति पूर्वाचार्यैः संज्ञितः । अयं च वस्त्वलंकाररसादिभेदात्रिधा । तथा ह्याद्यस्तावत्प्रभेदो मुख्यादिभ्योऽत्यन्तं भिन्नः ।।
स हि वाच्ये विधिरूपे प्रतिषेधरूपो यथा___ 'भम धम्मिअ वीसत्थो सो सुणओ अज मारिओ तेण ।
गोलाणइकत्थकुडङ्गवासिणा दरिअसीहेण ॥' अत्र विस्रब्धो भ्रमेति विधिवाक्ये तत्र निकुञ्ज सिंहस्तिष्ठति त्वं च शुनोऽपि बिभेषि तस्मात्त्वयास्मिन्न गन्तव्यमिति निषेधः प्रतीयते ॥
यदाहुः- रूढः प्रयोजनाद्वापि व्यवहारेऽवलोक्यते' इति ॥ मुख्यगौणलक्ष्या. र्थव्यतिरिक्त इति । अयं भावः-यद्यतो व्यतिरेकेणावभासते तत्ततोऽन्यदिति व्यवहर्तव्यम् । नीलमिव पीताद्वाच्यादिव्यतिरिक्तश्च व्यङ्गयोऽर्थोऽवभासत इति ॥ प्रतीतिविषय इति । अनेन खसंवेदनसिद्धतामाह । तथा च श्रीमदानन्दवर्धनः'प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्य मिवाङ्गनासु ॥' वस्त्वलंकारेति । इह लौकिकालौकिकभेदेनार्थों द्विधा । लौकिकश्च शब्दाभिधाने योग्योऽविचित्रविचित्रात्मतया द्विधा । तत्राविचित्रो वस्तुमात्रम् , विचित्रस्त्वलंकारात्मा। यद्यपि चव्यक्षतायां(?) प्राधान्ये च विचित्रस्यालंकार्यत्वम् , तथापि ब्राह्मणश्रमणन्यायेन तस्यालंकारव्यपदेशः अनयोश्च वस्त्वलंकारयोर्व्यङ्गयतायां यद्यपि न वाच्यत्वम्, तथापि तयोर्विध्यादिरूपत्वात् क्वचन तत्संभवतीति लौकिकत्वम् । अलौकिकस्तु स्वप्नेऽपि वाच्यत्वस्पर्शाक्षमो रसादिरिति ॥ भम धम्मिएति । काचिदविनयवधूर्गोदावरीकूललतागहने प्रच्छन्नकामुकेन सह नादेयपानीयानयनादिव्याजेन गृहान्निर्गत्य सदा रममाणा धार्मिकं पुष्पोच्चयनलताविलोपनादिना विघ्नभूतं संभावयन्ती विदग्धापि मुग्धेव वक्ति । यस्तवास्मद्गृहं प्रविशतो भयमकरोच्च श्वा निर्विचारः । अस्मद्भाग्योदयेन तेन लोकप्रसिद्धन वृत्तेन कृपापात्रमपि श्वानमपश्यता सिंहेनाप्रतिका. रयोग्येन मारित उन्मथितः । न तु बुद्धिपूर्वकं हतः । चिन्त्येकवसतेरनौचित्यायोगात् । न चात्र सिंहस्ते भयकारणम् । यतो गोदावर्या नद्यां न तु सरखत्यादिवत्तद्युक्ते देशे १. 'आदिशब्दाद्भावतदाभासा इत्यादयो गृह्यन्ते' टिप्पणी..
'भ्रम धार्मिक विस्रब्धः स शुनकोऽद्य मारितस्तेन ।
गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥' [गाथा० २१७५] १. 'दृप्तेन' भवेत.
Page #40
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
यत्कूलं तत्र । न तु ततो दूरे लतागहने दर्शनागोचरे स्थाने वसति सततकृतास्पदस्तेन निर्भयमिदानीं भिक्षाद्यर्थ. [स] चरेति । एवमादौ च विषये यद्यपि रसादिरर्थो व्यङ्गयोऽस्ति तथापि महाराजंशब्दव्यपदेश्य विवाह करण प्रवृत्त सचिवानुयायिराजवदप्रधानमेव गृह्णाति । लतागहनस्थयैवेदमभिधीयते इति व्याख्याने लाक्षणिकोऽयमर्थो भवेत्ततः प्रयोजनांशे व्यङ्गये निषेधो व्यङ्गय इति न संबध्यमागच्छते । इह वासिनेति चाभिधेयः स्यात् । न चात्र निषेधस्य वाच्यत्वं वक्तुं शक्यम् । तथाहि । अगृहीत संकेतस्यार्थप्रतिपत्तेरकरणाद्गृहीतसंकेत एवशब्दोऽर्थप्रतिपादकः । संकेतश्चानन्त्याद्यभिचाराच्च वाक्यार्थ इव वाक्यस्य विशेषरूपे पदार्थे पदस्य कर्तुं न पार्यत इति सामान्य एवासौ आकाङ्क्षायोग्यतासंनिधिवशात्पदार्थानां सामान्यभूतानां समन्वय इति । 'सामान्यान्यन्यथासिद्धेर्विशेषं गमयन्ति हि ' इति । विशेषरूप : - ' विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे' इत्य पदार्थोऽपि वाक्यार्थ उल्लसति । विशेषस्यैव यत्राशब्दार्थत्वं तत्र वस्त्वन्तररूपस्य निषेधस्य वाच्यत्वमिति का कथेत्यभिहितान्वयवादे तावनिर्विवादैव निषेधस्य व्यङ्गयता । येऽप्याहुः – 'अनन्वितार्थ पदमप्रयोज्यम्' इति 'प्रयोगयोग्यं वाक्यमेव तत्र च संकेतो गृह्यत इत्यपरपदार्थान्वित एव पदार्थः संकेतभूः ॥ यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्ते इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः, तथापि सामान्याव - च्छादितो विशेषरूप एवासौ प्रतिपद्यते । व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्य'न्विताभिधाननये 'वाक्यार्थो न पदार्थ:' इति तन्मतेऽपि सामान्यविशेषरूपः पदार्थः संकेत विषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोऽसंकेतितत्वादवाच्य एव । यत्र पदार्थः प्रतिपद्यते तत्र दूरेऽर्थान्तरभूत निषेधचर्चा । अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्तु अन्विताभिधाने अन्वितविशेषस्त्ववाच्य एवेत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः ॥ यदप्युच्यते- 'नैमित्तिकार्थानुसारेण निमित्तानि कल्प्यन्ते' इति । तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा । शब्दस्य प्रकाशकत्वान्न कारकत्वं ज्ञापकत्वं त्वज्ञातस्य कथम् । ज्ञातत्वं च संकेतेनैव, स चान्वितमात्रे । एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न 'निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथमिति नैमित्तिकार्थानुसारेण निमित्तानि कल्प्य - ते इत्यविचारिताभिधानम् ॥ ये त्वभिदधति - 'सोऽयमिषोरिव दीर्घदीर्घो व्यापारः ' इति यत्परः शब्दः स शब्दार्थ इति च प्रतिषेधाय वाच्य इति । एतदतात्पर्यज्ञत्वं तात्पर्यवाचोयुक्तेर्देवानां प्रियाणाम् । तथा हि । भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति कारकपदार्थाः क्रियापदार्थेनान्वीयमानाः प्रधानक्रियानिर्वर्तकख क्रियाभिसंवन्धात्साध्यायमानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते । यथा ‘रक्तं पटं वयः' इत्यादावेकविधिर्द्विविधिस्त्रिविधिर्वा । ततश्च यदेव विधेयं तत्रैव - तात्पर्यमित्युपात्तस्यैव शब्दस्यार्थे तात्पर्यम् । न तु प्रतीतमात्रे । एवं हि 'पूर्वी धावति।"
१. 'दीर्घदीर्घतरो' काव्यप्रकाशे.
,
२७
Page #41
--------------------------------------------------------------------------
________________
२८
काव्यमाला। . इत्यादावपरार्थेऽपि क्वचित्तात्पर्य स्यात् ॥ यत्तु-'विषं भुव मा चास्य गृहे भुक्थाः' इत्यत्र एतद्गृहे न भोक्तव्यमित्यत्र तात्पर्यमिति स एव वाक्यार्थ इत्युच्यते । तत्र चकार एकवाक्यतासूचनार्थः । न चाख्यातवाक्ययोर्द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य कृद्वाच्यत्वेनाङ्गता कल्पनीयेति विषभक्षणादपि दुष्टमेतद्गहे भोजनमिति सर्वथा मास्य गृहे भुक्थाः इत्युपात्तशब्दार्थ एव तात्पर्यम् ॥ यदि च शब्दश्रुतेरनन्तरं यावानर्थोऽवगम्यते तावति शब्दस्याभिधैव व्यापारः, तत्कथं 'ब्राह्मण पुत्रस्ते जातो ब्राह्मण कन्या ते गर्भिणी' इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् । कस्माच्च लक्षणा। किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थान[स]माख्यानां पूर्वपूर्ववलीयस्त्वमित्यन्विताभिधानवादेऽपि निषेधस्य सिद्धं व्यङ्गयत्वम् ॥ किं च कुरुरुचिमिति पदयोवैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् । न त्यत्रासभ्योऽर्थः पदार्थान्तरैरन्वित इत्यनभिधेय एवेत्येवमादि अपरित्याज्यं स्यात् ॥ यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं साधुत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात् । न चानुपपन्नं सर्वस्यैव विभक्त तया प्रतिभासात् । वाच्यवाचकभावव्यतिरेकेण, व्यङ्गयव्यञ्जकताश्रयेण तु व्यङ्ग्यस्य बहुविधत्वात्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था । 'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।' इत्यादौ पिनाक्यादिपदवलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् ॥ अपि च वाच्यार्थः सर्वान् प्रतिपत्तृन् प्रत्येकरूप एवेति नियतोऽसौ न हि 'गतोऽस्तमर्कः' इत्यादौ वाच्योऽर्थः क्वचिदन्यथा भवति । प्रतीयमानस्तु तत्तप्रकरणवक्तप्रतिपत्रादिविशेषसहायतया नानात्वं भजते । तथा च 'गतोऽस्तमकः' इत्यतः 'सपत्नं प्रत्यवस्कन्दनावसरः' इति, अभिसरणमुपक्रम्यतामिति, प्राप्तस्ते प्रेयानिति, कर्मकरणानिवर्तामहे इति, सांध्यो विधिरुपक्रम्यतामिति, दूरं मागा इति, सुरभयो गृहं प्रवेश्यन्ताम् इति, संतापोऽधुना न भवतीति, विक्रेयवस्तूनि संहियन्तामिति, नागतोऽय प्रेयानित्यादिरनवधिर्व्यङ्गयोऽर्थस्तत्र तत्र प्रतिभाति । वाच्यव्यङ्गययोः 'निःशेष-' इत्यादौ निषेधविध्यात्मना, ‘मात्सर्यमुत्सार्य विचार्य कार्यम्' इत्यादौ संशये शान्तशृङ्गार्यन्यतरगतनिश्चयरूपेण, 'कथमवनिप दो । यनिशातासिधारादलनगलितमूनी विद्विषां खीकृता श्रीः । ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥' इत्यादौ निन्दास्तुतिवपुषा, 'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥' इत्यादौ स्तुतिनिन्दारूपेण, स्वरूपस्यापूर्वपश्चाद्भावेन प्रतीते: । कालस्य शब्दाश्रयत्वेन · तदर्थकसद्धटनाश्रयत्वेन . 'चाश्रयस्य शब्दार्थशासनज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य · बोद्धृमात्र विदग्धव्यपदेशयोः प्रतीतमात्रचमत्कृत्योश्च • ‘करणकार्यस्य ।
१. 'विधेरपि' काव्यप्रकाशे. २. 'कष्टत्वादीना' काव्यप्रकाशे.
Page #42
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
'गतोऽस्तमर्क:' इत्यादौ प्रदर्शितनयेन संख्यायाः 'कस्स व -' इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत्वचिदपि नीला नीलादौ भेदो न स्यात् । उक्तं हि — 'अयमेव भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः करणभेदश्चेति वाचकाना - मर्थापेक्षा, व्यञ्जकानां तु न तदपेक्ष्यत्वमपीति न वाचकत्वमेव व्यञ्जकत्वम् । किं च । 'वाणीरकुडंग-' इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं खरूप एव यत्र विश्राम्यति तत्र मध्यमकाव्यप्रभेदे तात्पर्यभूतोऽप्यर्थः स्वशब्देनाभिधेयः । प्रतीति प्रथमवतरन्कस्य व्यापारस्य विषयतामवलम्बताम् ॥ ननु 'रामोऽस्मि सर्व सहे' इति 'रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्' इति । 'रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्' इत्यादौ लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्चेति कोऽयं नूतनः प्रतीयमानो नाम । उच्यते-- लक्षणीयस्यार्थस्य नानात्वेऽप्यनेकार्थशब्दाभिधेयवन्नियतत्वमेव न खलु मुख्येनार्थेनानियतसंवन्धो लक्षयितुं शक्यते, व्यङ्गयस्तु प्रकरणादिविशेषवलेन नियतसंबन्धोऽनियतसंबन्धः संबन्धसंबन्धश्च द्योत्यते । न च 'भम धम्मिय' इत्यादौ अर्थशक्तिमूले व्यङ्गये मुख्यार्थबाधस्तत्कथमत्र लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यम् । यथा च समयसव्यपेक्षाभिधा । तथा मुख्यार्थवाधादित्रय समय सव्यपेक्षा लक्षणा । अत एव अभिधापुच्छभूता सा इत्याहुः । न च लक्षणात्मकमेव ध्वननं तदनुगमेन त्स्य दर्शनात् । न च तदनुगतमेव । अभिधालम्बनेनापि तस्य भावात् । न चोभयानुसार्येव, अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शब्दानुसार्येव अशब्दात्मक नेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य सिद्धेः । इत्यभिघातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती अञ्जनव्यापारोऽवपह्नवीय एवेति सिद्धमेव निषेधस्य व्यङ्ग्यत्वम् । तत्र 'अत्ता एत्थ - ' इत्यादौ नियतसंबद्धः । ' कस्स व ण होइ रोसो - ' इत्यादावनियत संबद्धः । 'विवेरीयरए लच्छी बम्भं दहूँणं णाहिकमलत्थम् । हरिणो दाहिणणयणं रसाउला झत्ति ढक्केइ ||' इत्यादी संबद्धसंबन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मता व्यज्यते । तन्निमीलनेन सूर्यस्यास्तमयस्तेन पद्मस्य संकोचः ततो ब्रह्मणः स्थगनं तत्र सति गोप्याङ्गस्यादर्शनेऽनियन्त्रणं निधुवनविलसितम् । येऽप्याहु: - ' अखण्डवुद्धिनिर्माह्यं वा क्यमेव च वाचकम् । वाक्यार्थ एव वार्थ:-' इति, तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति । तत्पक्षेऽप्यवश्यमेव निषेधस्य व्यङ्ग्यत्वम् । अन्ये तु —वाच्या दसंबद्धं तावन्न प्रतीयते । यतः कुतश्चिद्यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् । एवं च संबन्धाद्यङ्गयंव्यञ्जकभावोऽवश्यमप्रतिबन्धे न भवतीति त्रिरूपाद्धेतोरेव नियतधर्मिनिष्ठत्वेन प्रतीतिः । तथा च भीरुभ्रम [ण]स्य कारणं भयकारणाभावस्तद्विरुद्धं च भयकारणम् सिंहस्तदुपलब्धेर्लतागहनेऽभ्रमणमनुमीयत इति विध्यादावपि वाच्ये सिंह
१.
'विपरीतर ते लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम् |
हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥' [इति च्छाया ]
२९
C
Page #43
--------------------------------------------------------------------------
________________
काव्यमाला।
क्वचिनिषेधे विधिर्यथा- . 'अत्ता इत्थ नु मज्जइ एत्थ अहं दिअसयं पलोएइ।।
मा पहिय रत्तिअन्धय सिज्जाए महं नु मजिहिसि ॥' अत्रावयोः शय्यायां मा निषत्स्यतीति निषेधवाक्ये-इयं श्वश्रूशय्या इयं मच्छय्येति दिवाप्युपलक्ष्य रात्रौ त्वयेहागन्तव्यमिति विधिः प्रतीयते ॥ क्वचिद्विधौ विध्यन्तरं यथा'बहलतमा हअराई अज्ज पउत्थो पई घरं सुण्णम् ।
तह जैग्गिज्जु सयज्जिय न जहा अम्हे मुसिज्जामो ॥' अत्र यथा वयं न मुण्यामहे तथा त्वं जागृहीति विध्यभिधाने रात्रिरत्यन्धकारा, पतिः प्रोषितः, गृहं शून्यम् , अतस्त्वमभयो मत्पार्श्वमागच्छेति विध्यन्तरं प्रतीयते ॥ क्वचिन्निषेधे निषेधान्तरं यथा'आसाइयं अणाएण जेत्तीयं तत्तिएण बंधदिहिं । उरमसुवसहइन्हि रक्खिज्जइ गहवईछित्तम् ।।
सद्भावादि निषेधादेरनुमापकम् । न तु व्यञ्जकमपि इति [2] वदन्ति । तेऽपि न युक्तवादिनः । तथा हि । अप्रमाणभूतवाक्यप्रत्येयः सिंह इति संदिग्धासिद्धो हेतुः । खाम्यादेशेनानुरागेण लोभेनान्येन वा केनचिदेवंविधेन हेतुना भीरोरपि भयकारणसद्भावेऽपि भवति भ्रमणमित्यनैकान्तिकः । शुनः कृपापात्रत्वादप्रतीकार्यत्वेन बिभेति। सिंहे तेजखिनि तु पराक्रम इति विरुद्धश्च । तत्कथमनुमानम् । एवंविधादर्थादेवंविधोऽर्थ उपपत्त्यनपेक्ष्यत्वेन प्रकाशत इति ॥ व्यक्तिवादिनस्तु तददूषणम् ॥अत्तेति । श्वश्रूरसहिष्णुन तु माता। तेन(१) गुप्तमभिलाषः पोषणीयः। न च सर्वदा भयदेत्याह--- अत्रेति । दूरे । सा च शेते, न जागर्ति । अत्र त्वन्मार्गनिकटे अहमुपभोगयोग्या । १. 'श्वश्रूरत्र नु मज्जति अत्राहं दिवसकं प्रलोकय ।
मा पथिक रात्र्यन्धक शय्यायामावयोर्नु मजिष्यसि ॥' [गाथा० ७१६७] बहलतमा हतरात्रिरद्य प्रोषितः पतिर्गृहं शून्यम् ।
तथा जागृहि प्रतिवेशिन्न यथा वयं मुष्यामहे ॥' [गाथा० ४।३५] ३. 'जग्गेसु सअजिअण' इति गाथासप्तशत्यां (४।३५) पाठः. ४. .........................................।
.. . गृहपतिक्षेत्रम् ॥' [इति च्छाया]
२. बहा
...
...
....
Page #44
--------------------------------------------------------------------------
________________
३१
काव्यानुशासनम् । अत्र गृहपतिक्षेत्रे दुष्टवृषवारणापरे निषेधवाक्ये उपपतिवारणं निषेधान्तरं प्रतीयते ॥ क्वचिदविधिनिषेधे विधिर्यथा'महुएहिं किं च पन्थिय जइ. हरसि नियंसणं नियम्बाओ ।
साहेमिकस्स रले गामो दूरे अहं एका ॥ इति । अत्र विधिनिषेधयोरनभिधाने अहमेकाकिनी ग्रामो दूरे इति विविक्तोपदेशान्नितम्बवासोऽपि मे हरेति विधिः प्रतीयते ॥ क्वचिदविधिनिषेधे निषेधो यथा
'जीविताशा बलवती धनाशा दुर्बला मम । .. गच्छ वा तिष्ठ वा पान्थ स्वावस्था तु निवेदिता ॥
अत्र गच्छ वा तिष्ठ वेति अविधिनिषेधे 'जीविताशा बलवती धनाशा दुर्बला मम' इति वचनात् त्वया विनाहं जीवितुं न शक्नोमीत्युपक्षेपेण गमननिषेधः प्रतीयते ॥ क्वचिद्विधिनिषेधयोर्विध्यन्तरं यथा--
'निअदइअदंसणुखित्त पहिय अन्नेण वच्चसु पहेण । . .. गहवइधूया दुल्लङ्घवाउरा इह हयग्गामे ॥
अत्रान्येन पथा ब्रजेति विधिनिषेधयोरभिधाने हे स्वकान्ताभिरूपता
सांप्रत विघ्नकारीति कुत्सितं दिवसम् , तस्मात्संप्रति विलोकय । एहि परस्परावलोकनसुखमनुभवावः । पथिकेति । चेतितेऽपि(?) तव न दोषावहमिति न भेतव्यम् । रा- . त्रावधिकमदनोद्रेकादध शय्याविभागानभिज्ञ शय्यायां मा शथिष्ठाः, अपि तु मयि । मा आवयोः, अपि तु मस्येव । मा शयिष्ठाः, अपितु प्रहरचतुष्टयमपि निधुवनेन क्रीडा। महं इति निपातोऽत्रानेकार्थवृत्तिः । न तु ममेति । एवं हि विशेषवचनमेवाशङ्काकारि भवेदिति प्रच्छन्नाभ्युपगमो न स्यात् । विधिरिति । कांचित्पोषितपतिका तरुणीम१. ...............यदि हरसि........ नितम्बवासः ।
.............."ग्रामो दूरे अहमेकाकिनी ॥' [इति च्छाया]
'निजदयितादर्शन..... पथिकान्येन व्रज पथा। .. . गृहपतिसुंता दुर्लक्यवागुरेह हतग्रामे ॥' [इति च्छाया] १. 'मजिष्यस्यैव' स्यात् . . ... ... ... .
Page #45
--------------------------------------------------------------------------
________________
काव्यमाला।
विकत्थनपान्थाभिरूपक इह ग्रामे भवतो गृहपतिसुता द्रष्टव्यरूपेति वि. । ध्यन्तरं प्रतीयते ॥ क्वचिद्विधिनिषेधयोनिषेधान्तरं यथा'उचिणसु पडिय कुसुमं मा धुण सेहालियं हलियसुन्हे ।
एंस अवसाणविरसो ससुरेण सुओ वलयसदो ॥ अत्र पतितं कुसुममुच्चिनु मा धुनीहि शेफालिकामिति विधिनिषेधयोरभिधाने सखिचौर्यरते प्रसक्ते वलयशब्दो न कर्तव्य इति निषेधान्तरं. प्रतीयते ॥ क्वचिद्विधावनुभयं यथा'सिणियं वच्च किसोयरि पएण यत्तेण ठविसु महिवढे ।
भजिहि सिविच्छयच्छणि विहिणा दुरेकणनिम्मचिया ॥ अत्र शनैव्रजेति विध्यभिधाने न विधिर्नापि निषेधः, अपितु वर्णनामानं प्रतीयते ॥ कचिन्निषेधेऽनुभयं यथा'दे आ पसिय नियत्तसु मुहससिजोण्हाविलुत्ततमनिवहे । अहिसारियाण विग्धं करेसि अन्नाण वि हयासे ॥'
वलोक्य प्रवुद्धमदनाङ्कुरः संपन्नः पान्थोऽनेन निषेधद्वारेण तयाभ्युपगत इति निषे... धाभावो विधिर्न तु निमन्त्रणरूपोऽप्रवृत्तप्रवर्तनाखभावः । सौभाग्याभिमानखण्डनाप्रवेशात् ॥ दे आ इति । काचिदभिसर्तुं प्रसूता गृहागतं प्रियतममवलोक्य वयं निवृत्ताप्यनिवृत्तेव तेनैवमुच्यते । दे इति निपातः प्रार्थनायाम् । आ इति तावच्छ
.
१. 'उच्चिनु पतितानि कुसुमानि मा धुनीहि शेफालिका हालिकस्नुषे ।
एषोऽवसानविरसः श्वशुरेण श्रुतो वलयशब्दः ॥' [इति च्छाया] २. 'अह दे विसमविरावो' इति ध्वन्यालोके, ३. शनैर्ब्रज कृशोदरि परेण यत्नेन तिष्ठ महीपृष्ठे ।।
............ ॥ [इति च्छाया] ४. ... 'प्रार्थये तावत्प्रसीद निवर्तख मुखशशिज्योत्स्नाविलुप्ततमोनिवहे ।
अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥' [इति च्छाया]
Page #46
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
३३ ___अत्र निवर्तस्वेति निषेधाभिधाने न निषेधो नापि विधिरपि तु मुखेन्दु-.:. कान्तिवर्णनामात्रं प्रतीयते ॥
क्वचिद्विधिनिषेधयोरनुभयं यथा. 'वच्च महं विय एकाए हुंतु निस्सासरोइयव्वाई। __मा तुज्झ वि त्तिइ विणा दखिन्नहयस्स जायंतु ॥'
अत्र ममैव निःश्वासरोदितव्यानि भवन्तु मा तवापि तां विना तानि जायन्तामिति विधिनिषेधयोरभिधाने न विधिर्नापि निषेधोऽपि तु कृतव्यलोकप्रियतमोपालम्भमात्रं प्रतीयते ॥ क्वचिदविधिनिषेधेऽनुभयं यथा'णहमुहपसाहियंगो निदाघुम्मंतलोयणो न तहा।
जह निब्बणाहरोसा मलंग दूमेसि मह हिययम् ॥' • विगतमत्सराया मम न तथा नखपदादिचिहं भवदङ्गसङ्गिखेदावहं यथार्धनिष्पन्नसंभोगतयाधरदशनासंपत्तिरितीर्ध्याकोपगोपनमुपभोगोद्भेदेन कृतं वाच्योऽर्थः . । तबलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचु
व्दार्थे । प्रार्थये प्रसीद तावनिवर्तख किमेतत्कदाचिद्भवति यदहं नागच्छामि तस्माद्गृथायमुद्यमः । एतन जानासि यत्कृष्णपक्षे तदुचितवेषाप्यहं निजवक्रचन्द्रमसा शुक्लपक्ष करोमीति न केवलमात्मना विन्नं करोषि यावदन्यासामपि आस्ताम् । हंसीति । सकलदिक्प्रकाशस्त्वया क्रियत इति परमभिलाषस्तद्गतो व्यज्यते इति ॥ वच्चेति । कश्चिदनङ्गीकृतप्रार्थनो निःश्वसन सदनिव कयाचिदेवमुच्यते । व्रज इह हि ते कण्टकानामुपरि स्थितिः । ममैव न तु तव तस्या वा एकस्या नान्या हि मत्समा भवति । भवन्तुः दुःसहान्यपि सन्तु । निःश्वासरोदितव्यानि न तु सुखानि । मा तवापि दाक्षिण्यमात्रेणेह स्थितोऽसि ततस्त्वयि स्थितेऽपि मम न निवर्तन्ते निःश्वासादीनि तयोर्मा भूत् क्लेशः । तया विना न तु मत्कोपात् । दाक्षिण्येन हृदयशून्यरञ्जनामात्र.. १... 'व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि ।
मा तवापि तया विना दाक्षिण्यहतस्य जनिषत ॥' [इति च्छाया] .. २. 'नखमुखप्रसारिताङ्गो निद्रोन्मीलितलोचनो न तथा ।
यथा नि.......... . ....:"दूनयसि मम हृदयम् ॥' [इति च्छाया] .. १. 'त्मनो' स्यात्... २. 'मुहससीति' स्यात्..
Page #47
--------------------------------------------------------------------------
________________
काव्यमाला। म्बनपर एव तस्यास्त्वं यत्त्वदधरखण्डनावसरोऽस्या वराक्या न जात इति न केवलं तस्या भवानतिवल्लभो यावद्भवतोऽपि सा सुतरां रोचते इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो व्यङ्गयः ।। क्वचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथा-- . 'कस्स व न होइ रोसो दद्ध(ह)ण पियाइ सव्वणं अहरम् ।
सभमरपउमग्याइरि वारियवामे सहसु इन्हिम् ॥ अत्र वाच्यं सखीविषयम्, व्यङ्गयं तु तत्कान्तोपपत्त्यादिविषयम् ।। एवमलंकारभेदा रसादिभेदाश्च व्यङ्गया मुख्यादिभ्योऽतिरिक्ता ज्ञेयाः । तद्विषयो व्यञ्जकः शब्दः ॥
सुख्याद्यास्तच्छक्तयः। मुख्या गौणीलक्षणाव्यञ्जकत्वरूपाः शक्तयो व्यापाराः मुख्यादीनां शब्दानाम् । तत्र समयापेक्षवाच्यावगमनशक्तिर्मुख्याभिधा चोच्यते । मुख्यार्थबाधादिसहकार्यपेक्षार्थप्रतिभासनशक्तिौणी लक्षणा च । तच्छत्त्युपजनितार्थावगमपवित्रितप्रतिपत्तप्रतिभासहायार्थद्योतनशक्तिर्व्यञ्जकत्वम् ।।
करणेन हतस्य निर्जीवीकृतस्याजनिषतेति । कस्स वेति । कस्य वानीर्ष्यालोरपि । न भवति रोषो दृष्ट्दैवाकृत्वापि कुतश्चिदेवापूर्वतया प्रियायाः सव्रणमधरं विलोक्य । सभ्रमरपद्माघ्राणशीले शीलं हि कथंचिदपि वारयितुं न शक्यम् । वारिते वारणायां हे वामे तदनङ्गीकारिणि सहस्वेदानीमुपालम्भपरम्परामित्यर्थः । एतत्कांचिदविनयरमणेन खण्डिताधरां विदितमिव प्रकाशयन्ती तत्प्रत्यायनाय सखी वक्ति । सहस्वेदानी मिति वाच्यमविनयवतीविषयं व्यङ्ग्यम् । भर्तृविषयं तु तस्य मुग्धत्वेऽपराधो नास्तीति । वैदग्ध्ये तु मयेत्थं संवृत्तमतः प्रियेयमिति कृत्वा सहस्वेति व्यङ्ग्यम् । तस्यां प्रियेण गाढमुपालभ्यमानायां तद्यलीकशङ्कितप्रातिवेश्मिकलोकविषयं चाविनयप्रच्छादनेन प्रत्यायनं व्यङ्ग्यम् । तत्सपत्न्यां च तदुपालम्भतदविनयप्रहृष्टायां सौभाग्यातिशयख्यापनं प्रियाया इति शब्दवलादिति सपत्नीविषयं व्यङ्ग्यम् । सपत्नीमध्ये इयती खली. १. 'कस्य वा न भवति रोषो दृष्टा प्रियायाः सव्रणमधरम् ।
सभ्रमरपद्माघ्राणशीले वारितवामे सहस्वेदानीम् ॥' [इति च्छाया] १. 'काचिदविनीता कुतश्चित्खण्डिताधरा तत्सविधसंविधाने भर्तरि तमनवलोकमानयेव कयाचिद्विदग्धासख्या तद्वाच्यतापरिहारायैवमुच्यते' इति ध्वन्यालोकलोचने.
Page #48
--------------------------------------------------------------------------
________________
काव्यानुशासनम् । अभिधानन्तरं च यद्यप्यन्वयप्रतिपत्तिनिमित्तं तात्पर्यशक्तिरप्यस्ति तद्विषयस्तात्पर्यलक्षणार्थोऽपि, तथापि तौ वाक्यविषयावेवेति नात्रोक्तौ ॥
वक्रादिवैशिष्टयादर्थस्यापि व्यञ्जकत्वम् । वक्तप्रतिपाद्यकाकुवाक्यवाच्यान्यासत्तिप्रस्तावदेशकालचेष्टादिविशेषवशादर्थस्यापि मुख्यामुख्यव्यङ्गयात्मनो व्यञ्जकत्वम् ॥ .. वक्तृविशेषाद्यथा' ' 'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गहे दास्यसि
प्रायो नास्य शिशोः पिताद्य विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्राः पुनरालखिन्तु जरठच्छेदा नलग्रन्थयः ॥' अत्र चौर्यरतगोपनं गम्यते। 'प्रतिपाद्यविशेषाद्यथा'निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा
वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥'
कृतास्मीति लाघवमात्मनि ग्रहीतुं न युक्तम् । प्रत्युतायं बहुमानो यतो रोषे कुपिता पादपतनादि लभख इति । सहख शोभस्वेदानीमिति सखीविषयं सौभाग्यख्यापनं व्यङ्गयम् । अद्येयं तव प्रच्छन्नानुरागिणी हृदयवल्लभा इत्थं रक्षिता । पुनः प्रकटदशनच्छददंशनविधिरत्र न युक्त इति तच्चौर्यकामुकविषयं संबोधनं व्यङ्गयम् । इत्थं मयैतदपद्भुतमिति खवैदग्ध्याख्यापनं तटस्थविदग्धलोकविषयं व्यङ्ग्यमिति ॥ ताविति । सा च स च तौ । अत्रेति । शक्तिमध्येऽर्थमध्ये च ॥ दृष्टिं हे प्रतिवेशिनीति । काचिद्युवतिः परपुरुषसंभोगानुभवेप्सया संकेतस्थानं व्रजन्ती खप्रवृत्तिप्रयोजनं विशिष्टसंकेतस्थानाधारं परपुरुषसंभोगात्मकं तथा संभोगचिह्नानि नखरदनक्षतानि गात्रसंलग्नतया शङ्कयमानाविर्भावानि यथाक्रमं भर्तृपिपासाक्षमनादेयसरसपानीयानयनेन चिरच्छिन्ननलग्रन्थिपुरुषजर्जरप्रान्तजनिध्यमाणेन च गात्रगतविकारविशेपोद्गमेनापहुत्याभिधत्ते । तस्याश्चासाध्वीत्वेऽवगते व्यङ्ग्यप्रतीतिरिति ॥ निःशेषेति । च्युतं चन्दनं न तु क्षालितम् । संमृष्टो न तु किंचिन्मृष्टः । दूरमनञ्जने निकटे तु साञ्जने ।
Page #49
--------------------------------------------------------------------------
________________
काव्यमाला। अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते ॥ काकुर्ध्वनिविकारस्तद्विशेषाद्यथा-- . 'तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां .
वने व्याधैः सार्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।' अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काका प्रकाश्यते ॥ वाक्यविशेषाद्यथा'प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या
निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात
स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः ॥ अत्र नारायणरूपता गम्यते ॥ वाच्यविशेषाद्यथा'उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी
कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः ।। किं चैतस्मिन्सुरतसुहृदस्तन्वि ते वान्ति वाता
येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥' अत्र स्तार्थं प्रविशेति व्यज्यते ॥ अन्यासत्तेर्यथा‘णोल्लेइ अणोल्लमणा अत्ता में घरभरम्मि सयलम्मि। . खणमित्तं जइ संझाइ होइ न व होइ वीसामो॥
पुलकिता तन्वीति चोभयं विधेयमिति ॥ नारायणरूपतेति । ससंदेहोत्प्रेक्षायाः संकरेणेत्यर्थः । न च संदेहोत्प्रेक्षानुपपत्तिबलाद्रूपकस्याक्षेपो येन वाच्यालंकारोपस्का
'नुदत्यनामनाः श्वश्रूमी गृहभरे सकले । क्षणमानं यदि संध्यायां भवति न वा भवति विश्रामः ॥' [इति च्छाया]
Page #50
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
अत्र संध्या-संकेतकाल इति तटस्थं प्रति कयापि द्योत्यते ॥ प्रस्तावाद्यथा'सुब्बइ समागमिस्सइ तुज्झ पिओ अज पहरमित्तेण ।
एमेय किंति चिट्ठसि ता सहि सज्जेसु करणिज्जम् ॥' अत्रोपपतिं प्रत्यभिसर्तुं न युक्तमिति ध्वन्यते ॥ देशविशेषाद्यथा'अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोऽञ्जलिर्वः ॥' अत्र 'विविक्तोऽयं देशः, प्रच्छन्नकामुकस्त्वया विसर्व्यः' इति विश्वस्तां प्रति कयाचिन्निवेद्यते । कालविशेषाद्यथा'गुरुयणपरवस प्पिय किं भणामि तुह मंदभाइणी अहयम् ।
अज्ज पवासं वच्चसि वच्च सयं जेव्व सुणसि करणिज्जम् ॥.. अद्य मधुसमये यदि व्रजसि तदहं तावन्न भवामि तव तु न जानामि गतिमिति व्यज्यते ॥ चेष्टाया यथा'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया
प्रोल्लास्योरुयुगं परस्परसमासक्तं समापादितम् । आनीतं पुरतः शिरॊशुकमधः क्षिप्ते चले लोचने वाचस्तञ्च निवारितं प्रसरणं संकोचिते दोलते ॥'
रकत्वं व्यङ्गस्य भवेत् । यो योऽसंप्राप्तलक्ष्मीको निर्व्याजजिगीषाक्रान्तः स स मां
१.
'श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि तत्सखि सजय करणीयम् ॥ इति च्छाया] 'गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिन्यहम् ।। अद्य प्रवासं व्रजसि व्रज खयमेव श्रोष्यसि करणीयम् ॥' [इति च्छाया]
१. 'यो यः संप्राप्त' ध्वन्यालोकलोचने.
Page #51
--------------------------------------------------------------------------
________________
३८
काव्यमाला ।
अत्र चेष्टायाः प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते ॥ एवं वक्रादीनां द्विकादियोगेऽपि व्यञ्जकत्वमवसेयम् । तत्रवक्तबोध्ययोगे यथा—'अत्ताइत्थ' इत्यादि । अत्र वक्तृबोध्यपर्यालोचनयाशेषेति विधिरूपव्ययार्थप्रतीतिः ॥
एवं द्विकयोगान्तरे त्रिकादियोगान्तरे च स्वयमप्यूह्यम् । एषु मुख्या - र्थस्य व्यञ्जकत्वमुदाहृतम् ॥
अमुख्यस्य यथा—
'साहेंती सहि सुहयं खणे खणे दूमियासि मज्झ कए । सज्झावनेहकरणिज्जसरसियं दाव विरइयं तुमए ॥'
अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्गयम् ॥
--.
व्यङ्गयस्य यथा
'वाणियय हत्थिदंता कुत्तो अम्हाण वग्धकित्तीओ ।
जावि लुलियालयमुही घरम्मि परिसुक्कए सुन्हा || '
अत्र विलुलितालकमुखीत्वेनानवर तक्रीडासक्तिस्तथा च सतत संभोग - क्षामता ध्वन्यते ॥
--
व्यङ्ग्यस्य भेदानाह—
व्यङ्ग्यः शब्दार्थशक्तिमूलः ।
शब्दशक्तिमूलोऽर्थशक्तिमूलश्चेति व्यङ्गयो द्विधा । उभयशक्तिमूलस्तु शब्दशक्तिमूलान्नातिरिच्यते, शब्दस्यैव प्राधान्येन व्यञ्जकत्वात् ॥
मनीयादित्याद्यर्थसंभावनात् । न च पुनरपीति पूर्वामिति भूय इति च शब्दैरयमाकृष्टोऽर्थः । पुनरर्थस्य भूयोऽर्थस्य च कर्तृभेदेऽपि समुदैक्यामात्रेणाप्युपपत्तेः । यथा पृथ्वी पूर्व कार्तवीर्येण जिता पुनर्जामदश्येनेति । पूर्वा च निद्रा राजपुत्राद्यवस्थायाम
१. 'साधयन्ति सखि सुभगं क्षणे क्षणे दूनासि मत्कृते ।
सद्भाव स्नेहकरणीयसदृशं तावद्विरचितं त्वया ॥' [इति च्छाया ] 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च । यावलुलितालकमुखी गृहे परिसर्पते स्नुषा ॥' [इति च्छाया ]
•
Page #52
--------------------------------------------------------------------------
________________
काव्यानुशासनम् |
तत्र शब्दशक्तिमूलमाह - नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थवाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः ।
अनेकार्थस्य मुख्यस्य शब्दस्याभिधालक्षणे व्यापारे संसर्गादिभिर्नियन्त्रितेऽमुख्यस्य च गौणलाक्षणिकरूपस्य शब्दस्य मुख्यार्थबाधनिमित्तप्रयोजनैर्गौणीलक्षणारूपे व्यापारे नियन्त्रिते मुख्यस्य शब्दस्य वस्त्वलंकारव्यञ्जकत्वेऽमुख्यस्य च वस्तुव्यञ्जकत्वे सति शब्दशक्तिमूलो व्यङ्गयः ॥ स च प्रत्येकं द्विधा । पदे वाक्ये च ॥ संसर्गादयमे भर्तृहरिणा प्रोक्ताः
'संसर्गे विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः || सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यान वच्छेदे विशेषस्मृतिहेतवः ॥'
यथा-
३९.
'वनमिदमभयमिदानीं यत्रास्ते लक्ष्मणान्वितो रामः' इति । 'विना सीतां रामः प्रविशति महामोहसरणिम्' इति । संसर्गाद्विप्रयोगाच्च दाशरथैौ । 'बुधो भौमश्च तस्योच्चैरनुकूलत्वमागतौ' इति साहचर्याद्रहविशेषे । 'रामार्जुनव्यतिकरः सांप्रतं वर्तते तयोः' इति विरोधाद्भार्गवकार्तवीर्ययोः । 'सैन्धवमानय, मृगयां चरिष्यामि' इत्यर्था प्रयोजनादश्वे । ‘अस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम्' इति प्रकरणाद्युष्मदर्थे । प्रकरणमशब्दमर्थस्तु शब्दवानित्यनयोर्भेदः ।
'कोदण्डं यस्य गाण्डीवं स्पर्धेते कस्तमर्जुनम्' इति लिङ्गाच्चिह्नात्पार्थे । 'किं साक्षादुपदेशयष्टिरथ वा देवस्य शृङ्गारिणः' इति शब्दान्तरसंनिधानात्कामे ।
'कणति मधुना मत्तश्चेतोहरं प्रियकोकिलः' इति सामर्थ्याद्वसन्ते । 'तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतव्यत्यये तत्त्वां पातु चिराय ' इत्यौचित्यात्प्रसादसांमुख्यपालने ।
Page #53
--------------------------------------------------------------------------
________________
४०
काव्यमाला ।
'अहो महेश्वरस्यास्य कापि कान्तिः' इति राजधानीरूपाद्देशाद्राजनि । 'चित्रभानुर्विभात्यह्नि' इति कालविशेषाद्रवौ ।
‘मित्रं हन्तितरां तमः परिकरं धन्ये दृशौ मादृशाम्' इति व्यक्तिविशेषात्सुहृदि च प्रतीतिः ।
:
स्वरात्त्वर्थविशेषप्रतिपत्तिः काव्यमार्गेऽनुपयोगिनीति नोदाह्रियते । ' 'मश्नामि कौरवशतं समरे न कोपात्' इति काकुरूपात्स्वराद्भवत्यर्थविशेषप्रतिपत्तिः ।
आदिग्रहणादभिनयोपदेशनिर्देश संज्ञेङ्गिताकारा गृह्यन्ते ।
अभिनयो यथा
Spod
'द्दहमित्तत्थणिया एद्दहमित्ते हि अस्थिवत्ते हि । ऐयावत्थं पत्ता एत्तियमित्ते हि दिहि ||'
अपदेशो यथा
BETTER ONE OF TH
*
'इतः स दैत्यः प्राप्तश्रीर्तेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥'
निर्देशो यथा - ' भर्तृदारिके, दिष्ट्या वर्धामहे यदत्रैव कोऽपि कस्यापि तिष्ठतीति मामङ्गुलीविलासेनाख्यातवत्यः ।'
संज्ञा यथा
'अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् । वीक्षितेन परिगृह्य पार्वती मूकम्पभयमुत्तरं ददौ ||' इङ्गितं यथा
'कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥' आकारो यथा -
'निवेदितं निःश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते। न विद्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥'
१. ' एहमेत्तावस्था' इति काव्यप्रकाशे.
२.
'एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावदवस्थां प्राप्ता एतावन्मात्रैर्दिवसैः ॥'..
Page #54
--------------------------------------------------------------------------
________________
काव्यानुशासनम् । तदेवं संसर्गादिभिर्नियमितायामभिधायां यार्थान्तरप्रतीतिः सा व्यननव्यापारादेव । अमुख्येऽपि शब्दे मुख्यार्थबाधादिनियमिते. प्रयोजनप्रतिपत्तिय॑जनव्यापारादेव । तथा हि तत्र संकेताभावान्नाभिधा नापि गौणी लक्षणा वा मुख्यार्थबाधादिलक्षणाभावात् न हि लक्ष्यं मुख्यम् , नापि तस्य बाधः, न च किंचिन्निमित्तमस्ति, नापि तत्र शब्दः स्खलद्गतिः । न च किंचित्प्रयोजनमस्ति । अथ प्रयोजनेऽपि लक्ष्ये प्रयोजनान्तरमाकाश्यते तर्हि तत्रापि प्रयोजनान्तराकाङ्खायामनवस्था स्यात् । तथा च लाभमिच्छतो मूलक्षतिः । न च प्रयोजनसहितमेव लक्ष्यं लक्षणाया विषय इति वक्तुं शक्यम् । विषयप्रयोजनयोरत्यन्तभेदात् । प्रत्यक्षादेरपि प्रमाणस्य विषयो घटादिः प्रयोजनं त्वर्थाधिगतिः प्राकट्यं संवित्तिर्वा । तदेवं प्रयोजनविशिष्टस्य लक्ष्यस्य गौणीलक्षणयोरविषयत्वात्प्रयोजने व्यञ्जनमेव व्यापारः ॥ तत्र मुख्यशब्दशक्तिव्यङ्गयं वस्तु पदे यथा
'मुक्तिभुक्तिकृदेकान्तसमादेशनतत्परः ।
कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥' काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसतीति सदागमपदेन प्रकाश्यते । अत्रार्थयो(सदृश्यान्नोपमा ॥ वाक्ये यथा
'पन्थिय न एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे । . उन्नयपओहरं पिखिऊण जइ वससि ता वससु ।' पीति सिद्धं रूपकध्वनिरेवायम् । स च वाक्यपर्यालोचनयावसीयत इति ॥ अर्थाधिगतिरिति । नैयायिकादीनां प्राकट्यं ..भट्टमते, संवित्तिः प्राभाकरे ॥ मुक्तीति । मुक्तिरभेदव्यापारादपि । भुक्तिः कान्तोपभोगोऽपि । एकान्तः संकेतस्थानमपीति । सतः सुन्दरस्यागमनम् , शोभन आगमश्च ॥ उन्नतपयोधरमिति । उन्नतं मेघं प्रेक्ष्ये१. 'पथिक नात्र संस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे ।
उन्नतपयोधरं प्रेक्ष्य यदि वससि तद्वस ॥' [इति च्छाया।] १. 'मिति' लोचने.
Page #55
--------------------------------------------------------------------------
________________
४२
काव्यमाला।
अत्र प्रहरचतुष्टयमप्युपभोगेन नेह निद्रां कर्तुं लभ्यते । सर्वे ह्यत्राविदग्धाः। तदुन्नतपयोधरां मामुपभोक्तुं यदि वससि तदास्स्वेति व्यज्यते। वाच्यबाधेन व्यङ्गयस्य स्थितत्वात् । तयोर्नोपमानोपमेयभाव इति नालंकारो व्यायः॥ यथा च'शनिरशनिश्च तमुच्चैनिहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् ।
यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥' अत्र विरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुतः इति व्यत्ययेन ध्वन्यते । मुख्यशब्दशक्तिव्यङ्गयोऽलंकारः पदे यथा'रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिधः।
झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीमः ॥' अत्र भीषणीयस्य भीमसेन उपमानम् । वाक्ये यथा
'उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तस्याः कं न चक्रेऽभिलाषिणम् ॥ अत्र वाक्यस्यासंबद्धार्थत्वं मा प्रसासीदित्यपाकरणिकप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालंकारो व्यङ्गयः॥ यथा वा
'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम् ॥ अत्र शब्दशक्त्या रात्रियोषितोरुपमा व्यङ्गया । यद्यपि समुद्दीपितेति सानन्दमिति चार्थो व्यञ्जकस्तथापि न शब्दशक्तिं विनार्थशक्तिरुन्मीलति इति शब्दशक्तिरेव व्यञ्जिका ॥
त्यर्थः ॥ अशनिवज्रमपि । अनुदारोऽनुगतदारोऽपि ॥ प्रोल्लसन् हारो यस्य, प्रोल्लसन्त्यश्च धारा यस्य । तस्याः कामिन्याः, प्रावृषश्च ॥ अचन्द्रेति । चन्द्रः कर्पूरमपि । समुत्सहर्षा । तारकाभ्यां कनीनिकाभ्यामपि । श्यामा रात्रिः, कान्ता च ॥ .. १. 'अतन्द्रेति' स्यात.
Page #56
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
४३
यथा वा — ' मातङ्गगामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्यामाः पद्मरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदश्वसनाश्च प्रमदाः ।' अत्र विरोधालंकारो व्यङ्ग्यः ॥
यथा वा
'खं येऽभ्युज्ज्वलयन्ति लूनतमसो ये वा नखोद्भासिनो ये पुष्णन्ति सरोरुहश्रियमधिक्षिप्ताब्जभासश्च ये । ये मूर्धस्ववभासिनः क्षितिभृतां ये चामराणां शिरांस्याक्रामन्त्युभयेऽपि ते दिनपतेः पादाः श्रिये सन्तु वः ॥' अत्र व्यतिरेकः ॥ एवमलंकारान्तरेऽप्युदाहार्यम् ॥ गौणशब्दशक्तिव्यङ्गयं वस्तु पदे यथा
‘रविसंक्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥' अत्रोपसंहृतदृष्टिवृत्तिरन्धशब्दो बाधितमुख्यार्थः पदार्थप्रकाशनाशक्तत्वं नष्टदृष्टिगतं निमित्तीकृत्यादर्शे वर्तमानोऽसाधारणविच्छायित्वानुपयोगित्वादिधर्मजातमसंख्यं प्रयोजनं व्यनक्ति ॥
---
वाक्ये यथा
'या निशा सर्वभूतानां तस्यां जागर्ति संयमी । : यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥'
,
मातङ्गो हस्ती चण्डालश्च । गौर्यो गौरादयोऽपि । विभवेरता विगतं भवे रतं यासां ताश्च । पद्मरागा मणिविशेषाः पद्मवच्च रागो विद्यते यासाम् । द्विजा दन्ताः, विप्राश्च ॥ नखैः करजैः, न गगने च । क्षितिभृतो राजानोऽपि उभये रश्मिचरणरूपाः॥ एवमिति । यथा - 'सरसं मउअसहावं विमलगुणाणं मित्तसंगमोल्लसिअम् । कमलं नद्वच्छायं कुणंतदोसायरनमोदे ॥' एतत्केनचिच्चन्द्रमेवोद्दिश्योच्यते । कमलप्रख्यस महापुरुषस्य श्रियं नाशितवन्तं कंचन श्रीजुषं प्रति चाप्रस्तुतप्रशंसा व्यङ्गयेति । निःश्वासान्ध इति । हेमन्तवर्णने पञ्चवट्यां रामस्योक्तिरियम् ॥ या निशेति । सर्वेषां ब्रह्मादिस्थावरान्तानां चतुर्दशानामपि भूतानां या निशाख्या मोहजननी तत्त्वदृष्टिः तस्यां संयमी जागर्ति कथं प्राप्येति । न तु विषयवर्जनमात्रादेव संयमीति
१. अस्य, संस्कृतच्छाया न बुद्धा.
Page #57
--------------------------------------------------------------------------
________________
४४
काव्यमाला |
अत्र निशायां जागरितव्यमन्यत्र रात्रिवदासितव्यमिति न कश्चिदुपदेश्यं प्रत्युपदेशः सिध्यतीति बाधितस्वार्थमेतद्वाक्यं संयमिनो लोकोत्तरतालक्षणेन निमित्तेन तत्त्वदृष्टाववधानं मिथ्यादृष्टौ तु पराङ्मुखत्वं ध्वनतीति ॥
लक्षकशब्दशक्तिव्यङ्गयं वस्तु पदे यथा'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदय रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥'
1
यावत् । यदि वा सर्वभूतनिशायां मोहन्यां मिथ्यादृष्टौ जागर्ति कथमियं हेयेति । यस्यां तु मिथ्यादृष्टौ सर्वभूतानि जाग्रति अतिशयेन सुप्रबुद्धरूपाणि सा तस्य रात्रिरप्रबोधविषयः । तस्यां हि चेष्टायां नासौ प्रबुद्धः । एवमेव च लोकोत्तराचारव्यवस्थितः पश्यति च मन्यते च तस्यैवान्तर्बहिष्करणवृत्तिश्चरितार्था । अन्यस्तु न पश्यति न मन्यते इति तत्त्वदृष्टिपरेण भाव्यमिति तात्पर्यम् ॥ स्निग्धेति । स्निग्धया जलसंबन्धसरसया श्यामलया द्रविडवनितोचितासितवर्णया कान्त्या चाकचिक्येन लिप्तमाच्छुरितं वियन्नभो यैः । वेल्लन्त्यो जृम्भमाणास्तथा चलन्त्यः परभागवशात् प्रहर्षवशाच बलाकाः सितपक्षिविशेषा येषु सत्सु ते एवंविधा मेघाः । एवं नभस्तावद्दुरालोकं वर्तते । दिशोऽपि दुःसहाः । यतः सूक्ष्मजलोद्वारिणो वाता इति मन्दमन्दत्वमेषामनियतदिगागमनं च बहुवचनेन सूचितम् । तर्हि गुहासु क्वचित्प्रविश्यास्यताम्, अत आह— पयो - दानां ये सुहृदस्तेषु च सत्सु शोभनहृदया मयूरास्तेषामानन्देन हर्षेण कलाः षड्जसंवादिन्यो मधुराः केकाः शब्दविशेषाः । ताश्च सर्व पयोदवृत्तान्तं स्मारयन्ति स्वयं च दुःसहा इति भावः । एवमुद्दीपन विभावोद्बोधितविप्रलम्भः । परस्पराधिष्ठानत्वाद्रतेः । विभावानां च साधारण्यमभिमन्यमान इत एव प्रभृति प्रियतमां हृदये निधायैव स्वात्मवृत्तान्तं तावदाह — कामं सन्त्विति । दृढमिति सातिशयम् । कठोरहृदय इति । रामशब्दार्थव्यङ्ग्यविशेषावकाशदानाय कठोरहृदयपदम् । यथा - तद्नेहमित्युके - sपि नतभित्तीति । अन्यथा रामपदं दशरथकुलोद्भव कौशल्या स्नेहपात्रत्ववाल्यचरितजानकीलाभादिधर्मान्तरपरिणतमर्थ कथं नाम ध्वनेत् । अस्मीति । स एवाहं भवामीत्यर्थः । भविष्यतीति क्रियासामान्यम् । तेन किं करिष्यतीत्यर्थः । अथ च भवनमे - वास्या असंभाव्यमिति । उक्तप्रकारेण हृदयनिहितां प्रियां सजलजलधारादीनामुद्दीपनविभावानां साधारणत्वावधारणादिना स्मरणेन वैदेहीति शब्देन कथं भविष्यतीति
Page #58
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
४५
अत्र प्रकरणात्ततीयत्रिकनिर्देशाच्च रामे प्रतिपन्ने रामपदमनुपयुज्यमानं कठोरहृदय इत्यनेन दर्शितावकाशं पितृमरणसीतावियोगाद्यनेकदुःखभाजनत्वं लक्षयदसाधारणानि निर्वेदग्लानिमोहादीनि व्यनक्ति ॥ वाक्ये यथा'सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥' इदं हि वाक्यमसंभवत्स्वार्थ सत्सादृश्यात्सुलभसमृद्धिसंभारभाजनतां लक्षयञ्छूरकृतविद्यसेवकानां प्राशस्त्यं ध्वनति ॥
अर्थशक्तिमूलं व्यङ्गचमाहवस्त्वलंकारयोस्तव्यञ्जकत्वेऽर्थशक्तिमूला प्रवन्धेऽपि । वस्तुनोऽलंकारस्य च प्रत्येकं वस्त्वलंकारव्यञ्जकत्वेऽर्थशक्तिमूलः स च
विकल्पपरम्परया च प्रत्यक्षीभावितां हृदयस्य स्फुटनोन्मुखीं ससंभ्रममाह-हहा हेति । देवीति युक्तं तव धैर्यमित्यर्थः ॥ सुवर्णपुष्पामिति । सुवर्ण न तु ताम्रादि पुष्पाणि प्रतिदिनं ग्राह्याणि न तु दीनारादिवत् सकृद्राह्याणि । पृथिवीं न तु नगरादिमानं चिन्वन्ति प्रत्यहं गृहीतसारां कुर्वते । पुरुषा इति । अन्ये त्वकार्यकराः । त्रय इति न तु चत्वारः । एवं शूरः पराक्रमेण दुर्घटकार्यकारी । कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुर्येन । सेवक इति सेवाज्ञ इति वा वक्तव्ये ज्ञानस्यालौकिकत्वमनौचित्याद्यगणनादि च ध्वनितुं यस्ये(श्च)त्यादि कृतम् । शूरकृतविद्यवत्सेवाज्ञस्य निर्गुणस्यापि लाभप्राप्तिरिति त्रयश्चकाराः खतः संभवन्तीति न केवलं भणितिवशेनैवाभिनिष्पन्नशरीरो यावद्वहिरप्यौचित्येन संभाव्यमानसद्भाव इत्यर्थः । यथा-'सिहिपिञ्छकण्णऊरा जाया वाहस्स गव्विरी भमइ । मुत्ताहलरइअपसाहणाण मज्झे सवत्तीणम् ॥' शिखिमात्रमारणमेव तदासक्तस्य कृत्यम् । अन्यासु त्वासक्तो हस्तिनोऽप्यमारयत् इति वहुवचनेनोक्तमुत्तमं सौभाग्यम् । रचितानि विविधभङ्गीभिः प्रसाधनानि इति तासां संभोगव्यग्रिमाभावात् तद्विरचनशिल्पकौशलमेव परमिति दौर्भाग्यातिशय इति दर्शितम् । गर्वश्च बाल्याविवेकादिनापि भवतीति नान खोक्तिसद्भावः शङ्कयः । एष चार्थों यथा यथा वर्ण्यते तथा तथा सौभाग्यातिशयं व्याधवध्वा द्योतयति ॥ १. 'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति ।
· मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥ [इति च्छाया]
Page #59
--------------------------------------------------------------------------
________________
४६
काव्यमाला |
पदवाक्ययोः प्रबन्धे च । इह चार्थः खतःसंभवी कविप्रौढोक्तिमात्रनिष्पनशरीरः, कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो वेति भेदकथनं न न्याय्यम् । प्रौढोक्तिनिर्मितत्वमात्रेणैव साध्यसिद्धेः । प्रौढोक्तिमन्तरेण स्वतः संभविनोऽप्यकिंचित्करत्वात् । कविप्रौढोक्तिरेव च कविनिबद्धवक्तप्रौढोक्तिरिति किं प्रपञ्चेन ॥
।
विप्रौढोक्तिमात्रेति । कवेरेव या प्रौढा उक्तिस्तन्मात्रनिष्पन्नशरीर इत्यर्थः । यथा---' सज्जेइ सुरहिमासो ने याप णामेइ जुअइजणलक्खमुहे । अहिणवसहियामुहे नवपल्लवपत्तले अणङ्गस्स सरे ॥' अत्र वसन्तश्वेतनोऽनङ्गस्य सखा स जयति केवलं न तावदर्पयति । इत्येवंविधया समर्पयितव्यवस्त्वर्पणकुशलयोक्त्या सहकारोद्भेदिनी वसन्तदशा यत उक्ता अतोऽनर्पितेष्वपि शरेषु यद्येवं मन्मथः प्रतपति तदर्पितेषु कियद्विकृ (क) मिष्यते इति मन्मथोन्माथकस्यारम्भं क्रमेण गाढगाढीभविष्यन्तं व्यनक्ति ॥ कविनिबद्धवक्तृप्रौढोक्तिमात्रशरीरो यथा - 'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्वफलं शुकशावकः ॥' न हि निर्विोत्तमसिद्धयोऽपि श्रीपर्वतप्रभृतय इमां सिद्धिं विदध्युः । दिव्यकल्पसहस्रादिचात्र परिमितकालः । न चैवंविधोत्तमफलत्वेन चान्द्रायणप्रभृत्यपि तपः श्रुतम् । तवेति भिन्नं पदम् । समासेन विगलिततया सा न प्रतीयते । तव दशतीत्यभिप्रायेण । तेन वृत्तानुरोधात् त्वदधरपाटलम् इति न कृतमिति । तदसदेव । दशतीत्यास्वादयति । अविच्छिन्नप्रतिबन्धतया न त्वौदरिकवत्परिभुङ्क्ते अपि तु रसज्ञोऽति तत्प्राप्तिवदेव । रसज्ञताप्यस्य तपःप्रभावादेवेति । शुकशावक इति । तारुण्याद्युचितकाललाभोऽपि तपस एवेति । अनुरागिणश्च प्रच्छन्नखाभिप्रायख्यापनवैदग्ध्यचाटुविरचनात्मकभावोन्मीलनं व्यङ्गयम् । अत्र चाव्यवहरणत्रयेऽपि प्रौढोक्तिरेव वस्तुव्यञ्जकत्वेन खदते । खभावोऽपि हि वर्ण्यमानः कविप्रौढ्यैव खदते । एतच्च जात्यलंकारे विवेचयिष्यते । काव्यस्य च कविरेव कर्ता वक्ता च । - तत्र कविनैव निबद्ध इति कवेरेव तथाविधार्था उल्लिखिताः इति स्वतः संभवित्वम् । कविनिबद्धवक्तृप्रौढोक्तिमात्रशरीरत्वं चार्थस्य न वाच्यमित्यर्थः ॥ किं प्रपञ्चेनेति । -
}
१.
'सज्जयति सुरभिमासो न तावदर्पयति युवतिजनलक्ष्यमुखान् । अभिनवसहकारमुखान्नवपल्लव पत्रलाननङ्गस्य शरान् ॥ [ इति च्छाया ]
२. 'ण दाव अप्पेइ' ध्वन्यालोके. ३. 'तोचेतनो' ध्वन्यालोकलोचने.
Page #60
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
४७
तत्र वस्तुनो वस्तुव्यजकत्वं पदे यथा
'तं ताण सिरिसहोयररयणाहरणम्मि हिययमिकरसम् । . बिम्बाहरे पियाणं निवेसियं कुसुमवाणेन ॥
अत्र कुसुमबाणेनेति पदं कामदेवस्य मृदूपायसौन्दर्य प्रकाशयति ॥ वाक्ये यथा'तापी नेयं नियतमथ वा तानि नैतानि नूनं ।
तीराण्यस्याः सविधविचलद्वीचिवाचालितानि । ५ अन्यो वाहं किमथ न हि तद्वारिवेल्लबलाकं
___यत्तत्पल्लीपतिदुहितरि स्नातुमभ्यागतायाम् ॥
अत्र वाक्यार्थेन वस्तुमात्ररूपेणाभिलषणीयजनकृतमेव भावानां हृद्यत्वं न स्वत इत्येतद्वस्तु व्यज्यते ॥ वस्तुनोऽलंकारव्यञ्जकत्वं पदे यथा
वीराण रमइ घुसिणारुणम्मि न तहा पियाथणुत्थङ्गे ।
दिट्ठी रिउगयकुम्भत्थलम्मि जह बलहसिन्दूरे ॥ '. अत्र धी(वी)राणामिति पदार्थो वस्तुमात्ररूपः कुचयोः कुम्भस्थलस्य चोपसालंकारं ध्वनति ॥
एवं हि भेदपरिकल्पने शिष्यव्यामोह एव संपद्यत इत्यर्थः ॥ तं ताणेति । तेषामसुराणां पातालवासिनां यैः पुनः पुनरिन्द्रविमर्दनादि किं किं न कृतम् तद्धृदयमिति येभ्यस्तेभ्योऽतिदुःखकरेभ्योऽप्यकम्पनीयव्यवसायम् । तच्च श्रीसहोदराणामत एवानि
'न्योत्कर्षाणामित्यर्थः । तेषां रत्नानामासमन्ताद्धरणे एकरसं तत्परम् यद्धृदयं तत्कु'सुमवाणेन सुकुमारतरोपकरणसंभारेणापि प्रियाणां विम्वाधरे निवेशितम् । तदव-लोकनपरिचुम्बनदर्शनमात्रकृतकृत्यताभिमानयोगित्वेन कामदेवेन कृतम् तेषां हृदयं यदत्यन्तविजिगीषाज्वलनजाज्वल्यमानमभूदिति यावत् ॥ वस्तुनोऽलंकारव्यञ्जकत्वमिति । वस्तुना उपमादिरलंकारो व्यज्यत इत्यर्थः । तत्रोपमाध्वनिः 'वीराण-'
_ 'तत्तेषां श्रीसहोदररत्नाहरणे हृदयमेकरसम् ।
विम्बाधरे प्रियाणां निवेशितं कुसुमवाणेन ॥ [इति च्छाया 'वीराणां रमते घुसणारुणे न तथा प्रियास्तनोत्सङ्गे । दृष्टी रिपुगजकुम्भस्थले यथा बहलसिन्दूरे ॥' [इति च्छाया]
Page #61
--------------------------------------------------------------------------
________________
४८
काव्यमाला |
इत्यादिना दर्शितः । अर्थान्तरन्यासध्वनिः पदे यथा - 'हिअअद्वियमनं खुभ अणरुद्धमुहं पि मं पसायन्त । अवरद्धस्स वि णै हु दे बहुजाणय रुसिउं सक्कम् ॥' हृदये स्थितो न तु बहिः प्रकटितो मन्युर्यया । अत एवाप्रदर्शितरोषमुखीमपि मां प्रसादयन् । हे बहुज्ञ, अपराद्धस्यापि तव खलु न रोषकरणं शक्यम् । अत्र बहुज्ञेत्यामन्त्रणार्थो विशिषे पर्यवसितः । अनन्तरं तु तदर्थं पर्यालोचनवलाद्यत्सामान्यरूपं समर्थकं प्रतीयते तदेव चमत्कारकारि । तथा हि । खण्डिता सती वैदग्ध्यानुनीता तं प्रत्यक्षेण दर्शयन्ती इत्थमाह । यः कश्चिद्बहुज्ञो धूर्तः स एवं सापराधोऽपि खापराधावकाशमवच्छादयतीति मा त्वमात्मनि बहुमानं मिथ्या ग्रहीरिति । उत्प्रेक्षाध्वनिर्यथा'चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितः । मूर्छयत्येष पथिकान्मधौ मलयमारुतः ॥ ' अत्र हि मधौ मलयमारुतस्य पथिकमूर्छाकारणत्वं मन्मथोन्माथदायित्वेनैव । तत्तु चन्दनासक्तभुजगनिःश्वासानिलमूर्च्छितत्वेनोत्प्रेक्ष्यत इत्युत्प्रेक्षा साक्षादनुक्तापि वाक्यार्थसामर्थ्यादवसीयते । न चैवंविधे विषये इवादिशब्द प्रयोगमन्तरेणासंबद्धतैवेति शक्यं वक्तुम्, गमकत्वात् । अन्यत्रापि तदप्रयोगे तदर्थावगतिदर्शनात् । यथा - ' ईसाकलुसस्स वि तुह मुहस्स नणु एस पुण्णिमायंदो । अज्ज सरिसत्तणं पाविऊण अह्निव्विअन माई ||' ईर्ष्याकलुषितस्यापि ईषदरुणच्छायाकस्य । यदि तु प्रसन्नस्य मुखस्य साह - श्यमुद्वहेत्सर्वदा तत्किं कुर्यात् त्वन्मुखं तु चन्द्रीभवतीति मनोरथानामप्यपथमिदमित्यपिशब्दस्याभिप्रायः । अङ्गे न खदेहे न माति दश दिशः पूरयति यतोऽद्येयता कालेन एकं दिवसमात्रमित्यर्थः । अत्र पूर्णचन्द्रेण दिशां पूरणं खरससिद्धमेवमुत्प्रेक्ष्यते । यदि च ननुशब्देन वितर्कमुत्प्रेक्षारूपमाचक्षणेनासंबद्धता पराकृतेति संभाव्यते तदेदमत्रोदाहरणं यथा - ' त्रासाकुलः परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ परितः सर्वतो निकेतान्परिपतन्नक्रामन्न कैश्विदपि चापपाणिभिरसौ मृगोऽनुबद्धस्तथापि न क्वचित्तस्थौ त्रासचापलयोगात् खाभाविकादेव तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनाभिराकर्ण पूर्णैर्नेत्र शरैर्हता ईक्षणश्रीः सर्वखभूता अस्य यतः अतो न तस्थौ । नन्वेतदप्यसंबद्धमस्तु । न । शब्दार्थव्यवहारे प्रसिद्धिरेव प्रमाणम् ॥ दीपकध्वनियथा--' मा भवन्तमनलः पवनो वा वारणो मदकलः परशुर्वा । वज्रमिन्द्रकरविप्रसृतं
1
१.
'हृदय स्थापितमन्युमपरोषमुखीमपि मां प्रसादयन् । अपराद्धस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥' [ इति च्छाया]
२. 'हिअअट्टाविअमण्णुं अवरुण्णमुहं' ध्यन्यालोके पाठः . ४. 'सामर्थ्य' लोचने. ५. 'सा हि' लोचने.
६.
'ईर्ष्या कलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः ।
अद्य सदृशत्वं प्राप्याङ्ग इव न माति ॥' [इति च्छाया ]
७. 'त्वप्रस' लोचने.
३. 'णं' ध्वन्यालोके.
Page #62
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
वाक्ये यथा
'पुत्रक्षयेन्धनघनप्रविज़म्भमाण. स्नेहोत्थशोकविषमज्वलनाभितप्तः । प्रालेयशीतलममंस्त स बाह्यवहि
महाय देहमथ संविदधे सरित्सात् ॥' अत्र विशिष्टः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टो न तेन दग्ध इत्ययं वाक्यार्थो वस्तुखभावः शोकस्य बाझवढेराधिक्यमिति व्यतिरेकालंकारं ध्वनति ॥
वा खस्ति तेऽस्तु लतया सह वृक्ष ॥' इति । अत्र मा बाधिष्ठेति गोप्यमानादेव दीपकादत्यन्तस्नेहास्पदत्वप्रतिपत्त्या चारुत्वनिष्पत्तिः ॥ अप्रस्तुतप्रशंसाध्वनिर्यथा'दुण्ढुण्णन्तो मरिहिसि-' इति । प्रियतमेन साकमुद्याने विहरन्ती काचिन्नायिका भ्रमरमेवमाहेति । भृङ्गस्याभिधायां प्रस्तुतत्वमेव । न चामन्त्रणादप्रस्तुतत्वगतिः प्रत्युतामन्त्रणं तस्या मौग्ध्यविजृम्भितमित्यभिधया तावन्नात्राप्रस्तुतप्रशंसा । समाप्तायां पुनरभिधायां वाच्यार्थसौन्दर्यबलादन्यापदेशता ध्वन्यते । यत्र स्वसौभाग्याभिमानपूर्णा सुकुमारपरिमलमालतीकुसुमसदृशी मुग्धकुलवधूनिर्व्याजप्रेमपरतया कृतकवैदग्ध्यलब्धप्रसिद्धयतिशयानि शम्भलीकष्टकव्याप्तानि दूरामोदकेतकीवनस्थानीयानि वेश्याकुलानि इतश्चामुतश्च चर्यमाणं प्रियतममुपालभते ॥ अपगुतिध्वनिर्यथा-'यत्कालागुरुपत्रभङ्गरचनावासैकसारायिते गौराङ्गीकुचकुम्भभूरिसुभगाभोगे सुधाधामनि । विच्छेदानलदीपितोत्कच निताचेतोधिवासोद्भवं संतापं विनिनीपुरेष विततैरनताङ्गः सरः ॥' अत्र चन्द्रमण्डलमध्यवर्तिनो लक्ष्मणो वियोगाग्निपरिचितवनिताहृदयोदितप्लोषमलीमसच्छविमन्मथाकारतयापहवो ध्वन्यते । अत्रैव ससंदेहध्वनिः । यतः चन्द्रवर्तिनोऽस्तस्य नामापि न गृहीतम् । अपि तु गौराङ्गीस्तनाभोगस्थानीये चन्द्रमसि कालागुरुपत्रभङ्गविच्छित्यास्पदत्वेन यच्छाखामुत्कृष्टतामाचरतीति तन जानीमः किमेतद्वस्त्विति ससंदेहो ध्वन्यते ॥ पूर्वमनङ्गीकृतप्रणयामनुतप्तां प्रणयिविरहोत्कण्ठितां वल्लभागमनप्रतीक्षापरत्वेन कृतप्रसाधनादिविधेयतया वासकसन्नीभूतां पूर्णचन्द्रोदयावसरे दूतीमुखेनानीतः प्रियतमस्त्वदीयकुचकलशन्यस्तकालगुरुपत्रभङ्गरचना मन्मथोद्दीपनकारिणीति चाटुकं कुर्वाणश्चन्द्रवर्तिनी च कुवलयदलश्यामला कान्तिरेवमेव करोतीति निदर्शनाध्वनिरपि॥ स्वदीयकुचकलशशोभा मृगाङ्कशोभा च सह मदनमुद्दीपयते इति सहोक्तिध्वनिरपि ॥ 'स्वत्कुचसदृशश्चन्द्रसमस्त्वत्कुचाभोगः' इति प्रतीतेरुपमाध्वनिरपि ॥ एवमन्येऽप्यत्र प्रभेदाः शक्योत्प्रेक्षाः । महाकविवाचोऽस्याः कामधेनुत्वात् । यतः–'हेलापि कस्यचि
१. 'वनिताचेतो' स्यात्.
Page #63
--------------------------------------------------------------------------
________________
६.
: काव्यमाला।
अलंकारस्य वस्तुव्यङ्गयत्वं पदे यथा'चूअङ्करावयंसं छणपसरमहग्घमणहरसुरामोयम् । अपणामियं पिं गहियं कुसमसरेण महुमासलच्छीए मुहम् ॥
दचिन्त्यफलप्रसत्त्यै कस्यापि नालमणवेऽपि फलाय यत्नः । दिग्दन्तिरोमचलनं धरणी धुनोति खात्संपतन्नपि लतां चलयेन भृङ्गः ॥' व्यतिरेकध्वनिर्यथा-'जाएज वणुद्देशे खुजो विवअ पायवो घडिअवत्तो।मा माणुसम्मि लोए ताएकरसो दरिदो अ॥' जायेय वनोद्देशे एव वनस्यैकान्ते गहने यत्र स्फुटबहुतरवृक्षसंपत्त्या प्रेक्षतेऽपि न क. श्चित् कुब्ज इति । यो रूपघटनादावेवानुपयोगी । झटितपत्र इति । छायामपि न करोति तस्य का पुष्पफलवार्तेति भावः । तादृशोऽपि कदाचिदाङ्गारिकस्योपयोगी स्यादुल्लूकादेर्निवासायेति भावः । मानुष इति । सुलभार्थिजन इति भावः । लोक इति । यत्र लोक्यते सोऽर्थिभिः तेन चार्थिजनो न किंचिच्छक्यते कर्तुं तन्महद्वैशसमिति भावः । अत्र वाच्योऽलंकारो न कश्चित् । त्यागैकरसस्य दरिद्रस्य -जन्मानभिनन्दनं त्रुटितपत्रकुब्जपादपजन्माभिनन्दनं च साक्षाच्छब्दवाच्यम् । तथाविधादपि पादपात्तादृशश्च पुंसः शोच्यतायामाधिक्यं तात्पर्येण प्रकाशयति ॥ एवमन्येऽलंकारा व्यङ्गयतया अभ्यूह्या इति ॥ अलंकारस्य वस्तुव्यञ्जकत्वमिति । अलंकारेण उपमादिना वाच्येन वस्तु व्यज्यत इत्यर्थः । तत्र विरोधस्य वस्तुव्यञ्जकत्वं चूअङ्कुरावयंसमित्यादिना प्रदर्शितम् ॥ उपमाया यथा । शिखरिणीति । अत्र तवाधरपाटलमिति पदे समासोपमयाभिलाषात्मकं वस्तु ध्वन्यते ॥ रूपकस्य यथा 'चमहियमाणसकञ्चणपङ्कयनिम्महियपरिमला जस्स । अखुडियदाणप्पसरा बाहुप्पलिहा व्विय गयन्दा ॥' अत्र बाह्रोः परिघरूपणात्मना रूपकालंकारेण भुजद्वयान्यद्गजाश्वादिसामग्री रूपं तस्यानुपादेयमिति वस्तु व्यज्यते । एवमन्येऽप्यलंकारा वस्तुनो व्यञ्जकत्वेनोदाहार्याः ॥ छणेति । महा'नो(णो)त्सवप्रसरेण मनोहरसुरस्य मन्मथदेवस्य आमोदश्चमत्कारो यत्र । महाघशब्दस्य परनिपातः । प्राकृते नियमाभावात् । असमर्पितमपि गृहीतं कु' १. 'व्यञ्जकत्वं' स्यात् टीकानुरोधात्. २. 'चूताङ्कुरावतंसं क्षणप्रसरमहाघमनोहरसुरामोदम् । । असमर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥' ३. 'महं घणमहुरामोअम्' ध्वन्या०. . . . . . " १. 'जायेय वनोद्देशे कुब्ज इव पादपो घटितपत्रः।
मा मानुषे लोके तापैकरसो दरिद्रश्च ॥' २. ..... मानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य ।
अखण्डितदानप्रसरा वाहुपरिघा इव गजेन्द्राः ॥'......
Page #64
--------------------------------------------------------------------------
________________
काव्यानुशासनम् । अत्रापणामियमसमर्पितमपि विरोधालंकारेण वाच्येन मधुमासप्रौढिमनि भाविनि किं भविष्यतीत्येवंभूतं. वस्तु ध्वन्यते ॥ वाक्ये यथा'गाढालिङ्गणरहसुजयम्मि दइए लहु समोसरइ ।
माणंसिणीण माणो पीलणभीय व्व हिययाओ ॥' अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि । तत्र जम्भत इति वस्तु व्यज्यते ॥ . अलंकारेणालंकारः पदे यथा
'तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो । . इअ नववहुया सोउण कुणई वयणं महीसमुहम् ॥'
अत्र मिलाणकमलदलमिति रूपकेण म्लानत्वान्यथानुपपत्तेः त्वयास्य मुहुर्मुहुः परिचुम्बनं कृतमिति अनुमानं व्यज्यते ॥ वाक्ये यथा___ 'स वक्तुमखिलाञ्छतो हयग्रीवाश्रितान्गुणान् ।
योऽम्बुकुम्भैः परिच्छेदं शक्तः कर्तुं महोदधेः ॥' अत्र निदर्शनेन हयग्रीवगुणानामवर्णनीयताप्रतिपादनरूपोऽसाधारणतद्विशेपप्रकाशनपर आक्षेपो व्यज्यते ॥
प्रवन्धेऽर्थशक्तिमूलो व्यङ्गयो यथा गृध्रगोमायुसंवादेतथा च
'अलं स्थित्वा श्मशानेऽस्मिन्गृध्रगोमायुसंकुले ।
न चेह जीवितः कश्चित्कालधर्ममुपागतः ॥' इति दिवाप्रभवतो गृध्रस्य पुरुपविसर्जनपरमिदं वचनम् ।
'आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् ।
बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।' 'गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनखिन्या मानः पीडनाभीत इव हृदयात् ॥' 'तव वल्लभस्य प्रातरासीदधरो म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥'
Page #65
--------------------------------------------------------------------------
________________
५२
काव्यमाला |
‘अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं बालास्त्यक्षध्वमविशङ्किताः ||'
इति निशि विजृम्भमाणस्य गोमायोजनव्यावर्तननिष्ठां चेति प्रबन्धप्रतिपाद्येनार्थेन गृध्रगोमाय्वोर्भक्षणाभिप्रायो व्यज्यते ॥ एवं मधुमथनविजये पञ्चयज्ञक्तिषु, विषमबाणलीलायां कामदेवस्य सहचरसमागमेऽर्थव्यञ्जकत्वमुदाहार्यम् ॥ एवं च वस्तुनोऽलंकारव्यञ्जकत्वे भेदत्रयमुत्प्रेक्ष्यम् ॥
रसादिश्च ।
रसभावतदाभासभावशान्तिभावोदय भावस्थितिभावसंधिभावशबलत्वान्यर्थशक्तिमूलानि व्यङ्गयानि । चकारः पदवाक्यप्रबन्धानुकर्षणार्थः । पृथग्योगो रसादयो व्यङ्गया एव भवन्ति, न तु कदाचिद्वाच्यतामपि सहन्ते इति रसादीनां प्राधान्यख्यापनार्थः । वस्त्वलंकारौ हि वाच्यावपि
भवतः ॥
सुमशरेण मधुमासलक्ष्म्या मुखमारम्भो वक्रं च । तच्च सुरामोदयुक्तं भवति ॥ पाञ्च जन्योक्तिष्विति । 'लीलादाढग्गुव्वूढसयलमहिमण्डलस्स विअ अज्ज । कीस मुणालाहरणं पितुम्भगरुआइ अङ्गपि ॥' पाञ्चजन्योक्तयो रुक्मिणीविप्रलम्भवासुदेवाशयप्रतिभेदनाभिप्रायमभिव्यञ्जन्ति ॥ सहचरेति । कामदेवस्य सहचरा मधुयौवनमलयानिलादयस्तेषां समागमे । तदुक्तिष्वित्यर्थः । यथा - ' है मिअवहच्छिभरेहो णिरङ्कुसो अहविवेअर हिओ वि। सिविणेवि उम्मसमये पत्तिअभत्तिं न पप्फसिमि ॥' इत्यादयो यौवनोक्तयस्तं तं निजखभावं व्यञ्जन्ति ॥ रसभावेति । यद्यपि रसेनैव सर्वे काव्यं जीवति, तथापि तस्य रसस्य एकघनचमत्कारात्मनोऽपि कुतश्चिदंशात्प्रयोज की भूतादधिकोऽसौ चमत्कारो भवति । तत्र यदा कश्चिदुद्रितावस्थां प्रतिपन्नो व्यभिचारी वक्ष्यमाणोदयादिधर्माच्चमत्कारातिशये प्रयोजको भवति तदा भावध्वनिः । यदा तु विभावाभासाद्रत्याभासोदयस्तदा विभावानुभावाभासाच्चर्वणाभास इति रसाभासः । एवं भावाभासोऽपि । एवं रसध्वनेरेवामी भावध्वनिप्रभृतयो निःस्पन्दाः । आखादे प्रधानं प्रयोजकमंशं विभज्य व्यवस्थाप्यते । यथा— गन्नयुक्तिज्ञौ (?) रेकसंमूर्छितमोदोपभोगेऽपि सुपरिशुद्ध मांस्यादिप्रयुक्तमिदं सौरभमिति । रसध्वनिस्तु स एव यत्र मुख्यतया विभावानुभावव्यभि
'१. 'पाश्ञ्चजन्योक्तिषु' विवेके.
१. 'पाश्चयज्ञोक्तिषु' मूल० २, ३. अनयोश्छायास्फुटा.
·
Page #66
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
तत्रार्थशक्तिमूलो व्यङ्गयो रसः पदे यथा'उत्कम्पिनी भयपरिस्खलितांशुकान्ता
ते लोचने परिभृशं कुपिते वहन्ती । - तीक्ष्णेन दारुणतया सहसैव दग्धा
. धूमान्धितेन दहनेन न वीक्षितासि ॥' अत्र ते इति पदेन स्मारितानामनुभवैकगोचराणां सातिशयविभ्रमाणां शोकव्यञ्जकत्वम् ॥
चारिसंयोजनोचितस्थायिप्रतिपत्तिकस्य प्रतिपत्तुः स्थाय्यंशचर्वणाप्रयुक्त एवाखादप्रकर्ष इति । उदाहरणानि चैतल्लक्षणाप्रस्तावे दर्शयिष्यन्ते ॥ उत्कम्पिनीति। अत्र हि ते इति पदं रसमयत्वेन स्फुटमेवावभासते सहृदयानाम् । तथा हि-वासवदत्तादाहाकर्णनप्रबुद्धशोकनिर्भरस्य वत्सराजस्येदं परिदेवितवचनम् । तत्र च शोको नाभेष्टजनविनाशप्रभव इति तस्यास्य जनस्य ये भ्रूक्षेपकटाक्षादयः पूर्व रतिविभावतामवलम्बन्ते स्म त एवात्यन्तविनष्टाः सन्त इदानीं स्मृतिगोचरतया निरपेक्षत्वभावप्रमाणं करुणमुद्दीपयन्तीति स्थिते । ते लोचने इति तच्छब्दस्तल्लोचनगतवसंवेद्याव्यपदेश्यानन्तगुणगणस्मरणाकारद्योतको रसस्यासाधारणनिमित्ततां प्राप्तः । तेन यत्किचिच्चोदितं परिहृतं च तन्मिथ्यैव । तथा हि । चोद्यम्-प्रक्रान्तपरामर्पकस्य तच्छब्दस्य कथमियति व्यापारः । उत्तरम्-रसाविष्टोऽत्र परामृष्टेति । तदुभयमनुत्था[प]नोपहतम् । यत्र ह्यनुद्दिश्यमानधर्मान्तरसाहित्ययोग्यधर्मयोगित्वं वस्तुनो यच्छब्देनाभिधाय तद्बुद्धिस्थधर्मान्तरसाहित्यं तच्छन्देन निर्वाह्यते । तत्र पूर्वप्रकान्तपरामर्शकत्वं तच्छन्दस्य । यत्र तु निमित्तोपनतस्मरणविशेपाकारसूचकत्वं स घट इत्यादौ तत्र का परामर्शकथेति ॥ उत्कम्पिनीत्यादिना तदीयभयानुभावोत्प्रेक्षणं मया अनिर्वाहितप्रतीकारमिति शोकावेगस्य विभावतेति सातिशयविभ्रमैकायतनरूपे अपि लोचने विधुरे कांदिशीकतया निर्लक्ष्ये क्षिपन्ती व माता क्वासौ चार्यपुत्र इति तयोर्लोचनयोस्तादृशी चावस्थेति सुतरां शोकोद्दीपनम् । तीक्ष्णेनेति । तस्यायं खभाव एव किं कुरुतां तथापि च धूमेनान्धीकृतो द्रष्टुमसमर्थ इति, न तु सविवेकस्येदृशानुचितकारित्वं संभाव्यत इति स्मर्यमाणं तदीयं सौन्दर्य मिदानी सातिशयशोकावेशविभावतां प्राप्त इति तेशब्दे सति सर्वोऽयमर्थो नियूंढः । यथा वा-'झगिति कनकचित्रे तत्र दृष्टे कुरङ्गे रमसविक
१. 'निरपेक्षभावत्वप्राणं' लोचने. २. 'स्थितम्' स्यात्. ३. 'केनचित्' लोचने.
Page #67
--------------------------------------------------------------------------
________________
काव्यमाला।
त्याद्यन्ते यथा'मा पन्थं रुन्धीओ अवेहि बालय अहोसि अहिरीओ। .
अम्हे अणिरिकाओ सुन्नघरं रक्खियव्वं णो ॥ अत्रापेहीति त्याद्यन्तत्वं तावदप्रौढो लोकमध्ये यदेवं प्रकाशयसि अस्ति तु संकेतस्थानं शून्यं गृहं तत्रैवागन्तव्यमिति ध्वनति ॥
पदैकदेशोऽपि पदं यथा-- . 'तालैः शिजवलयसुभगैर्तितः कान्तया मे . .
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ।' .. ... अत्र तालैरिति बहुवचनमनेकभङ्गिवैदग्ध्यं ख्यापयद्विप्रलम्भमुद्दीपयति।। 'लिखन्नास्ते भूमि बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकै
स्तवावस्था चेयं विसृज कठिने मानमधुना ।' . अत्र न लिखतीत्यपि तु प्रसादपर्यन्तमास्ते इति न त्वासित इति । भूमिमिति न तु भूमाविति । न हि बुद्धिपूर्वकं किंचिलिखतीति स्यादित्यादिविभक्तीनां व्यञ्जकत्वम् ॥
'अस्म(ण्णत्थ वच्च बालय अण्हा इति किसमलेहसि एअम् ॥ . .
हो जायाभीरुयाण तीत्थं विय न होई ॥ अत्र जायातो ये भीरवस्तेषामेतत्स्थानमिति दूरापेतः संबन्ध इत्यनेन
सितास्ते दृष्टिपाताः प्रियायाः । पवनविलुलितानामुत्पलानां पलाशप्रकरमिव किरन्तः स्मर्यमाणा दहन्ति ॥ इति ॥ अणिरिकाओ इति । परतन्त्रा इति ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके प्रथमोऽध्यायः ।।
१. 'मा पन्थानं रुध अपेहि बालक अहो असि अहीकः ।। . . . . वयं परतन्त्राः शून्यगृह रक्षणीमस्साकम् ॥ .. .. २. 'अन्यत्र व्रज बालक प्रकर्षणालोकयस्येतत् । . . .. भो जायाभीरुकाणां तीर्थमेव न भवति ॥' . . . . .
Page #68
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
संबन्धेनैवेातिशयः प्रच्छन्नकामिन्याभिव्यक्तः । जायांभीरुकाणामित्यत्र तद्धितस्यापि व्यञ्जकत्वम् । ये हरसज्ञा धर्मपलीषु प्रेमपरतन्त्रास्तेभ्यः कोऽन्यो जगति कुत्सितः स्यादिति कप्रत्ययोऽवज्ञातिशयद्योतकः ॥
'अयमेकपदे तया वियोगः प्रियया चोपनतः सुदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ॥ अत्र चकारौ निपातावेवमाहतुः । गण्डस्योपरि स्फोटेवद्विप्रयोगश्च वर्षासमयश्च समुपनतमेतद्वयमलं प्राणहरणायेति । अत एव रम्यपदेन सुतरामुद्दीपनविभावत्वमुक्तम् ॥ . 'प्रनिग्धाः क्वचिदिगुदीफलभिदः सूच्यन्त एवोपला.' अत्र प्र इत्युपसर्ग इङ्गुदीफलानां सरसत्वमाचक्षाण आश्रमस्य सौन्दर्यातिशयं ध्वनति॥ ___अनेकस्य निपातस्योपसर्गस्य चैकत्र पदे यः प्रयोगः सोऽपि रसव्यत्यर्थः । यदाह-'अहो वतासि स्पृहणीयवीर्यः अत्राहो बतत्यनेन श्लाघातिशयो ध्वन्यते ॥ 'मनुष्यवृत्त्या समुपाचरन्तं स्वबुद्धिसामान्यकृतानुमानाः । योगीश्वरैरप्यसुबोधमीशं त्वां बोद्धमिच्छन्त्यबुधाः स्वतः ॥
अत्र सम्यग्भूतमुपांशु कृत्वा आसमन्ताच्चरन्तमित्यनेन लोकानुजिघृक्षातिशयस्तत्तदाचरतः परमेश्वरस्य ध्वन्यते ॥
'रमणीयः क्षत्रियकुमार आसीत्' इति । अत्र शंकरधनुर्भङ्गश्रवणात्प्रकुपितस्य भार्गवस्योत्त्या आसीदित्यतीतकालनिर्देशाद्दाशरथेः कथाशेषत्वं व्यज्यते ॥ . यथा च प्रत्ययांशस्य द्योतकत्वं तथा प्रकृत्यंशस्यापि यथा-- ... तद्नुहं नतमित्ति मन्दिरमिदं लब्धावकाशं दिवः
सा धेनुर्जरती नदन्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिता
माश्चर्य दिवसैर्द्विनोऽयमियती भूमि परां प्रापितः ॥' १. 'ये हि रसज्ञाः ध्वन्यालोके. २. 'स्फोट इतिवत्तद्वियोगवद्वर्षा' ध्वन्या०.
Page #69
--------------------------------------------------------------------------
________________
५६
अत्र दिवसार्थेनात्यन्तासंभाव्यमानतास्यार्थस्य ध्वन्यते । तदिति प्रकृत्यंशश्चात्र नतभित्तीत्येतत्प्रकृत्यंश सहायः समस्तामङ्गलभूतां मूषिकाद्याकीर्णतां ध्वनति । एवं सा धेनुरित्यादावपि योज्यम् ॥
तथा---
काव्यमाला |
‘रैइकेलिहिअनिअसणकर किसलयरुद्धनयणजुअलस्स । रुद्दस्य तइयनयणं पव्वइपरिचुम्बिअं जयइ || '
अत्र जयतीति न तु शोभते इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकेऽन्तरेणैव रूपेणास्य पिधानमिति तदेवोत्कृष्टमिति व्यज्यते ॥
भावादीनां पदप्रकाशत्वेऽधिकं न वैचित्र्यमिति न तदुदाहियते । वाक्यस्य रसादिव्यञ्जकत्वं रसादिलक्षणे एवोदाहरिष्यते । प्रबन्धे च नाटकादावर्थशक्तिमूला रसव्यक्तिः प्रतीतैव । वर्णरचनयोस्तु साक्षान्माधुर्यादिगुणव्यञ्जकत्वमेव । तद्वारेण तु रसे उपयोग इति गुणप्रकरणे एव वक्ष्येते इतीह नोक्ते ॥
इत्याचार्यश्री हेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ती प्रथमोऽध्यायः ।
रसलक्षणमाह-
द्वितीयोऽध्यायः ।
विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः । वागाद्यभिनयसहिताः स्थायिव्यभिचारिलक्षणाश्चित्तवृत्तयो विभाव्यन्ते विशिष्टतया ज्ञायन्ते यैस्तैर्विभावैः काव्यनाट्यशास्त्रप्रसिद्धैरालम्बनोद्दीपनस्वभावैर्ललनोद्यानादिभिः, स्थायिव्यभिचारिलक्षणं चित्तवृत्तिविशेषं सामाजिकजनोऽनुभवन्ननुभाव्यते साक्षात्कार्यते यैस्तैरनुभावैः कटाक्षभुजोत्क्षे
१.
विभावैरिति । यदाह मुनिः - 'बहवोऽर्था विभाव्यन्ते वागङ्गाभिनयात्मकाः । अनेन यस्मात्तेनायं विभाव इति संज्ञितः ॥' अनुभावैरिति । 'वागङ्गसत्त्वाभिनयैर्य
‘रति केलिहृत निवसनकर किसलयरुद्धनयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितं जयति ॥ '
f
★
Page #70
--------------------------------------------------------------------------
________________
२ अध्यायः ]
काव्यानुशासनम् ।
SWED
पादिभिः, विविधमाभिमुख्येन चरणशीलैर्व्यभिचारिभिर्धृतिस्मृतिप्रभृतिभिः, (स्थायिभावानुमापकत्वेन लोके कारणकार्यसहचारिशब्दव्यपदेश्यैर्ममैवैते परस्यैवैते न ममैंर्ते न परस्यैते इति संबन्धिविशेषखीकारपरिहारनियमानविसायात्साधारण्येन प्रतीतेर भिव्यक्तः सामाजिकानां वासनारूपेण स्थितः स्थायी रत्यादिको भावो नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात् सहृदयहृदयसंवादभाजा साधारण्येन गोचरीक्रियमाणश्चर्व्यमाणतैकुप्राणो विभावादिभावनावधिरलौकिक चमत्कारकारितया परब्रह्मास्वाद - सोदरो निमीलितनयनैः कविसहृदयै रस्यमानः खसंवेदनसिद्धो रसः ॥
५७.
स्मादर्थो विभाव्यते । वागङ्गोपाङ्गसंयुक्तस्त्वनुभाव इति स्मृतः ॥ रस इति । तथा च भरतमुनिः - 'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति:' इति । तत्र भट्टलोलदस्तावदेवं व्याचक्षे -- विभावादिभिः संयोगोऽर्थात्स्थायिनः ततो रसनिष्पत्तिः । तत्र विभावश्चित्तवृत्तेः स्थाय्यात्मिकाया उत्पत्तेः कारणम् । अनुभावाश्च न रसजन्या । अत्र विवक्ष्यन्ते तेपां रसकारणत्वेन गणनानर्हत्वात् अपि तु भावानामेव । (ये ' तु भा - वानामेव) येऽनुभावा व्यभिचारिणस्य [ते] चित्तवृत्त्यात्मकत्वात् यद्यपि न सहभाविनः || स्थायिना, तथापि वासनात्मतेह विवक्षिता । तेन स्थाय्येव विभावानुभावादिभिरुपचितो रसः । स्थायी त्वनुपचितः । स चोभयोरपि मुख्यया वृत्त्या रामादावनुकार्येऽनुकर्तरि च नटे रामादिरूपतानुसंधानवलादिति ॥ तथा चाह दण्डी - ' रतिः शृङ्गारतां याता रूपवाहुल्ययोगत: । आरुह्य च परां कोटिं कोपो रौद्रत्वमागतः ॥' अयं भावः - विभावैर्जनितोऽनुभावैः प्रतीतिपदं नीतो व्यभिचारिभिरुपचितो मुख्यवृत्त्या नुकरणीये रामे तद्रूपतानुसंधानादनुकर्तरि प्रतीयमानः स्थायी रस इति ॥ एतन्नेति शङ्ककः । तथा हि-विभावाद्ययोगे स्थायिनोऽवगमो नोपपद्यते अवगमकस्याभावात् है । न हि धूमं विना धराधरान्तःस्थो वहिरवगम्यते । अपि च यथा स्वयमुत्पादिता विभावैः सूचिताश्चानुभावैः पोषमुपनीताश्च व्यभिचारिभिः संयोगाद्सीभवन्ति स्थायितः । तदा स्थायिनामेव भावानामुद्देशो लक्षणं चादावभिधातुं युक्तं स कस्मान्न कृतम् । आदौ हि रसानामुद्देश लक्षणे अभिहिते कस्माच्च रसानां विभावानुभावांश्थोक्त्वा तानेव स्थायिनां पुनराह ॥ तथा हि रसान्प्रतिपदं लक्षयन्मुनिर्वक्ष्यति - 'अथ वीरो नामोत्तमप्रकृतिरुत्साहात्मकः । स चासंमोहाध्यवसायनय विनयवलपराक्रमशक्तिप्रताप प्रभावा - A 'दिभिर्विभावैरुत्पद्यते' इति । पुनश्च स्थायिभावानुवादे तु - 'उत्साहो नामोत्तमप्रकृतिः । स चाविषादशक्तिसौन्दर्यादिभिर्विभावैरुत्पद्यते ' इति । एवमभिन्नार्था एवैते । विभावा
१. प्रमादलिखितं भवेत्.
८
Page #71
--------------------------------------------------------------------------
________________
काव्यमाला।
STIPREAKHPa
TEEKER
Commanawane
रसलक्षणे विस्तरत उक्ताः, भावानुवादे लेशतः प्रदर्शिताः । न चोत्पत्तौ पदार्थानां कारणमभिधाय पुष्यतां पुनस्तदुत्पत्तिकारणमभिधातव्यम्, वैयर्थ्यापत्तेः । किं चअनुपचितावस्थः स्थायी भावः, उपचितावस्थो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दमध्येत्यादिविशेषापेक्षया आनन्यापत्तिः । एवं रसस्यापि तीव्रतीव्रतरतीव्रतमादिभिरसंख्यत्वं प्रपद्यते । अथोपचयकाष्ठां प्राप्त एव रस उच्यते, तर्हि 'स्मितमवहसितं विहसितमुपहसितं चापहसितमतिहसितम्' इति षोढात्वं हास्यरसस्य कथं भवेत् । अन्यच्च उत्तरोत्तरप्रकर्षतारतम्यवशेन 'प्रथमे त्वभिलाषः स्याद्वितीये त्वर्थचिन्तनम् । अनुस्मृतिस्तृतीये च चतुर्थे गुणकीर्तनम् ॥ उद्वेगः पञ्चमे ज्ञेयो विलाप: षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो भवेयाधिरथाष्टमे । नवमे जडता प्रोक्ता दशमे मरणं भवेत् ॥' इति दशावस्थः कामोऽभिहितः । तत्रापि प्रत्यवस्थमुत्तरोत्तरप्रकर्षतारतम्यसंभवात्कामावस्थासु दशखसंख्याताः शृङ्गाररतिभावादयः प्रसजेयुः । अपरं च प्रागवस्थाभावः स्थायी, रसीभवति तु क्रमेणोपचित इत्यत्रापि वि. पर्ययो दृश्यते । यतः-इष्टजनवियोगाद्विभावादुत्पन्नो महान् शोकः क्रमेणोपशाम्यति । न तु दाळमुपैति । क्रोधोत्साहरतीनां च निजनिजकारणवलादुद्भूतानामपि कालवशादमुर्षस्थेयं सेवाविपर्ययेऽपचयोऽवलोक्यते । तस्मान्न भावपूर्वकत्वं रसस्य । अपि तु तद्विपर्यय एव । उक्तं हि मुनिना-रसपूर्वकत्वं भावानाम्, भावपूर्वकत्वं रसस्य, विषयविशेषापेक्षया प्रयोगे ह्यनुकर्तरि रसानाखादयतामनुकार्य भावप्रतीतिरुत्पद्यते' इति । प्रथमपक्षस्योत्थानम् । लोके तु भावदर्शनात्तत्वरूपरसनिष्पत्तिरिति । तस्मादन्यथा व्याख्यायते हेतुभिर्विभावाख्यैः कार्यश्चानुभावात्मभिः सहचारिरूपैश्च व्यभिचारिभिः प्रयत्नार्जिततया कृत्रिमैरपि तिथानभिमन्यमानैः संयोगाद्गम्यगमकभावरूपादनुमीयमानोऽपि वस्तुसौन्दर्यबलात्कषायफलचर्वणपरपुरुषदर्शनप्रभवमुखप्रसेककलनाकल्पया रसनीयखरूपतयान्यानुमीयमानविलक्षण: स्थायित्वेन संभाव्यमानो रत्यादि वो नटेऽत्यन्ताविद्यमानोऽपि सामाजिकजनताखाद्यमानो मुख्यरामादिगतस्थाय्यनुकरणरू. पोऽनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः । 'सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥' 'दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥' इत्यादौ हि विभावाः काव्यबलादनुसंधेयाः, अनुभावाः शिक्षातः, व्यभिचारिणः कृत्रिमनिजानुभावार्जनबलात् । स्थायी तु काव्यवलादपि नानुसंधेयः ॥ 'रतिः शोकः' इत्यादयो हि शब्दा रत्यादिकमभिधेयीकुर्वन्त्यभिधानत्वेन, न तु वाचिकाभिनयरूपतयावगमयन्ति । न हि वागेव वाचिकमपि तु तया निवृत्तमङ्गरिवाङ्गिकम् । तेन–'विवृद्धात्माप्यगाधोऽपि दुरन्तोऽपि महानपि । वाडवेनेव जलधिः 'शोकः क्रोधेन पीयते ॥' इति । तथा- शोकेन कृतस्तथा स्थितो येन क्रन्दैः । हृद
१. 'स्येव' भवेत्. २. पूर्वार्धे त्रुटितं प्रतीयते.
Page #72
--------------------------------------------------------------------------
________________
२ अध्यायः
काव्यानुशासनम् ।
५९
POSTED
OOD
यस्फुटनभयार्तेरादितुमभ्यर्थ्यते सचिवैः ॥' इत्येवमादौ न शोकोऽभिनेयोऽपि त्वभिधेयः । 'भाति पतितो लिखन्त्यास्तस्या वाष्पाम्बुसीकरकणौषः । स्वेदोद्गम इव करतलसंस्पर्शादेष मे वपुषि ॥' इत्यनेन तु वाक्येन खार्थमभिदधता उदयनगतः सुखात्मारतिस्थायिभावोऽभिनीयते न तूच्यते । अवगमनाशक्तिर्यवगमनं वाचकत्वादन्या है, अत एव स्थायि (दिवस) (१) पदं सूत्रे भिन्नविभक्तिकमपि मुनिना नोपात्तम् । तेन रतिरनुक्रियमाणः शृङ्गार इति । अर्थक्रियापि मिथ्याज्ञानादृष्टा । यथोच्यते--'मणिप्र-1 दीपप्रभयोमणिबुद्धयाभिधावतोः। मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ इति । न चात्र नर्तक एव सुखीति प्रतिपत्तिः, नाप्ययमेव राम इति, न चाप्ययं न सुखीति, नापि रामः स्याद्वा न वायमिति, न चापि तत्सदृश इति । किं तु सम्य. मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणा चित्रतुरगादिन्यायेन यः सुखी रामः असावयमिति प्रतीतिरस्तीति ॥ यदाह-प्रतिभाति न संदेहो न तत्त्वं न विपर्ययः । धीरसावयमित्यस्ति नासावेवायमित्यपि,॥ विरुद्धबुद्धयसंभेदादविवेचितविश्वः । युक्त्या' पर्यनुयुज्येत स्फुरन्ननुभवः कया ॥' इति, तदिदमप्यन्तस्तत्त्वशून्यं विमर्दक्षममिति भट्टतोतः। तथा हि-अनुकरणरूपो रस इति यदुच्यते तत्कि सामाजिकप्रतीत्यभिप्रायेण, उत नटाभिप्रायेण, किं वा वस्तुवृत्तविवेकव्याख्यातृवुद्धिसंवलनेन । यथाहुर्व्याख्यातारः खल्वेवं विवेचयन्तीति । अथ भरतमुनिवचनानुसारेण तत्रायः पक्षोऽसंगतः । किंचिद्धि प्रमाणेनोपलब्धं तदनुकरणमिति शक्यं वक्तुम् । यथा---एवमसौ सुरां पिवतीति सुरापानानुकरणत्वेन पयःपानं प्रत्यक्षावलोकितं प्रतिभाति । इह च नटगतं किं तदुपलब्धं स इत्यनुकरणतया भातीति चिन्त्यम् । तच्छरीरं तनिष्ठं प्रतिसीर्पकादिरोमाञ्चगद्गदिकादिभुजाक्षेपचलनप्रभृतिभ्रूक्षेपकटाक्षादिकं च न रतेश्चित्तवृत्तिरूपाया अनुकारत्वेन कस्यचित्प्रतिभाति । जडत्वेन भिन्नेन्द्रियग्राह्यत्वेन भिन्ना धिकरणत्वेन ततोऽतिवैलक्षण्यात् । मुख्यावलोकने च तदनुकरणप्रतिभासो न च रामर तिमुपलब्धपूर्विणः केचित् ॥ एतेन रामानकारी नट इत्यपि निरस्तः प्रवादः ॥ अथ नटगता चित्तवृत्तिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इत्युच्यते । तत्रापि किमात्मकत्वेन सा प्रतीयते इति चिन्त्यम् ॥ ननु प्रमदादिभिः कारणैः कटाक्षादिभिः कार्यै. धृत्त्यादिभिश्च सहचारिभिर्लिङ्गभूतैर्या लौकिकी कार्यरूपा कारणरूपा सहचारिरूपा च चित्तवृत्तिः प्रतीतियोग्या तदात्मकत्वेन सा नटचित्तवृत्तिः प्रतिभाति । तहि रत्यादिकारणैव सा प्रतिपन्नेति दूरे रत्यनुकरणतावाचोयुक्तिः ॥ ननु ते विभावादयोऽनु कार्ये पारमार्थिका इह त्वनुकर्तरि न तथेति विशेषः । अस्त्वेवम् , किं तु ते विभावा. दयोऽनन्तकारणानन्तकार्यानन्तसहचररूपा अपि काव्यशिक्षादिवलोपकल्पिताः कृ. त्रिमाः सन्तः किं कृत्रिमत्वेन सामाजिकैद्यन्ते, न वा । यदि गृह्यन्ते, तदा तैः कथं रतेरवगतिः । नन्वत एव प्रतीयमानं रत्यनुकरणं मुग्धबुद्धेः कारणान्तरप्रभवे हि
-
-
१. प्रमादपतितं भवेत्. २. 'शीर्षका' स्यात्.
Page #73
--------------------------------------------------------------------------
________________
६०
काव्यमाला |
कार्ये सुशिक्षितेन तथा ज्ञाते वस्त्वन्तरस्यानुमानं तावयुक्तम् । असुशिक्षितेन तु तस्यैव प्रसिद्धस्य कारणस्य यथा वृश्चिकविशेषाद्गोमयस्यैवानुमानं वृश्चिकस्यैव वा तत्परं मिथ्याज्ञानम् । प्रसिद्धा इति लक्षणात्कारणा इत्यनुकरणं नाम कारणान्तरं तत्प्रभवाश्चेदनुभावाः स्युः । तथैव च विशेषभेदा यदि ज्ञायेरंस्तदा रत्यनुकरणलक्षणस्य वस्त्वन्तरस्यानुमानं समञ्जसं स्यात् । न चैवं तत्कथमिव रत्यनुकरणप्रतीतिः । अविशेषविदा च ! तथाविधानुभावदर्शने रतिरेवानुमीयते तच्च मिथ्याज्ञानमेवेति । यत्रापि लिङ्गज्ञानं मिथ्या तत्रापि तदाभासानुमानमयुक्तम् । न हि वाष्पधूमत्वेन ज्ञानादन्यनुकारानुमानं तदनुकारत्वेन प्रतिभासमानादपि लिङ्गान्न तदनुकारानुमानं युक्तं धूमानुकारत्वेन हि ज्ञायमानान्नीहारान्नाभ्यनुकारजपापुञ्जप्रतीतिर्दृष्टा ॥ नन्वक्रुद्धोऽपि नटः क्रुद्ध इव भाति । सत्यम्, क्रुद्धेन सदृशः सादृश्यं च भ्रुकुय्यादिभिर्गोरिव गवयेन मुखादिभिरिति नैतावतानुकारः कश्चित् । न चापि सामाजिकानां सादृश्यमतिरस्ति । सामाजिकानां च न भावशून्या नर्तके प्रतिपत्तिरित्युच्यते । अथ च तदनुकारप्रतिभास इति रिक्ता वाचोयुक्तिः । यच्चोक्तं रामोऽयमित्यस्ति प्रतिपत्तिः, तदपि यदि तदात्वे निश्चितं तदुत्तरकालभाविबाधकवैधुर्याभावे कथं न तत्त्वज्ञानं स्यात् । बाधकसद्भावे वा कथं न मिथ्याज्ञानम् । वास्तवेन च वृत्तेन वाधकानुदयेऽपि मिथ्याज्ञानमेव स्यात् । तेन विरुद्धवृद्ध्यसंभेदादित्यसत् । नर्तकान्तरेऽपि रामोऽयमिति प्रतिपत्तिरस्ति । ततश्च रामत्वं सामान्यरूपमित्यायातम् ॥ यच्चोच्यते - विभावाः काव्यादनुसंधीयन्ते । तदपि न विद्मः । न हि ममेयं सीता काचिदिति वात्मीयत्वेन प्रतिपत्तिर्नटस्य ॥ अथ सामाजिकस्य तथा प्रतीतियोग्याः क्रियन्ते इत्येतावदेवानुसंधानमुच्यते, तर्हि, स्थायिनि सुतरामनुसंधानं स्यात् । तस्यैव हि मुख्यत्वेन अस्मिन्नयमिति सामाजिकानां प्रतिपत्तिः ॥ तस्मात्सामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं रस इत्यसत् । न चापि नटस्येत्थं प्रतिपत्तिः रामं तच्चित्तवृत्ति वा अनुकरोमीति । सदृशकरणं हि तावदनुकरणमनुपलब्धप्रकृतिना न शक्यं कर्तुम् ॥ अथ पश्चात्करणमनुकरणम्, तल्लोकेऽप्यनुकरणात्मतातिप्रसक्ता ॥ अथ न नियतस्य कस्यचिदनुकारोऽपि तच्च सप्रकृतेः शोकमनुकरोमीति । तत्रापि कस्योन्तमर्हि (?) केनेति चिन्त्यम् । न तावच्छोकेन, तस्य तदभावात् । न चाश्रुपातादिना शोकस्यानुकारः, तद्वैलक्षण्यादित्युक्तम् । इयत्तु स्यात् उत्तमप्रकृतेर्ये शोकानुभावास्ताननुकरोमीति । तत्रापि कस्योत्तमप्रकृतेः यस्य. कस्यचि - दिति चेत्, सोऽपि विशिष्टतां विना कथं बुद्धावारोपयितुं शक्यः । य एवं रोदितीति चेत्, स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानुकर्तृभावः । किं च---- नटः शिक्षावशात्स्वविभावस्मरणाच्चित्तवृत्तिसाधारणीभावेन हृदयसंवादात्केवलाननुभावान्दर्शयन्काव्यमुचितकाकुप्रभृत्युपस्कारेण पठंश्चेष्टत इत्येतावन्मात्रस्य प्रतीतेर्न त्वनुकारं वेदयते । कान्तवेषानुकारवद्धि न रामचेष्टितस्यानुकारः । नापि वस्तुवृत्तानुसारेण
१. 'भासादनु' स्यात्.
Page #74
--------------------------------------------------------------------------
________________
२ अध्यायः]
काव्यानुशासनम् ।
तदनुकारणत्वम् असंवेद्यमात्रस्य वस्तुवृत्तत्वानुपपत्तेः । न च मुनिवचनमेवंविधमस्ति क्वचित्स्थाय्यनुकरणं रस इति ॥ यच्चोच्यते-वर्णकैहरितालादिभिः संयुज्यमान एव गौरित्यादि, तत्र यद्यभिव्यज्यमान इत्यर्थोऽभिप्रेतः । तदसत् । न हि सिन्दूरादिभिः पारमार्थिको गौरभिव्यज्यते, प्रदीपादिभिरिव । किं तु तत्सदृशः समूहविशेषो निवर्त्यते। त एव हि सिन्दूरादयो गवावयवसंनिवेशसदृशेन संनिवेशविशेषेणावस्थिता गोसदृगिति प्रतिभासस्य विषयो नैवं विभावादिसमूहो रतिसदृशताप्रतिग्रायः । तस्माद्भावानुकरणं रस इत्यसत् ॥ येन त्वभ्यधायि सुखदुःखजननशक्तियुक्ता विषयसामग्री वाह्मैव सांख्यदृशा सुखदुःखखभावा रसः । तस्यां सामग्र्यां दलस्थानीया विभावाः संस्कारका अनुभावव्यभिचारिणः स्थायिनस्तु तत्सामग्रीजन्या आन्तराः सुखदुःखखभावा इति । तेन स्थायिभावान् रसत्वमुपनेष्याम इत्यादावुपचारमङ्गीकुर्वता ग्रन्थविरोधं खयमेव बुध्यमानेन दूषणाविष्करणमौर्यात्प्रामाणिकजनः परिरक्षित इति किमस्योच्यते यत्त्वन्यत्तत्प्रतीतिवैषम्यप्रसङ्गादि तत्कियदत्रोच्यताम् ॥ भट्टनायकस्त्वाह-'रसो न प्रतीयते, नोत्पद्यते, नाभिव्यज्यते । खगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता सीतादेरविभावत्वात् । खकान्तास्मृत्यसंवेदनात् । देवतादौ साधारणीकरणायोग्यत्वात् । समुद्रोल्लङ्नादेरसाधारण्यात् । न च तत्त्वतो रामस्य स्मृतिरनुपलब्धत्वात् । न च शब्दानुमानादिभ्यस्तत्प्रतीतौ ताटस्थ्यमेव भवेत्तत्प्रतीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता ॥ उत्पत्तावपि तुल्यमेतत् दूषणम् । शक्तिरूपत्वेन पूर्व स्थितस्य पश्चादभिव्यक्तौ विषयार्जनतारतम्यापत्तिः । खगतपरगतत्वादि च पूर्ववद्विकल्प्यम् । तस्मात्काव्ये दोषाभावगुणालंकारमयत्वलक्षणेन, नाट्ये चतु. विधाभिनयरूपेण निविडनिजमोहसंकटतानिवारणकारणाविभावादिसाधारणीकरणात्मनाभिधातो द्वितीयेनांशेन भावकत्वव्यापारेण भाव्यमानो रसोऽनुभवस्मृत्यादिविलक्षणेन रजस्तमोनुवेधवैचित्र्यवलात् हृदि विस्तरविकाशात्मना सत्त्वोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिविलक्षणेन परब्रह्मास्वादसविधेन भोगेन परं भुज्यते' इति ॥ यत्स वाह-अभिधा भावना चान्या तद्भोगीकृतमेव च । अभिधाधामतां याते शब्दार्थालंकृती ततः ॥ भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः । तद्भोगीकृतरूपेण व्याप्यते सिद्धिमान्नरः ॥' इति ॥ तत्र पूर्वपक्षोऽयं भट्टलोल्लटपक्षादभ्युपगत इति । तदूषणमनुत्थानोपहतमेव । प्रतीत्या दिव्यतिरिक्तश्च संसारे को भोग इति न विद्मः । रसेनेति चेत् । सापि प्रतिपत्तिरेव । केवलमुपायवैलक्षण्यानामान्तरं प्रतिपद्यतां दर्शनानुमितिश्रुत्युपमितिप्रतिभानादिनामान्तरवत् । निष्पादनाभिव्यक्तिद्वयानभ्युपगमे च तिस्रो वा सदा रस इति न तृतीया गतिः स्यात् न चाप्रतीतं वस्त्वस्ति तद्यवहारयोग्यम् ॥ अथो. च्यते-प्रतीतिरस्य भोगीकरणम् । तच्च रत्यादिखरूपं तदस्तु तथापि न तावन्मात्रम् । यावन्तो हि रसास्तावत्य एव रसात्मानः प्रतीतयो भोगीकरणखभावाः सत्त्वादिगु
१. 'मौखर्या' स्यात्.
Page #75
--------------------------------------------------------------------------
________________
काव्यमाला।
णानां चाङ्गाद्वैचित्र्यमनन्तकल्प्यमिति का त्रित्वेनेयत्ता । 'भावनाभाव्य एषोऽपि शृङ्गारादिगणो हि यत् ।' इति तु यत् 'काव्येन भाव्यन्ते रसाः' इत्युच्यते, तत्र विभावादिजनितचर्वणात्मकास्वादरूपप्रत्ययगोचरतापादनमेव यदि भवेद्भावनं तदभ्युपगम्यत एव ॥ यत्तूक्तम्-'संसर्गादि यथा शास्त्र एकत्वात्तलयोगतः । वाक्यार्थस्तद्वदेवात्र शृङ्गारादी रसो मतः ॥ इति, तदस्माकमभिमतमेव । तर्हि उच्यताम् परिशुद्धतत्त्व उक्तमेव मुनिना नत्वपूर्व किंचित् । तथा ह्याह-'काव्यार्थी भावयन्तीति भावाः' । अस्यार्थ:--पदार्थवाक्याौँ रसेष्वेव पर्यवस्यत इत्यसाधारण्यात्प्राधान्याञ्च काव्यस्यार्था रसाः । अर्थ्यन्ते प्राधान्येनेत्यर्थाः, न त्वर्थशब्दोऽभिधेयवाची । खशब्दानभिधेयत्वं हि रसादीनां दर्शितमेव । एवं काव्यार्था रसाः, तान् कुर्वते ये स्थायिव्यभिचारिणस्ते भावाः, स्थायिव्यभिचारिकलापेनैव ह्याखाद्योऽलौकिकोऽर्थों निर्वर्त्यते । पूर्व हि स्थाय्यादिकमवगच्छति ततः सर्वसाधारणतया आखादयति । तेन पूर्वागमगोचरीभूतः सन् स्थाय्यादिरुत्तरभूमिकामागिन आखाद्यस्य रसस्य भावको निष्पादक । उच्यते । तस्मात्काव्यार्थो रस इति । तथा हि-आरोग्यमाप्तवान् शश्वत्स्तुत्वा देवमहर्पतिम् । स्यादर्थावगतिः पूर्वमित्यादिवचने यथा ॥ ततश्चोपात्तकालादिन्यकारेणो. पजायते । प्रतिपत्तुर्मनस्येवं प्रतिपत्तिर्न संशयः ॥ यः कोऽपि भास्करं स्तौति स सर्वोऽप्यगदो भवेत् । तस्मादहमपि स्तौमि रोगनिर्मुक्तये रविम् ॥' इति । एवं काव्यात्मकादपि शब्दात्सहृदयस्याधिकास्ति प्रतिपत्तिर्न संशयः । तस्य च 'ग्रीवाभङ्गाभिरामम्-' इत्यादिवाक्येभ्यो वाक्यार्थप्रतिपत्तेरनन्तरं मानसी साक्षात्कारात्मिका अपहस्तिततद्वाक्योपात्तकालादिविभागा तावत्प्रतीतिरुपजायते । तस्यां च यो मृतपोतकादिर्भाति तस्य विशेषरूपत्वाभावाद्भीत इति । त्रासकस्यापारमार्थिकत्वाद्भयमेव परं देशकालाधनालिङ्गितं तत एव भीतोऽहम् । भीतोऽयं शत्रुर्वयस्यो मध्यस्थो वेत्यादिप्रत्ययेभ्यो दुःखसुखादिकृतहान्यादिवुद्धयन्तरोदयनियमवत्तया विघ्नबहुलेभ्यो वि. लक्षणनिर्विघ्नप्रतीतिग्राह्य साक्षादिव हृदये निवेशमानं चक्षुषोरुपरिवर्तमानं भयानको रसः । तथाविधे हि भये नात्मा तिरस्कृतो निर्विशेषत उल्लिखितः । एवं परोऽपि । तत एव च न परिमितमेव साधारण्यम् । अपि तु विततम् । व्याप्तिग्रह इव धूमाम्युभयरूपयोरेव वा । तदत्र साक्षात्कारायमाणत्वपरिपोषिका नटादिसामग्री । यस्यां वस्तुमतां काव्यार्पितानां च देशकालप्रमात्रादीनां नियमहेतूनामन्योन्यसंबन्धवलादत्यन्तमपसरणे स एव साधारणीभावः सुतरां पुष्यति । अत एव सामाजिकानामेकधनतैव प्रतिपत्तेः सुतरां रसपोषाय सर्वेषामनादिवासनाचित्रीकृतचेतसां वासनासंवादात् । सा चाविना संविच्चमत्कारतज्जोऽपि कम्पपुलकोल्लुकसनादिर्विकारश्चमत्कारो यथा-'अज्ज विहरी चमकइ कहकह वि न मंदरेण कलिआई । चंदकलाकंदलसच्छहाई लच्छीई अंगाई ॥' अद्भुतभोगात्मस्पन्दावेशरूपो हि चमत्कारः । स च साक्षात्कारखभावो मानसाध्यवसायो वा संकल्पो वा स्मृतिर्वा तथात्वेन स्फुरन्त्यस्तु । यदाह-रम्याणि वीक्ष्य
Page #76
--------------------------------------------------------------------------
________________
२ अध्यायः]
काव्यानुशासनम् । मधुरांश्च निशम्य शब्दान्पर्युत्सुकीभवति यत्सुखितोऽपि जन्तुः। तचेतसा स्मरति नूनमवोधपूर्व भावस्थितानि जननान्तरसौहृदानि ॥' इत्यादिः । अत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा न तार्किकप्रसिद्धा, पूर्वमेतस्यार्थस्याननुभूतत्वात् । अपि तु प्रतिभानापरपर्यायसाक्षात्कारखभावेयमिति । स(?)र्वतावदेषास्ति प्रतीतिराखादात्मा यत्यां रतिरेव भाति तत एव विशेषान्तरानुपहितत्वात्सा रसनीया सती लौकिकी न मिथ्या, नानिर्वाच्या, न लौकिकतुल्या, न तदारोपादिरूपा । एषैव चोपचयावस्थास्तु देशाद्यनियन्त्रणात् । अनुकारोऽप्यस्त्वनुगामितया करणात् । विषयसामग्र्यपि भवतु, विज्ञानवादावलम्बनात् । सर्वथा रसनात्मकवीतविघ्नप्रतीतिग्रायो भाव एव रसः । तत्र विनापसारका विभावप्रभृतयः । तथा हि । लोके सकलविघ्नविनिर्मुक्ता संवित्तिरेव चमत्कारनिर्वेशरसनाखादनभोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । विघ्नाश्चास्यां सप्त संभावनाविरहरूपा,प्रतिपत्तावयोग्यता। स्वगतपरगतत्वनियमेन देशविशेषावेशो, निजसुखादिविवशीभावः । प्रतीत्युपायवैकल्यस्फुटत्वाभावोऽप्रधानता । संशययोगश्च । तथा हि-संवेद्यमसंभावयमानः संवेद्ये संविदं निवेशयितुमेव न शक्तोऽस्ति । का तत्र विश्रान्तिरिति प्रथमो विनः । तदपसारणे हृदयसंवादो लोकसामान्यवस्तुविषयः । अलोकसामान्येषु तु चेष्टितेयु अखण्डितप्रसिद्धिजनितगाढरूढप्रत्ययप्रसरकारी प्रख्या. तरामादिनामधेयपरिग्रहः । अत एव निःसामान्योत्कर्षोपदेशव्युत्पत्तिप्रयोजने नाटकादौ प्रख्यातवस्तुविषयत्वादिनियमेन निरूप्यते । न तु प्रहसनादिति (2) । खैकगतानां च सुखदुःखसंविदामाखादे यथासंभवं तदपगमभीरुतया वा तत्परिरक्षाव्यग्रतया वा तत्सदृशो जिजीपया वा तज्जिहासया वा तत्प्रतिष्ठापयिपया वा तद्गोपनेच्छया वा प्रकारान्तरेण वा संवेदनान्तरसमुद्गम एव परमो विनः । परगतत्वनियमभाषजा(?)मपि सुखदुःखानां संवेदने नियमेन खात्मनि सुखदुःखमोहमाध्यस्थादिसंविदन्तरोद्गमनसंभावनादवश्यभावी विनः । तदपसारेण कार्यों नातिप्रसङ्गोऽत्र पूर्वरङ्गविधिं प्रतीति पूर्वरङ्गानिगृहनेन नटी विदूपको वापीति लक्षितप्रस्तावनालोकनेन च यो नटरूपताधिगमस्तत्पुरःसरप्रतिशीर्षकादिना तत्प्रच्छादनप्रकारोऽभ्युपायः । अलौकिकभाषादिभेदलास्यागरङ्गपीठमण्डपगतकक्षापरिग्रहनाट्यधर्मासहितः । तस्मिन् हि सति अस्यैवात्रैव एतर्येव च सुखं दुःखं वेति न भवति । प्रतीतिखरूपस्य निहवाद्रूपान्तरस्य चारोपितस्य प्रतिभासविश्रान्तिवैकल्येन स्वरूपे विश्रान्त्यभावात् । सत्येतदीयरूपनिह्नवमात्र एव पर्यवसानात् इत्येष मुनिना साधारणीभावरसचर्वणोपयोगित्वेन परिकरवन्धः समाश्रितः । तथा निजसुखादिविवशीभूतश्च कथं वस्त्वन्तरे संमदं विश्रमयेदिति तत्प्रत्यहव्यपोहनाय प्रतिपदार्थनिष्ठैः साधारणो महिना सकलभोग्यत्वसहिष्णुभिः शब्दादिविपयमयैरातोद्यगेने विचित्रमण्डपविदग्धगणिकादिभिरुपरञ्जनं समाश्रितम् ।
१. 'स्थिराणि' इति प्रसिद्धपाठः. २. 'भावजाना' स्यात्. ३. 'धर्म' स्यात्. . ४. 'प्रत्यूह' स्यात्. ५. 'धने' स्यात्.
Page #77
--------------------------------------------------------------------------
________________
काव्यमाला ।
येनाहृदयोऽपि हृदयवैमल्यप्राप्त्या सहृदयीक्रियते । किं च प्रतीत्युपायानामभावे कथं प्रतीतिभावः । अस्फुटप्रतीतिकारिशव्दलक्षणसंभवेऽपि न प्रतीतिर्विश्राम्यति स्फुट. प्रतीतिरूपः प्रत्यक्षोचितप्रत्ययसाकासत्वात् । यथाहुः-'सर्वा वेयं प्रमितिः प्रत्यक्षपरा' इति । खसाक्षात्कृते आगमानुमानशतैरप्यनन्यथाभावस्य स्वसंवेदनात् । अलातचक्रादौ साक्षात्कारान्तरेणैव बलवता तत्प्रमित्यपसारणादिति लौकिकस्तावदयं क्रमः । तस्मात्तदुभयविघ्नविघातेऽभिनयालोकधर्मिवृत्तिप्रवृत्त्युपस्कृताः समभिषिच्यन्ते । अभिनयनं हि शब्दलक्षणलिङ्गव्यापारसदृशमेव प्रत्यक्षव्यापारकल्पमिति । अप्रधाने च वस्तूनि संवित्कस्य विश्राम्यति । तस्यैव प्रत्ययस्य प्रधानान्तरं प्रत्यनुधावतः खात्मन्यविश्रान्तत्वात् । अतोऽप्रधानत्वं जडे विभावानुभाववर्ग व्यभिचारिनिचये च संविदा. त्मकेऽपि नियमेन नान्यसुखप्रेक्षिणि संभवतीति तदतिरिक्तः स्थाय्येव चर्वणापत्रम् । तत्र पुरुषार्थनिष्ठाः काश्चित्संविद इति प्रधानम् । तद्यथा--रतिः कामतदनुषङ्गिधर्मार्थनिष्ठा, क्रोधस्तत्प्रधानेष्वर्थनिष्टः कामधर्मपर्यवसितोऽप्युत्साहः समस्तधर्मादिपर्यवसितः शमश्च मोक्षोपाय इति तावत्तेषां प्राधान्यम् । यद्यपि चैषामन्योन्यं गुणभावोऽस्ति तथापि तत्तत्प्रधाने रूपके तत्प्रधानं भवतीति रूपकभेदपर्यायेण सर्वेषां प्राधान्यमेषां लक्ष्यते । अदूरभागाभिनिविष्टदृशा त्वेकस्मिन्नपि रूपके पृथक्प्राधान्यम् । तत्र सर्वेऽमी सुखप्रधानाः खसंविच्चर्वणरूपस्य एकघनस्य प्रकाशस्यानन्दसारत्वात् । तथा ह्येकघनशोकसंविच्चर्वणेऽपि लोके स्त्रीलोकस्य हृदयविश्रान्तिरन्तरायशून्यविश्रान्तिशून्यत्वात् । शरीरत्वात् (?) अविश्रान्तिरूपतयैव च दुःखम् । तत एव कापिलैर्दुःखस्य चाञ्चल्यमेव प्राणत्वेनोक्तं रजोवृत्तितां वदद्भिरित्यानन्दरूपता सर्वरसानाम् , किंतूपरञ्जकविषयवशात्केषामपि कटुपित्तास्पर्शोऽस्ति वीरस्येव । स हि क्लेशसहिष्णुतादि प्राण एव । एवं रत्यादीनां प्राधान्यम् । हासादीनां तु सातिशयं सकललोकसुलभविभावतयोपरञ्जकत्वमिति प्राधान्यम् । अत एवानुत्तमप्रकृतिषु बहुला न हासादयो भवन्ति । पामरप्रायः सर्वोऽपि हसति शोचति विभेति परनिन्दामाद्रियते। खल्पसुभाषितत्वेन च सर्वत्र विस्मयते । रत्याद्यङ्गतया तु पुमर्थोपयोगित्वमपि स्यात् स्थायित्वं चैतावतामेव । एवमप्रधानत्वनिरासः । स्थायिनिरूपणया स्थायिभावान् सत्त्वं नेष्यामः । इत्यनया सामान्यलक्षणशेषभूतया विशेषलक्षणनिष्ठया च मुनिना कृतः । तत्रानुभावानां विभावानां व्यभिचारिणां च पृथक् स्थायिनि नियमो नास्ति, बाष्पादेरानन्दार्तिरोगादिजत्त्वदर्शनात् । व्याघ्रादेश्च क्रोधभयादिहेतुत्वात् । श्रमचिन्तादेरुत्साहभयाद्यनेकसहचरत्वावलोकनात् । सामग्री वा तु न व्यभिचारिणी । तथा हि । वन्धुविनाशो यत्र विभावः परिदेविताश्रुपातादिश्चानुभावश्चिन्तादैन्यादिश्च व्यभिचारी, सोऽवश्यं शोक एवेत्येवं संशयोदये शङ्कात्मकविघ्नशमनाय संयोग उपात्तः । तत्र लोकव्यवहारे कार्यकारणसहचारात्मकलिङ्गदर्शनजस्थाय्यात्मपरचित्तवृत्त्यनुमानाभ्यास
१. 'रूपप्रत्य' स्यात्. २. 'वस्तुनि' स्यात्.
Page #78
--------------------------------------------------------------------------
________________
२ अध्यायः]
काव्यानुशासनम् ।
एष पाटवादधुना तैरेवोद्यानकटाक्षधृत्यादिभिलौकिकीं कारणत्वादिभुवमतिक्रान्तैर्विभवेनानुभवेनासमञ्जरञ्जकत्वमात्रप्राणैरत एवालौकिकविभावादिव्यपदेशभाग्भिः प्राच्यकरणादिरूपसंस्कारोपजीवनाख्यापनाय विभावादिनामधेयव्यपदेश्यैर्गुणप्रधानतापर्यायेण सामाजिकधियि सम्यग्योग संवन्धमैकाग्र्यं वासादितवद्भिरलौकिकनिर्विनसंवेदनात्मकचर्वणागोचरतां नीतोऽर्थश्चळमाणतैकसारो न तु सिद्धखभावस्तात्कालिक एव, न तु चर्वणातिरिककालावलम्बी स्थायिविलक्षण एव रसः । ननु यथा शङ्ककादिभिरभ्यधीयत-स्थाय्येव विभावादिप्रत्याय्यमानो रस्यमानत्वाद्रस उच्यते ॥ एवं हि लोकेऽपि किं न रसः, असतोऽपि हि यत्र रसनीयता तत्र वस्तुसतः कथं न भविष्यति । तेन स्थायिप्रतीतिरनुमितिरूपा वाच्या, न रसः । अत एव सूत्रे मुनिना स्थायिग्रहणं न कृतम् । तत्प्रत्युत शल्यभूतं स्यात् । केवलमौचित्यादेवमुच्यते-'स्थायी रसीभूतः' इति । औचित्यं तु तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगितया विभावादित्वा(दि)लम्बनात् । तथा हि । लौकिकचित्तवृत्त्यनुमाने का रसता तेनालौकिकचमत्कारात्मा रसाखादः स्मृत्यनुमानलौकिकखसंवेदनविलक्षण एव । तथा हि । लौकिकेनानुमानेन संस्कृतः प्रमदादिर्न ताटस्थ्येन प्रतिपद्यते, अपि तु हृदयसं. वादात्मकसहृदयत्ववलात्पूर्णीभविष्यद्रसाखादाकुरीभावेनानुमानस्मृत्यादिसोपानमनारुथैव तन्मयीभावोचितचर्वणाप्राणतया । न च सा चर्वणा प्राड्यानान्तरात् , येनाधुना स्मृतिः स्यात् । न चात्र लौकिकप्रत्यक्षादिप्रमाणव्यापारः, किं त्वलौकिकविभावादिसंयोगवलोपनतैवेयं चर्वणा। सा च प्रत्यक्षानुमानागमोपमानादिलौकिकप्रमाणजनितरत्याद्यबोध- - स्तथा योगिप्रत्यक्षजतटस्थपरसंवित्तिज्ञानात्सकलवैषयिकोपरागशून्यश्च ह्यपरयोगिगतखानन्दैकघनानुभवाच्च विशिष्यते । एतेषां यथायोगमर्जनादिविनान्तरोदयेन ताटस्थ्यहेतुकास्फुटत्वेन विपयावेशवैवश्येन च सौन्दर्यविरहात् । अत्र तु खात्मैकगतल नियमासंभवान विपयावेशवैवश्यम् , खात्मानुप्रवेशात्परगतत्वनियमाभावान ताटस्थ्यस्फुटत्वम् । तद्विभावादिसाधारण्यवशसंप्रवुद्धोचितनिजरत्यादिवासनावेशवशाच न विनान्तरादीनां संभवः । अत एव विभावादयो न निष्पत्तिहेतवे रसस्य, तद्वोधापगमेऽपि रससंभवप्रसङ्गात् । नापि ज्ञप्तिहेतवः, येन प्रमाणमध्ये पतेयुः । सिद्धस्य कस्यचित्प्रमेयभूतरसत्याभावात् । तर्हि किमेतद्विभावादय इति । अलौकिक एवायं चर्वणोपयोगी विभावादिव्यवहारः। कोऽन्यत्रेत्थं दृष्टमिति चेद्भूषणमस्माकमेतदलौकिकत्व सिद्धौ । पानकरसास्वादोऽपि किं गुडमरिचादिपु दृष्ट इति समानमेतत् ॥ न त्वेवं रसोऽप्रमेयः स्यात् । एवं युक्तं भवितुमर्हति रस्यतैकप्राणो ह्यसौ न प्रमेयादिस्वभावः । तहि सूत्रे निष्पत्तिरिति कथं नायं रसः(१) स्यात् , अपि तु तद्विषयाया रसनायाः । तनिष्पत्त्या तु यदि तदेकायत्तजीवितस्य रसस्य निष्पत्तिरुच्यते । तन्न कश्चिदत्र दोषः । सा च
१. 'नतु' स्यात्. २. 'क्वान्यनेत्थं' स्यात्. ३. 'नन्वेवं' स्यात. ४. 'नाम रसस्य स्यात्' स्यात्.
-
Page #79
--------------------------------------------------------------------------
________________
काव्यमाला।
-
-
स च न विभावादेः कार्यः, तद्विनाशेऽपि रससंभवप्रसङ्गात् । नापि ज्ञाप्यः, सिद्धस्य तस्याभावात् ॥ कारकज्ञापकाभ्यामन्यत् क दृष्टमिति चेत्, न क्वचिदृष्टमित्यलौकिकत्वसिद्धभूषणमेतन्न दूषणम् । विभावादीनां चू_समस्तानामभिव्यञ्जकत्वम्, न व्यस्तानां व्यभिचारात् । व्याघ्रादयो हि विभावा भयानकस्येव वीराद्भुतरौद्राणाम् । अश्रुपातादयोऽनुभावाः करुणस्येव शृङ्गारभयानकयोः । चिन्तादयो व्यभिचारिणः करुणस्येव शृङ्गारवीरभयानकानाम् ॥ यत्राप्येकैकस्योपादानम्, यथा'केलीकन्दलितस्य विभ्रममधो धुर्य वपुस्ते दृशौ
भङ्गीभङ्गुरकामकार्मुकमिदं भ्रूनर्मकर्मक्रमः । आपातेऽपि विकारकारणमहो वक्राम्बुजन्मासवः ।।
सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेकाकृतिः ॥ अत्र विभावानाम् ,
रसना न प्राणव्यापारो न कारकव्यापारः वयं तु नाप्रामाणिकी खयं वेदनसिद्धत्वात् । रसना च बोधरूपैव किं तु वोधान्तरेभ्यो लौकिकेभ्यो विलक्षणैव, उपायानां विभावादीनां लौकिकवैलक्षण्यात् । तेन विभावादिसंयोगासनायत्तो निष्पद्यते । ततस्तथाविधरसनागोचरालौकिकोत्तरार्थों रस इति तात्पर्यम् । सूत्रस्यायमत्र संक्षेपः । मुकुटप्रतिशीर्षकादिना तावन्नटवुद्धिराच्छाद्यते । गाढप्राक्तनसंवित्संस्काराच्च काव्यवलानीयमानापि न तत्र रामधीर्विश्राम्यति । तत एवोभयदेशकालत्यागः । रोमाञ्चादयश्च भूयसा रतिप्रतीतिकारितया दृष्टास्तत्रावलोकिताः देशकालानियमेन रतिं गमयन्ति । यस्यां खात्मापि तद्वासनावत्वादनुप्रविष्टः । अत एव तटस्थतया रत्यवगमः । न च नियतकारणतया, येनार्जनाभिध्वङ्गादिसंभावना । न च नियतपरात्मैकगतया, येन दुःखद्वेषाद्युदयस्तेन साधारणीभूता संतानवृत्तेरेकस्या एव वा संविदो गोचरीभूता रतिः शृङ्गारः । साधारणीभावना च विभावादिभिरिति श्रीमानभिनवगुप्ताचार्यः ॥ एतन्मतमेव वास्माभिरुपजीवितं वेदितव्यम् ॥ तत्र विभावप्राधान्ये व्यभिचारिणां प्राधान्यं यथा'आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशकिनी जहौ । अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् ॥' इत्यत्र सुकुमारमुग्धप्रमदाजनभूषणभूतस्य वितर्कत्रासशङ्कादेः प्राधान्यम् । तद्विभावानां सौन्दर्यातिशयकृतां प्राधान्यात् । आत्तमित्याद्यर्पि
१. 'ना यतो' स्यात,
Page #80
--------------------------------------------------------------------------
________________
२ अध्यायः ]
काव्यानुशासनम् ।
'यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यगात्राणि दरिद्रति प्रतिदिनं दूनाब्जिनीनालवत् । दूर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥' अत्रानुभावानाम्, 'दूरादुत्सुकमागते विचलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किंचाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाप्पाम्बुपूर्णक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ अत्रौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां व्यभिचारिणाम्, तत्राप्येते - ' पामौचित्यादन्यतमद्वयाक्षेपकत्वमिति न व्यभिचारः ॥
६७
रसभेदानाह---
शृङ्गारहास्य करुणा रौद्रवीरभयानका वीभत्साद्भुतशान्ता नव
रसाः ।
तत्र कामस्य सकलजातिसुलभतयात्यन्तपरिचितत्वेन सर्वान्प्रतिहृद्यतेति पूर्वं शृङ्गारः । तदनुगामी च हास्यः । निरपेक्षकभावत्वात्तद्विपरीतस्ततः करुणः । ततस्तन्निमित्तमर्थ प्रधानो रौद्रः । ततः कामार्थयोर्धर्ममूल
तानुभाववर्गस्तु तदनुयायी । अनुभावप्राधान्ये च तेषां प्राधान्यं दूरादित्यादिना उदा - हरिष्यते । अन्यतमेति । विभावापेक्षयानुभावव्यभिचारिणाम्, अनुभावापेक्षया विभावव्यभिचारिणाम, व्यभिचार्यपेक्षया विभावानुभावानां चान्यतमत्वम् । तथा हि । केलीकन्दलितेत्यादी विभावभूतस्य सौन्दर्यस्यानुगतत्वेन केलीविभ्रमभङ्गुर नर्मादिपदमहिनानुभाववर्गों भक्रिमविकारादिशब्दवलाच्च व्यभिचारिवर्गः प्रतिभाति । यद्विश्रम्येत्यादी विश्रान्तिलक्षणस्तम्भविलोकन वैचित्र्यगात्रता नवता रसस्य पुलकवैवर्ण्यदेरनुभावस्यानुगतत्वेन विश्रम्येति बहुश इति प्रतिदिन मिति पदसमर्पितोऽभिलाषचिन्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृति वितर्कादिव्यभिचारिगणः । कृष्ण इत्यादि - पदार्पितस्तु विभावः । दूरादुत्सुकमित्यादौ औत्सुक्यादेर्व्यभिचारिणोऽनुगतत्वेन दूरादित्यादिपदार्पितः सहसा प्रसरणादिरूपोऽनुभावः प्रेयसीति विभावश्च प्रकाशत इति । एवं द्वयप्राधान्ये चोदाहार्यम्, किं तु समप्राधान्य एव रसास्वादस्योत्कर्ष: । तच्च प्रबन्ध
Page #81
--------------------------------------------------------------------------
________________
६८
etacti
त्वाद्धर्मप्रधानो वीरः । तस्य भीताभयप्रदानसारत्वादनन्तरं भयानकः । तद्विभावसाधारण्यसंभावनात्ततो बीभत्सः । इतीयद्वीरेणाक्षिप्ते वीरस्य पर्यन्तेऽद्भुतः फलमित्यनन्तरं तदुपादानम् । ततस्त्रिवर्गात्मक प्रवृत्तिधर्मविपुरीतनिवृत्तिधर्मात्मको मोक्षफलः शान्तः । एते नवैव परस्परासंकीर्णा रसाः ॥ [तेनार्द्रतास्थायिकः स्नेहो रस इत्यसत । तस्य रत्यादावन्तर्भावात् । तथा c. हि यूनो मित्रे स्नेहो रतौ, लक्ष्मणादेर्भ्रातरि स्नेहो धर्मवीरे, बालस्य मातापित्रादौ स्नेहो भये, विश्रान्तः । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् ॥ तथा गर्धस्थायिकस्य लौल्यरसस्य हासे वा रतौ वान्यत्र वान्तर्भावो वाच्यः । एवं भक्तावपि वाच्यम् ॥
काव्यमाला |
तत्र शृङ्गारमाह
स्त्रीपुंसमाल्यादिविभावा जुगुप्सालस्यौग्यवर्जव्यभिचारिका रतिः संभोगविमलम्भात्मा शृङ्गारः ।
स्त्रीपुंसौ परस्परं तयोश्चोपयोगिनो माल्यर्तुशैलपुर हर्म्यनदीचन्द्रपवनोद्यानदीर्घिकाजलक्रीडादयश्च श्रयमाणा अनुभूयमाना वा आलम्बनोद्दीपन - रूपा विभावा यस्याः सा, जुगुप्सालस्यौग्यवर्जितव्यभिचारिका समग्र
एव भवति । वस्तुतस्तु दशरूपक एव । यदाह वामनः - 'संदर्भेषु दशरूपकं श्रेयः । 'तद्विचित्रं चित्रपटवद्विशेषसाकल्यात् । तद्रूपसमर्पणया तु प्रवन्धे भाषादिप्रवृत्तौ चित्यादिकल्पनात् । तद्रूपजीवनेन मुक्तके । तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प 'हमत्र वक्तास्मिन्नवसरे' इत्यादि बहुतरं पीठबन्धरूपं विदधते । नवैवेति । पुमर्थोपयोगित्वेन रञ्जनाधिक्येन चेयतामेवोपदेश्यत्वादिति भावः । तस्येति स्नेहस्य । स्नेहो भक्तिवत्सल्यमिति हि रतेरेव विशेषाः । तुल्ययोर्या परस्परं रतिः सस्नेहः । अनुत्तमोत्तमे रतिः प्रसक्तिः । सैव भक्तिपदवाच्या । उत्तमस्यानुत्तमे तिर्वा । दौ च विषये भावस्यैवाखाद्यत्वमिति ॥ जुगुप्सालस्यौय्यवर्जितव्यभिचारिणीति । जुगुप्सा स्थायिन्यपीह निषिद्धा न्यायसिद्धं स्थायि - (नामपि व्यभिचारित्वमनुज्ञापयति । आलस्यादिव खविभावप्रमदादिविषयमेव निषिद्धम् । तेन 'चं पुरलसद्वाहु लक्ष्म्या' इति, तथा - 'कतिचिदहानि बभूव केवलमल
१. ‘कल्प्य’ स्यात्. २. 'अनुत्तमस्योत्तमे' स्यात्. ३. 'चारिका' इति मूले पाठः . ४. 'दि च' स्यात्. ५. 'वपुरलसद्वाहु' स्यात्.
Page #82
--------------------------------------------------------------------------
________________
२ अध्यायः ]
काव्यानुशासनम् ।
६९
विषयग्रामसमग्रयोः स्थिरानुरागयोः संप्रयोगसुखैषिणोः कामिनोर्यूनोः A परस्परविभाविका द्वयोरप्येकरूपा प्रारम्भादिफलपर्यन्त व्यापिनी सुखोत्तरा आस्थाबन्धात्मिका रतिः स्थायीभावश्चर्वणागोचरं गतः शृङ्गारो रसः । देवमुनिगुरुनृपपुत्रादिविषया तु भाव एव, न पुना रसः ॥
A
देवविषया यथा—
'यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ।
तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥' मुनिविषया यथा
'गृहाणि नाम तान्येव तपोराशिर्भवादृशः ।
संभावयति यान्येव पावनैः पादपांशुभिः ॥'
अनुभावास्तु संभोगविप्रलम्भयोः प्रत्येकं वक्ष्यन्ते इति इह नोक्ताः ॥ संभोगविप्रलम्भात्मेति संभोगविप्रलम्भावात्मा न त्वात्मानौ यस्य स तथा । तेन(?) शृङ्गारस्येमौ भेदौ गोत्वस्येव शावलेयबाहुलेयौ । अपि तु | दशाद्वयेऽप्यनुयायिनी या रतिरास्थाबन्धात्मिका तस्याः स्वाद्यमानं रूपं । शृङ्गारः । संभोगविप्रलम्भयोस्तु शृङ्गारशब्दो ग्रामैकदेशे ग्रामशब्दवदुपचारात् । तथाहि । विप्रलम्भेऽनवच्छिन्न एव संभोगमनोरथः, निराशत्वे तु करुण एव स्यात् । संभोगेऽपि न चेद्विरहाशङ्का तदा खाधीनेऽनुकूले चानादर एव स्यात्, वामत्वान्मनोभुवः ।
यदाह मुनिः——
'यद्वामाभिनिवेशित्वं यतश्च विनिवार्यते । दुर्लभत्वं च यन्नार्याः कामिनः सा परा रतिः ॥' अत एव तद्दशाद्वयमीलन एव सातिशयश्चमत्कारः ।
सेक्षणं तस्याः ।' इत्यादि न विरूपकं मन्तव्यम् ॥ प्रारम्भादीति । एतेन अभिलाषमात्रसारायाः कामावस्थानुवर्तिन्याः व्यभिचारिरूपाया रतेर्विलक्षणत्वमाह ॥ वामाभिनिवेशित्वमिति । सुलभावमानी हि मदन इति तद्विदः । तथा ह्यभिलष्यमाणं
4
Page #83
--------------------------------------------------------------------------
________________
७०
यथा
काव्यमाला |
'एकस्मिन्छयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम् । दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो
भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहम् ॥' सैषा विभावादिसामग्री वस्तुतः प्रबन्ध एव प्रथते, मुक्तकेषु तु का - J/ल्पनिक्येव ॥
तत्र संभोगमाह - सुखमयवृत्यादिव्यभिचारी रोमाञ्चाद्यनुभावः संभोगः । लज्जाद्यैर्निषिद्धान्यपीष्टानि दर्शनादीनि कामिनौ यत्र 'संभुक्तः स संभोगः । स च सुखमयधृत्यादिव्यभिचारिरोचितो रोमाञ्चखेदकम्पामेखलास्खलनश्वसितसाध्वस केशबन्धनवस्त्रसंयमनवस्त्राभरणमाल्यादिसम्यङिवेशनविचित्रे क्षणचाटुप्रभृतिवाचिककायिक मानसिकव्यापारलक्षणानुभावः परस्परावलोकनालिङ्गनचुम्बनाद्यनन्तभेदः ।
यथा
'कासनसंग प्रियतमे पश्चादुपेत्यादरा
देकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
-वस्तु प्राप्तं चेत्कोऽभिलाषः । तेन प्राप्तं प्राप्तमपहारितमिव गतं गतं प्राप्तमिवेत्येवं परम्पराक्रमेण वर्धिष्णुरयं कामः परमां प्रीतिं तनोति । न ह्यत्र कण्डूयायामिव निवृत्तिः साध्या, अपि तु भोगात्मकं सुखमिति रतिहेतुत्वाद्रतिः काम इत्यर्थः ॥ सैषेति । स्त्रीपुंस ऋतुमाल्यादिका प्रबन्ध एवेति रत्नावल्यादौ । ऋतुमाल्यादिर्हि विभाव आलम्बनोद्दीपनतया उभयरूपोऽपि सामस्त्येन शृङ्गारस्य विभावत्वेन मन्तव्यः । युक्तं चैतत्, अन्यथा अत्रैव रूपके उद्यानऋतुमाल्यादीनां सर्वेषां दर्शनान्नैको रसः स्यात् विभावभेदात् ॥ काल्पनिकीति । विभावादिवर्गस्य तावतस्तत्रानुसंधानं कल्पत इत्यर्थः ॥ सुखमयेति । यद्यपि रतिश्रमकृतं निद्रादि संभोगेऽप्यस्ति तथापि न तद्वतौ चित्रतामाधत्ते, विप्रलम्भे तु तद्रतिविभावनापरम्परोदितमेवेति युक्तमेवेत्यत्र सुखमयत्वम् ॥ दृष्वैकासनेति । एका निजत्वेन स्थिता । अपरा तत्सखी प्रच्छन्ना ।
१. 'संभुङ्कः' स्यात्.
Page #84
--------------------------------------------------------------------------
________________
२ अध्यायः ]
काव्यानुशासनम् ।
ईषद्वक्रितकंधरः सपुलकः प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥'
विप्रलम्भमाह—
शङ्कादिव्यभिचारी संतापाद्यनुभावोऽभिलापमानप्रवासरूपो विमलम्भः ।
यथा
संभोगसुखाखादलोभेन विशेषेण प्रलभ्यते आत्मात्रेति विप्रलम्भः । स च शङ्कौत्सुक्यमदग्लानिनिद्रासुप्तप्रबोधचिन्तासूयाश्रम (स) निर्वेदमरणोन्मादजडताव्याधिस्वप्नापस्मारादिव्यभिचारी संतापजागर कार्यप्रलापक्षाम नेत्रवचोवक्रतादीनसंचरणानुकारकृतिलेख लेखनवाचनखभावनिह्नववार्ताप्रश्नस्नेहनिवेदनसात्त्विकानुभव नशीतसेवनमरणोद्यम संदेशाद्यनुभावस्त्रिधा, अभिलाषमानप्रवासभेदात् ॥ करुणविप्रलम्भस्तु करुण एव ।
७१
'हृदये वससीति मत्प्रियं यदवो चस्तदवैमि कैतवम् । उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥
इत्यादिरतिप्रलापेषु ॥ तत्राभिलाषविप्रलम्भमाहदैवपारवश्याभ्यामाद्यो द्वेधा । आद्योऽभिलाषविप्रलम्भः ॥
कथमन्यथा एकासनसंगतिः । निमील्यमाननयना च न द्वेष्या । तथा हि प्रियतमे इति कथम् । क्रीडामनुवन्नाति यन्नयननिमीलनं तदेवापरनायिका चुम्बनार्थं विहितं छलं येन सः । चुम्बनार्थमीषद्वक्रितकंधरो मनाक्चलितग्रीवः । सपुलकः उत्पन्नसात्त्विकः प्रमोदोह्रसन्मानसादौ सपत्नीवञ्चनाभिमान एव हेतुः ॥ शङ्केति । दुःखप्रायव्यभिचारीत्यर्थः । 'मरणमचिरकालप्रत्यापत्तिमयमत्र विवक्षितम्, येन शोकावस्थानमपि न लभते । यथा—'तीर्थे तोयव्यतिकर - ' इत्यादौ । अत एव सुकविना वाक्यभेदेनापि मरणं नाख्यातम् । प्रतीतिविश्रान्ति स्थानत्वपरिहाराय तृतीयपादेन च विभवानुसंधानं दर्शितम् । पुनर्ग्रहणेन स एवार्थः सुतरां द्योतितः । अथ वा चैतन्यावस्थैव प्राणत्यागकर्तृता
१. 'प्रेमोल्लस' स्यात्. २. 'विभावा' स्यात्.
Page #85
--------------------------------------------------------------------------
________________
७२
- . काव्यमाला।
स देवाद्यथा
'शैलात्मजापि पितुरुच्छिरसोऽभिलाषं . ____ व्यर्थ समर्थ्य ललितं वपुरात्मनश्च । सख्योः समक्षमिति चाधिकजातलज्जा
शून्या जगाम भवनाभिमुखी कथंचित् ॥' पारवश्याद्यथा'स्मरनवनदीपूरेणोढा मुहुर्गुरुसेतुभि
यदपि विधृता दुःखं तिष्ठन्त्यपूर्णमनोरथाः । तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥' - प्रतिज्ञाभङ्गभीत्यापि यो न सङ्गः कादम्बर्याश्चन्द्रापीडेन, सोऽपि पारवश्यज एव ॥
मानविप्रलम्भमाहप्रणयाभ्यां मानः ।
प्रेमपूर्वको वशीकारः प्रणयः, तद्भङ्गे मानः प्रणयमानः । स च स्त्रियाः पुंस उभयस्य वा। त्मिका पाशबन्धाद्यवसरगता मन्तव्या, न तु जीवितवियोगः सुलभोदाहरणं चैतदिति । उन्मादापस्मारव्याधीनां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया, कुत्सिता तु संभवेऽपि नेति वृद्धाः । वयं तु ब्रूमः-तादृश्यां दशायां जीवितनिन्दात्मिकायां तद्देहोपभोगसाररत्यात्मकस्थो बन्धादिर्विद्यत एवेत्यसंभव एवेति ॥ स्मरेति। स्मर एव नदीपूरः प्रावृषेण्यप्रवाहः सरभसमेव प्रवुद्धखात् । तेन ऊढा परस्परसांमुख्य'मबुद्धिपूर्वमेव नीताः । अनन्तरं गुरव एव श्वश्रूप्रभृतयः सेतवः इच्छाप्रसरनिरोधकत्वात् । अथ च गुरवोऽलङ्घयाः सेतवस्तैर्विधृताः प्रतिहतेच्छा अत एव पूर्णमनोरथास्तिष्ठन्ति, तथापि परस्परोन्मुखतालक्षणान्योन्यतादात्म्येन खदेहे सकलवृत्तिनिरोधाल्लिखितप्रायैरङ्गैर्नयनान्येव नलिनीनालानि तैरानीतं रसं परम्परालक्षणमाखादयति' । परस्पराभिलाषात्मकदृष्टिच्छटामिश्रीकारयुक्त्यापि कालमतिवाहयंतीति ॥
१. तिष्ठत्यपूर्णमनोरथा' इति वाग्भटकाव्यानुशासने. १. 'अपूर्ण' स्यात्. २. 'परस्परालोकनलक्षण' स्यात्.. ३.. -'न्ति' स्यात्. ४. 'न्तीति' स्यात.
Page #86
--------------------------------------------------------------------------
________________
२ अध्यायः] काव्यानुशासनम् । स्त्रियाः यथा
'प्रणयकुपितां दृष्ट्वा देवी ससंभ्रमविस्मृत
स्त्रिभुवनगुरुीत्या सद्यः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहता
ववतु भवतत्यक्षस्यैतद्विलक्षमवस्थितम् ॥' पुंसो यथा'अस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः
सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया
कातर्यादरविन्दकुडालनिभो मुग्धः प्रणामाञ्जलिः ॥ उभयस्य यथा
'पणयकुवियाण दुण्ह वि अलियपसुत्ताण माणइत्ताणम् ।
निचलनिरुद्धनीसासदिन्नकन्नाण को मल्लो ।' ईर्ष्यामानः स्त्रीणामेव यथा'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे
धत्से यच्च नदीं विलज शिरसा तच्चापि सोढं मया । श्री तामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं ___ मा स्त्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥' प्रवासविप्रलम्भमाहकार्यशापसंभ्रमैः प्रवासः। प्रवासो भिन्नदेशत्वम् ।
तत्र कार्यहेतुकः प्रवासो यथा. 'याते द्वारवतीं तदा मधुरिपौ तदत्तझम्पानतां
कालिन्दीतटरूढवञ्जललतामालिङ्गय सोत्कण्ठया । १. 'प्रणयकुपितयोयोरप्यलीकप्रसुप्तयोर्मानवतोः ।
निश्चलनिरुद्धनिश्वासदत्तकर्णयोः को मल्लः ॥' [इति च्छाया।] २. र्याताम्बुधिमन्थने यदि हरि' इति वाग्भटकाव्यानुशासने पाठः साधुः.
.
१०
Page #87
--------------------------------------------------------------------------
________________
७४
काव्यमाला।
तद्गीतं गुरुबाष्पगद्गदगलत्तारखरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥' शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम् ॥ , संभ्रमो दिव्यमानुषविद्वरादुत्पातवातादिविप्लवात् परचक्रादिविप्लवाद्वा व्याकुलत्वम् ।
यथा मकरन्दयुद्धसाहाय्यं कर्तुं गतस्य माधवस्य'हा प्रिये, हा मालति, किमपि किमपि शङ्के मङ्गलेभ्यो यदन्य
द्विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । . कलयसि कलितोऽहं वल्लभे देहि वाचं
भ्रमति हृदयमन्तर्विह्वलं निर्दयासि ॥' हास्यमाहविकृतवेषादिविभावो नासास्पन्दनायनुभावो निद्रादिव्यभिचारी हासो हास्यः। - देशकालवयोवर्णवैपरीत्याद्विकृताः केशबन्धादयो वेषाः, आदिशब्दान्न। र्तनान्यगत्याद्यनुकरणासत्प्रलापभूषणादीनि विभावा यस्य सः, तथा नासौ. ष्ठकपोलस्पन्दनदृष्टिव्याकोशाकुञ्चनखेदास्यरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थत्रपालस्यादि व्यभिचारी हासः स्थायी चर्वणीयत्वमागतो हास्यः ।
स चात्मस्थः परस्थश्च । तत्रात्मस्थमाहउत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थस्त्रेधा । स इति हासः । यद्भरतः
'ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥ आकुञ्चिताक्षिगण्डं यत्सखनं मधुरं तथा ।
कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥ १. भरतमुनिना वाग्भटेन च तन्द्राप्यभिहिता.
Page #88
--------------------------------------------------------------------------
________________
२ अध्यायः] काव्यानुशासनम् ।
अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च ।
उत्कम्पितांसकशिरस्तचापहसितं भवेत् ॥ परस्थमाहएतत्संक्रमजैर्हसितोपहसितातिहसितैः परस्थोऽपि । एतेषां स्मितादीनां संक्रान्त्या जातैर्यथासंख्येनोत्तमादिषु । यद्भरतः
'उत्फुल्लानननेनं तु गण्डैविकसितैरथ ।। किंचिल्लक्षितदन्तं च हसितं तद्विधीयते ॥ उत्फुल्लनासिकं यत्तु जिह्मदृष्टि निरीक्षितम् । निकुञ्चितांसकशिरस्तच्चोपहसितं भवेत् ॥ संरब्धसास्रनेत्रं च विकुष्टखरमुद्धतम् ।
करोपगूढपाच च तच्चातिहसितं भवेत् ॥' तत्रात्मस्थो हासो यथा'पाणौ कङ्कणमुत्फणः फणपतिर्नेत्रं ज्वलत्पावकं
कण्ठः कूटितकालकूटकुटिलो वस्त्रं गजेन्द्राजिनम् । गौरीलोचनलोभनाय सुभगो वेषो वरस्यैष मे
गण्डोल्लासविभावितः पशुपतेहास्योद्मः पातु वः ॥'
संक्रान्त्येऽपि । परं हसन्तं दृष्ट्वा स्वयं विभावानपश्यन्नपि हसंल्लोके दृष्टः । तथा विभावादिदर्शनेऽपि गाम्भीर्यादनुदितहासोऽपि परकीयहासावलोकने तत्क्षणं हासविवशः संपद्यत एवेति । यथा अम्लदाडिमादिरसाखादोऽन्यत्रापि दन्तोदकविकारानुरूपदर्शनात् संक्रमणखभावः, तथा हासोऽपि संक्रामति, नान्ये । यस्तु खामिशोकाद्धृत्यस्य शोकः सोऽन्यः एव शोकवत्स्वामिविभावको विभावभेदात् । इह च तद्विभावक एव हास्यः संक्रामतीत्यर्थः । स्मितं हि यदुत्तमप्रकृती, तत्संक्रीत हसितं संपद्यते । एवं ! विहसितं मध्यमप्रकृतौ संक्रान्तमुपहसितम् । अपहसितमधमप्रकृतौ संक्रान्तमतिहसितमिति स्मितस्य ईषत्तायां व्यपगतायां हसितम्, ततो विशेषेण ततोऽपि परस्परसमीपं
१. 'साश्रुने' भरत० २. 'विक्रुष्ट' भरतात. १. 'न्त्येति' स्यात्, २. 'संक्रान्त' स्य
Page #89
--------------------------------------------------------------------------
________________
७६
काव्यमाला ।
परस्थो यथा'कनककलशखच्छे राधापयोधर मण्डले
नवजलधरश्यामामात्मद्युतिं प्रतिविम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिप
जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥'
करुणमाह
इष्टनाशादिविभावो दैवोपालम्भाद्यनुभावो दुःखमयव्यभिचारी शोकः करुणः ।
इष्टवियोगानिष्टसंप्रयोगविभावो दैवोपालम्भनिःश्वासतानवमुखशोषण
खरभेदाश्रुपातवैवर्ण्यप्रलयस्तम्भकम्पभूलुठनगात्रसंसाक्रन्दाद्यनुभावो निर्वेदग्लानिचिन्तौत्सुक्यमोहश्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारालस्यमरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकः स्थायीभावश्वर्वणीयतां गतः करुणो रसः ।
यथा
'अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः । ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ||' इत्यादि रतिप्रलापेषु || रौद्रमाह
दारापहारादिविभावो नयनरागाद्यनुभाव औग्यादिव्यभिचारी क्रोधो रौद्रः ।
दारापहारदेशजात्यभिजनविद्याकर्मनिन्दासत्यवचनप्रभृत्याधिक्षेपोपहास
वाक्पारुष्यद्रोहमात्सर्यादिविभावो नयनरागभ्रुकुटीकरणदन्तौष्ठपीडनगण्ड
स्फुरणहस्ताग्रनिःपेषताडनपाटनपीडनप्रहरणाहरणशस्त्रसंपातरुधिराकर्षणच्छेदनाद्यनुभाव औग्र्यावेगोत्साहविबोधामर्षचापलादिव्यभिचारी क्रोधः स्थायिभावश्वर्वणीयतां तास्यरागं तद्वे रसः ।
१. ‘निष्पेषु’ स्यात्तग्भटेन च तन्द्राप्यभि
Page #90
--------------------------------------------------------------------------
________________
२ अध्यायः
काव्यानुशासनम् ।
यथा'चञ्चद्धजभ्रमितचण्डगदाभिघात
संचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावनद्धघनशोणितशोणपाणि
रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥' वीरमाह. नयादिविभावः स्थैर्यानुभावो धृत्यादिव्यभिचार्युत्साहो धर्मदानयुद्धभेदो वीरः।
प्रतिनायकवर्तिनयविनयासमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधिक्षेपादिविभावः स्थैर्यधैर्यशौर्यगाम्भीर्यत्यागवैशारद्याद्यनुभावो धृतिस्मृ. त्यौग्र्यगर्वामर्षमत्यावेगहर्षादिव्यभिचारी उत्साहः स्थायिभावश्चर्वणीयतां गतो धर्मदानयुद्धभेदात्रेधा वीरः। गतम् अन्यदपहसितमतिशयेन चेत्युपसर्गभेदादर्थभेदः ॥ चञ्चद्धजेति । चञ्चद्भयां वेगावर्तमानाभ्यां भुजाभ्यां भ्रमिता ये पञ्च दारुणा गदा तया योऽभितः सर्वतः ऊर्ध्वाधस्तेन सम्यग्घूर्णितं पुनरनुत्थानोपहतं कृतमूरुयुगलं युगपदेवोरुद्वयं यस्य तं सुयोधनमनात्यैव स्त्यानेनावश्यानतया न तु कालान्तरशुष्कतयावनद्धं हस्ताभ्यामविचलद्रूपमत्यन्तमाभ्यन्तरतया धनं न तु रसमानखभावं यच्छोणितं रुधिरं तेन शोणौ लोहितौ पाणी यस्य । अत एव स भीमः कातरत्रासदायी । तवेति । यस्यास्तत्तदपमानीतं कृतं देव्यनुचितमपि, तस्यास्तव कचानुत्तंसयिष्यति उत्तंसवतः करिष्यतीति वेणीलमपहरन् करविच्युतशोणित(शोणित)शकललोहितकुसुमापीडेनेव योजयिष्यतीत्युत्प्रेक्षा । तव देवीत्यनेन कुलकलनखलीकारस्मरणकारिणा क्रोधस्यैवोद्दीपनविभावलं कृतमिति मात्र शृङ्गारशङ्का कर्तव्या । सुयोधनस्य चानादरणं द्वितीयगदाघातदानाद्यनुद्यमः, स च संचूर्णितोरखादेव । स्थानग्रहणेन द्रौपदीमन्युप्रक्षालने खरा सूचिता ॥ नयेति । संध्यादिगुणानां सम्यग्प्रयोगो नयः इन्द्रियजयो विनयः । असंमोहेनाध्यवसायो वस्तुतत्त्वनिश्चय इति मन्त्रदर्शिता । हस्त्यश्वरथपादातं बलम् । अवस्कन्दयुद्धादौ सामर्थ्य शक्तिः । शत्रुविषयसंतापकारिणी प्रसिद्धिः प्रतापः । अभिजनधनमन्त्रिसंपत् प्रभावः । सामाद्युपायानामेकद्वित्रिचतुरादिभेदैर्यथाविषयं नियोजनं वैशारद्यम् ॥ धर्मेति । धर्मादित्रितयमनुभावात्मकं प्रति
१. 'येयं चण्डा' स्यात्. २. 'भिघातः स्यात्. ३. 'म्यक्चू' स्यात्. ४. 'जातं' स्यात्. ५. 'स्त्याना' स्यात्.
Page #91
--------------------------------------------------------------------------
________________
काव्यमाला।
यथा
'अजित्वा सार्णवामुर्वीमनिष्ट्वा विविधैर्मखैः ।
अदत्त्वा चार्थमर्थिम्यो भवेयं पार्थिवः कथम् ॥' तत्र धर्मवीरो नागानन्दे जीमूतवाहनस्य । दानवीरः परशुरामबलिप्रभृतीनाम् । युद्धवीरो वीरचरिते रामस्य ॥ . । इह चापत्पङ्कनिमग्नतां स्वल्पसंतोषं मिथ्याज्ञानं चापस्य यस्तत्त्वनिश्च... यरूपोऽसंमोहाध्यवसायः स एव प्रधानतयोत्साहहेतुः । रौद्रे तु ममताप्राधान्यादशास्त्रितानुचितयुद्धाद्यपीति मोहविस्मयप्राधान्यमिति विवेकः । ..
भयानकमाहविकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभिचारि भयं भयानकः।
पिशाचादिविकृतस्वरश्रवणतदवलोकनखजनबन्धवधादिदर्शनश्रवणशून्यगृहारण्यगमनादिविभावं करकम्पचलदृष्टिनिरीक्षणहृदयपादस्पन्दशुष्कौष्ठकण्ठत्वमुखवैवर्ण्यस्वरभेदाद्यनुभावं शङ्कापस्मारमरणत्रासचापलावेगदैन्यमोहादिव्यभिचारी स्त्रीनीचप्रकृतीनां खाभाविकमुत्तमानां कृतकं भयं स्थायिभावश्चर्वणीयत्वमागतं भयानको रसः । यथा'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः ___ पश्चार्धन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैरर्धावलीद्वैः श्रमविततमुखभ्रंशिभिः कीर्णवा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुयो प्रयाति ॥ ननु च राजादिः किमिति गुर्वादिभ्यः कृतकं भयं दर्शयति, दर्शयित्वा किमिति मृदून करकम्पादीन्दर्शयति, किमिति च भय एव कृतकत्वमुक्तं
नायकगतं तु विभावरूपमिति तद्भेदाद्वीरस्य त्रैविध्यमित्यर्थः । यदाह भरत:--'दा- . मवीरं धर्मवीरं युद्धवीरं तथैव च । रसं वीरमपि प्राह ब्रह्मा त्रिविधमेव हि ॥' इति ॥ स्त्रीनीचप्रकृतीनामिति । नोत्तममध्यमप्रकृतीनाम् ॥ कृतकमिति । उत्तमा हि अन्तर्भयाभावेऽपि गुरुभ्यो राज्ञस्य भयं दर्शयन्ति । एवं हि सुतरामुत्तमवं
Page #92
--------------------------------------------------------------------------
________________
२ अध्यायः]
काव्यानुशासनम्।
७९
सर्वस्य हि कृतकत्वं संभवति, यथा वेश्या धनार्थिनी कृतकां रतिमादर्शयति ।। उच्यते-~भये हि प्रदर्शिते गुरुविनीतं तं जानाति मृदुचेष्टिततया चाधमप्रकृतिमेनं न गणयति । कृतकरत्यादेश्वोपदिष्टान्न काचित्पुरुषार्थसिद्धिः । यत्र तु राजानः परानुग्रहाय क्रोधविस्मयादि दर्शयन्ति, तत्र व्यभिचारितैव, न तेषां स्थायितेति ॥ बीभत्समाह--
अहृद्यदर्शनादिविभावाङ्गसंकोचाधनुभावापस्मारादिव्यभिचारिणी जुगुप्सा वीभत्सः ।
अहृद्यानामुद्वान्तव्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावा अङ्गसंकोचहृल्लासनासामुखविकूणनाच्छादननिष्ठीवनाद्यनुभावापस्मारौय्यमोहगदादिव्यभिचारिणी जुगुप्सा स्थायिभावरूपा चर्वणीयतां गता वीभत्सः ।
यथा'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसा
न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तस्त्रायवन्त्रनेत्रात्प्रकटितदशनः प्रेतरङ्कः करङ्का
दकस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥' अद्भुतमाहदिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभिचारी विस्मयोऽद्भुतः। - दिव्यदर्शनेप्सितमनोरथावाप्युपवनदेवकुलादिगमनसभाविमानमायेन्द्रजालातिशायिशल्यकर्मादिविभावो नयनविस्तारानिमिषप्रेक्षणरोमाञ्चाश्रुखे.
भवति । प्रभुभक्तत्वं चामात्यानां यथा खेच्छाकारीत्यत एवास्मीति ।। दिव्येति । दिव्या गन्धर्वादयस्तेषां दर्शनम् । शक्यप्राप्तिरर्थ ईप्सितः, शक्यप्राप्तिस्तु मनोरथः, तयोः प्राप्तिः, उपवने देवकुलादौ च गमनमद्भुतविभावो येन तत्रयं सरः संनिवेशादि न क्वचिदृष्टम् । सभा गृहविशेषः । विमानानि दिव्यरथाः । माया रूपपरिवर्तनादिका । इन्द्रलं मन्त्रदिव्यहस्त्ययुक्त्यादिनासंभवद्वस्तुप्रदर्शनम् । सा
१. 'अशक्य' स्यात्, २. 'जालं' स्यात. ३. 'हस्त' स्यात.
Page #93
--------------------------------------------------------------------------
________________
काव्यमाला।
दसाधुवाददानहाहाकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षावेगजडतादिव्यभिचारी चित्तविस्तारात्मा विस्मयः स्थायिभावश्चर्वणीयतां गतोऽद्भुतो रसः। यथा'कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया,
सत्यं कृष्ण, क एवमाह, मुसली, मिथ्याम्ब पश्याननम् । व्यादेहीति विकाशिते शिशुमुखे माता समग्रं जग
दृष्ट्वा यस्य जगाम विस्मयपदं पायात्स वः केशवः ॥' शान्तमाह
वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः ।
वैराग्यसंसारभीरुतातत्त्वज्ञानवीतरागपरिशीलनपरमेश्वरानुग्रहादिविभावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिस्मृतिनिर्वेदमत्यादिव्यभिचारी तृष्णाक्षयरूपः शमः स्थायिभावश्चर्वणां प्राप्तः शान्तो रसः । यथा-- 'गङ्गातीरे हिमवति शिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्येषु ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः शृङ्गकण्डूं विनेतुम् ॥'
वितिवदनं साधुवेदः । दानं धनादेः । हाहाशब्दस्य करणं हाहाकारः । चेलस्य अङ्गुलेश्च भ्रमणमिति ॥ यमेति । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः । शौचसं. तोषतपःखाध्यायेश्वरप्रणिधानानि नियमाः ॥ कृष्णाक्षय इति । कृष्णानां विषयाभिलाषाणां क्षये यत्रात्मखभावः स शमः । अयमर्थः-कालुष्योपरागदायिभिर्भयरत्यादिभिरनुपरक्तं यदात्मस्वरूपं तदेव विरलोऽस्ति तरलान्तरालनिर्भासमानसिततर- ' सूत्रवदाभातखरूपं रत्यादिषूपरजकेषु तथाभावेनापि सकृद्विभातोऽयमात्मेति न्यायेन
१. 'दानाहोकार' वाग्भटकाव्यानुशासने. २. 'विकासिते' स्यात्. ३. 'कृष्णाक्षय' इति टीकायां व्याख्यातम्. . . १. 'वादः' स्यात्. २. 'क्षयो यत्रात्मखभावे' स्यात. ३. 'असितरत्ना' स्यात्.
Page #94
--------------------------------------------------------------------------
________________
२ अध्यायः ]
काव्यानुशासनम् ।
८१
-----
भासमानं परोन्मुखतात्मक सकलदुःखजालहीनं परमानन्दलाभ संविदेकधनं तथाविधहृदयसंवादवतो हृदयं विधत्ते । एतेन निर्वेदस्यामङ्गलप्रायत्वेऽपि व्यभिचारिषु यन्मुनिना प्रथममुपादानं कृतं तत्स्थायिताभिधानार्थमिति यदुक्तम्, तत्प्रतिक्षिप्तम् । तथाहि — कोऽयं निर्वेदो नाम, दारिद्र्यादिप्रभवस्तत्त्वज्ञानप्रभवो वा । तत्राद्यस्य शोकप्रवाहप्रसररूपचित्तवृत्तिविशेषस्य व्यभिचारित्वं वक्ष्यते । अथ तत्त्वज्ञानजो निर्वेदः स्थायी, तर्हि तत्त्वज्ञानमेवात्र विभावत्वेनोक्तं स्यात् । वैराग्यवीजादि ( ? ) षु कथं विभावः । तदुपायत्वादिति चेत्कारणकारणेऽयं विभावता व्यवहारः, स चातिप्रसङ्गावहः । किं च निर्वेदो नाम सर्वत्रानुपादेयता प्रत्ययो वैराग्यलक्षणः । स च तत्त्वज्ञानस्य प्रत्युतोपायः । विरक्तो हि तथा प्रयतते यथास्य तत्त्वज्ञानमुत्पद्यते । तत्त्वज्ञानाद्धि मोक्षो, न तु तत्त्वं ज्ञात्वा निविद्यते ॥ ननु तत्त्वज्ञानिनः सर्वत्र दृढतरं वैराग्यं दृष्टम् । भवत्येवं तादृशं तु वैराग्यं ज्ञानस्यैव पराकाष्ठेति न निर्वेदः स्थायीति ॥ यत्तु व्यभिचारिव्याख्यानावसरे 'वृथा दुग्धोऽनङ्गान्' इत्यादौ चिरकालविभ्रमविप्रलब्धस्योपादेयत्व निवृत्तये सम्यग्ज्ञानं वक्ष्यते, तन्निर्वेदस्य खेदरूपस्य विभावत्वेनेति तस्मात् शम एव स्थायी । न च शमशान्तयोः पर्यायत्वमाशङ्कनीयम् । हासहास्ययोरिव सिद्धसाध्यतया लौकिकालौकिकतया साधारणासाधारणतया च वैलक्षण्यात् । यथा च कामादिपु पुरुषार्थेषु समुचिताश्चित्तवृत्तयो रत्यादिशब्दवाच्याः कविनटव्यापारेणाखादयोग्यताप्रापणद्वारेण तथाविधहृदयसंवादवतः सामाजिकान् प्रति रसत्वं शृङ्गारादितया नीयते, तथा मोक्षाभिधानपरपुरुपार्थोपचितापि शमरूपा चित्तवृत्ती रसतां नीयत इति । तथा हि तत्त्वज्ञानस्वभावस्य शमस्य स्थायिनः समस्तोऽयं लौकिकालौकिकश्चित्तवृत्तिकलापो व्यभिचारितामभ्येति तदनुभावा एव च यमनियमाद्युपकृता अनुभावाः, विभावा अपि परमेश्वरानुग्रहप्रभृतयः, प्रक्षयोन्मुखाश्च रत्यादयोsaraाद्यन्ते । केवलं यथा विप्रलम्भे औत्सुक्यं संभोगेऽपि वा प्रेमासमाप्तोत्सवमिति । यथा च रौद्रे औम्यम्, यथा च करुणवीरभयानकाद्भुतेषु निर्वेदधृतित्रासहर्षा व्यभिचारिणोऽपि प्राधान्येन विभासन्ते, तथा शान्ते जुगुप्साद्याः सर्वथैव रागप्रतिपक्षत्वात् खात्मनि च कृतकृतस्य परार्थघटनायामेवोद्यम इत्युत्साहोऽस्य परोपकारविपयेच्छाप्रयत्नरूपो दयापरपर्यायोऽभ्यधिकोऽन्तरङ्गः । अत एव केचिद्दयावीर - त्वेन व्यपदिश्यंयन्ये धर्मवीरत्वेन ॥ ननूत्साहोऽहंकारप्राण: शान्तस्त्वहंकारशैथिल्यात्मकः । ननु किमतः (?) व्यभिचारित्वं हि विरुद्धस्यापि नानुचितं रताविव निर्वे - दादेः । शय्यां शाङ्गलम्' इत्यादौ हि परोपकारकरणे उत्साहस्यैव प्रकर्पो लक्ष्यते, नैनूत्साहशून्या काचिदप्यवस्था | इच्छाप्रयत्नव्यतिरेकेण पापाणतापत्तेः । यत एव च परिदृष्टपरम्परत्वेन स्वात्मोद्देशेन कर्तव्यान्तरं नावशिष्यते । अत एव शान्तहृदयानां
1
१. 'तु' स्यात्. २. 'निर्विद्यते' स्यात्. ३. 'कृत्यस्य' स्यात्. ४. ' न्तेऽन्ये' स्यात्. ५. 'नतू' स्यात्.
११
Page #95
--------------------------------------------------------------------------
________________
८२
काव्यमाला।
न चास्य विषयजुगुप्सारूपत्वात् बीभत्सेऽन्तर्भावो युक्तः । जुगुप्सा ह्यस्य व्यभिचारिणी भवति, न तु स्थायितामेति । पर्यन्तनिर्वाहे तस्या मूलत एवोच्छेदात् ॥ न च धर्मवीरे, तस्याभिमानमयत्वेन व्यवस्थानात्
परोपकाराय शरीरसर्वखादिदानं न शास्त्रविरोधि । 'आत्मानं (यो) गोपायेत्' इत्यादिना ह्यकृतकृत्यविषयं शरीररक्षणमुपदिश्यते, संन्यासिनां तद्रक्षादितात्पर्याभावात् । तथा हि-'धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः । तानिन्नता किं न हतं रक्षता किं न रक्षितम् ॥' इत्यतिप्रसिद्धचतुर्वर्गसाधकत्वमेव देहरक्षायां निदानं दर्शितम् । कृतप्रेत्यस्य 'जलधौ श्वभ्रे वा पतेत्' इति संन्यासित्वेन श्रवणात् । तद्यथा कथंचित्त्याज्यं शरीरम् , यदि परमार्थमुत्पद्यते तत्किमिव न संपादितं भवति । जीमूतवाहादीनां नयतत्त्वमिति चेत्, किं तेन । तत्त्वज्ञानित्वं तावदस्त्येव, अन्यथा परमार्थे त्यागस्यासंभाव्यत्वात् । युद्धेऽपि हि न वीरस्य देहत्यागायोद्यमः परावजयोद्देशेनैव प्रवृत्तेः। भृगुपतनादावपि शुभतमदेहान्तरसंपिपादयिषैवाभिविजृम्भते। तत्वार्थानुद्देशेन परार्थसंपत्त्यै यद्यच्चेष्टितं देहत्यागपर्यन्तमुपदेशदानादि तत्तदलब्धात्मतत्त्वज्ञानानामसंभाव्यमेवेति । तेऽपि (?) तत्त्वज्ञानिनां सर्वेष्वाश्रमेषु मुक्तिरिति । स्मार्तश्रुतौ यथोक्तम्-'देवार्चनरतस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । श्राद्धं कृत्वा ददद्व्यं गृहस्थोऽपि हि मुच्यते ॥' इति केवलं परार्थाभिसंधिजाद्धर्मात्परोपकारफलत्वेनैवाभिसंहतात्पुनरपि देहस्य तदुचितस्यैव प्रादुर्भावो बोधिसत्त्वानां तत्त्वज्ञानिनामपि । दृष्टश्चाङ्गेष्वपि विश्रान्तिलाभः स्वभावौचित्यात् । यथा रामस्य वीराङ्गे पितुराज्ञां परिपालयतः । एवं शृङ्गाराद्यङ्गेष्वपि मन्तव्यम् । अत एव शान्तस्य स्थायित्वेऽप्यप्राधान्यम् । जीमूतवाहने त्रिवर्गसंपत्तौ क्षयरोगकृतिप्रधानयोः फलत्वात् । तदत्र सिद्धं दयालक्षणोऽभ्युत्साहोऽत्र प्रधानम् । अन्ये तु व्यभिचारिणो यथायोगं भवन्तीति ॥ एवं यत्कैश्विजीमूतवाहनस्य धीरोदात्तत्वं प्रतिष्ठितं तत्प्रत्युक्तमेव । न च तदीया पर्यन्तावस्था व्यावर्णनीया येन सर्वथेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् । शृङ्गारादेरपि फलभूमावव्यावर्णनीयतैव । पूर्वभूमौ तु 'प्रशान्तवाहितासंस्कारात्तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' इति सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा वा राज्यधुरोद्वहनादिलक्षणा वा शान्तस्यापि जनकादेईष्टैवेत्यनुभावसद्भावादिमादिमध्यसंभाव्यमानभूयोव्य भिचारिसद्भावात्प्रतीयते एव (नै प्रतीयते) ॥ ननु प्रतीयते सर्वस्य तुलाध्यास्पदं न भवति । तर्हि वीतरागाणां शृङ्गारो श्लाघ्य इति । सोऽपि रसत्वाच्यवताम् । अयमर्थ:यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावता, सा च लोकसामान्यमहानुभावचित्तवृत्तिविशेषवत्प्रतिक्षेप्तुं शक्या ॥ ननु धर्मप्रधानोऽसौ वीर एव संभाव्यते इत्याशङ्कयाह-अभिमानमयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः॥
१. 'कृत्यस्य' स्यात. २. 'परविजयो' स्यात्. ३. लेखकप्रक्षिप्तं भवेतूः .
Page #96
--------------------------------------------------------------------------
________________
२ अध्यायः ]
काव्यानुशासनम् ।
८३
अस्य चाहंकारप्रशमैकरूपत्वात् । तथापि तयोरेकत्वपरिकल्पनेन वीररौद्र - योरपि तथा प्रसङ्गः । धर्मवीरादीनां चित्तवृत्तिविशेषाणां सर्वाकार महंकाररहितत्वे शान्तरसप्रभेदत्वमितरथा तु वीररसप्रभेदत्वमिति व्यवस्थाप्यमाने न कश्विद्विरोधः । तदेवं परस्परविविक्ता नवापि रसाः ॥
एषां क्रमेण स्थायिभावान् संगृह्णाति - रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः
.
स्थायिनो
भावाः ।
भावयन्ति चित्तवृत्तय एवालौकिका वाचिकाद्यभिनयप्रक्रियारूढतया स्वात्मानं लौकिकदशायामनास्वाद्यमप्याखाद्यं कुर्वन्ति । यद्वा भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः स्थायिनो व्यभिचारिणश्च । तत्र स्थायित्वमेतावतामेव । जात एव हि जन्तुरियतीभिः संविद्भिः परीतो भवति । तथा हि दुःखद्वेपी सुखाखादनलालसः सर्वो रिरंसया व्याप्तः स्वात्मन्युत्कर्षमानितया परमुपहसति । उत्कर्षापायशङ्कया शोचति । अपायं प्रति क्रुध्यति । अपायहेतुपरिहारे समुत्सहते । विनिपाताद्विभेति । किंचिदयुक्ततयाभिमन्यमानो जुगुप्सते । ततश्च परकर्तव्यवैचित्र्यदर्शनाद्विस्मयते । किंचिज्जिहासुस्तत्र वैराग्यात्प्रशमं भजते । न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति । केवलं कस्यचित्काचिदधिका भवति चित्तवृत्तिः, 1 काचिदूना । कस्यचिदुचितविषयनियन्त्रिता, कस्यचिदन्यथा । तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । तद्विभागकृतश्चोत्तमप्रकृत्यादिव्यवहारः ॥
V
ये पुनरमी धृत्यादयश्चित्तवृत्तिविशेषास्ते समुचितविभावाभावाज्जन्ममध्ये न भवन्त्येवेति व्यभिचारिणः । तथा हि रसायनमुपयुक्तचेतोग्लान्यालस्यश्रमप्रभृतयो न भवन्त्येव । यस्यापि वा भवन्ति विभाववलात्तस्यापि
अस्य चेति । शान्तस्य ॥ तथापीति । इह मेयत्वनिरीहत्वाभ्यामत्यन्तं विरुद्धयोरपीत्यर्थः । वीररौद्रयोस्तु धर्मार्थकामार्जनोपयोगित्वेन तुल्यरूपत्वादत्यन्तविरोधोऽपि नास्ति || संगृह्णातीति । सकलयति, न तु लक्षयति । शृङ्गारादिरसलक्षण एवं स्था
१. 'संकल' स्यात्.
Page #97
--------------------------------------------------------------------------
________________
. काव्यमाला।
हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां नावश्यमुपबध्नन्ति । रत्यादयस्तु संपादितखकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते । वस्त्वन्तरविषयस्य रत्यादेरखण्डनात् । यदाह पतिञ्जलि:--'न हि चैत्र एकस्यां स्त्रियां विरक्त इत्यन्यासु विरक्तः' इत्यादि । तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी खात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमानाः स्थायिनं विचित्रयन्तः प्रतिभासन्ते इति व्यभिचारिण उच्यन्ते । तथा हि ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नास्थायितास्य सूच्यते । न तु राम उत्साहशक्तिमानित्यत्र हेतुप्रश्नमाहुः । अत एव विभावास्तत्रोद्बोधकाः सन्तः खरूपोपरञ्जकत्वं विदधाना रत्युत्साहादेरुचितानुचितत्वमात्रमावहन्ति, न तु तदभावे ते सर्वथैव निरुपाख्याः । वासनात्मना सर्वजन्तूनां तन्मयत्वेनोक्तत्वात् । व्यभिचारिणां तु स्खविभावाभावे नामापि नास्ति ॥
तत्र परस्परास्थाबन्धात्मिका रतिः । चेतसो विकासो हासः । वैधुर्य शोकः । तैक्ष्ण्यप्रबोधः क्रोधः। संरम्भः स्थेयानुत्साहः । वैक्लव्यं भयम् । संकोचो जुगुप्सा । विस्तीरो विस्मयः। तृष्णाक्षर्यः शमः॥ . । रसलक्षण एव स्थायिस्वरूपे निरूपिते पुननिर्देशः क्वचिदेषां व्यभिचारित्वख्यापनार्थः । तथा हि विभावभूयिष्ठत्वे एषां स्थायित्वम् , अल्पविभावत्वे तु व्यभिचारित्वम् । यथा रावणादावन्योन्यानुरागाभावादतिळभिचारिणी । तथा गुरौ प्रियतमे परिजने च यथायोगं वीरशृङ्गारादौ रोषो व्यभिचार्येव । एवं भावान्तरेषु वाच्यम् । शमस्य तु यद्यपि कचिदप्राधान्यम्, तथापि न व्यभिचारित्वम्, प्रकृतित्वेन स्थायितमत्वात् । । व्यभिचारिणो ब्रूते
धृतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रामुप्तौत्सुक्यावहित्थशङ्काचापलालस्यहर्षगौंग्यप्रबोधग्लानिदैन्यश्रमोन्मादमोहचि
यिखरूपस्य निरूपितत्वादिति भावः ॥ प्रकृतित्वेन स्थायितमत्वादिति । रत्या
१. 'पतञ्जलिः' स्यातू.
Page #98
--------------------------------------------------------------------------
________________
२ अध्यायः
काव्यानुशासनम् । न्तामर्षत्रासापस्मारनिर्वेदावेगवितर्कास्यामृतयः स्थित्युदयपशमसंधिशबलत्वधर्माणस्त्रयस्त्रिंशयभिचारिणः। __ तत्र धृतिः संतोषः । स्मृतिः स्मरणम् । मतिरर्थनिश्चयः । ब्रीडा चित्तसंकोचः। जाड्यमर्थाप्रतिपत्तिः । विषादो मनःपीडा । मद आनन्दसमोहसमंदः । व्याधिमेनस्तापः । निद्रा मनःसमीलनम् । सुप्त निद्राया गाढावस्था । औत्सुक्यं कालाक्षमत्वम् । अवहित्थमाकारगुप्तिः। शङ्कानिष्टोत्प्रेक्षा । चापलं चेतोनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः। हर्षश्चेतः प्रसादः । गर्वः परावज्ञा । औग्र्यं चण्डत्वम् । प्रबोधो विनिद्रत्वम् । ग्लानिर्वलापचयः । दैन्यमनौजस्यम् । श्रमः खेदः । उन्मादश्चित्तविप्लवः । मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्षः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । निर्वेदः खावमाननम् । आवेगः संभ्रमः । वितर्कः संभावना । असूया अक्षमा । मृतिम्रियमाणता । एते च स्थित्युदयप्रशमसंधिशबलत्वधर्माणः । स्थितियथा'तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घ न सा कुप्यति
स्वर्गायोत्पतिता भवेन्मयि पुनर्भावामस्या मनः । तां हर्तुं विवुधद्विपोऽपि न च मे शक्ताः पुरोवर्तिनी
सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥' अत्र विप्रलम्भरससद्भावेऽपि इयति वितर्कस्थितिचमत्कारकृत आखादातिशयः। उदयो यथा-- 'याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया
निध्यातं परिवर्तनं पुनरपि प्रारब्धमङ्गीकृतम् ।
दयो हि तत्तत्कारणान्तरोदयप्रलयोत्पद्यमाननिरुध्यवानवृत्तयः किंचित्कालमापेक्षिक-:, तया स्थायिरूपात्मवित्तिसंश्रयाश्च स्थायिन इत्युच्यन्ते । तत्त्वज्ञानं तु सकलभावान्तरवित्तिस्थानीयं सर्वस्थायिभ्यः स्थायितमं सर्वा रत्यादिकाः स्थायिचित्तवृत्तीव्यभिचारि
Page #99
--------------------------------------------------------------------------
________________
काव्यमाला ।
भूयस्तत्प्रकृतं कृतं च शिथिलक्षितैकदोर्लेखया तन्वङ्गचा न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ॥' अत्र मानस्योदयः ।
प्रशमो यथा
८६
-
'दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते चक्रवन्यग्भूतं बहिरासितं पुलकवत्स्पर्श समातन्वति । atataन्धवदागतं शिथिलतां संभाषमाणे ततो मानेनापसृतं हियेव सुदृशः पादस्पृशि प्रेयसि ||'
अत्र मानस्य प्रशमः ।
संधिर्यथा
'उत्सिक्तस्य तपः पराक्रमनिधेरभ्यागमादेकतः
सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय
नानन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणच्यन्यतः ॥' अत्रावेगहर्षयोः संधिः ।
शबलत्वं यथा—
'क्वाकायै शशिलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय मे श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥' अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । विविधमाभिमुख्येन स्थायिधर्मोपजीवनेन स्वधर्मार्पणेन च चरन्तीति व्यभिचारिणः । भावा इत्यनुवर्तते । संख्यावचनं नियमार्थं तेनान्येषा - मत्रैवान्तर्भावः । तद्यथा—दम्भस्यावहित्थे, उद्वेगस्य निर्वेदे, क्षुत्तृष्णादेनौ । एवमन्यदप्यूयम् ॥ अन्ये त्वाहुः -- एतावत्स्वेव सहचारिषु अवस्थाविशेषेषु प्रयोगप्रदर्शितेषु स्थायी चर्वणायोग्यो भवति ॥
१. 'शशलक्ष्मणः' इत्यन्यत्र.
·
Page #100
--------------------------------------------------------------------------
________________
२ अध्यायः]
काव्यानुशासनम् । एषां विभावानुभावानाह- .:. ज्ञानादेतिरव्यग्रभोगकृत् । :: ... ज्ञानबाहुश्रुत्यगुरुभक्तितपःसेवाक्रीडार्थलाभादिविभावा धृतिः संतोषः ।। सा च लब्धानामुपभोगेन नष्टानामननुशोचनेन योऽव्यग्रो भोगस्तं करोति । तेनानुभावेन धृति वर्णयेदित्यर्थः । यथा-- 'वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या
सम इह परितोषे नैर्विशेषा विशेषाः । - स तु भवतु दरिद्रो यस्य तृष्णा विशाला
__मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः ॥' सदृशदर्शनादेः स्मृतिभ्रंक्षेपादिकृत् ।
सदृशदर्शनस्पर्शनश्रवणाभ्यासप्रणिधानादिभ्यः सुखदुःखहेतूनां स्मरणं स्मृतिः। तां भ्रूक्षेपशिरःकम्पमुखोन्नमनशून्यावलोकनाङ्गुलीभङ्गादिभिर्वर्णयेत्। यथा'मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं
शक्तिस्तस्य कुतः स वज्रपतनागीतो महेन्द्रादपि । तायः सोऽपि समं निजेन विभुना जानाति मां रावण
' मा ज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् ।।
शास्त्रचिन्तनोहापोहादिभ्योऽर्थनिश्चयो मतिः। तां शिष्योपदेशार्थविकल्पनसंशयच्छेदादिभिर्वर्णयेत् । . . यथा- .. .. 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥' भावयन्निसंर्गत एवं सिद्धस्थायिभावमिति ॥ विभावानुभावानिति । न तु व्यभिचारिणः । एवं हि तदाखादे खं रसान्तरमपि स्यात् । यत्रापि च व्यभिवारिणि १. 'निर्विशेषाः स्यात्. . . . . .
. . .
-
-
Page #101
--------------------------------------------------------------------------
________________
काव्यमाला |
अकार्यकरणज्ञानादेवींडा वैवर्ण्यादिकृत् ।
{
| अकार्यकरणज्ञानगुरुव्यतिक्रमप्रतिज्ञाभङ्गादे श्वेतःसंकोचो व्रीडा । तां वैवर्ण्यधोमुखविचिन्तनभ्रूविलेखनवस्त्राङ्गुलीय कर्णस्पर्शननखनिस्तोदनादिभिर्वर्णयेत् ।
यथा
'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनुबिम्बमात्मनः कानि कानि न चकार लज्जया || ' इष्टानिष्टदर्शनादेर्जाड्यं तूष्णींभावादिकृत् । इष्टानिष्टदर्शनश्रवणव्याध्यादिभ्योऽर्थाप्रतिपत्तिर्जाड्यम् । तत्तूष्णीं - भावानिमिषनयननिरीक्षणादिभिर्वर्णयेत् ।
८८
यथा
'एवमालि निगृहीतसाध्वसं शंकरो रहसि सेव्यतामिति । सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥ कार्यभङ्गाद्विषादः सहायान्वेषणमुखशोषादिकृत् । उपायाभावनाशाभ्यां प्रारब्धस्य कार्यस्य भङ्गान्मनः पीडां विषादः । तं सहायान्वेषणोपायचिन्तनोत्साहविघातवैमनस्यादिना उत्तममध्यमानाम्, मुखशोषजिह्वासृक्कलेहननिद्राश्वसितध्यानादिभिरधमानां वर्णयेत् ।
यथा-
'व्यर्थे यत्र कपीन्द्रसख्यमपि मे क्लेशः कपीनां वृथा
प्रज्ञा जाम्बवतो न यत्र न गतिः पुत्रस्य वायोरपि । मार्गे यत्र न विश्वकर्मतनयः कर्तुं नलोऽपि क्षमः
सौमित्रैरपि पत्रिणामविषयस्तत्र प्रिया क्वापि मे ॥' मद्योपयोगान्मदः स्वापहास्यास्मरणादिकृत् । मद्यपानादानन्दसंमोहयोः संगमो मदः । तं स्वापस्मितगानकिंचिदाकु
व्यभिचार्यन्तरं संभाव्यते । तद्यथा पुरुषस्य उन्मादे वितर्कचिन्तादि । तत्रापि रतिस्थायि - भावस्यैव व्यभिचार्यन्तरयोगः स केवलममात्यस्थानीयो नोन्मादेन कृतोपराग इति ।
Page #102
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।।
२ अध्यायः] लबाष्पस्खलद्दतिम भाषणरोमोगमादिभिरुत्तमानाम्, हास्यगीतस्रस्ताकुलभुजक्षेपव्याविद्धकुटिलगत्यादिभिर्मध्यमानाम् , अस्मरणधूर्णनस्खलद्गमनरुदितच्छदितसन्नकण्ठनिष्ठीवनादिभिरधमानां वर्णयेत् । तथा च
'उत्तमाधममध्येषु वर्ण्यते प्रथमो मदः ।
द्वितीयो मध्यनीचेषु नीचेष्वेव तृतीयकः ॥' यथा- . ___ 'सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । . . गन्तुमुद्यतमकारणतः स द्योतयन्ति मदविभ्रममासाम् ॥' विरहादेर्मनस्तापो व्याधिMखशोषादिकृत् । विरहाभिलाषादिभ्यो मनस्तापो व्याधिहेतुत्वान्याधिः । तं मुखशोषस्रस्ताङ्गतागात्रविक्षेपादिभिर्वर्णयेत् । यथा-- 'मनोरोगस्तीव्र विषमिव विसर्पत्यविरतं
प्रमाथी निधूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव बलीयानित इतो
न मां तातस्त्रातुं प्रभवति न चाम्बा न भवती ॥' क्लमाना जृम्भादिकृत् ! _क्लमश्रममदालस्यचिन्तात्याहारखभावादिभ्यो मनःसंमीलनं निद्रा । तां जम्भावदनगौरवशिरोलालननेत्रघूर्णनगात्रमर्दोच्छसितनिःश्वसितसन्नगात्रताक्षिनिमीलनादिभिर्वर्णयेत् । यथा
'निद्रानिमीलितहशो मदमन्थराणि
नाप्यर्थवन्ति न च यानि निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्या
स्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ '१. 'गौरवशरीरालालन' इति भरतः.
१२
-
Page #103
--------------------------------------------------------------------------
________________
काव्यमाला । .
निद्रोद्भवं सुप्तमुत्स्वमायितादिकृत् । निद्रोद्भवमित्यनेन निद्राया एव गाढावस्था सुप्तमित्याह । तदुत्स्वमायितोच्छूसितनिःश्वसितसंमोहनादिना वर्णयेत् ।
९०
यथा-
'एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा मर्माणीव विघट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मचरितो यो राधया वीक्षितः से शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥' इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् ।
इष्टानुस्मरणदर्शनादेर्विलम्बा सहत्वमौत्सुक्यम् । तत्त्वरानिःश्वसितो|च्छूसितकार्थमनः शून्यतादिगवलोकनरणरणकादिभिर्वर्णयेत् ।
यथा-
'आलोकमार्ग सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि हि' केशपाशः ॥' लज्जादेरवहित्थमन्यथाकथनादिकृत् ।
प्रयोदराद
लज्जाजैह्यभयगौरवादिभ्यो भ्रूविकार मुखरागादीनामाच्छादनकारिणी चित्तवृत्तिवहित्थमवहित्था वा । न बहिःस्थं चित्तं येनेति । पबेदरा दित्वात् । तदन्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिर्वर्णयेत् ।
यथा
' एवं वादिनि देवर्षो पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥' चौर्यादेः खपरयोः शङ्का पार्श्वविलोकनादिकृत् । चौर्यपारदार्यादेर्विरुद्धाचरणादनिष्टोत्प्रेक्षा शङ्का । सा च कदाचि - त्वस्मिन् यदा समापराधयोरात्मपरयोः परो राजादिना दण्ड्यते । कदाचित्परस्मिन् यदा विकाराकुलतया कृतदोषत्वेन परः संभाव्यते । सा
"
१. 'च' समुपलभ्यमानरघुवंशे.
Page #104
--------------------------------------------------------------------------
________________
२ अध्यायः ]
च
भिर्वर्ण्यते । स्वस्मिन्यथा-
'काव्यानुशासनम् । पार्श्वविलोकनमुखौष्ठकण्ठशोषणगात्रप्रकम्पनस्वरास्यवर्णभेदावगुण्ठनादि
'दूरादवीयो धरणीधराभं यस्ताढकेयं तृणवद्यधूनोत् ।
हन्ता सुबाहोरपि ताडकारिः स राजपुत्रो हृदि बाधते माम् ॥' परस्मिन्यथा-समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का, दुर्योधनस्य २.
वा भानुमत्याम् ।
रागादेचापलं वाक्पारुष्यादिकृत् ।
रागद्वेषमात्सर्यामर्षेर्व्यादिभ्यश्चेतोनवस्थानं चापलम् । अविमृश्य कार्य - करणमिति यावत् । तच्च वाक्पारुष्यनिर्भर्त्सनप्रहारवधबन्धादिभिर्वर्णयेत् ।
यथा
'कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेषवन्धि लीलारविन्दं भ्रमयांचकार ॥'
श्रमादेरालस्यं निद्रादिकृत् । श्रमसौहित्यरोगगर्भखभावादिभ्यः पुरुषार्थेष्वनादर आलस्यम् । तच्च
निद्वातन्द्रासर्वकर्मविद्वेषशयनासनादिना वर्णयेत् ।
ॐ.
यथा
९१
-
'चलति कथंचित्पृष्टा यच्छति वाचं कदाचिदालीनाम् । आसितुमेव हि मनुते गुरुगर्भभरालसा सुतनुः ॥'
प्रियागमादेर्षो रोमाञ्चादिकृत् ।
प्रियागमनबन्धुहर्षदेव गुरुराजभर्तृप्रसाद भोजनाच्छादनधनलाभोपभोगमनोरथावाप्त्यादिभ्यश्चेतःप्रसादो हर्षः । तं च रोमाञ्चाश्रुखेदनयनवदनप्रसादप्रियभाषणादिभिर्वर्णयेत् ।
यथा
'आयाते दयिते मरुस्थलभुवामुत्प्रेक्ष्य दुर्लङ्घयतां
गेहिन्या परितोषबाप्पासलिलामासज्य दृष्टिं मुखे ।
Page #105
--------------------------------------------------------------------------
________________
काव्यमाला । दत्त्वा पीलुशमीकरीरकवलाखेनाञ्चलेनादरा
दुन्मृष्टं करभस्य केसरसटाभारामलग्नं रजः ॥' विद्यादेर्गोऽसूयादिकृत् ।
विद्याबलकुलैश्वर्यवयोरूपधनादिभ्यः परावज्ञा गर्वः । तमसूयामर्षपारुप्योपहासगुरुलङ्घनाधिक्षेपनेत्रगात्रविकृत्यनुत्तरदानशून्यावलोकनाभाषणैर्वर्णयेत्। यथा
'ब्राह्मणातिक्रमत्यागो भवतामेव भूतये ।
जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥' चौर्यादेरौत्र्यं वधादिकृत् ।
चौर्यद्रोहासत्प्रलापादिभ्यश्चण्डत्वमौग्यम् । तद्वधबन्धताडननिर्भर्त्सनादिभिर्वर्णयेत् ।
यथा-- 'उत्कृत्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषा___ दुद्दामस्यैकविंशत्यवधि विशसतः सर्वतो राजवंशान् । पित्र्यं तद्रक्तपूर्णहृदसवनमहानन्दमन्दायमान
क्रोधानेः कुर्वतोहेन खलु न विद्वितः सर्वभूतैः स्वभावः ॥' शब्दादेः प्रबोधो जम्भादिकृत। ..
शब्दस्पर्शखमान्तः स्वमजल्पननिद्राच्छेदाहारपरिणामादिभ्यो विनिद्रत्वं प्रबोधः । स च जम्भणाक्षिमर्दनभुजक्षेपाङ्गुलिस्फोटनशय्यात्यागग्रीवाङ्गवलनादिभिर्वर्ण्यते । यथा'प्रत्यग्रोन्मेषजिला क्षणमनभिमुखी रत्नदीपप्रभाणा
मात्मव्यापारगुर्वी जनितजललवाजम्भणैः साङ्गभङ्गैः । नागाकं मोक्तुमिच्छोः शयनमुरुफणाचंक्रवालोपधानं निद्राच्छेदोऽभिताम्रा चिरमवतु हरेर्डष्टिराकेकरा वः ॥ .
Page #106
--------------------------------------------------------------------------
________________
२ अध्यायः ]
यथा
व्याध्यादेग्लानिर्वैवर्ण्यादिकृत् ।
व्याधिमनस्ताप निधुवनोपवासक्षुत्पिपासाध्वलङ्घननिद्रा च्छेदातिपानतपोजराकलाभ्यासादिभ्यो बलापचयो ग्लानिः । तां वैवर्ण्यक्षामनेत्रकपोलोक्तिश्लथाङ्गत्वप्रवेपनदीनसंचारानुत्साहादिभिर्वर्णयेत् ।
काव्यानुशासनम् |
'किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषी दारुणो दीर्घशोकः ।
ग्लपयति परिपाण्डु क्षाममस्याः शरीरं शरदिज इव वर्मः केतकीगर्भपत्रम् ॥'
दौर्गत्यादेर्दैन्यममृजादिकृत् ।
दौर्गत्यमनस्तापादिभ्योऽनौजस्यं दैन्यम् । तन्मृ॒जात्यागगुर्वङ्गताशिरः
प्रावणादिभिर्वर्णयेत् । प्रः
यथा-
'अस्मान्साधु विचिन्त्य संयमधनानुचैः कुलं चात्मनस्त्वय्यंस्याः कथमप्यबान्धवकृतां प्रेमप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या च या
भाग्याधीनमतः परं न खलु तत्स्त्रीबन्धुभिर्याच्यते ॥'
यथा
९३
व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् ।
व्यायामाध्वगत्यादिभ्यो मनः शरीरखेदः श्रमः । सोऽङ्गभङ्गमर्दनमन्द
[क्रमास्यविकूणनादिभिर्वर्णयेत् ।
'अलसलुलितमुग्धान्यध्वसंतापखेदादशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि
त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥'
१. 'ऽङ्गमर्द' भरतः.
-
Page #107
--------------------------------------------------------------------------
________________
- काव्यमाला। इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत । ..
इष्टवियोगधननाशाभिघातवातसंनिपातग्रहादिभ्यश्चित्तविप्लवः उन्मादः। तमनिमित्तमितरुदितोत्क्रुष्टगीतनृत्यप्रधावितोपवेशनोत्थानासंबद्धप्रलापभस्मपांशूद्भुलननिर्माल्यचीवरघटचक्रशरावाभरणादिभिर्वर्णयेत् । यथा
'हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
संभावितैकदेशेन देयं यदभियुज्यते ॥ प्रहारादेर्मोहो भ्रमणादिकृत् ।
प्रहारमत्सरभयदैवोपघातपूर्ववैरस्मरणत्रासनादिभ्यश्चित्तस्य मूढत्वं मोहः। मोहस्य प्रागवस्थापि मोहशब्देनोच्यते । तं भ्रमणदेहघूर्णनपतनसन्द्रियप्रमोहवैचित्र्यादिभिर्वर्णयेत् । यथा'तीत्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ॥' सुखजन्मापि मोहो भवति । यथा-- 'कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना
त्तद्वासः श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेनि सांप्रतमहं तस्याङ्गसङ्गे पुनः
कोऽसौ कास्मि रतं तु किं कथमिति खल्पापि मे न स्मृतिः ॥ दारिद्यादेश्चिन्ता संतापादिकृत् ।
दारिद्येष्टद्रव्यापहारैश्वर्यभ्रंशादिभ्यो ध्यानं चिन्ता । सा च स्मृतेरन्या आसनाददनवत् । खेलनाद्गमनवच्च । तां संतापशून्यंचित्तत्वकार्यश्वासाधो'मुखचिन्तनादिभिर्वर्णयेत् । सा च वितर्कात्ततो वा वितर्क इति वितर्कात्पृथग्भवति चिन्ता।
Page #108
--------------------------------------------------------------------------
________________
२ अध्यायः ]
यथा
काव्यानुशासनम् ।
'पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् ।
उद्बुद्धमुग्धकनकाब्जनिभं वहन्तीमासज्य तिर्यगपवर्तितदृष्टि वक्रम् ॥'
आक्षेपादेरमर्पः स्वेदादिकृत् । विधैश्वर्यबलाधिककृतेभ्यः आक्षेपावमानादिभ्यः प्रतिचिकीर्षारूपोऽमर्षः। स च स्वेदध्यानोपायान्वेषणशिरः कम्पाधोमुखविचिन्तनादिभिर्वर्ण्यते ।
यथा
लाक्षागृहानलविषान्नसभाप्रवेशैः
- प्राणेषु चित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः
स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥'
निर्घातादेखासोऽङ्गसंक्षेपादिकृत् ।
यथा
निर्घातगर्जितभूपर्वत कम्पशिलोल्काशनिविद्युत्पातरक्षःस्थूलप्रभूतकुष्ठादिभ्यश्चेतश्चमत्कृतिरूपस्त्रासो भयात्पूर्वापर विचारवतो भिन्न एव । सोऽङ्गसंक्षेपस्तम्भरोमोनमगद्गदप्रलयोत्कम्पनिः स्यन्दवीक्षितैर्वर्ण्यः ।
९५
यथा
‘परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥' ग्रहादेरपस्मारः कम्पादिकृत् ।
ग्रहभूतदेवयक्षपिशाचब्रह्मराक्षसशून्यारण्यश्मशानसे वनोच्छिष्टगमनधातुवैषम्यादेरावेशरूपोऽपस्मारः । तं कम्पितस्फुरितखिन्नधावितश्वसितभूमिपतनारावमुखफेनादिभिर्वर्णयेत् । अयं च प्राय आभासेष्वेव शोभते ।
'आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारवृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥'
Page #109
--------------------------------------------------------------------------
________________
---
९६
काव्यमाला |
रोगादेर्निर्वेदो रुदितादिकृत् । रोगाधिक्षेपताडनदारिद्येष्टवियोगावमानतत्त्वज्ञानादिभ्यः खावमानना - रूपो निर्वेदः । स रुदितश्वसितानुपादेयतादिभिर्वर्ण्यः ।
यथा
'किं करोमि क्व गच्छामि कमुपैमि दुरात्मना । दुर्भरणोदरेणाहं प्राणैरपि विडम्बितः ॥'
उत्पातादिभ्य आवेगो विस्मयादिकृत् ।
उत्पातवातवर्षाग्निर्गर्जाप्रियाप्रियश्रवणव्यसनादिभ्यः संभ्रम आवेगः । तं विस्मयावगुण्ठनच्छेन्नश्रयणधूमान्ध्यत्वरितापसर्पणपुलकविलापसंनहनादिभिर्यथासंख्यं वर्णयेत् ।
तत्रोत्पातावेगो यथा -
'किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवेदृक्कोऽपि जीवो द्रुतमुपनिपतन्पश्य संप्राप्त एव ।
·
तत्त्वज्ञानादिभ्य इति । चिरकालविभ्रमविप्रलब्धस्य उपादेयत्वनिवृत्तये यत्सम्यग्ज्ञानं तन्निर्वेदं जनयति, न त्वात्मस्वभावः, तस्य शान्तस्थायित्वेनोक्तत्वात् । यथा'वृथा दुग्धोऽनड्वान्स्तनभरनता गौरिति चिरं परिष्विक्तः षण्ढो युवतिरिति लावण्यरहितः । कृता वैडूर्याशा विकचकिरणे काचशकले नयामूढेन त्वां कृपणमगुणज्ञं प्रणमता ॥' इति । अयं च निर्वेदः स्वयं पुरुषार्थसिद्धये वोत्साहरत्यादि वदत्यन्तानु'रञ्जनाय वा हास विस्मयादिवन्न प्रभवतीत्यन्यमुखप्रेक्षितत्वाद्यभिचार्येवेति ॥ उत्पातवातेति । आदिशब्दः प्रत्येकमभिसंबध्यते । ततश्चोत्पाता देवतादेर्वर्षादेरभ्यादेर्ग1 / जादेः प्रियश्रवणादेरप्रियश्रवणादेर्व्यसनादेश्च विभावादित्यर्थः । एवं विस्मयादिना अवगुणनादिच्छन्नश्रयणादिना धूमाझ्यादिना त्वरितापसर्पणादिना पुलकादिना विलापादिना संहननादिना चानुभावेनेति प्रतिपत्तव्यम् ॥ तत्र उत्पातावेगः 'किं किं सिंह: '
१. 'कुञ्जरोद्रमण' इति भरतसंवादात् 'गजो(द्रमण ) ' इति भवेत्. टीकायां तु 'गजादेः' इत्थं व्याख्यातं तस्माद् 'गज' इत्येव स्यात्. २. 'छत्राश्रयण' इति भरते पाठात् 'छत्रश्रयण' इति भवेत्.
१. 'अवगुण्ठनादिना छन्त्राश्रयणा' स्यात्.
2
Page #110
--------------------------------------------------------------------------
________________
. २ अध्यायः ]
काव्यानुशासनम् ।
शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखानामित्थं दैत्याधिनाथो निजनखकुलिशैर्येन भिन्नः स पायात् ॥' एवं वातावेगादिषूदाहार्यम् । संदेहादेवितर्कः शिरःकम्पादिकृत् । संदेहविमर्श विप्रतिपत्त्यादिभ्यः संभावनीयप्रत्ययो वितर्कः । स शिरःकम्पभ्रूक्षेपसंप्रधारणकार्यकलापमुहुर्ग्रहणमोक्षणादिभिर्वर्ण्यः ।
२
यथा-
‘अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमथ वा विचित्रा वस्तुशक्तयः ॥'
९७
परोत्कर्षादेरसूयावज्ञादिकृत् ।
परस्य सौभाग्यैश्वर्यविद्यादिभिरुकर्षादादिशब्दादपराध मुहुर्देपादिभ्यश्चा
इत्यादिना निदर्शितः ॥ वातावेगो यथा - ' वाताहतं वसनमाकुलमुत्तरीयम् -' इत्यादि । वर्षावेगो यथा - 'देवे वर्षत्यसनपचनव्यापृता वह्निहेतौ गेहानेहं फलकनिचितैः 'सेतुभिः पकभीताः । ' नीव्रत्प्रान्तानविरलजलान्पाणिभिस्ताडयित्वा सूर्यच्छायास्थगित - शिरसो योपिन्तः संचरन्ति ॥' अभ्यावेगो यथा - ' क्षिप्तो हस्तावलग्नः - ' इत्यादि । गजावेगो यथा - ' स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥' प्रियदर्शनादावेगो यथा - ' एह्येहि . वत्स रघुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरं च परिष्वजे त्वाम् । आरोप्य वा हृदि दिशामि शमुद्वहामि वन्देऽथ वा चरणपुष्करकद्वयं ते ।।' अप्रियदर्शनश्रवणावेगो यथा उन्मत्तराघवे—‘चित्रमाय: - ( ससंभ्रमम् । ) भगवन् कुलपते रामभद्र, परित्रायतां परित्रायताम् । (इत्याकुलतां नाटयति ।)' इत्यादि । पुनः 'चित्रमायः - मृगरूपं परित्यज्य विधाय विकटं वपुः । नीयते रक्षसा तेन लक्ष्मणो युधि संक्षयम् ॥ रामः - वत्सस्याभयवारिधेः प्रतिभयं मन्ये कथं राक्षसात्रस्तचैप मुनिर्विरोति मनसश्चास्त्येव मे संभ्रमः । मा हासीर्जनकात्मजामिति मुहुः स्नेहाद्गुरुर्याचते न स्थातुं न च गन्तुमाकुलमतेर्मूढस्य मे निश्चयः ॥' व्यसनं राजविरादि, तद्धेतुरावेगो यथा - ' आगच्छागच्छ शस्त्रं कुरु, वरतुरगं संनिधेहि द्रुतं मे, खड्गः क्कासी, कृपाणीमुपनय, धनुषा किं किमङ्ग प्रविष्टे । संरम्भोन्निद्रितानां क्षितिभृति गहनेऽन्योन्यमेव प्रतीच्छन्नादः खप्नाभिदृष्टे त्वयि चकितदृशां विद्विपामाविरासीत् ॥' संदेहेति । संदेहः किंविदित्युभयावलम्वी प्रत्ययः संशयरूपः । विमर्शो / विशेषप्रतीत्याकाङ्क्षात्मिका इच्छा । प्रमाणेन पक्षाभावप्रतीतिमात्रं
W
१. 'नीवृत्प्रा' स्यात्. २. 'योषितः ' स्यात्. ३. 'द्विद्वैरादि' स्यात्.
१३
Page #111
--------------------------------------------------------------------------
________________
काव्यमाला |
क्षमारूपासूया । तामवज्ञाभ्रुकुटीक्रोधसेर्योक्त्यालोकितदोषोपवर्णनादिभि
वर्णयेत् ।
९८
}
*
यथा
ambatas n
व्याधिर्ज्वरादिः प्रतीतः, सर्पविषगजादिसंभवोऽभिघातस्ताभ्यां मृतेः प्रागवस्था मृतिः । साक्षान्मृतावनुभवाभावात् । तत्र व्याधिजां मृतिं हिक्काश्वासाङ्गभङ्गाक्षिनिमीलनाद्यैः, अभिघातजां तु काश्वेपथुदाहहिक्का फेनाङ्गभङ्गजडतामरणादिभिर्वर्णयेत् ।
यथा
' स गतः क्षितिमुष्णशोणिताद्री खुरदंष्ट्रा ग्रनिपातदारिताश्मा । असुभिः क्षणमीक्षितेन्द्रसूनुर्विहितामर्षगुरुध्वनिर्निरासे ॥'
शृङ्गारे तु मरणाध्यवसायो मरणादूर्ध्वं झटिति पुनर्योगो वा निबध्यते । 'अन्यत्र तु खेच्छा ।
7
'वृद्धास्ते न विचारणीयचरिता स्तिष्ठन्तु हुं वर्तते
सुन्दस्त्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते । यानि त्रीणि कुतोमुखान्यपि पदान्यासन्खरायोधने
यद्वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ॥' व्याध्यभिघाताभ्यां मृतिर्हिका कार्यादिकृत् ।
यथा
J
'संप्राप्तेऽवधिवासरे क्षणममुं तद्वर्त्मवातायनं वारंवारमुपेत्य निःक्रियतया निश्चित्य किंचिच्चिरम् ।
विप्रतिपत्तिरित्याहुः । एभ्योऽनन्तरं भवितव्यताप्रत्ययस्वभावः एकतरपक्षशैथिल्यदायी पक्षान्तरतुल्यकक्षभवोच्चावयतु ( ? ) न्मग्नतामन्यस्य दर्शयंस्तर्कः । स च संशयात्पृथगेव । संदेहेन तत्त्वबुद्ध्याशादिरूपस्य विमर्शादेः स्वीकारेऽपि कविशिक्षार्थं भङ्गयानिरूपणम् । अन्ये तु—धर्मिणि संदेहो धर्मे तु विमर्शो भ्रान्तिज्ञानं विप्रतिपत्तिरित्याहुः । प्रागवस्थेति । म्रियमाणावस्थैव अनेन व्याधिना मे न निवर्तितव्यमित्येवंविधचित्तवृत्तिरूपा ॥ काश्यैति । अष्टौ हि विषवेगाः । यदाह भरतः -- ' कार्यं तु प्रथमे वेगे द्वितीये वेर्पनं तथा । दाहं तृतीये हिक्कां च चतुर्थे संप्रयोजयेत् ॥ फेनं च पञ्चमे १. 'वेपथुस्तथा' भरतपुस्तके.
Page #112
--------------------------------------------------------------------------
________________
- २ अध्यायः
काव्यानुशासनम् ।
संप्रत्येव निवेद्य केलिकुररीः सासं सखीभ्यः शिशो
मधिव्या सहकारकेण करुणः पाणिग्रहो निर्मितः ॥'
तथा--
'तीर्थे तोयव्यतिकरभवे जझुकन्यासरय्वो.
देहत्यागादमरगणनालेख्यमासाद्य सद्यः । पूर्वाकाराधिकतररुचा संगतः कान्तयासौ ____लीलागारेवरमत पुनर्न क्षमाभ्यन्तरेषु ।' अथ सात्त्विकानाहस्तम्भखेदरोमाञ्चस्वरभेद(स्वर)कम्पवैवाश्रुपलया अष्टौ साविकाः।
सीदत्यस्मिन्मन इति व्युत्पत्तेः सत्त्वगुणोत्कर्षात्साधुत्वाच्च प्राणात्मकं वस्तु सत्त्वम् , तत्र भवाः सात्त्विकाः । भावा इति वर्तते । ते च प्राणभूमिप्रसृतरत्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादिविलक्षणा विभा
कुर्यात्स्यात्पप्टे स्कन्धभञ्जनम् । जडतां सप्तमे कुर्यादष्टमे मरणं तथा ॥' आदिग्रहणा. सहसा भूमिपतनविकम्पनस्फुरणादयो ज्ञेयाः ॥प्राणभूमीति । अयं भावः । रत्यादयश्चित्तवृत्तिविशेपाः पूर्वसंविद्रूपाः समुल्लसन्ति । तत आभ्यन्तरं प्राणान्तखरूपा-7. ध्यासेन कलुपयन्ति । न चैतदसंवेद्यम् । तथा हि क्रोधावेशे अन्तरा ज्वलत्येव । पूर्वमुन्मिपति ततः खेदः । अनैनैवाशयेन भवाणेनोक्तम्-'पूर्व तपो गलति पश्चात्स्वे. दसलिलम्' इति । तथा तदवस्थां प्राप्तोऽवहित्था दिना भावो वहिर्विकारपर्यन्ताप्राप्तेः । परिरक्ष्यमाणो दृष्टः । यथा-'पिअमुहससङ्कदसणचलिअं रइसाअरं पिआहिअअम् । शुरुसंकमरुम्भियसेअपमुहपसरं पि हु ण ठाइ ॥' प्रियमुखदर्शनेन रतिविषये सादरं मत्प्रियाहृदयं चलितं गुरुविषये मा संक्रमीदिति । निषिद्धस्वेदप्रभृति बाह्यप्रसरमपि न विश्राम्यति । आन्तरस्वेदादि सात्त्विकक्षोभमयमेवेत्यर्थः । निदर्शनं चात्र प्रतीयमानम् । तथा हि । प्रियं मुखं यस्य तादृशस्य शशाङ्कस्य दर्शने आहृदयमपि चलितो. . १. लेखकप्रमादपतितो भवेत्.
... १. 'प्रियमुखशशाङ्कदर्शनचलितं रतिसादरं प्रियाहृदयम् । गुरुसंक्रमरुद्धसेकप्रारम्भप्रसरमपि खलु न तिष्ठति ॥' इति, -रयिसागरोऽप्याहृदयम् । गुरुसंक्रमरुद्धसेकप्रार: म्भकप्रसरोऽपि खलु न तिष्ठति ॥ इति च च्छाया. .
Page #113
--------------------------------------------------------------------------
________________
१००
काव्यमाला । वेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनुभावैश्च गम्यमाना भावा भवन्ति । तथा हि । पृथ्वीभागप्रधाने प्राणे संक्रान्तचित्तवृत्तिगणः स्तम्भोविष्टत्वं चेतनत्वम् । जलभागप्रधाने तु बाष्पः । तैजसस्तु प्राणनैकट्यादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा खेदो वैवयं च । तद्धेतुत्वात् च तथा व्यवहारः । आकाशानुग्रहे गतचेतनत्वं प्रलयः । वायुखातब्ये तु तस्य मन्दमध्योत्कृष्टावेशात्रेधा रोमाञ्चवेपथुस्वरभेदभावेन स्थितिरिति भरतविदः ॥ बाह्यास्तु स्तम्भादयः शरीरधर्मा अनुभावाः। ते चान्तरालिकान् सात्त्विकान् भावान् गमयन्तः परमार्थतो प्रतिनिर्वेदादिगमका इति स्थितम् ॥ एवं च नव स्थायिनः, त्रयस्त्रिंशव्यभिचारिणः, अष्टौ सात्त्विकाः। इति पञ्चाशद्भावाः ॥ {रयी वेगवत्सागरो गुरुणा सेतुना रुद्धाः सेकप्रारम्भकाः प्रसरा यस्य तादृशोऽपि खल्वित्याश्चर्य न तिष्ठति न निस्तरङ्गीभवति । सागरशब्द उभयलिङ्गः । प्राकृते वा लिङ्गविपर्यासः । तदत्र रतिर्मनोरूपत्वाच्युता बाह्याभौतिकविकारपर्यवसायिनी च न जातेति प्राणभूमावेव विश्रान्ता वर्णिता ॥ रत्यादिगतेनैवेति । ननु विभावान्तरेण, तेषां वा. ह्यविषयविशेषाभिमुख्यनिरपेक्षत्वादित्यर्थः ॥ ग्लान्यालस्यश्रममूर्छादीनां तु यद्यप्यालम्बनविषयशून्यता, तथापि बाह्यहेतुका अतो व्यभिचारिषु गणिताः । अबाह्यहेतुकास्तु स्तम्भादय इति सात्त्विकाः ॥ स्तम्भो विष्टम्भचेतनत्वमिति । मनसा हर्षादिवशेनानिन्द्रियप्रदेशचारिणां विकल्पपर्यन्तागमनरहिताविकल्पकवृत्तिमात्र निष्ठानामिन्द्रियाणामनधिष्ठानादित्यर्थः । यथा-'तेताणयच्छायणिव्वललोअणसिहंपउच्छवाद्यम् । आलिरकपइवाणवणिपयपयइचडुलत्तणं पिवि अलिअम् ॥' एवं बाष्पहेतुत्वाद्वाष्पो यथा'उत्पक्ष्मणोनयनयोरुपरुद्धवाष्पं वृद्धिं कुरु स्थिरतया विहितानुवन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥' तीव्रातीव्रत्वेनेति । तीव्रत्वेन प्राणानुग्रहस्वेदो यथा-'आश्लेषे प्रथम क्रमादथ जिते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्ता पुनः पृच्छति । सा तूहीसनिरुद्धसंभृतरसोद्भेदस्फुरद्गण्डया तूष्णी शारविशारणाय निहितः स्वेदाम्बुगर्भः करः ॥' अतीव्रत्वेन तु वैवयं यथा'संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा । नरेन्द्रमार्गाह इव प्रपेदे विवर्णभावं स स भूमिपालः ॥' प्रलयन्ति प्रकर्षेण प्राणनिलीनेध्विन्द्रियेषु लयः प्रलयः । यथा-'तीव्राभिषङ्गप्रभवेण-' इति ॥ तस्येति । प्राणस्य ॥ मन्देति। प्राणस्य मन्दा.
१. 'स्तम्भो विष्टम्भचेतनत्वम्' इति टीकायाम्. २. 'रतिनिर्वेदा' स्यात. १. 'न तु' स्यात्. २. अस्य संस्कृतं न स्मर्यते.. .
Page #114
--------------------------------------------------------------------------
________________
२ अध्यायः ]
रसभावानभिधाय तदाभासानाहनरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ । निरिन्द्रिययोः संभोगारोपणात्संभोगाभासो यथा'पर्याप्तपुष्पस्तवकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तरवोऽप्यवापुर्बिनम्रशाखाभुजबन्धनानि ||'
काव्यानुशासनम् ।
Mahigay
विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा
-~
My
'वेणी भूतप्रतनुसलिला ताम्यती तस्य सिन्धुः पाण्डुच्छायातटरुहतरुभ्रंशिभिः शीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती
कार्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥' भावाभासो यथा
'गुरुगर्भभरकान्ताः स्तनन्त्यो मेघपङ्कयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ||
तिरश्रोः संभोगाभासो यथा
'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां खामनुवर्तमानः । शृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥'
यथा च---
'ददौ सरः पङ्कजरेणुगन्धि गजाय गण्डूपजलं करेणुः । अपभुक्तेन विशेन जायां संभावयामास रथाङ्गनामा ॥' विप्रलम्भाभासो यथा ---
'आपृष्टासि व्यथयति मनो दुर्बला वासरश्री
रेखालिङ्ग क्षपय रजनीमेकिका चक्रचाकि ।
१०१.
- वेशाद्रोमाञ्च यथा--- (वेन्दावन्दाभिमुखम् ।) 'तद्वाभिमुखं मुखं विनमितं दृष्टिः कृता. पादयोस्तस्यालाप कुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कचुके संघयः ॥ मिथ्यावे
१. 'निरिन्द्रि' स्यात्. २. 'तामतीतस्य ( ? )' स्यात्.
१. लेखकप्रमादलिखितं भवेत्. २. 'मध्यावेशा' स्यात्.
Page #115
--------------------------------------------------------------------------
________________
१०२
काव्यमाला |
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥'
यथा वा
'नान्तर्वर्तयति ध्वनत्सु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः । दानाखादनिषण्णमूकमधुपव्यासङ्गदीनाननो
नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥' भावाभासो यथा
' त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये । वनं प्रयात्यसौ व्रीड जडदृष्टिर्मृगीजनः || आदिशब्दान्निशाचन्द्रमसोर्नायकत्वाध्यारोपात्संभोगाभासो यथा - 'अङ्गुलीभिरिव केशसंचयं संनिगृह्य तिमिरं मरीचिभिः । कुङ्मलीकृत सरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' चन्द्रे भावाभासो यथा -
' त्वदीयमुखमालोक्य लज्जमानो निशाकरः ।
मन्ये घनघटान्तर्धिं समाश्रयति सत्वरः ॥'
'रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमाश्ले
―――
षादयो जीवितम् ॥
अनौचित्याच्च । अन्योन्यानुरागाद्यभावेनानौचित्याद्रसभावाभासौ ।
शाद्वेपथुर्यथा-'मा गर्व मुद्वह कपोतले चकास्ति कान्त खहस्तलिखिता मम मञ्जरीति । 'अस्यापि किं सखि न भाजनमीदृशानां वैरी न चेद्भवति चेपथुरन्तरायः ॥' 'उत्कृष्टावेशात्स्वरभेदो यथा - ' याते द्वारमतीम् -' इति ॥ एते च सात्त्विकाः प्रतिरसं संभवन्तीति 'राजानुगत विवाहप्रवृत्तभृत्यन्यायेनापि व्यभिचारिवन्न स्वातन्त्र्यगन्धमपि भजन्त इति सुलभोदाहरणत्वाच्च वृत्तावुदाहरणानि न प्रदर्शितानि ॥ रसाभास इति । परस्पर
१. 'परस्परास्थानबन्धा' इति स्यात्.
Page #116
--------------------------------------------------------------------------
________________
२ अध्यायः ]
काव्यानुशासनम् ।
पादानं व्यनक्ति ।
१०३
रसाभासो यथा
'दूराकर्षण मोहमन्त्र इव मे तन्नानि याते श्रुतिं चेतः कालकलामपि प्रसहते नावस्थितिं तां विना । एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः
• संपद्येत कथं तदाप्तिसुखमित्येतन्न वेद्मिस्फुटम् ॥' अत्र सीताया रावणं प्रति रत्यभावाद्रसाभासः । यथा वा--.
' स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विले कः प्राणान्रणमखमुखे यं मृगयसे । सुल को जातः शशिमुखि यमालिङ्गसि बलातपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥' अत्रानेककामुकविषयमभिलापं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारो
भावाभासो यथा --
'निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दासः शशी
कान्तिः प्रावरणं तनोर्मधुमुचो यस्याश्च वाचः किल । विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण
स्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥' अत्रौत्सुक्यम् ||
काव्यस्य लक्षणमुक्त्वा भेदानाह
व्यङ्गस्य प्राधान्ये काव्यमुत्तमम् । वाच्यादर्थाद्व्यङ्ग्यस्य वस्त्वलंकाररसादिरूपस्य प्राधान्ये काव्यमुत्तमम् ।
स्थानवन्धात्मिकाया हि रतेः शृङ्गारत्वमुक्तम् । अत्र तु कामनाभिलाषमात्ररूपा रतिर्व्यभिचारिभावो नः स्थायी । तस्य तु स्थायिकल्पत्वेनाभाति । अतश्च स्थाय्याभासत्वं रतेः । यतो रावणस्य सीताद्विष्टमप्युपेक्षिका हृदयं नैव स्पृशति । तत्स्पर्शे ह्यभिमानोऽस्य लीयेतैवामयीयं रसक्तेति तु निश्चयोऽप्यनुपयोगी कामजमोहसारत्वात् शुक्तौ रूप्याभास -
१. 'लीयेतैव । मयीयं न सक्तेति' स्यात्.
Page #117
--------------------------------------------------------------------------
________________
काव्यमाला ।
यथा-- 'वल्मीकः किमुतोद्धतो गिरिरियत्कस्य स्पृशेदाशयं
त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्व साध्वथ वा रुणसि विरहक्षामस्य रामस्य चे- त्वदन्ताङ्कितवालिकक्षरुधिरक्लिन्नागपुझं शरम् ॥ अत्र दन्ताङ्कितपदेन तदवजयस्तत्कक्षपरिग्रहस्तथैव चतुरर्णवभ्रमणं पुनः कृपामात्रेण त्यागस्तत्राप्रतीकारः पुनरप्यभिमानदर्प इत्यादि व्यज्यते ॥
असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा। असति संदिग्धे तुल्ये च प्राधान्ये व्यङ्गयस्य मध्यमं काव्यम् ।
तत्रासत्प्राधान्यं कचिद्वाक्यादनुत्कर्षेण । वत् । तस्माद्विभावाद्याभासाद्रत्याभासे प्रतीते चर्वणाभाससारः शृङ्गाराभास इति ॥ एवं हास्याभासो यथा-'लोकोत्तराणि चरितानि न लोक एष संमन्यते यम किमङ्ग वदाम नाम । यत्त्वत्र हासमुखरे खममुष्य तेन पार्थोपपीडमिह को न विजाहसीति ॥' अत्र ।। यदभिनन्दनीयेऽपि वस्तुनि लोकस्य हासमुखरवं स हास्याभासः । किंशब्दस्य वाच्यस्य तु हास्यत्वमेव । एवं रसान्तरेषूदाहार्यमिति ॥ दन्ताङ्कितपदेनेति । वस्तुस्वभावेन । अभिमानदर्प इत्यादीति । वस्त्वित्यर्थः । एवमलंकारे रसादौ च प्राधान्येन व्यङ्ग्ये काव्यस्योत्तमत्वं विज्ञेयम् । तद्यथा-'लावण्यकान्तिपरिपूरितदिग्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यक्तमेव जलराशिरयं पयोधिः ॥' अत्र रूपकालंकारो व्यङ्ग्यः । तथा हि । लावण्यं संस्थानमुग्रिमा, कान्तिः प्रभा, ताभ्यां परिपूरितानि संविभक्तानि हृद्यानि संपादितानि 'दिङ्मुखानि येन । कोपकषायकालुध्यादनन्तरं प्रसादौन्मुख्येन स्मेरे ईषद्विहसनशीले तरलायते प्रसादान्दोलनविकाससुन्दरे अक्षिणी यस्यास्तस्या आमन्त्रणम् । अथ वा अधुना कोपादनन्तरं प्रसादोदये न एति, वृत्ते तु क्षणान्तरे क्षोभमगमत् । कोपकषायपाटलस्मेरं च तव मुखं संध्यारुणपूर्णशशधरमण्डलमेवेति भाव्यम् । क्षोभेण चलितचित्तवृत्तितया सहृदयस्य न चैति तत्सुव्यक्तमन्वर्थतयायं जलराशिर्जाज्यसंचयः । जलादयः शब्दा भावार्थप्रधाना इत्युकं प्राक् । अत्र क्षोभो मदनविकारात्मा सहृदयस्य त्वन्मुखावलोकने भवतीति इयताभिधाया विश्रान्तत्वाद्रूपकं व्यङ्ग्यमेव । तदाश्रयेण च काव्यस्य चारुत्वं व्यवतिष्ठत इति तस्यैव प्राधान्यम् ॥ रसप्राधान्ये यथा--'कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरभ्रान्ता
१. 'वाच्यात्' इति भवेत्. १. 'मञ्जिमा' स्यात. २. 'कृच्छादुरु' इत्युपलभ्यते.
Page #118
--------------------------------------------------------------------------
________________
२ अध्यायः] काव्यानुशासनम् । . यथा
'वाणीरकुडमुड्डीणसउणिकोलाहलं सुणन्तीए ।
घरकम्मवावडाए वहूए सीदन्ति अगाई ।' अत्र 'दत्तसंकेतः कश्चिल्लतागहनं प्रविष्टः' इति वाक्यात् 'सीदन्त्य. गानि' इति वाच्यमेव सातिशयम् । क्वचित्परागत्वेन यथा
'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविसंसनः करः ।। अन शृङ्गारः करुणस्याङ्गम् ।
नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गाविषमे निःस्पन्दतामागता । मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाझं मुहुरीक्षते जललवस्पन्दिनी लोचने ॥' अत्र हि नायि. काकरानुवर्तमानखात्मप्रतिकृतिपवित्रितचित्रफलकालोकनाद्वत्सराजस्य परस्परास्थावन्यरूपो रतिस्थायिभावो विभावानुभावसंयोजनावशेन चर्वणा इति (2) आरुह्य इति प्रा. धान्येनात्र रसो व्यङ्ग्यः । एवं भावतदाभासादीनामुत्तमकाव्यप्रभेदतया उदाहरणानि ज्ञेयानीति ॥ सातिशयमिति । तथा हि । गृहकर्मव्यापृताया इत्यन्यपराया अपि । वध्वा इति सातिशयलव्धा (2) पारतत्र्यवद्धाया अपि । अङ्गानीत्येकमपि तादृशमङ्गं यद्गाम्भीर्यावहित्यवशेन संवरीतुं पारितम् । सीदन्तीत्यास्तां गृहकर्मसंपादनं स्वात्मानपि धर्तुं न प्रभवति । गृहकर्मयोगे च स्फुटं लक्ष्यमाणानीति अस्माद्वाच्यादेव सातिशयमदनपरतन्त्रताप्रतीतिरित्यर्थः । पराङ्गत्वेनेति । परस्परसमवेतदाभासभावप्रशमभावोदयभावसंधिभावशवलतारूपस्य भावस्य वाक्यार्थीभूतस्य अङ्ग रसा दिवस्वलंकाररूप व्यायं तस्य भावस्तत्त्वम् । तेनेति रसेन । उत्कर्षीति । रसनां मेखला संभोगावसरे ऊर्च कर्पतीति । शृङ्गार इति । समरभुवि पतितकरावलोकनेन प्राक्तनसंभोगवृत्तान्तः स्मर्यमाण इदानी विध्वस्ततया यतः शोकविभावतां प्रतिपद्यते अतः करुणस्याङ्गतां याति । यथा च–'तव शतपत्रमृदुताम्रतलश्चरणश्चलकलहंसनूपुरकल
.. १. 'वानीरकुजोडीनशकुनिकोलाहलं शृण्वत्याः।
गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥' इति च्छाया. २. 'व्यङ्ग्यात्' इति काव्यप्रकाशोक्तमेव वरं प्रतीयते.
१. 'प्रस्यन्दिनी' स्यात्. २. 'स्थावन्धरूपो' स्यात्.. ३. 'मपि न ताह' स्यात.. , ४. 'स्तत्वं तेनेति । रसनोत्कीति' स्यात्.
१४
Page #119
--------------------------------------------------------------------------
________________
१०६
काव्यमाला। यथा च'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया
वचो. वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृता लंकाभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥' - अत्र व्यङ्गय उपमानोपमेयभावो रामत्वमिति वाच्यस्याङ्गतां नीतः । ध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः कनकमहामहीध्रगुरुतां कथमम्ब गतः ॥' अत्र वितर्कविस्मयादयो भावा देवताविषयाया रतेरङ्गम् । यथा च-समस्तगुणसंपदः सममलंक्रियाणां गणैर्भवन्ति यदि भूषणं तव तथापि नो शोभसे। शिवं हृदयवल्लभं यदि यथा तथा रञ्जयेस्तावदेव ननु वाणि ते जगति सर्वलोकोत्तरम् ॥' अत्र शृङ्गाराभासो भावस्याङ्गम् । यथा च-'स पातु वो यस्य ह- - तावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु । लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः खकान्तानयनोत्पलेषु ॥' अत्र रौद्रप्रकृतीनामनुचितस्त्रासो भगवत्प्रतापकारणकृत इति भावा- ' भास इति । स च देवताविषयरतिभावस्याङ्गम् । यथा च-'अविरलकरवालकम्पनैर्भुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥' अत्र राजविषयस्य रतिभावस्य भावप्रशमोऽङ्गम् । 'साकं कुरङ्गसदृशा मधुपानलीलां क स्मरद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधाय तव नाम विभोहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥' अत्र त्रासस्योदयः । 'असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विस्तम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटवटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥' अत्रावेगधैर्ययोः संधिः। 'पश्येत्कश्चिञ्चल चपल रे का त्वराहं कुमारी । हस्तालम्बं वितर हहहा. न्युत्क्रमः क्वासि यासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित्पुलकिसलयान्याददानाभिधत्ते॥' अत्र शङ्कास्तेयधृतिस्मृतिश्रमदैन्यविवोधौत्सुक्यानां शवलता। एते च रसवदाद्यलंकाराः । यद्यपि भावोदयसंधिशबलत्वानि नालंकारतयोक्तानि तथापि कश्चिद्भूयादित्येवमुक्तम् । इदानीं वाच्यं प्रत्यलंकारस्य व्यङ्ग्यस्याङ्गतामाहयथा चेति । जनस्थाने इति । जनानां स्थानम् , दण्डकारण्यं च । कनकमृगतृष्णा, भ्रान्तिश्च । वैदेही सीता, वै देहि इति पदद्वयं च । लंकापुरस्य भर्तुः रावणस्य, अलमी. षद्रूपत्वात्कुत्सितस्य भर्तुश्च । वदनेषु दशसु मुखेषु । घटना शरयोजना, विचित्रोक्तिपरम्परासु च । कुशलवौ सुतौ यस्याः सा सीता, शुभधनता च ॥ प्रलयेति । प्रलय
१. 'स्तदेव' स्यात्. २. 'कुरङ्गकदृशा' काव्यप्रकाशे. ३. 'सुहृद्भि' काव्यप्रकाशे. ४. 'धायि' काव्यप्रकाशे. ५. 'विभो मृ' काव्यप्रकाशे. ६ 'व्युत्क्रमः' काव्यप्रकाशे. ७. 'फलकिस' काव्यप्रकाशे.
Page #120
--------------------------------------------------------------------------
________________
२ अध्यायः]
. काव्यानुशासनम् ।
यथा च'भ्रमिमरतिमलसहृदयं प्रलयं मूर्छा तमः शरीरसादम् ।
मरणं जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥' अत्र हालाहलं वस्तु व्यङ्गयं भुजगरूपणलक्षणस्य वाच्यस्याङ्गम् । क्वचिदस्फुटत्वेन यथा. 'अहयं उज्जुअरूया तस्स वि उम्मन्थराइं पिम्माइं।
सहि आयणो अ निउणो अलाहि किं पायराएण ॥' अत्र स मां पुरुपायितेऽर्थयते, अहं च निपद्धं न शक्ता, तत्सख्यः पादमुद्रया तर्कयित्वा मामहासिपुरिति व्यङ्गयमस्फुटम् । क्वचिदतिस्फुटत्वेन यथा'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् ।
उपदिशति कामिनीनां यौवनमद एव ललितानि ॥' अत्राप्रयासेन शिक्षादानलक्षणं वस्तु व्यङ्गयमतिस्फुटत्वेन प्रतीयमानमसत्प्राधान्यमेव कामिनीकुचकलशवढं चमत्करोति नातिगूढम् ।
इन्द्रियाणामल्पं सामर्थ्यम् । मूर्छा मनस इन्द्रियाणां च शक्ति निरोधः । तमः सत्ये च (2)मनसि इन्द्रियाणामशक्तिः मरणमतिः प्राणत्यागकर्तृतात्मिका पूर्वक्रियैव च पा. शबन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता । विषमिति जलं कालकूटं च ॥ गूढमिति । यथा—'मुखं विकसितस्मितं वसितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसवन्धोद्धरं वतेन्दुवदनातनौ तरुणिमो. गमो मोदते ॥' अत्र विकसितशब्देन वाधितव्याकोशात्मकमुख्यार्थेन सच्छायत्वप्रसरणादिसादृश्यात् स्मितं लक्षयता हृद्यत्वसुरभिलबहुमानास्पदत्व नित्यसुलभत्वादिधर्मसहस्रं ध्वन्यते । वसितशब्देन निश्चेतने वक्रिमणि असंभवत्परम्पर्यात्मकखार्थेन किंकरत्वतन्मुखप्रेक्षित्वादिसादृश्यावक्रिमाणं लक्षयता तापकत्वात्तदनुसरणं न कदाचिदप्यन्यत्र सद्भावः स्वेच्छया यत्र कुत्रचिदविवरणमित्यादि ध्वन्यते । समुच्छलितशब्देनानुपपद्यमानसामस्त्योयललनात्मकखार्थेनाकस्मादुत्कलोलीभवनसादृश्याद्विभ्रमं लक्षयता प्रौ
१. अस्य संस्कृतं बहूनां पदानामस्फुटत्वान लिखितम्. १. 'सत्त्वे' स्यात्. २. "मरणं मृतिः' स्यात्.
Page #121
--------------------------------------------------------------------------
________________
काव्यमाला।
संदिग्धप्राधान्येन यथा'महिलासहस्सभरिए तुह हियए सुहय सा अमायन्ती ।
अणुदिणमणण्णकम्मा अङ्गं तनुयं पि तणुएइ ॥' अत्र अङ्गं तनुकमपि तनूकरोतीति किं वाच्यम्, किं वा तनूभावप्रकर्षाधिरोहेण यावदत्याहितं नाप्नोति तावदुज्झित्वा दौर्जन्यं सानुनीयतामिति व्यङ्गयं प्रधानमिति संदिग्धम् ।
तुल्यप्राधान्ये यथा-'ब्राह्मणातिक्रम-' इति । अत्र जामदग्यः सर्वेषां क्षत्राणामिव रक्षसां क्षयं करिष्यतीति व्यङ्गयस्य वाच्यस्य च समं प्राधान्यम् । यथा वा
'पतौ विशन्तु गणिताः प्रतिलोमवृत्त्या ___ पूर्वे भवेयुरियताप्यथ वा त्रपेरन् । सन्तोऽप्यसन्त इव चेत्प्रतिभान्ति भानो
र्भासावृते नभसि शीतमयूखमुख्याः ॥' अत्र प्राकरणिकाप्राकरणिकयोः समं प्राधान्यम् । यथा वा'मश्नामि कौरवशतं समरे न कोपा
दुःशासनस्य रुधिरं न पिबाम्युरस्तः ।
ढप्रौढतरत्ववद्वास्य सर्वजनाभिलषणीयत्वादि ध्वन्यते । अपास्तशब्देनामूर्छायां मत्याश्रि. तमर्यादायामसंभवदपेक्षणात्मकखार्थेन सत्त्वनिर्वृत्तिसादृश्यात्संस्थानं लक्षयता पुनरखीकारानवलोकनादि ध्वन्यते । मुकुलितशब्देनासंभवत्कोरकात्मखार्थेनाभिनवोद्भेदसादृश्यास्तनयुग्मं लक्षयता स्पृहणीयत्वरामणीयत्वरामणीयकस्यास्पदत्वमनोभवसमुद्दीपकत्वमिति ध्वन्यते । उद्धरशब्देन वाधितधुरौन्मुख्यखार्थेनोचैस्त्वत्सादृश्यासंबन्धवजघनं लक्षयतोपचितत्वस्पृहणीयत्वमनोभवकेतनत्वादि ध्वन्यते । इन्दुवदनेत्यत्र यापचारस्तदा इन्दुशब्देन बाधितखार्थेन पारिमाण्डल्यादिसादृश्यावदनं लक्षयता जगजीवयितृत्वादि ध्वन्यते । उद्गमशब्देन बाधितोदयात्मकखार्थेनाभिनवोद्भेदसादृश्यात्तरुणिमानं लक्षयता
१.
'महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । अनुदिनमनन्यकर्माङ्ग तन्वपि तनयति ॥' इति च्छाया.
Page #122
--------------------------------------------------------------------------
________________
२ अध्यायः] काव्यानुशासनम् ।
संचूर्णयामि गदया न सुयोधनोरू . संधि करोतु भवतां नृपतिः पणेन ।' अत्र मनाम्येवेत्यादि व्यङ्गयं वाच्यतुल्यभावेन स्थितम् । इति त्रयो मध्यमकाव्यभेदा न त्वष्टौ ।
अव्यङ्गयमवरम् । . शव्दार्थवैचित्र्यमानं व्यङ्गयरहितमवरं काव्यम् । यथा---
'अघौधं नो नृसिंहस्य घनाघनघनध्वनिः ।
· हताद्धरुघुराघोषः सुदीर्घो घोरघर्षरः ।।" यथा वा'ते दृष्टिमात्रपतिता अपि नात्र कस्य
क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नींचाः सदैव सविलासमलीकलग्ना
_ये कालतां कुटिलतामिव न त्यजन्ति ।' यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानम्, तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यमुक्तम् ।। ' इत्याचार्यहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासन
__ वृत्ती रसभावतदाभासकाव्यभेदप्रतिपादनो द्वितीयोऽध्यायः। स्पृहणीयत्वादि ध्वन्यते । मोदतेशब्देन वाधितहत्मिकमुख्यार्थेनार्दवितर्दकत्वसादृश्यादुद्गमं लक्षयता उच्छृङ्खलस्पृहणीयादि ध्वन्यते॥ न त्वष्टाविति । यथाह मम्मट:'अगूढमपरस्याङ्गं वाच्य सिद्धयङ्गमस्फुटम् । संदिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम् । व्यङ्ग्यमेवंगुणीभूतव्यङ्ग्यस्याप्टौ भिदाः स्मृताः ॥ इति ॥ ननु यत्र रसादीनामविषयः स काव्यप्रकारोऽपि न भवत्येव । यस्मादवस्तुसंस्पर्शिता काव्यस्य तनोपपद्येत । वस्तु च सर्वमेव जगद्गतमवश्यं कस्यचिद्रसस्य भावस्याङ्गं प्रतिपद्यते । अनन्तरो विभावत्वेन चित्तवृत्तिविशेषा हि रसादयः । न च तदस्ति वस्तु यन्न किंचिच्चित्तवृत्तिविशेषमु. पजनयति । तदनुत्पादने वा कविविषयतैव तस्य न स्यादित्याशङ्कयाह-यद्यपीति ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके द्वितीयोऽध्यायः ।
१. 'कस्य नात्र' काव्यप्रकाशे.
Page #123
--------------------------------------------------------------------------
________________
काव्यमाला।
तृतीयोऽध्यायः । 'अदोषौ शब्दार्थों काव्यम्' इत्युक्तम् । तत्र दोषाणां रसापकर्षहेतुत्वं सामान्यलक्षणमुक्तम् । विशेषलक्षणमाहरसादेः स्वशब्दोक्तिः कचित्संचारिवर्ज दोषः।
रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं दोषः । संचारिणस्तु कचित्स्वशब्दाभिधानेऽपि न दोषः।। तत्र रसस्य स्वशब्देन शृङ्गारादिना वाभिधानं यथा'शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे
बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया । रौद्रो दक्षविमर्दने च हसकृन्ननः प्रशान्तश्विरादित्थं सर्वरसात्मकः पशुपतिर्भूयात्सतां भूतये ॥' .
वाच्यत्वमिति । वाच्यत्वं हि रसादीनां खशब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन् पक्षे खशब्दनिवेदितत्वाभावे रसादीनामप्रतीतिप्रसङ्गः। न च सर्वत्रैतेषां खशब्दनिवेद्यत्वं यथा--'यद्विश्रम्य-' इति । अत्रानुभावविभाववोधानन्तरमेव तन्मयीभवनयुक्त्या तद्विभावानुभावोचितचित्तवृत्तिवासनान्तरञ्जितखसं. विदानन्दचर्वणागोचरोऽत्मिाभिलाषचित्तौत्सुक्यनिद्राधृतिग्लान्यालस्यश्रमस्मृतिवितर्कादिशब्दाभावेऽपि स्फुरत्येव ॥ न च केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रति|पादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिरस्ति । यथा-शृङ्गारहास्यकरुणा-' इ. त्यादौ । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । नत्वभिधेयत्वं कथंचिदिति । खशब्दोक्तिदोष इत्यर्थः । द्वितीयश्च पक्षोऽस्माकमप्यभिमत एव । एतेन-'रसवद्दर्शितस्पष्टशृङ्गारादिरसोदयम् । खशब्दस्थायिसंचारिविभावाभिनयास्पदम् ॥' इत्येतद्व्याख्यानावसरे यद्भट्टोद्भटेन 'पञ्चरूपा रसाः' इत्युपक्रम्य
१. 'यद्विश्रम्य विलोकितेषु बहुशो निःस्थेमनी लोचने यद्गात्राणि दरिद्रति प्रतिदिनं लूनाब्जिनीनालवत् । दुर्वाकाण्डविडम्बकश्च निविडो यत्पाण्डिमा गण्डयोः कृष्णे यूनि सयौवनासु वनितास्वेषैव वेषस्थितिः ॥ इति संपूर्णश्लोको भहेन्दुराजस्य ध्वन्यालोचने उदाहृतः. २. 'र्थो रसात्मा' लोचने. ३. अस्य मूलप्रतीकं 'दोष इति ।' इति त्रुटितं भवेत.
Page #124
--------------------------------------------------------------------------
________________
३ अध्यायः
काव्यानुशासनम् ।
स्थायिभावानां यथा
'संप्रहारे प्रहरणैः प्रहाराणां परस्परम् ।
छणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥' अत्रोत्साहस्य स्थायिनः ।।
यत्रापि स्वशब्देन निवेदितत्वमस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैव रसादीनां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते । यथा'याते द्वारवतीम्-' इत्यादि । अत्र विभावानुभाववलादुत्कण्ठा प्रतीयत एव । सोत्कण्ठः शब्दः केवलं सिद्धं साधयति । उत्कमित्यनेन तूक्तानुभावाकर्पणं कर्तुं सोत्कण्ठशदः प्रयुक्त इत्यनुवादोऽपि नानर्थकः । व्यभिचारिणां यथा-- 'सत्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जडुसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्र ब्रीडादीनाम् । 'कचित्संचारिवर्जम्' इति वचनात्कचिन्न दोपः। यथा-- 'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया
तैरतबन्धुवधूजनस्य वचनै ताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥' अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत इव 'दू. रादुत्सुकम्-' इत्यादौ ब्रीडाद्यनुभावानां विचलितत्वादीनामिवोत्सुकत्वानु
'स्वशब्दाः नारादेर्वाचकाः मारादयः शब्दाः' इत्युक्तम् , ' तत्प्रतिक्षिप्तम् ॥ नान
१. 'ठण' 'मण' वा काव्यप्रकाशे.
Page #125
--------------------------------------------------------------------------
________________
११२
काव्यमाला। भावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ।
अबाध्यत्वे आश्रयैक्ये नैरन्तर्येऽनङ्गत्वे च विभावादिप्रातिकोल्यम् ।
अबाध्यत्वादिषु सत्सु विभावादिनीतिकौल्यं रसादेर्दोषः । यथा'प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये शुष्यन्त्यङ्गान्यतमिव मे सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥' अत्र कालहरिणश्चपलः शीघ्रमेव प्रयाति न च पुनरागच्छतीत्यादिवैराग्यकथाभिः प्रियानुनयनं निर्विस्येव कस्यचिदिति शृङ्गारप्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावो निबद्ध इति विभावौतिकौल्यम् । तत्प्रकाशितो निर्वेदश्च स्वदते इति व्यभिचारिणीतिकौल्योदाहरणमप्येतत् ।
एवं शृङ्गारबीभत्सयोर्वीरभयानकयोः शान्तरौद्रयोरप्युदाहार्यम् ।। यथा च'निहुयरमणम्मि लोयणवहम्मि पडिए गुरूणमज्झम्मि ।
सयलपरिहारहियया वणगमणं वेव महइ बहू ॥ अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाद्यानयनव्याजेनोपभोगार्थ वनगमनं चेन्न दोषः । __ अबाध्यत्वे इति । अबाध्यत्वमशक्याभिभवत्वं तदभावेन केवलं न दोषो यावत्प्रकृतम्य रसस्य परिपोषः । यथा--'काकार्य शशलक्ष्मणः क च कुलम्' इत्यादि । अत्र वितौत्सुक्ये मतिस्मरणे शङ्कादैन्ये धृति
१.-२. 'प्रातिकूल्यं स्यात्. ३. 'निर्विण्ण' स्यात्. ४.-५. 'प्रातिकूल्यं स्यात्. ६. 'निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये ।
सकलपरिहारहृदया वनगमनमेवेच्छति वधूः ॥' इति च्छाया.
Page #126
--------------------------------------------------------------------------
________________
३ अध्यायः] काव्यानुशासनम् ।
११३ चिन्तने परस्परवाध्यबाधकभावेन भवन्ती चिन्तायामेव पर्यवस्यन्ती परमाखादस्थानम् । . 'सत्यं मनोरमाः कामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गभङ्गालोलं हि जीवितम् ॥' अत्र त्वाद्यमधे वाध्यत्वेनैवोक्तम् , द्वितीयं तु सिद्धास्थिरत्वापाङ्गमजोपमानेन जीवितस्यास्थिरत्वं प्रतिपादयद्वाधकत्वेनोपात्तं शान्तमेव पुप्णाति । न पुनः शृङ्गारस्यात्र प्रतीतिः, तदङ्गस्याप्रतिपत्तेः । ध्वनिकारस्तु
'विनेयानुन्मुखीकर्तु काव्यशोभार्थमेव च ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥' इति विरोधपरिहारमाह ॥
आश्रयैक्य इति । एकाश्रयत्वे दोपः । भिन्नाश्रयत्वे तु वीरभयानकयोः परस्परं विरुद्धयोरपि नायकप्रतिनायकगतत्वेन निवेशितयोर्न दोपः । यथा अर्जुनचरिते
'समुत्थिते धनुर्ध्वनौ भयावहे किरीटिनो ___ महानुपप्लवोऽभवत्पुरे पुरंदरद्विपाम् । श्रवेण तस्य तु ध्वनेविलुप्तमूलबन्धन
मशेपदैत्ययोपितां श्लथीबभूव जीवितम् ॥' . इत्यादि ॥
नैरन्तर्य इति । एकाश्रयत्वेऽपि शान्तशृङ्गारयोः परस्परविरुद्धयोनिरन्तरत्वे दोपः, न तु रसान्तरान्तरितयोः । र्थक इति । शब्दोपात्तस्यैव प्यनुवादो भवति न प्रतीयमानस्येत्यर्थः ॥ मरणमिति । प्राणत्यागकर्तृतात्मिका पूर्वक्रियेव पात्रवन्धाद्यवसरगता मरणशब्देनात्र विवक्षिता ॥
१. 'परस्पर' लोचने. २. 'द्वन्द्वशो भवन्ती' लोचने. ३. 'रामाः' ध्वन्यालो- . ककाव्यप्रकाशयोः. ४. 'प्रसिद्धास्थिरापामः' स्यात्. १. अस्य मूलं त्रुटितं भवेत् , अन वास्य प्रमादपतितत्वं भवेत्.
१५
मा
Page #127
--------------------------------------------------------------------------
________________
११४
काव्यमाला |
यथा नागानन्दे शान्तरसस्य — 'अहो गीतमहो वादितम्' इत्यद्भुतमन्तरे निवेश्य जीमूतवाहनस्य मलयवतीं प्रति शृङ्गारो निबद्धः ।
न केवलं प्रबन्धे, यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधानाद्विरोघो निवर्तते ।
यथा
-
'भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः ।
गाढं शिवाभिः परिरम्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्देश्यमानांल्ललनाङ्गुलीभिर्वीराः स्वदेहान्पतितानपश्यन् ॥'
अत्र बीभत्सशृङ्गारयोरन्तरा वीररसनिवेशान्न विरोधः । वीराः खदेहानित्यादिना उत्साहाद्यवगत्या कर्तृकर्मणोः समस्तवाक्यार्थानुयायितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायिकता । खदेहानि - त्यनेन चैकत्वाभिमानादाश्रयैक्यम् ।
अनङ्गत्वमिति । द्वयोर्विरुद्धयोरङ्गित्वे दोष:, नाङ्गभावप्राप्तौ । सा हि नैसर्गिकी, समारोपकृता वा ।
/ तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम् । ते हि निरपेक्षभावतया सापेक्षभावविरोधिन्यपि करुणे सर्वथाङ्गत्वेन दृष्टा । यथा - ' भ्रमिमरतिमलसहृदयताम्' इत्यादि ।
शान्तरसस्येति । 'रागस्यास्पदमित्यवैमि न हि मे ध्वंसीति न प्रत्ययः कृत्याकृत्यविचारणासु विमुखं को वा न वेति क्षितौ । इत्थं निन्दमपीदमिन्द्रियवशं प्रीत्यै भनेद्यौवनं भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे ॥' इत्यादिना उपक्षेपात्प्रभृ• तिपरार्थं शरीरवितरणात्मक निर्वहणपर्यन्तं प्रतिपादितस्य ॥ एकत्वाभिमानादिति ।
१. 'वादित्रम्' काव्यप्रकाशे. २. 'यकता' इति ध्वन्यालोकलोचने पाठः. ३. 'अनङ्गत्वे चेति' स्यात्. ४. दृष्टां: । 'यथा' स्यात्.
१. 'निन्द्य' स्यात्.
Page #128
--------------------------------------------------------------------------
________________
.३ अध्यायः
काव्यानुशासनम् ।
समारोपितायामप्यदोषो यथा—'कोपात्कोमललोलबाहुलतिका- इ. त्यादि । अत्र वद्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तदनिर्वाहादेवाङ्गत्वम् । इयं चाङ्गभावप्राप्तिरन्या । - यदाधिकारिकत्वात्प्रधाने एकस्मिन्काव्यार्थे रसयो वयोर्वा परस्परविरोधिनोरङ्गभावस्तत्रापि न दोषः ।
यथा-- 'क्षिप्तो हस्तावलमः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृहन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन्योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥' अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यङ्गमिति तयोर्न विरोधः ॥
पराङ्गत्वेऽपि कथं विरोधिनोविरोधनिवृत्तिरिति चेत्, उच्यते । विधौ विरुद्धसमावेशस्य दुष्टत्वम्, नानुवादे ।
अन्यथा विभिन्न विपयत्वात्को विरोधः स्यादित्यर्थः ॥ ननु वीर एवात्र रसो न शृङ्गारो न वीभत्सः किं तु रत्तिजुगुप्से वीरं प्रति व्यभिचारीभूते । भवत्वेवम् । तथापि प्रकृतो. दाहरणे तावदुत्पनरतिजुगुप्सयोरपि न विरोधः ॥ करुण इवेति । तथा हि-हैस्तावलमस्य वहः क्षेपो विधूननं भयहेतुकमिति करुणारत्वे उपलालनाप्रवृत्तस्य तु व. हल्लभस्य करग्रहणासहनं क्षेपो नाविकारान्तरसंपर्कसमुत्थेाकोपनिमित्तो विप्रलम्भसंसूचकः । पटाश्चलावलमस्य वहेः प्रसभाभिहननं दाहनिमित्तदुःखजनितमवधूननं जलादिप्रक्षेपरूपं चेति करुणरसपरिपोषकम् । करावधूननेन करग्रहणासंपत्तावश्चलावलम्बिनो वालभस्य प्रसभमभिहननमवदापनमस्तया(?)वशावज्ञानिमित्तं विप्रलम्भमपरिपोषकम् । इतश्वेतश्च प्रवर्तमानस्य वः कवरीकलापासङ्गितश्वासहेतुकः ससंभ्रमकरयुगलजनितः प्रक्षेपोपासनमभिव्यअकमिह करुणस्य प्रपञ्चलवे ताण्डवपूर्वकत्वरितगतिनायिका
१. इतः प्रभृति 'विरोधाभावात्' इत्यन्तो प्रन्थः पुस्तकान्तरालाभेन शुद्धयशुद्विज्ञानाभावेन यथादर्शमस्फुटार्थो विचार्यः. २. 'इत्वम् ।' स्यात्.
Page #129
--------------------------------------------------------------------------
________________
काव्यमाला।
.यथा
'एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर। .
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥ न ह्यत्र विधिः तदेव कुरु माकार्षीरिति वदेकदा प्राधान्यलक्षणः । अपित्वन्याङ्गतालक्षणोऽनुवादः । एहीति क्रीडन्ति गच्छेति क्रीडन्ति इति क्रीडाङ्गयोरागमनगमनयोर्न विरोधः । न च रसेषु विध्यनुवादव्यवहारो वेणीलतावग्रहोपायहठचुम्बनप्रवृत्तवल्लभस्यायासनमपक्षेपेणामयि निर्लज्ज तथा नाम व्यलीकशतानि कृत्वा संप्रतीत्थमाचरतीत्येवरूपोपालम्भवचनादिमयं कृतककोपवशमीयारोषाभिव्यञ्जकम् । केशावलग्नस्य वढेः सेन्धनस्य प्रक्षेपे च संभ्रमवशेनानालोचिंतदेशतया पादपतनमतज्ज्वालितस्य वा सर्वतोदिकस्य पादाक्रमणमिति तथाभूतस्य संभ्रमवशेनानिरीक्षणमनालोचनम् । वेलद्वेणीविलग्ननायकावलोकनजनितरोषावेषारुणितनयनस्फुरिताधरसंरब्धकान्तादर्शननिश्चितमानग्रहणः प्रणामान्ते मौन इति । वल्लभः पादपतितो न विगणिततदपराधोन्मुखीकरणविस्मृततदपराधया नायिकया वह्नयाकान्तपादतया पलायनासमर्थत्रिपुरनारीसमाश्लेषकारी वहिरतितीव्रतरावेगावेशेन सर्वाङ्गे प्रकम्पनेनावधूतः क्षिप्तो दुःसहदुःखावस्थाद्योतकः । पादपतनप्रसादितवल्लभो वल्लभालिङ्गनप्रवृत्तः कान्तजनोऽसहनया दृढकोपनया ऋगिति प्रसादमव्रजं गर्वगरिममन्थरितयावधूतस्तदा मोटने न निवारित इति संस्कार इति शेषेाविप्रलम्भसंसूचनम् । अत एव परित्यक्तप्रायेाकोपतया वल्लभकृतापराधानुस्मरणजनिताश्रुबाधाविलीकृतकुवलयदलसदृशलोचनतया शृङ्गारोद्दीपनम् । वहिदाहजनितवल्लभसुतादि विनाशानुस्मरणहेतुकेदुःखसंभारवशोद्गताश्रुप्रवाहविसंस्थुलीकृतसुन्दरतरनयनतया शोकावेगपोषणम् । आर्द्रापराधः प्रत्ययप्रेमखवलितादिप्रमादयुक्तः । अत एवेर्ध्याकोपनिमित्तता । वढेरपि अत्यनापराधना दाहजनिता तया शोकावेगहेतुतेति सदृशार्थवाचकपदनिकुरम्बजनितरसद्वयप्रतीतिभूषितकाव्याभोगाः सहृदयानां परं चमत्कारमावहन्तीत्युच्यत इति ।। अयं भावः-सामग्रीविशेषपरिपतितत्वेन भावानां विरोधाविरोधौ न खभावमात्रनि., बन्धनौ भिन्नदेशयोः शीतोष्णयोरपि विरोधाभावात् ॥ ननु प्रधानतया यद्वाच्यं तत्र 'विधिः, अप्रधाने तु वाच्येऽनुवादः, न च रसस्य वाच्यत्वं सह्यत इत्याशङ्कयमानः प-.. रिहरति-न चेति । प्रधानाप्रधानत्वकृतौ विध्यनुवादौ, तौ च व्यङ्ग्यतायामपि भवत
१. 'विधिस्तदैव तदेव कुरु मा कार्षीरिति तावदे' इति पश्चात्कृतपाठः. २. 'दा' रहितोऽपि ध्वन्यालोचनस्थः पाठः.
१. 'झगिति' स्यात् . २. 'अप्रधानत्वेन' ध्वन्यालोकलोचने. ३. 'वाच्यत्वं त्वयैव सोढमित्याशङ्कमानः' ध्वन्यालोकलोचने. ४. 'प्रधानांप्रधानमात्रकृतौ' ध्वन्यालोकलोचने.
Page #130
--------------------------------------------------------------------------
________________
३ अध्यायः]
काव्यानुशासनम् ।
११७
नास्तीति शक्यं वक्तुम् । तेषां वाक्यार्थत्वेनाभ्युपगमात् । वाक्यार्थस्य च यौ विध्यनुवादौ तौ तदाक्षिप्तानां रसानामपि भवतः । ___ अथ वा त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम् , तस्य तु शृङ्गारः । तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव ।।
अथ वा प्राग्यथा कामुक आचरति स्म, तथा शराग्निरिति मर्यमाणशृङ्गारेणेदानीं विध्वस्ततया शोकविभावतां प्रतिपद्यमानेन पोषितः करुणो रसः प्रधानमेव वाक्यार्थमभिधत्ते । यतः प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थादिभिः स्मर्यमाणैर्विलासैरधिकतरं शोकावेगमुपजनयन्ति। यथा
'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः ।" इदं हि भूरिश्रवसः समरभुवि पतितं वाहुं दृष्ट्वा तत्कान्तानामनुशोचनम् । तथात्रापि त्रिपुरयुवतीनां शांभवः शराग्निरार्द्रापराधः कामी यथा व्यवहरति स्म तथा व्यवहृतवानित्यनेनापि प्रकारेणास्त्येवाविरोधित्वम् ।
एवेति भावः । मुख्यतया च रस एव काव्यवाक्यार्थानामर्थः । तेन यत्रामुख्यतया सोऽर्थस्तानूद्यमानत्वं रसस्यापि युक्तम् । यदि वानूद्यमानविभावादिसमाक्षिप्तत्वाद्रसस्यानूद्यमानता । तदाह-वाक्यार्थस्य चेति । अस्त्येवाविरोधित्वमिति । अनायं भावः-पूर्व पक्षद्वये विप्रलम्भकरुणयोरन्यत्राङ्गभावगमनानिर्विरोधित्वमुक्तम् । अधुना तु स विप्रलम्भः करुणस्यैवाङ्गतां प्रतिपन्नो न विरोधीति । तथा हि-करनहणासहनादिना ईर्ष्याविप्रलम्भवृत्तान्तः स्मर्यमाण इदानीं विध्वस्ततया शोकविभावतां प्रकृष्टां प्रतिपद्यते इति वाक्यार्थीभूतस्य करुणस्य विरोधिनापि शृङ्गारेण परिपोष एव विधीयते ॥ परतस्तु शृङ्गारपोषितेन करुणेनात्र मुख्य एवार्थ उपोद्वल्यते । उक्तं हि--'गुणः कृतात्मसंस्कारः प्रधान प्रतिपद्यते । प्रधानस्योपकारे हि तथाभूय निव
-
१. 'वाक्यार्थस्य वाच्यस्य च'ध्वन्यालोके. २. 'स्थाभाविभिः समर्थ' ध्वन्यालोके. .
. १. 'तेन मुख्यतया यत्र सोऽर्थः' ध्वन्यालोकलोचने. २. 'यदिचा' स्यात्..
Page #131
--------------------------------------------------------------------------
________________
११८
काव्यमाला ।
एवं च
'दन्तक्षतानि करजैश्च विपाटितानि ।
प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दन्तानि रक्तमनसा मृगराजवध्वा
जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥ इत्यादावपि शृङ्गारः शान्तस्याङ्गम् । तथा हि-यथा कश्चिन्मनोरथशतप्रार्थितप्रेयसीसंभोगावसरे जातपुलकस्तथा त्वं परार्थसंपादनाय खशरीर• दान इति शृङ्गारेण शान्त एव पोष्यते इति ।
यत्र तु न पोष्यते तत्रानङ्गत्वाद्दोष एव । यथा'राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसति जगाम सा ।' अत्र प्रकृतस्य करुणरसस्य विरुद्धशृङ्गारो 'न पोषकः ।
विभावानुभावक्लेशव्यक्तिः पुनःपुनर्दीप्त्यकाण्डप्रथाच्छेदाङ्गाति- विस्तराङ्गचननुसंधानानगाभिधानप्रकृतिव्यत्ययाश्च ।
एते चाष्टौ रसस्य दोषाः। तते ॥' इति । दन्तक्षतानीति । बोधिसत्त्वस्य सिंही खकिशोरभक्षणप्रवृत्तां प्रति निजं शरीरं वितीर्णवतः केनचिच्चाटुकं क्रियते । प्रोद्भूतः सान्द्रः पुलक: परार्थसंपत्तिजनानन्दकरेण यत्र । रक्ते रुधिरे मनोभिलाषो यस्याः । अनुरक्तं च मनो यस्याः । पुररयश्चोद्वोधितः मदनावेशश्चेति विरोधः । जातस्पृहैरिति । वयमपि यदि कदाचिदेवं कारुणिकपदवीमधिरोक्ष्यामस्तदा सत्यतो मुनयो भविष्याम इति मनोराज्ययुक्तैः॥ .. न पोषक इति । अपि त्वगितयैव प्रतिभासते ॥ ननु यत्रैकतात्पर्येणेतरेषां विरुद्धा- . नामविरुद्धानां च न्यग्भूतत्वेनोपादानं तत्र त्वङ्गत्वेनाविरोधः । यत्र तु समप्रधानत्वेना
१. 'प्रोद्भूत' विवेके लोचने च.. . १. 'बोधिसत्त्वस्य' लोचने. २. 'प्रोद्भिन्न' मूले ध्वन्यालोके च. ३. 'संपत्तिजेनानन्द- . भरेण' ध्वन्यालोकलोचने. ४. 'तादृशे भवतः शरीरे' इत्यपि पूरणीयम्. ५. 'मुनयश्चोरोधितमदनावेशाचे' ध्वन्यालोकलोचने.
Page #132
--------------------------------------------------------------------------
________________
३ अध्यायः
काव्यानुशासनम् । तत्र विभावानुभावयोः क्लेशव्यक्तिर्यथा'परिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥'
अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावः क्लेशेन प्रतिपाद्यः।
'कर्पूरधूलिधवलद्युतिपूरधूत
दिङमण्डले शिशिररोचिषि तस्य यूनः ।
नेकस्य भावस्योपनिवन्धनं तत्र कथम् । यथा-'एकत्तो रुअइ पिआ अण्णत्तो सम. रत्तरनिग्घोसो। नेहेण रणसरसेण य भडस्स दोलाइयं हिअअम् ।।' इत्यादौरत्युत्साहयोः, 'मात्सर्यमुत्सार्य विचार्य कार्यम्-' इत्यादौ रतिशमयोः, 'इयं सा लोलाक्षी त्रिभुवनललामैकवसतिः स चायं दुष्टात्मा खसुरपकृतं येन मम तत् । इतस्तीत्रः कामो गुरुरयमितः क्रोधदहनः कृतो वेषश्चायं कथमिदमिति भ्राम्यति पुनः ॥' इत्यादौ रतिकोधयोः, 'अन्त्रैः कल्पितमगलप्रतिसराः स्त्रीहस्तरक्तोत्पलव्यक्तोत्तंसभृतः पिनर सरसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमजुषः संभूय कान्तैः पिबन्त्यस्थिस्नेहसुरां कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥' इत्यादौ रतिजुगुप्सयोः, 'एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः पार्वत्या वदनाम्बुजस्तनतटे शृङ्गारभारालसम् । अन्यह्रविकृष्टचापमदनक्रोधानलोद्दीपितं शंभोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥' इत्यादी शमरतिक्रोधानाम् , 'एतेनाक्षणा प्रविततरुषा वीक्ष्यते व्योमसंस्थं भानोविम्बं सजललुलितेनापरेणात्मकान्तम् । अहश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीर्णौ रचयति रसौ नर्तकी च प्रगल्भा ॥' इत्यादौ रतिशोकक्रोधानां समप्राधान्येनानिवन्धस्तत्र कथं न विरोधः । अत्रोच्यते--अत्राप्येक एव स्थायी । तथा हि-एकत्तो रुअइ पिआ-' इत्यादौ स्थायिभूतोत्साहव्यभिचारिवितर्कलक्षणहेतुसंदेह कारणतया करुणसंग्रामतूर्ययोरुपादानम् वीरमेकं पुष्णातीति भटस्येत्यनेन पदेन प्रतिपादितम् । न च द्वयोः समप्रधानयोरन्योन्यमुपकार्योपकारकभावरहितयोरेकवाक्यभावो युज्यते । किं च-उपक्रान्ते संग्रामे सुभटानां कार्यान्तरकरणेन प्रस्तुतसंग्रामौदासी.न्येन महदनौचित्यम् । अतो भर्तुः संग्रामैकरसिकतया शौर्यमेकं प्रकाशयन् प्रियतमा
१. 'भृशं' काव्यप्रकाशे. २. 'धौत' काव्यप्रकाशे. . १ 'एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः ।
स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥ इति च्छाया. २. 'सूर' स्यात्. ३. 'रणरसेण' ध्वन्यालोके. ४. 'एकेना' स्यात्,
Page #133
--------------------------------------------------------------------------
________________
काव्यमाला |
लीलाशिरोंशुक निवेशविशेषक्लृप्तिव्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥ अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावापर्यवसायिनः स्थिताः इति क्लेशव्यक्तिः ।
पुनः पुनर्दीतिर्यथा कुमारसंभवे रतिप्रलापेषु । उपभुक्तो हि रसः स्वसामग्रीलब्धपरिपोषः पुनः पुनः परामृष्यमाणः परिम्लानकुसुमकल्पः कल्पते इति ।
अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेऽङ्के । दुर्योधनस्य धीरोद्धतप्रकृतेरपि तथाभूतभीष्मप्रमुखमहावीरलक्षक्षयकारिणि समरसंरम्भे प्रवृत्ते शृङ्गारवर्णने ।
अकाण्डच्छेदो यथा वत्सराजस्य रत्नावल्यां चतुर्थेऽङ्के । रत्नावलीनाम
१.२.०
करुणो वीरमेव पुष्णाति । एवम् -' मात्सर्य ' इत्यादावपि चिरप्रवृत्तिमंत्या रविवासनाया. हेयतयोपादानाच्छमैकपरत्वम् 'आर्याः समर्यादम् -' इत्यनेन प्रकाशितम् | 'इयं सा लोलाक्षी' इत्यादावपि रावणस्य प्रतिपक्षनायकतया निशाचरत्वेन मायाप्रधानतया च रौद्रव्यभिचारिविषादविभाववितर्कहेतुतया रतिक्रोधयोरुपादानं रौद्रपरमेव । 'अत्रैः कल्पितमङ्गलप्रतिसराः-' इत्यादौ हास्यरसैकपरत्वम् । 'एकं ध्याननिमीलनान्मुकुलितम् -' इत्यादौ तु शंभोर्भावान्तरैरनाक्षिप्ततया समस्तस्यापि योग्यान्तरशमाद्वैलक्षण्यप्रतिपादनेन शमैकपरतैव 'समाधिसमये' इत्यनेन स्फुटीकृता ॥ एतेनाक्ष्णा-' इत्यादौ तु समस्तमपि वाक्यं भविष्यद्विप्रलम्भविषयमिति न क्वचिदनेकतात्पर्यम् । तदेवमुक्तप्रकारेण रत्याद्युपनिवन्धे सर्वत्राविरोध इति ॥ अनुभावापर्यवसायिन इति । शृङ्गारी चेर्युवा, संभवन्ति तथाविधानुभावाः । शान्तश्चेत्, न संभवति । तं प्रतिपन्नरूपत्वातथाविधानां विभावानामिति शृङ्गारित्वनिश्चयाभावे सत्स्वपि तथाविधेषु लीलादयोऽनुभावाः क्लेशेन व्यज्यन्ते इति ॥ पुनःपुनः पैरामृश्यमान इति । तथा हि-विभावानुभावसामग्रीपरिघटितशरस्यापि रसयितृरसनयोग्यरसस्य पुनरान्दोलनं मालतीकुसुमपरिमर्दनवदननुगुणमेव । धाराप्राप्ते हि रसे तदाविष्टानां तत्परवशानामुक्तिरल्पी -
१. 'शृङ्गारकथायामवतारवर्णने' ध्वन्यालोके.
१. 'एकेना' स्यात्. २. शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ॥' इति ध्वन्यालोकसंवादात् 'त्कविः' स्यात्. ३. 'परामृष्यमाणः' मूले ध्वन्यालोके च. ४. 'रसस्या' स्यात्.
Page #134
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
१२.१
धेयमप्यगृह्णतो विजयवर्मवृत्तान्ताकर्णने । यथा वा वीरचरिते द्वितीयेऽङ्के । राघवभार्गवयोर्द्वाराधिरूढवीररसे 'कङ्कणमोचनाय गच्छामि -' इति राघवस्योक्तौ ।
अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनं यथा - हयग्रीववधे हयग्रीवस्य । यथा वा विप्रलम्भशृङ्गारे नायकस्य कस्यचिद्वर्णयितुमनुकान्ते कवेर्यमका - द्यलंकारनिबन्धरसिकतया महाप्रबन्धेन समुद्रादेः । तथा हि हरिविजये ईर्ष्या कुपितसत्यभामानुनयनप्रवृत्तस्य हरेः पारिजातहरणव्यापारेणोपक्रान्तविप्रलम्भस्य वर्णनप्रस्तावे गलितकनिबन्धनरसिकतया कविना समुद्रवर्णनमन्तरा गड्डस्थानीयं विस्तृतम् । तथा कादम्बर्याम् 'रूपविलास -' इत्यादिना महाविप्रलम्भवीजेऽप्युपक्षिप्ते तदनुपयोगिनीष्वटवीशवरेशाश्रममुनिनगरीनृपादिवर्णनास्वतिप्रसङ्गाभिनिवेशः । तथा हर्षचरिते 'जयति ज्वलद् - ' इत्यादिना हर्षोत्कर्षवद्विजयवीजे वाणान्वयवर्णनम्, तत्रापि चानन्वितप्राय एव सारस्वतोत्पत्तिपर्यन्तो महान्ग्रन्थसंदर्भः । शिशुपालवधादौ चादितः प्रकृतप्रतिबन्धिविजयवी जोपक्षेपावगाढव्याप्तिमद्वीररसानुबन्धेऽपि तदसङ्गतशृङ्गाराङ्गभूततत्तदृतूपवनविहारपुष्पावचायमज्जनादिवर्णनाखत्यासक्तिः। तदित्थम् । अप्रस्तुतवस्तुविस्तृतिः प्रस्तुतरसप्रतीतिव्यवधानकारिण्यपि महाकविलक्ष्येषु भूयसा दृश्यते इति तत्त्वं त एव विदन्ति ।
अङ्गिनः प्रधानस्याननुसंधानं यथा – रत्नावत्यां चतुर्थेऽङ्के बाभ्रव्यागमनेन सागरिकाया विस्मृतिः । अनुसंधिहिं सर्वस्वं सहृदयतायाः । यथा तापसवत्सराजे षट्स्वप्यकेषु वासवदत्ताविषयः प्रेमसंबन्धः कथावशादाशङ्कयमानविच्छेदोऽप्यनुसंहितः ।
यस्येव । तथा च तस्यां दशायां महाकवीनामेको द्वित्रा वा श्लोका निर्यान्ति । अत एव तापसवत्सराजे धाराप्राप्तकरुणरसः सर्वाल्पो द्वितीयोऽङ्कः कविना निवद्धः । पटूस्वविति । तथा हि प्रथमे तावद -'तद्वन्दुविलोकनेन दिवसो नीतः प्रदोषं
१. 'र्धाराधिरू' काव्यप्रका० २. 'गमने सा' का० प्र०. ३. 'प्रेमवन्धः' ध्वन्यालोकलोचने.
;
.
१६
Page #135
--------------------------------------------------------------------------
________________
१२२
काव्यमाला |
अनङ्गस्य रसानुपकारकस्य वर्णनं यथा— कर्पूरमञ्जर्यं नायिकया स्वात्मना च वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य वसन्तस्य राज्ञा प्रशंसनम् ।
प्रकृतिव्यत्यय इति । प्रकृतिर्दिव्या मानुपी दिव्यमानुषी पातालीया
तथा तद्गोयैव निशापि मन्मथकृतोत्साहैस्तदङ्गार्पणैः । तां संप्रत्यपि मार्गदत्तनयनां द्रष्टुं प्रवृत्तस्य मे बद्धोत्कण्ठमिदं मनः किमथ वा प्रेमासमाप्तोत्सवम् ॥' इत्यनेन । द्वितीये - 'दृष्टिर्नामृतवर्षिणी स्मितमधुप्रस्यन्दि वक्रं ने किं नोर्ध्वार्द्र हृदयं न चन्दनरसस्पर्शानि चाङ्गानि वा । कस्मिलब्धपदेन ते कृतमिदं क्रूरेण प्रीताग्निना नूनं वज्रमयोऽन्य एव दहनस्तस्येदमाचेष्टितम् ॥' इत्यादिना । तृतीये - 'सर्वत्र ज्वलितेषु वेश्मसु भयादाली - जने विद्रुते श्वासोत्र्कस्य विहस्तया प्रतिपदं देव्या पतन्त्या तथा । हा नाथेति मुहुः प्रलापपरया देग्धं वराक्या तया शान्तेनापि वयं तु तेन दहनेनाद्यापि दह्यामहे ॥' इत्यादिना । चतुर्थे— 'देवी स्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् । इत्थं यन्त्रणया कथं कथमपि क्षीणा कैथा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा खप्नेऽपि नासादिता ॥' इत्यादिना । पञ्चमे समागमप्रत्याशया विप्रलम्भेऽङ्कुरिते - ' तथाभूते तस्मिन्मुनिवचसि जातागसि मयि प्रयत्नान्तर्गूढा रुषमुपगता मे प्रियतमा । प्रसीदेति प्रोक्ता न खलु कुपितेत्युक्तिर्मधुरं समुद्भिन्ना प्रीतैर्नयनसलिलैः स्थास्यति पु॒रः ॥' इत्यादिना । षष्ठे च --- ' त्वत्संप्राप्तिविलोभितेन सचिवैः प्राणा मया धारितास्तन्मत्वा त्यजतः शरीरकमिदं नैवास्ति निःस्नेहता । आसन्नोऽवसरस्तवानुगमने जाता धृतिः किं त्वयं खेदो यच्च तवानुगं न हृदयं तस्मिन्क्षणे दारुणे ॥' इत्यादिना च वासवदत्ताविषयो जीवितसर्वस्वाभिमानात्मा प्रेमबन्धस्तत्र द्विभावौचित्यात्करुणविप्रलम्भादिभूमिकां गृह्णन् विच्छिन्नविच्छिन्नो समस्तेतिवृत्तव्यापितया दर्शितः राज्यव्यापत्या हि सचिवनीतिमहिमोपनतया तदङ्गभूतपद्मावतीलाभानुगतयानुप्राण्यमानरूपा वासवदत्ताधिगतिरेव तत्र फलम् । निर्वहणे हि - 'दृष्टा यूयं निर्जिता विद्विषश्व प्राप्ता देवी भूतधात्री च भूयः । संबन्धोऽभूद्दर्श केनापि सार्धं किं तव दुःखं यत्नतः शान्तमद्य ॥' इति देवीलाभप्राधान्यं निर्वाहितम् ॥ दिव्येति । दिव्यः स्वभाव इत्यर्थः । एवं मनुष्यादिष्वपि व्याख्येयम् । तत्र दिव्या यथा - ' स्मृत्वा यन्निजवारवासगतया वीणा समं तुम्बरोरुद्गीतं नलकूवरस्य विरहादुत्कण्ठसंरम्भया । तेनैरावणकर्ण
१. 'नु' ध्वन्यालोकलोचने. २. 'त्कम्पवि' ध्वन्यालोकलोचने. ३. 'दुग्धं' ध्वन्यालोकलोचने. ४. 'निशा' ध्वन्यालोकलोचने. ५ ' प्रयाणेऽन्तर्गूढां' ध्वन्यालोकलोचने. ६. 'विधुरं समुद्भिन्ना पीतै' ध्वन्यालोकलोचने. ७. 'पुनः' ध्वन्यालोकलोचने. ८. 'मनसा' ‘चलितैः’ च ध्वन्यालोकलोचने. ९. 'स्तद्विभावौ' ध्व० लोचने. १०. ' प्रत्यायिवृत्त्या' ध्व० लोचने. ११. 'रूपा परमामभिलपणीयतमतां प्राप्ता वास' ध्व० लोचने. १२. 'ते' स्यात्.
Page #136
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
१२३
मर्त्यपातालीया दिव्यपातालीया दिव्यमर्त्यपातालीया चेति सप्तधा । वीररौ
"
चापलमुखः शक्रोऽपि निद्रां जहद्भूयः कारित एव हासिनि शचीव के दृशां संभ्रमम् ॥' मानुपी यथा - 'वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पढ़े रिक्के रिक्त विनिहितपदार्थान्तरमिति । नदीसोतोन्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च ॥' दिव्यमानुषी तु चतुर्धा । दिव्यस्य मत्यगमने मर्लस्य च स्वर्गगमने इत्येको भेदः । दिव्यस्य मर्त्यभावे मर्त्यस्य च दिव्यभाव इति द्वितीयः । दिव्येतिवृत्तपरिकल्पनया तृतीयः । प्रभावाविर्भूतदिव्यरूपतया चतुर्थः । तन्त्र दिव्यस्य मर्त्या - गमनं यथा—'श्रियः पतिः श्रीमति शासितुं जगजगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्वराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥' मर्त्यस्य स्वर्गमनं यथा---' पाण्डोर्नन्दन नन्दनं वनमिदं संकल्पजैः साधुभिः कॢप्ता पानककेलिकल्पतरुपु द्वन्द्वैः सुधालेहिनाम् । अप्यनेन्दुशिलालवालवलयं संतानकानां तले ज्योत्स्ना संगलदच्छ निर्झरजलेयैनं विना पूर्यते ॥' दिव्यस्य मर्त्यभावो यथा - 'विकैसित तस्मिन्नन्तराये यदूनां समजनि वसुदेवो देवकी यत्कलनम् । किमपर [म]थ तस्मात्पोडशस्त्रीसहस प्रणिहितपरिरम्भः पद्मनाभो वभूव ॥' मर्त्यस्य दिव्यभावो यथा - 'आकाशयानतटकोटिकृतैकपादास्तद्वेदमण्डयुगलान्यवलम्वहस्तेः । कौतूहलान च तरङ्गविघट्टितानि पश्यन्ति देवमनुजाः खकलेवराणि ॥' दिव्येतिवृत्त परिकल्पना यथा-'ज्योत्स्नापूरप्रसर विशदे से कतेऽस्मिन्सरच्या वारद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् । एको नूते प्रथम निहितं कैटभं कंसमन्यः सत्त्वं तत्त्वं कथमभवता को हतस्तत्र पूर्वम् ॥' प्रभावाविर्भूत दिव्यभावो_ यथा - ' मा गाः पातालमुर्ति स्फुरसि किमपरं पाठ्यमानः कुदैत्यत्रैलोक्यं पादपीतप्रथिमनहि वले पूरय स्फूतमः । इत्युत्वप्नायमाने भुवनभृति दृशावसुप्ते यशोदा पायाच्चक्राङ्कपादप्रणतिपुलकित स्मेरगण्डखभावः ॥' पातालीया यथा - 'कर्कोटः कोटिक्कृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सक्तः सेवा जलिस्ते कपिलकुलिकयोः स्तौति वैस्त्वस्तिकस्त्वाम् । पद्मः समैप भक्तेरवलगति पुनः कम्वलोsयं वलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शेपैवालुः ॥' मर्लः पातालीयो यथा - 'आद्रावले व्रजत वेत्स्यप (?) कर्णकर्णे द्विः संदधाति निशिरं हरशिष्यशिष्यः । तत्सांप्रतं समिति यस्य कुतूहलेन मलैः शरैरपि किरीटकिरीटमाद्यम् ॥' इहापि दिव्यमानुपवन्मिथो भेदानुगमः ॥ दिव्यपातालीया यथा--'स पातु वो यस्य शिखा स्म कर्णिकं स्वदेहनाल फणपत्रसंचयम् । विभाति जिहायुगलोल केसरं पिनाकिनः कर्णभुजङ्गपङ्कजम् ॥' दि व्यमर्त्यपातालीया यथा - ' आस्तीकोऽस्ति मुनिः स विस्मयकृतः पारीक्षितीयान्मखात्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेलन्मलयाद्विचन्दनलताखन्दो
१. 'विकसित रुचि, ' 'विकसति भुवि' वा स्यात्. २. 'नन्ववाये' स्यात्. ३. 'तत्त्वं तत्त्वं कथय भवता' स्यात्. ४. 'च स्वस्तिक' वाग्भटकाव्यानुशासने. ५. 'शतपाल : ' वा० का०. ६. 'न शर्र' स्यात्.
Page #137
--------------------------------------------------------------------------
________________
; काव्यमाला 1. द्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता उत्तमा
धममध्यमा च ।
तत्र रतिहासशोकाद्भुतानि मानुषोत्तमप्रकृतिवद्दिव्यादिष्वपि । किंतु रतिः संभोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् ।
१२४
यत्तु कुमारंसभवे हरगौरीसंभोगवर्णनं तत्कविशक्तितिरस्कृतत्वाद्भूमा न दोषत्वेन प्रतिभासते ।
1
नेप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते ॥ धीरोदात्तेति । धर्मयुद्धवीर प्रधानो धीरोदात्तः । धीरोद्धतादिषु त्रिष्वपि यथाक्रमं रौद्रशृङ्गारस्यान्तलक्षणो नियतरसः प्राधान्येऽपि अवश्यंभावित्वादुत्साहस्य वीररसप्राधान्यमपि प्रतिपत्तव्यम् । ततो वीररौद्रप्रधानो धीरोद्धतः । वीरशृङ्गारप्रधानो धीरललितः । दानधर्मवीरशान्तप्रधानो धीरप्रशान्त इति । ननु यद्युत्साहादिभाववर्णने कथंचिद्दिव्यमानुषादौचित्यपरीक्षा क्रियते । रत्यादौ तु किं तया प्रयोजनम् । रतिर्हि भारतवर्षोचितेनैव व्यवहारेण दिव्यानामपि वर्णनीयेति स्थितिः । तथा चाहु: - ' कस्माद्भारतमिष्टं वर्षे - ध्वन्येषु देशविहितेषु । हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ उपवनगमनक्रीडाविहारनारीरतिप्रमोदाः स्युः । तेषु च वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥१ इत्याशङ्कयाह- मानुषोत्तमप्रकृतिवदिति । न वयं दिव्यमौचित्यं शृङ्गारविषयमन्यत्किंचिद्रुमः । किं तर्हि भारतवर्षेषु यथोत्तमनायकेषु राजादिषु शृङ्गारोपनिवन्धस्तथा दिव्याश्रयोऽपि शोभते । न च राजादिषु प्रसिद्धग्राम्यसंभोगोपवर्णनं प्रसिद्धं नाटकादौ तथैव दिव्येषु तत्परिहर्तव्यम् | नाटकादेरभिनेयत्वादभिनयस्य संभोगश्टङ्गारविषयस्य सभ्यत्वात्तत्र परिहार इति चेत् । ननु यद्यभिनयस्यैवंविषयस्य सा केन वार्यते । तस्मादभिनेयार्थेऽनभिनेयार्थे च काव्ये यदुत्तमप्रकृते राजादेरुत्तमस्त्रीभिः सह ग्राम्यसंभोगवर्णनं तदसभ्यं तथैव दिव्यादिविषयम् । न च संभोगस्य सुरतलक्षण एवैकः प्रकारो यावत्, अन्येऽपि परस्पर प्रेमदर्शनादयः प्रभेदाः संभवन्ति । त एव चोत्तमप्रकृतिविषये वर्णयितुमुचिताः । एवं हासादिष्वप्यौचित्यं योज्यमिति । दिव्यादिषु रतेः संभोगविप्रलम्भोभयरूपाया वर्णनीयत्वेन सामान्येनाभिधाने उत्तमदेवताविषयत्वेनापि तथा प्रसक्तौ विशेषमाह - किं त्विति । संभोगः परस्परावलोकनप्रणयकलहसंगतकादिः । स चासौ शृङ्गारश्च तद्रूपा । अनुचितमिति । आखादयितृणां हि यत्र चमत्काराविघातः तदेव रससर्वखम् । आखादयितृत्वात् उत्तमदेवतासंभोगपरामर्शे च पितृसंभोग इव लजातन्द्रादिना कश्चमत्कारावकाश इत्यर्थः ॥ शक्तितिरस्कृतत्वा
Page #138
--------------------------------------------------------------------------
________________
१२५
३ अध्यायः]
काव्यानुशासनम् । क्रोधोऽपि भ्रुकुट्यादिविकारवर्जितः सद्यः फलदो निवद्धव्यः । यथा__ 'क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । ।
तावत्स वह्निर्भवनेत्रजन्मा भसावशेष मदनं चकार ।' खःपातालगमनसमुद्रलङ्घनादावुत्साहस्तु मानुषेभ्योऽन्येषु । मानुषेपु तु यावदवदानं प्रसिद्धम् उचितं वा, तावदेव वर्णनीयम् । अधिकं तु ब. ध्यमानमसत्यप्रतिभासेन 'नायकवर्तितव्यं न प्रतिनायकवत्' इत्युपदेशे न पर्यवस्येत् । एवमुक्तानां प्रकृतीनामन्यथावर्णनं व्यत्ययः ।
तथा तत्रभवन् भगवन्निति उत्तमेन वाच्यम् , नाधमेन; मुनिप्रभृतौ, न राजादौ । भट्टारकेति न राजादौ । परमेश्वरेति न मुनिप्रभृतौ । प्रकृतिव्यत्ययापत्तेः ।।
दिति । संभोगोऽपि ह्यसौ प्रतिभानवता कविना तथा वर्णितो यथा तत्रैव विश्रान्तं हृदयं पौर्वापर्थपरामर्श कर्तुं न ददाति । यथा निर्व्याजपराक्रमस्य पुरुपस्याविषयोऽपि । बुध्यमानस्य तावत्तस्मिन्नवसरे साधुवादो वितीर्यते, न तु पौर्वापर्यपरामर्शः । तथानापीति भावः । यदाह ध्वनिकार:--'अव्युत्पत्तिकृतो दोपः शक्त्या संब्रियते कवेः । यच : शक्तिकृतस्तस्य ऋगित्येवावभासते ॥” इति ॥ अन्येविति । दिव्यादिषु । तथा च केवलमनुप्यस्य राजादेवर्णने सप्तार्णवलमनादिलक्षणा व्यापारा उपनिवध्यमाना वर्णनामहिम्ना सौष्टवभृतोऽपि नीरसा एव नियमेन भवन्ति ॥ ननु नागलोकगमनादयः सातवाहनप्रभृतयः श्रूयन्ते तदलोकसामान्यप्रभावातिशयवर्णने किमनौचित्यम् सर्वोचभिरक्षमाणां भूभुजामित्याशङ्कयाह-मानुपेविति । न वयं ब्रूमः यत्प्रभावातिशयवर्णनं नं समुचितं राज्ञाम्, 'किं तु केवलमनुष्याश्रयेण योत्पाद्यवस्तुकथा क्रियते तस्यां दिव्यादिकमौचित्यं न योजनीयम् । दिव्यमानुप्यादौ तु तद्योजनमविरुद्धमेव । यथा पाण्डवकथायाम् । सातवाहनादिपु तु येपु धवदानं श्रूयते तावदेवोपनिवद्धव्यमित्यर्थः ॥ अवदानमिति । सातिशयं कर्म । अधिकं त्विति । अयमर्थः-यत्र च ।
१. 'स्त्वशक्तिकृतो दोपः स झटित्यव' ध्वन्यालोके. २. 'मानुषस्य' ध्वन्यालोके. ३. 'भान्ति' ध्वन्यालो०. ४. 'तीनाम्' ध्वन्यालो०. ५. 'क्षमा' ध्वन्यालो०. ६. 'मनुचि' ध्वन्यालो०. ७. 'मानुषा' ध्वन्यालो०. ८. 'षायां तु कथायामुभययोजन' ध्वन्यालो०. ९. 'यावदपदानम्' ध्वन्यालो.. .
Page #139
--------------------------------------------------------------------------
________________
१२६
काव्यमाला।
। यदाह
'तत्रभवन्भगवन्निति नाहत्यधमो गरीयसो वक्तुम् । - भट्टारकेति च पुन वैतानुत्तमप्रकृतिः ॥ तत्रभवन्भगवन्निति नैवाहत्युत्तमोऽपि राजानम् ।
वक्तुं नापि कथंचन मुनि च परमेश्वरेशेति ॥' एवं देशकालवयोजात्यादीनां वेषव्यवहारादिसमुचितमेवोपनिबद्धव्यम् ।
नेयानां प्रतीतिखण्डना न ज्ञायते तादृग्वर्णनीयम् । तत्र केवलमानुपस्य एकपदे सप्ता
वलङ्घनमसंभाव्यमानतया कृतमिति हृदये स्फुरदेपास्य चतुर्वर्गोपायस्याप्यलीकतां वुद्धौ निवेशयति । रामादेस्तु चरितं तथाविधमपि पूर्वप्रसिद्धपरम्परोचितसंप्रत्ययोपारूढं नासत्यतया चकास्ति । अत एव तस्यापि यदा प्रभावान्तरमुत्प्रेक्ष्यते तदा तादृशमेव न त्वसंभावनास्पदं वर्णनीयमिति ॥ देशकालवयोजात्यादीनामिति । तत्र जगदेकदेशाश्च देशः। द्यावापृथिव्यात्मकमेकं जगदित्येके । 'हलमगु बलस्यैकोऽनड्डान्हरस्य न लागलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् । प्रभवति कृपि द्याप्येषां द्वितीयगवं विना जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम् ॥' 'दिवस्पृथिव्यौ द्वे जगती इत्यपरे । यथा--'रुणद्धि रोदसी वास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्ते सुकृती वैवुधं पदम् ॥' खर्गमृत्युपातालभेदात्रीणि जगन्तीत्यपरे । यथा'त्वमेव देव पातालमीशानां त्वं निवन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥' तान्येव भूर्भुवः स्वः इत्यन्ये । यथा-'नमस्त्रिभुवनाभोगधृतिखेदभरादिव । नाघनाघा. दूपर्यवशायिने शाझ्धन्विने ॥' महर्जनस्तपः सत्यमित्येतैः सह सप्तेत्यपरे । यथा'संस्तम्भिनी पृथुनितम्बतटैधरित्र्याः संवाहिनी जलमुचां चलकेतुहरतैः । हर्पस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपतिरियमुच्छिखरा विभाति ॥' तानि सप्तभिर्वायुस्कन्धैः सह चतुर्दशेति केचित् । यथा-'निरवधि च निराश्रयं च यस्य स्थितमनुवर्तितकोतुकप्रपञ्चम् । प्रथम इह भवान्सवमूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥' तानि सप्तभिः पातालैः सहैकविंशतिरिति केचित् । यथा-'हरहासहरावासहरहारनिभप्रभाः। कीर्तयस्तव लिप्सन्तु भुवनान्येकविंशति ॥' सामान्य विवक्षा एकयति, विशेषविवक्षा त्वनेकयतीति सर्वमुप्पन्नम् । तत्र भूर्लोकः पृथ्वी, तत्र च सप्त महाद्वीपाः । 'जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽतः मोऽतः । क्रौञ्चः शाङ्कः पुष्करश्चेत्यथैषां
- १. 'मा' का० प्र०. २. 'यसे' का० प्र०. ३. 'नागनाथाङ्क' स्यात. ४. 'नि' का० , प्र०. ५. 'न्स कूर्म' का० प्र०. ६. 'लिम्पन्तु' वा० का०. ७. 'कृशो' स्यात्. ८. 'शाकः' वा० का..
Page #140
--------------------------------------------------------------------------
________________
३ अध्यायः] काव्यानुशासनम् ।
१२७ वाया वाह्या संस्थितिमण्डलीभिः ॥' 'लावणो रसमयः सुरोदयः सार्पिपो दधिजलः पयःपयाः । खादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्यवस्थिताः ॥' एक एवायं लावणः समुद्र इत्येके । यथा-'द्वीपान्यष्टादशान क्षितिरपि नवभिर्विस्तृतास्योगखण्डैरेकाम्भोधिर्दिगन्तप्रसमरसलिलः प्राज्यमेतत्सुराज्यम् । तैस्मिन्नप्याजिकेलिव्यतिकरविज.
योपार्जिते वीरवर्ये पर्याप्तं मे न दातुस्त दिदमिति धिया वेधसे यथुकोप ॥' त्रय इ. . त्यन्ये । यथा--'आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधिनितयेन य
स्य । वीर्येण संहतिभिदा विहितोनतेन कल्पान्तकालविसृतः पवनोऽनुचके ॥ चत्वार इत्यपरे । यथा-'चतु:समुद्रवेलोमिरचितैकावलीलतम् । मेरुमप्यद्रिमुल्लक्ष्य यस्य वापि गतं यशः ॥' सप्तेत्यन्ये । यथा-'अगस्त्यचुलकोरिक्षप्तसप्तवारिधिवारिणि । मुहूर्त के-... शवेनापि तरता पूतरायितम् ॥' (2) कविप्रसिद्धया वा विमृष्टपरमार्थ सर्वमुपपन्नम् । 'मध्ये जम्बूद्वीपमाद्यो गिरीणां मेरु ना काश्चनः शैलराजः । यो मूर्तानामौपधीनां निधानं यश्चावासः सर्ववृन्दारकाणाम् ॥' 'तमेनमवधीकृत्य ब्रह्मणा पुण्यकर्मणा । तिर्यगूर्वम- . धस्ताच विश्वस्य रचना कृता ।।' मेरोश्चतुर्दिशमिलावृतं वर्षम् । तच्चोत्तरेण त्रयो वर्षगिरयः । नीलः श्वेतः शृङ्गवांश्च । रम्यकं हिरण्मयमुत्तराः कुरव इति च क्रमेण त्रीणि तेपां वर्षाणि । दक्षिणेनापि त्रय एव । निपधो हेमकूटो हिमवांश्च । हरिवर्प किंपुरुषं तारतमिति त्रीणि वीणि । तत्रेदं भारतवर्पमन्त्यम् । अस्य च नवभेदाः-इन्द्रद्वीपः कसेरुमांस्ताम्रपर्णो गभस्तिमान् नगद्वीपः सौम्यो गन्धवो वरुणः कुमारीद्वीपश्च । पश्च शतानि जलं पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधेयो दक्षिणात्समुद्राद्धिमवन्तं यावत्परस्परमगस्य स्थानान्येतानि योजयति स सम्राडित्युच्यते । कुमारीपुराप्रभृति विन्दुसरोवधि चीजनानां दशशती चक्रवर्तिक्षेत्रम् । तां विजयमानश्चक्रवर्ती भवति । चक्रवर्तिचितानि तु-'चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । प्रोक्तानि सप्त रत्नानि सर्वेपां चक्रवर्तिनाम् ॥' कुमारीद्वीपाच-'विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः । महेन्द्रसह्यमलयाः सप्तैते कुलपर्वताः ॥' तत्र विन्ध्यादयः प्रतीतखरूपाः । मलयविशेषास्तु चत्वारः । तेषु प्रथमो यथा-'आ मूलयप्टेः फणिवेष्टितानां सच्चन्दनानां जननन्दनानाम् । ककोलकैलामरिचैवतानां जातीतरूणां च स जन्मभूमिः।' द्वितीयः-'यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ॥' 'यत्र द्रुमा विद्रुमनामधेया वंशेपु मुक्ताफलजन्म तत्र । मदोत्कटैः केसरिकण्टनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः ॥' तृतीयः-'विलासभूमिः सकलामराणां पदं नृणां गोमुनिपुंगवस्य । सदा फलैः पुष्पलतावितानैराश्चर्यमूलं मलयः स तत्र ॥' चतुर्थः-सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटकैः । द्वारार्गलावद्धसुरेश्वराहा लङ्केति या रावणराजधानी ॥' 'प्रवर्तते कोकिलनादहेतुः . १. 'दकः' वा० का०. २. 'खा' वा० का०. ३. 'कस्मिन्नव्याज' वा० का०. ४. 'वीरचर्ये' वा० का०. ५. 'भारत' त्यात. ६. गन्धर्वो' स्यात्. . .
Page #141
--------------------------------------------------------------------------
________________
१२८
- काव्यमाला ।
पुष्पप्रसूः पञ्चमजन्मदायी । तेभ्यश्चतुभ्योऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा ।' पूर्वापरयोः समुद्रयोहिमवन्ध्यद्वयोश्चान्तरमार्यावर्तः । तस्मिंश्चातुवर्य चातुराश्रम्यं च । तन्मूलश्च सदाचारः । तत्रयो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः परतः. पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोकेलमगरमधकविदेहनेपालपुण्ड्रप्राग्ज्योतिषतामलिप्तकमलजदमल्लवर्तकसुझब्रह्मोत्तरप्रभृतयो जनपदाः । वृहद्गहलोहितगिरंचकोरदर्दुरनेपालकामरूपादयः पर्वताः । शोणलौहित्यौ नदौ । गङ्गाकरतोयाकलपमाद्याश्च नद्यः । . लवलीग्रन्थिर्णिकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः । महिष्मत्याः पुरतो दक्षिणापथः । यत्र महाराष्ट्रमाहिष्मकाश्मकवैदर्भकुन्तलकथकैशिकतर्षारककाश्चिकिरलिकावेरमुरलवानवासकर्णिसिंहलवोर्षदण्डकपाण्ड्यपल्लवगाङ्गनासिक्यकोङ्कणगिरिवेल्लरप्रभृतयो जनपदाः । विन्ध्यदक्षिणपदे माहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः। नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथीवेणीवञ्जरातुङ्गभद्राताम्रपर्णीपलावतीरावणगङ्गाद्या नद्यः । तदुत्पत्तिमलयोत्पत्तिव्याख्याता । वेसभायाः परतः पश्चाद्देशः । तत्र देशसभसुराष्ट्रदाशेरकत्रवणभृगुकच्छकच्छीयानादब्राह्मणवाहजवनप्रभृतयो जनपदाः । गोवर्धनगिरिनगरदेवसभ्यमालशिषिरार्बुदादयः पर्वताः । सरखतीशुभ्रवतीवार्तनीमहीहिण्डिवाद्यानद्यः । करीरपीलगुग्गलुखर्जूरकरभादीनामुत्पादः । पृथूदकात्परत उत्तरापथः । यत्र शककेकयावोक्काणहूणवनायुजकम्बोजवाल्हीकवहूर्वलस्यातकुलूतकीरतङ्गणतुवाररकवर्वरहरहरहुहुकसरुडहंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः । हिमालयजालन्धरकलिन्द्रेन्द्रकीलचण्डाचलादयः पर्वताः । गङ्गासिन्धुसरखतीशतद्रुचन्द्रभागायमुनैरावतीवितस्ताविपाशाकुहूदेविकाद्या नद्यः । सरलदेवदारुद्राक्षाकुङ्कुमचमराजिनसौवीरस्रोतोञ्जनसैन्ध ववैडूर्यतुरगाणामुत्पादः । तेषां मध्ये मध्यदेश इति व्यवहार इति । यदाहुः-'हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच मध्यदेशः स कीर्तितः ॥' . तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्ध मिति न निर्दिष्टम् । 'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गाढं न चि.. त्तिताः॥' विनशनप्रयागयोगङ्गायमुनयोश्चान्तरमन्तर्वेदी । तदपेक्षया दिशो विभजेतेति : केचित् । तत्रापि महोदेयं मूलमवधीकृत्य दिशो विभजेत् । प्राच्यवाचीप्रतीच्युदीची
१. 'मवद्विन्ध्ययो' वा० का०. २. 'लोत्कलमगधमुद्गर' वा० का०. ३. 'तान' . वा० का०. ४. 'लदलमल्लत कसुब्रह्म' वा० का०. ५. 'कपिशाद्या' वा० का०. ६."पर्णायु' वा० का०.७. 'मा' वा० का०. ८. 'सूर्पा' वा० का०. ९. 'केरल' वा० का०. १०. 'चोड' वा० का०. ११. 'कोल्ल' इति पाठोऽधिकः वा० का०. १२. 'भी'. वा. का० १३. 'जम्बुरा' वा० का०. १४. 'त्या' वा० का०. १५. 'देवसभा' वा. कां०. १६: 'हययवन' वा० का०. १७. 'ल्हवलम्पाक' वा० का०. १८. 'तुरुष्क' वा० का०. १९. 'ण्ड' वा० का०. २०. 'चन्द्र' वा० का०. २१. 'राग' इति स्यात.
Page #142
--------------------------------------------------------------------------
________________
३ अध्यायः]
काव्यानुशासनम् ।
१२९
चतस्रो दिश इत्येके । यथा--'चतसृष्वपि दिक्षु राणद्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥' ऐन्याग्नेयी याम्या नैत्रती वारुणी वायवी कौवेर्थेशानी चाष्टौ दिश इत्यन्ये । यथा-'एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यद्गजास्यैश्चतुर्भिभूतानां पञ्चमं यान्यलमृतुषु तथा षण्मुनीनां विधानि । युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भौजि भानोर्यान्ति प्राढ़े नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥' ब्राह्मी नागीया च द्वे, ताभ्यां सह दशेत्यपरे । यथा--'दशदिक्कूटपर्यन्तसी. मसंकटभूमिके । विषमास्थूलनक्षस्य(?) ब्रह्माण्डग्रामके स्थितिः ॥' सर्वमस्तु विवक्षापरतन्त्रा हि दिशामियत्ता । तत्र चित्रास्वात्यन्तरे प्राची । तदनुसारेण प्रतीची । ध्रुवेण उदीची । तदनुसारेणापाची । अन्तरेषु विदिशः । ऊर्ध्वं ब्राह्मी। अधस्तानागीया चेति । द्विधा च दिग्व्यवहारः कवीनां प्राक् सिद्धो विशिष्टस्थानावधिसाध्यः । तत्र प्राक् सिद्धे प्राची-'द्वित्रैॉम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैोत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्वसमधुच्छत्रच्छविश्चन्द्रमाः प्राची वालविडाललोचनरुचां जाता च पात्रं ककुप् ॥' दक्षिणा-'दक्षिणो दक्षिणा. माशां जिज्ञासन्सोऽधिकं बभौ । जिहासन्दक्षिणामाशां भगवानिव भास्करः ॥' पश्चिमा-'यस्य पश्चिमदिगन्तलम्बिना निर्मितं मितकषे विवखता । दीर्घया प्रतिमया सरोम्भसस्तापनीयमिव सेतुवन्धनम् ॥' उत्तरा--'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥' विशिष्ट स्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ–'यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन । नो चेनिरन्तरधराधरसेतुसूतिराकल्पमेष न विरंस्यति वा वियोगः ॥' दक्षिणोत्तरौ यथा-काझ्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः । कर्णान्तवक्रीकृतपुष्पचापो रत्या समं साधु वसत्यनङ्गः ॥' उत्तरादावप्युत्तरदिगभिधानमनुत्तरादावप्युत्तरदिगभिधानं च । तयोः प्रथमम्-'तनागारं धनपतिगृहानुत्तरेणास्मदीयं दूरालक्ष्यं सुरपतिधनुश्वारुणा तोरणेन । यस्योद्याने कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तवकविनतो बालमन्दारवृक्षः ॥' द्वितीयम्सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी । पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥'
एवं दिगन्तरेष्वपि । तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निवनीयात् । .. साधारणं तूभयत्र लोकप्रसिद्धितश्च । तद्वद्वर्णनियमः । तत्र प्राच्यानां श्यामो वर्ण:'श्यामेष्वङ्गेषु गौडीनां सूत्रहारैकहारिषु । वक्रीकृत्य धनुः पौष्पमनको वल्गु वल्गति ॥' दाक्षिणात्यानां कृष्णो यथा-'इदं भासां भर्तु तकनकगोलप्रतिकृतिकमान्मन्दज्योतिर्गलति नभसो विम्बवलयम् । अथैष प्राचीन: सरति मुरलीगण्डमलिनस्तरुच्छाया· चकैः स्तबकित इव ध्वान्तविसरः ॥' पाश्चात्यानां पाण्डुर्यथा-'शाखास्मेरं मधुकवलना
१. 'राग' इति स्यात्. २. 'षट्सुननावि' वा० का०. ३. 'भाञ्जि' वा० का०. ४. 'गल्ल' वा० का०.
Page #143
--------------------------------------------------------------------------
________________
१३०
काव्यमाला ।
च-'
केलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तली भावमेति । किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवलीदलेषु ॥ उदीच्यां गौरो यथा - 'काश्मीरीगात्रलेखासु लोललावण्यवीचिषु । द्रावयित्वेव विन्यस्तं स्वर्ण षोडशवर्णिकम् ॥' मध्यदेश्यानां कृष्णः श्यामो गौरव । कृष्णो यथा - 'युधिष्ठिरक्रोधव हे :कुरुवंशैकदाहिनः । पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव ॥' एवं श्यामोऽपि । नवकविमार्गे कृष्णश्यामयोः पाण्डुगौरयोर्वा महान् विशेष इति । गौरो यथा - 'तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्दुपुत्रि । अवगतमलिके मृगाङ्कविश्वं मृगमदपत्रनिभेन लाञ्छनेन ॥' विशेषस्तु पूर्वदेशराजपुत्र्यादीनां गौरः पाण्डुर्वा वर्ण:- ' कपोले जानक्याः करिकलभदन्तद्युतिमुखिस्मरस्मेरं गण्डोडमरपुलकं वक्रकमलम् । मुहुः पश्यञ्छृण्वन् जनकवरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥ यथा - ' तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् | शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी ॥' एवमन्यदपि यथासंभवमूह्यम् || कालः काष्ठादिभेदभिन्नः । तथा च—– 'काष्ठा निमेषो दश पञ्च चैव त्रिंशच्च काष्ठाः कथिताः कलासु । त्रिंशत्कलश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥' ते च चैत्राश्वयुजमासयोर्भवतः । चैत्रात्परं प्रतिमासं मौहूर्तिकी दिवसवृत्तिर्निशाहानिश्च त्रिमास्याः । ततः परं मौहूर्तिकी निशा - वृद्धिदिवसहा निश्व | आश्वयुजात्परतः प्रसरे तदेव विपरीतम् । राशितो राश्यन्तसंक्रमणमुष्णभासो मासः । वर्षादि दक्षिणायनम् । शिशिराद्युत्तरायणम् । व्ययनः संवत्सरः इति सौरं मानम् । पञ्चदशाहोरात्रः पक्षः । वर्धमानसोमशुक्लिमा शुक्लः, वर्धमानसोमकृष्णिमा कृष्ण इति पित्र्यं मासमानम् । अधुना च वेदादितः कृत्स्नापि क्रिया कल्पः । पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् । इदमार्यावर्तवासिनः कवयश्च मानमाश्रिताः । एवं द्वौ पक्षौ मासः । द्वौ मासावृतुः । षण्णामृतूनां परिवर्तः संवत्सरः । स च चैत्रादिरिति दैवज्ञाः । श्रावणादिरिति लोकयात्राविदः । तत्र नभानभस्यश्च वर्षाः । यथा—'गर्भ वलाकासु निवेशयन्तो वंशाङ्करात्स्वैर्निनदैर्व्रजन्तः । रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति ॥' 'सशलकी शालशिलीन्ध्र यूथीप्रसूनदः पुष्पितलाङ्गलीकः । दग्धोर्वरासुन्दरगन्धवन्धुरर्थत्ययं वारिमुचामनेहा ॥' 'वनानि नीलीदलमेचकानि धाराम्बुधौ ता गिरयः स्फुरन्ति । पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाङ्कलानि ॥' 'चकोरहर्षी यतिचार चौरो वियोगिनी वीक्षितनाथ वर्मा । गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाम्नातनभाः पयोदैः ॥' 'या केलियात्रा किल कामिनीभिर्या तुङ्गहर्म्याविलासशय्या | चतुःसमं यन्मृगनाभिगर्भ सा वारिदर्ता: प्रथमातिथेयी ॥' 'चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमुङ्गकङ्काङ्क्षयो वियोगिषु घनागमः स्मरविषं विषं मुश्चति ॥ ' 'दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो नवप्रसवबान्धवः प्रथितमञ्जरीकं
१. 'राइयन्तरसं' स्यात्.
Page #144
--------------------------------------------------------------------------
________________
३ अध्यायः] काव्यानुशासनम् ।
१३१ जनः । कदम्बकलुपाम्बरः कलितकेतकीकोरकश्चलनिचुलसंचयो हरति हन्त धर्मात्ययः ॥ तत्र पाश्चात्यः पौरस्त्यो वा वायुरिति समयः । यथा-'प्रावृष्यम्भोभृताम्भो. दभरनिर्भरमम्बरम् । कदम्बकुसुमामोदा वायवो वान्ति वारुणाः ॥' यथा च'पौरस्त्यस्तोयदर्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः । संध्यावृत्तोत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु वनितानन्दनः स्यन्दनस्य ॥' इष और्पश्च शरत् । यथा-'प्रोन्मादयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । शरत्समभ्येति विकाश्य पद्मानुन्मूलयन्ती कुमुदोत्पलानि ॥' 'सा भाति पुष्पाणि विशेषयन्ती बन्धूकवाणासनकुङ्कुमेपु । शेफा. लिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीपु ।' 'सखारीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति । कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता॥' 'उपानयन्ती कलहंसयूथमगस्तिदृष्टया पुनती पयांसि । मुक्तासु शुभ्रं दधतीव गर्भ शरद्विचित्रैश्चरितैश्चकास्ति ॥' 'क्षितिं खनन्तो वृषभाः खुरागै रोधो विषाणैर्द्विरदा रदन्तः । शृङ्गं त्यजन्तो रुरवश्च जीर्ण कुर्वन्ति लोकानवलोकनोत्कान् ॥' 'अत्रावदातद्युतिचन्द्रिकाम्बुनीलावभासं च नभः समन्तात् । सुरेभवीथीदिवसावतारा जीर्णाभ्रखण्डानि च पाण्डुराणि ।।' 'महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् । दीपालिकायां विविधा विलासा यात्रोन्मुखैरन नृपैविधेयाः ॥' 'व्योम तारतरतारकोत्कर स्यन्दनप्रवरणक्षमा मही । भास्करः शरदि दीप्तदीधितिर्बुध्यते च सह माधवः सुरैः ॥' 'केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्थति पाकनीलम् । एवारुकं स्फुटननिर्गतगर्भगन्धमम्लीभवन्ति च जरबपुसीफलानि ॥' 'गेहाजिरेपु नवशालिकणावपातगन्धानुभावसुभगेषु कृपीवलानाम् । आनन्दयन्ति मुसलोल्लसनावधूतपाणिस्खलद्वलयपद्धतयो वधूट्याः ॥' 'तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव धर्मचित्तं कामी दरिद्र इव शोषमुपैति मेघः ॥' 'नद्यो वहन्ति कुटिलकमयुक्तशुक्तिरेखाकवालपुलिनोदरसुप्तकूर्माः । अस्यां तरङ्गितनुतोयपलायमानमीनानुसारिवकदन्तकरालफालाः ॥' 'अपङ्किलतटावटः शफरफाण्टफालोज्ज्वल: पतत्कुररकातरभ्रमददभ्रमीनभ्रमः । लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ वायुश्चानानियत दिकः । यथा'उपःसु वधुरा(?)कृष्टाः जडावश्यायशीकराः । शेफालीकलिकाकोशकषायामोदिनोऽनिलाः ॥'. सह्यः सहस्यश्च हेमन्तः । यथा-'द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीपु । पञ्चषफलिनीकुसुमो जयति हिमतुर्नवावतरः ॥' 'पुन्नागरोध्रप्रसवा. वतंसाः वामध्रुवः कञ्चककुश्चिताङ्गाः । वक्रोलसत्कुङ्कुमसिक्थकाढ्याः सगन्धतैलाः कवरीहन्ति ॥' 'यथा यथा पुष्यति शीतकालस्तुषारचूर्णोत्करकीर्णवातः । तथा तथा
१. 'ऊर्ज' स्यातू. २. 'मयूराणां मदापनोदः' वाग्भटकाव्यानुशासनात् ; 'प्रोत्सारयन्ती' स्यात्, ३. 'विकास्य पद्मान्यु' स्यात्. ४. 'लोध्र' इति स्यात्. . .
Page #145
--------------------------------------------------------------------------
________________
१३२
काव्यमाला ।
यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥' 'वराहवघ्राणि नवोदनानि दधीनि संनद्धरसानि चात्र । सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥' ‘अत्रोपचारः सलिलैः कवोष्णैर्यत्किचिदत्र खदतेऽन्नपानम् । सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तु हिमर्तवेऽस्मै ॥' 'विमुक्तवर्हा विमदा मयूराः प्ररूढगोधूमयवा च सीमा । व्याघ्रीप्रसूतिः सलिलं सवाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥' 'सशमीधान्यपाकानि क्षेत्राण्यत्र हरन्ति च । त्रिशङ्कतिलका रात्र्यः पच्यन्ते लवणानि च ॥' ' उद्यानानां मूकपुंस्कोकिलरवं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु । मन्दोद्योगा पक्षिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥' 'कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोऽप्याविरस्ति । कृष्णेक्षणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीजयते चाप्यपूर्वा ॥' 'येषां मध्ये मन्दिरं तल्पसंपत्पार्श्वे दाराः स्फारतारुण्यसाराः । लीलावहिर्निदुतोद्दामधूमस्ते हेमन्तं ग्रीष्म-. शेषं विदन्ति ॥ वायुरत्रोदीच्यः पाश्चात्यो वा । यथा - 'लम्पाकीनां किरन्तश्चिकुरविर - चनां रल्लकांल्लासयन्तश्चुम्वन्तश्चन्द्रभागां विचितसुमनसः कुङ्कुमान्कम्पयन्तः । एते कस्तूरिकैणप्रणयसुरभयो वलभा वाह्नवीनां कौलूती के लिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः ॥' यथा च - 'भञ्जन्भूर्जद्रुमाली स्तुहिन गिरितटेषूद्गतत्वत्कराला रेवाम्भःस्थूलवीचीचयचकितचलच्चातकं व्याधुनानः । पाश्चात्यो वाति वेगाद्द्रुततुहिन शिलाशीकरासारवर्षे मातङ्गक्षुण्णसान्द्रस्तुत सरलसरत्सारसारी समीरः ॥ तपस्तपस्यश्च शिशिरः । स च हेमन्तधर्म एव । विशेषस्तु - 'रात्रिर्विचित्रसुरतोचितयामदैर्ध्या चण्डो मरुद्वहति कुङ्कुमपङ्कसाध्यः । तल्पस्थितिर्द्विगुणतूलपटा किमन्यदर्थन्ति चात्र विततागुरुधूपधूमा ॥ 'आश्लेषिताः पृथुरतक्लमपीतशीतमायामिनीं घनमुदो रजनीं युवानः । उर्वोर्मुहुर्वलनबन्धनसंधिलोलपादान्त संवलिततूलपटाः खपन्ति ॥' 'पानेऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न वात्र । नो दुर्भगासुभगयोः परिरम्भणे वा नासेवने च शशिभास्करयोर्विशेषः ॥' 'पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु रिस्थितानि । सौभाग्यमेणतिलकाद्भजतेऽर्कविम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥' 'सिद्धार्थयष्टिषु यथोत्तरहीयमानसंतानभिन्नघनसूचिपरम्परासु । द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ||' 'उदीच्यचण्डानिलताडितासु निलीनमीनासु जलस्य मूले । नालावशेषान्जलताखिदानीं विलासवापीषु न याति दृष्टिः ॥ 'माद्यन्मतङ्गः पृषतैकतोषी पुष्यद्वराहो धृतिमल्ललायाः । दरिद्रनिन्द्यः सधनैर्कनिन्द्यः सं एष कालः शिशिरः करालः ॥' 'अतिनववधूरोपखादुः करीपतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः । गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेर्विरहिवनितावकौपम्यं विभर्ति निशाकरः ॥' 'स्त्रियः प्रकृतिपित्तलाः कथितकुङ्कुमालेपनैर्नितम्ब फलकस्तनस्थलभुजोरुमूलादिभिः । इहाभिनवयौवनाः सकलरात्रि संश्लेषितैर्हरन्ति शिशिरज्वरा रतिमतीव पृथ्वीमपि ॥' मधुर्माधवश्च वसन्तः । यथा - 'चैत्रे मदर्धिः शुकसारिकाणां हारीतंदात्यू
1
१. 'रनिन्द्यः' स्यात्.
Page #146
--------------------------------------------------------------------------
________________
३ अध्यायः] काव्यानुशासनम् ।
१३३ हमधुवतानाम् । पुस्कोकिलानां सहकारंवन्धुर्मदस्य कालः पुनरेष एव ॥' 'मनोऽधिकं चात्र विलासलास्ये प्रेढासु दोलासु च सुन्दरीणाम् । गीते च गौरीचरिता वसन्ते पूजाप्रपञ्चे च मनोभवस्य ॥ 'पुंस्कोकिलः कूजति पञ्चमेन वलाद्विलासा युक्तेः स्फुरन्ति । स्मरो वसन्तेऽत्र नवैः प्रसूनैः खचापयष्टेर्घटनां करोति ॥' 'पिनद्धमाहारजतांशुकानां सीमन्तसिन्दूरजुषां वसन्ते । स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः खदते वधूनाम् ॥' 'अयं प्रसूनो रकर्णिकारः पुष्पप्रपश्चाश्चितकाञ्चनारः । विजृम्भणाकोविदकोविदारः कालो विकासोद्धतसिन्धुवारः ॥' 'रोहीतकाम्रातक किंकराता मधूकमोचा सह माधवीभिः । जयन्ति शोभा जनकश्च शाखी सशेखरः पुष्पभरैर्वसन्ते ।।' 'यो माधवीमुकुलदृष्टिषु वेणिवन्धो यः कोकिलाकलरुतेः कथने च लाभः । पूजाविधिदमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥' 'नालिङ्गितः कुरवकस्तिलको न दृष्टो नो ताडितश्च चरणैः सुदृशामशोकः । सिक्तो न वक्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णः ॥' 'चैत्रे चित्रौ रक्तनीलावशोको खीशोकस्तत्तृतीयश्च पीतः । जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेभूर्भुवःस्वस्त्रयेऽपि ।' 'गूवाकानां नालिकेरीद्रुमाणां हिन्तालानां पाटलीकिंशुकानाम् । खजूरीणां तालताडीतरूणां पुष्पापीडन्यासहेतुर्वसन्ते ॥' वायुश्चात्र दक्षिणः । यथा-'चुम्बलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनामन्धीधम्मिल्लवन्धान्सपदि शिथिलयद्वेल्लयन्नागवल्लीः । उद्दामं दाक्षिणात्यो मलितमलयजः सारथिनिकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः ॥' शुक्रः शुचिश्व ग्रीष्मः । यथा--'विकासकारी नवमालिकानां दलच्छिरीषप्रभवाभिरामः । पुष्पप्रदः काश्चनकेतकीनां ग्रीष्मोऽयमुल्लास.."धातकीकः ॥"खजूरजम्वूपनसाम्रमोचप्रियालपूगीफलनारिकेलैः । द्वन्द्वानि खेदालसतामपास्य रतानुबन्धानमिहाद्रियन्ते ॥' 'स्रोतास्यम्भासि सकूपकानि प्रपाः कठोरेऽहनि पान्थपूर्णाः । शुचौ समभ्यर्चितसक्तुधाने प्रागेव सायं च वहन्ति मार्गाः ॥'यत्कायमानेषु दिनार्धनिद्रा यत्नानकेलिर्दिवसावसाने । यद्राविशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी॥' 'या चन्द्रिका चन्दनपङ्कहया या जालमार्गानिलवीचिमाला। या तालवृन्तैरुदविन्दुदृष्टिर्जलाञ्जलिं सा शुचये ददाति।।' 'कर्पूरचूर्ण सहकारभङ्गस्ताम्बूलमाईक्रमुकोपकप्तम् । हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः॥' 'मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः । खजश्व मौलौ स्मितचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥' अत्र हि-पच्यन्त इव भूतानि ताप्यन्त इव पांसवः । कथ्यन्त इव तोयानि ध्मायन्त इव वाद्रयः ॥' 'एण्यः स्थलीषु मृगतृष्णिकया हियन्ते स्रोतस्तनुत्वजनिता जलवेणिवन्धाः । ताम्यत्तिमीनिवे सरांसि जलस्य शोषाद्वद्धारघट्टघटिकावलयश्च कूपाः ॥' 'करभाः शरभाः सरासभाः मदमायान्ति भजन्ति वि. क्रियाम् । करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य रासते ॥' 'सहकाररसार्चिता रसाला जलभकं फलपानकानिमन्थाः (१)। मृगलावरसाश्रितं (2) 'दुग्धं स्मरसंजीवनमौषधं
१. स्यन म्भासि' स्यात्. २. 'क्वथ्यन्त' स्यात्. ३. 'नि च' स्यात्,
Page #147
--------------------------------------------------------------------------
________________
१३४
काव्यमाला |
निदाघे ॥' 'जडचन्दनचारवस्तरुण्यः सजलार्द्राः सहतारहारमालाः । कदलीदलतल्पकल्पनस्थाः स्मरमाहूय' निवेशयन्ति पार्श्वे ॥' ' ग्रीष्मी चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सेरिताः (?) सेभकोला: । लोलज्जिह्वाः सर्व सारङ्गवर्गा मूलस्रस्तैः पक्षिणचांश देशैः ॥' 'ह रम्यं चन्द्रिकाधौतपृष्ठं कान्तोच्छिष्टा वारुणी वारिमित्रा । मालाः कण्ठे पाटलामल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ॥' वायुश्चात्र नैर्ऋतोऽनियतदिक्को वा । यथा - ' सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तरभरेव धरा समग्रा । वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति ॥ यथा च - ' वात्याचक्रकचुम्बिताम्वरभुवः . स्थूला रजोदण्डकाः संग्रन्थन्ति भविष्यदभ्रपटलस्थूणावितर्फे नभः । किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूचयन्ति दिवसेष्वागामिनीं संपदम् ॥' चतुरवस्थश्च ऋतुः । संधिः शैशवं प्रौढिरनुवृत्तिश्च । ऋतुद्वयमध्यं संधिः । स शिशिरवसन्तयोर्यथा-व्यूतसुमनसः कुन्दाः पुष्पेष्वलसा द्रुमे मनसि च गिरं ग्रन्नन्ति मे कीरन्ति न कोकिला: ( ? ) । अथ च सवितुः शीतोल्लासं लुठन्ति मरीचयो नवजरठतामालम्बन्ते क्लमोदयदायिनीम् ॥' वसन्तस्य शैशवं यथा— 'गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवाः वाञ्छामात्रपरिग्रहः पिकवधू कण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः॥' प्रौढिर्थथा—'साम्यं संप्रति सेवते विचकिलं षाण्मासिकै मौक्तिकैः कान्ति कर्षति काञ्च - नारकुसुमं माजिष्ठधौतात्पटात् । हूणीनां कुरुते मधूकमुकुलं लावण्यलुम्पाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम् ॥' 'अतिकान्तर्तुलिङ्गं यत्कुसुमाद्यनुवर्तते । लिङ्गानुवृत्ति तामाहुः सा ज्ञेया काव्यलोकतः ॥' वर्षासु ग्रीष्मलिङ्गाव्जविकासानुवृत्तिः । यथा - 'खं वस्ते कलविङ्ककण्टमलिनं कादम्बिनीकम्बलं चर्चा पारयतीय दर्दरकुलं - कोलाहलैरुन्मदम् । गन्धं चुम्वति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्षोऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥' किं च--' — 'ग्रैष्मिक समय विकाशी कथितो धूलीकदम्ब इति लोके । जलधरसमयप्राप्तौ स एव धाराकदम्वः स्यात् ॥' यथा— 'धूलीकदम्ब परिधूसर दिङ्मुखस्य रक्तच्छटासुरशरासनमण्डनस्य । दीप्तायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समदवारिधरागमस्य ॥ ' ' जलसमयजायमानां जातिं यां कर्दमेन जनयन्ति । सा शरदि महोत्सविनी गन्धान्वितपट्पदा भवति ॥ यथा—'स्थुः लावश्यायविन्दुद्युतिदलितवृहत्कोरकग्रन्थिभाजो जायं जालं लतानां जरठपरिमलप्लावितानां जजृम्भे । नानाहंसोपधानं सपदि जलनिधेश्चोत्ससर्पपरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमम्भः ॥ स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति । यथा—' असूच्यत शरत्कालः केतकी धूलिधूसरैः । पद्माता त्रैर्नवायातचरणैरिव वासरैः ॥' 'शरद्भवानामनुवृत्तिरत्र बाणासनानां सकुरण्टकानाम् । हेमन्तवक्रे यदि दृश्यतेऽपि न
को०.
१. ‘ग्रीष्मे’ स्यात्. २. अत्र श्लोके कीदृक् पाठ इति न ज्ञायते. ३. 'वाइछायामात्र ' ४. 'चिरेप्सितं' वा.
वा० का ०
Page #148
--------------------------------------------------------------------------
________________
३ अध्यायः ]
. यदुक्तम्
काव्यानुशासनम् ।
'अनौचित्यादृते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ॥"
. १३५
इति ।
दृश्यते बन्धविधिः कवीनाम् ॥' हेमन्त शिशिर योरैक्ये सर्वलिङ्गानुवृत्तिरेव । उक्तं चद्वादशमासः संवत्सरः पञ्चर्तवो हेमन्तशिशिरयोः समासेन । 'मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः । रचनीयश्चित्रश्रीः किंचित्कुन्दानुवृत्त्या च ॥' यथा - ' 'गेहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरानुन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति । सद्यो गन्धानुसारस्वतसुरभिशिराः शीकरः साहकारः सर्पन्नम्भः शरावे ' रचयति च रसो रेचकी चक्रकाणि ॥' यथा – 'कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः 'किंकिराते रक्ताशोके सशोकश्चिरमपि विकचे चम्पके कुञ्चिताक्षः । पान्थः खेदालसोऽपि श्रवणकटुरचच्चक्रमभ्येति धुन्वन्सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन ॥' एवमन्याप्यनुवृत्तिः । ‘विचकलि केसरपाटलि चम्पकपुष्पा वसन्तयो ( ? ) ग्रीष्मे । तत्र च तुहिनर्तुभवं मरुवकमपि केचिदिच्छन्ति ॥' यथा— 'अभिनवकुशसूचि स्पर्धिकर्णे शिरीषं मरुवकपरिवारं पाटलादामकण्ठे । स तु सरसजलार्द्रान्मीलितः सुन्दरीणां दिन. परिणतिजन्मा कोऽपि वेषश्चकास्ति ॥ ' ' एवमन्यदपि कविप्रसिद्ध्याभ्यूह्यम् । 'शोभान्धौ गन्धरसौ फलार्चनाभ्यां च पुष्पमुपयोगि । षोढा दर्शितमेतत्सप्तममनुप “योगि तथा ॥ ' ' यत्प्राचिमासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् । तदग्रिमे प्रौढिधरं च कार्य तदग्रिमें पाकपरिष्कृतं च ॥' 'दुमोद्भवानां विधिरेष दृष्टो वल्लीफलानां न महाननेहा । तेषां द्विमासावधिरेव कार्यः पुष्पे फले पाकविधौ च कालः ॥ ' ' अन्तर्व्याजं वहिर्व्याजं बाह्यान्तर्व्याजमेव च ॥' 'सर्वव्याजं वहुव्याजं निर्व्याजं च तथा फलम् ॥' 'लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि । आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥' 'पनसादि बहु व्याजं नीलकपिच्छादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥ तदेवं देशकालौ व्याख्यातौ ॥ वयः शैशवादिकम् ॥ जातिः स्त्रीपुंसादिका ब्राह्मणत्वादिका वा । आदिग्रहणाद्विद्यावित्तकुलपात्रादयो लभ्यन्ते । वेषः कृत्रिमं रूपम् । व्यवहारचेष्टा । आदिग्रहणादाकारवचनादयो ज्ञेयाः । वेषव्यवहारादीति . देशादिभिः प्रत्येकमभिसंबध्यते । तेन देशे वेषस्य व्यवहारस्य आकारस्य वचनस्य वा औचित्येन निबन्धः करणीय इत्यर्थः । एवं कालादौ योज्यम् । यथा कान्यकुब्जाद्यार्यदेशे उद्धतो वेषः । दारुणो व्यवहारः । भयंकर आकारः । परुषं वचनमनुचितम् । .
१. ‘औचित्योपनिबन्ध' का० प्र०...
१. 'विचकिल' स्यात्.
Page #149
--------------------------------------------------------------------------
________________
१३६
काव्यमाला |
'भक्तया शब्दार्थयोर्दोषाः' इत्युक्तम् । तत्र च शब्दस्य पदवाक्यरू
पत्वात्प्रथमं द्वौ पददोषावाह
निरर्थकासाधुत्वे पदस्य ।
दोष इति वर्तते । कृतसमासयोर्भावप्रत्ययः । तेन निरर्थकत्वमसाधुत्वं च पदस्य दोषौ । एवमुत्तरत्रापि योज्यम् । तत्र चादीनां पूरणार्थत्वे निरर्थकत्वं यथा
―
'मुन्मुहुर्मुहुरहं चपलाकुलाक्षः
कृत्वा स्खलन्ति भवतोऽभिमुखं पदानि ।
स्वामिन्भवच्चरणयोः शरणं प्रपन्नः संसारदारुणदरेण हि कांदिशीकः ॥'
न च---
पदैकदेशः पदमेव, तन्निरर्थकत्वं यथा'आदावञ्जनपुञ्जलिप्तवपुषां श्वासानलोल्लासित
प्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् । संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ||' अत्र ‘दृशाम्' इति बहुवचनमनर्थकम् । कुरङ्गेक्षणाया एकस्या एवो
पादानात् ॥
'अलसवलितैः प्रेमार्द्राद्वैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ' इत्यादिवद्व्यापारभेदाद्बहुत्वम् । व्यापाराणामनुपात्तत्वात् । न च व्यापारेऽत्र दृक्शब्दो वर्तते ॥
| यमकादौ निरर्थकत्वं न दोष इति केचित् । यथा— 'योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् ।'
Page #150
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
१३७
'बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च नः ।' शब्दशास्त्रविरोधोऽसाधुत्वम् । यथा-
'उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभं भुजाभ्यामाजघ्ने विषमविलोचनस्य वक्षः ॥' अत्र हन्तेर्नाकर्मकत्वम्, न स्वाङ्गकर्मकत्वमित्यात्मनेपदाप्राप्तेः 'आजघ्ने' पदमसाधु ॥
| 'न दोषोsनुकरणे' इति वक्ष्यमाणत्वात् 'पश्यैष च गवित्याह - ' इत्यत्र न दोषः ।
अथ त्रयोदशवाक्यदोषानाहविसंधिन्यूनाधिको क्तास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसगहतवृत्त संकीर्णगर्भितभग्नप्रक्रमानन्वितत्वानि वाक्यस्य ।
दोषा इति वर्तते ।
तत्र संधिः स्वराणां समवायः संहिताकार्येण द्रवद्रव्याणामिवैकीभावः, कवाटवत्स्वराणां व्यञ्जनानां च प्रत्यासत्तिमात्ररूपो वा । तस्य विश्लेषादश्लीलत्वात्कष्टत्वाच्च वैरूप्यं विधित्वम् ।
विश्लेषाद्यथा
--
'कमले इव लोचने इमे अनुबध्नाति विलासपद्धतिः । '
'लोलालकानुविद्धानि आननानि चकासति ।'
संहितां न करोमीति स्वेच्छा सकृदपि दोषः । प्रकृतिस्थत्वविधाने त्वसकृत् । 'संहितैकपदवत् पादे अर्धान्तवर्जम्' इति हि काव्यसमयः ।
अश्लीलत्वाद्यथा—
'विरेचकमिदं नृत्यमाचार्याभास जितम् ।'
अत्र 'विरेचकम्' इति जुगुप्सा । 'या' इति डा |
:
म्लेच्छेषु त्वेतदेवोचितम् । तथा नागरेषु यदुचितं तदेव ग्राम्येष्वनुचितमिति । यथा - 'परिभ्रमन्मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्त केसरैः । मुखैश्चलत्कुण्डलरमिरञ्जितैर्नवातपामृष्टसरोजचारुभिः ॥' गोपीनां हि ग्राम्यत्वात्कनककुण्डलान्यनुचितानीति । एवं कालादावप्युन्नेयम् ॥ विरेचकमिति । विगतं ग्रीवादीनां रेचकं भ्रमणं यत्र । १. 'नित्यं संहितैकपदवत्यादेष्वर्धा-' इति वामनकाव्यालंकारसूत्र:
૧૯
Page #151
--------------------------------------------------------------------------
________________
१३८
काव्यमाला।
तथा
'चकाशे पनसप्रायैः पुरी षण्ढमहाद्रुमैः ।' अत्र 'शेप' इति 'पुरीषम्' इति 'महाद्रुम' इति च ब्रीडाजुगुप्सामङ्गलार्थस्मारकत्वादश्लीलाः । कप्टत्वाद्यथा---
'मञ्जर्युद्गमगर्भास्ते गुर्वाभोगा इमा बभुः ।' वाद्यौचित्येति वक्ष्यमाणत्वादुर्वचकादौ न दोषः। ' यदाहुः
'शुकस्त्रीबालमूर्खाणां मुखसंस्कारसिद्धये ।
प्रहासासु च गोष्ठीषु वाच्या दुर्वचकादयः ।।' / अवश्यवाच्यस्यानभिधाने न्यूनपदत्वम् ।
असम्यगाचार्येण योजितमिति प्रकृतोऽर्थः । विरेचकं प्रवर्तकमिति च ॥ अवश्यवाच्यस्येति । अवश्यंभावेनाभिधेयस्य अविनाभावेनौचित्येन वा प्रतीयमानस्या• भिधानेऽपि न दोषः । यथा--'कियन्मानं जलं विप्र जानुदघ्नं नराधिप । तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥' 'यत्र ह्यन्यक्रियापदं नास्ति तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते' इति न्यायादस्तिलभ्यते । यथा च–'मा भवन्तमनल: पवनो वा वारणो मदकल: परशुर्वा । वज्रमिन्द्रकरविप्रसृतं वा खस्ति तेऽस्तु लतया सह वृक्ष ॥' अत्रौचित्याद्धाक्षीदित्यादिक्रिया गम्यते । तथा-'मा धाक्षीन्मा भावीन्मा छैत्सीजातुचिद्वैत भवन्तम् । सुकृतैरध्वन्यानां मार्गतरो खस्ति तेऽस्तु सहलतया ॥' अत्रानल इत्यादीनि कर्तृपदान्यौचित्यात्प्रतीयन्ते ॥ एवं चानभिहितवाच्यत्वं पृथग्दोपत्वेन वाच्यम् । धर्मिधर्मोभयात्मनो वस्तुनः प्रतिपत्तये पुनः स एव शब्दस्तत्पर्यायः सर्वनाम वावश्यं वाच्यमपि नोक्तं यत्र, तत्रापि न्यूनत्वमिति केचिद्वदन्ति । यथा---'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।' इति । अत्र हि कपालिशब्दो धर्मधर्मोभयवृत्तिः संज्ञिमात्रं वा प्रत्याययेत् । कपालसंबन्धकृतं वा गर्हितत्वमुभयमपि वेति त्रयः पक्षाः । तत्र प्रथमपक्षे विशेषप्रतिपत्तये कपालिनहणमपरमपि कर्तव्यम् , येनास्य गर्हितत्वं प्रतीयेत । द्वितीयपक्षे तस्याश्रयप्रतिपत्तये तेनैव तत्पर्यायेण सर्वनाम्ना वा विशेष्यमवश्यमुपादेयं भवति, येन तस्य विवक्षितार्थसिद्धावार्थों हेतुभावोऽवकल्प्येत । तत्र तेनैवोपादाने यथा-'सततमनोऽनङ्गो
१. 'नभिभाने स्वात्. २. 'षत्वेन न वाच्यम्' स्यात्.
-
Page #152
--------------------------------------------------------------------------
________________
३ अध्यायः]
काव्यानुशासनम् ।
१३९
- यथा-'तथाभूतां दृष्ट्वा' इति । अत्रास्माभिरिति खिन्नमित्यस्मात्पूर्व
मित्थमिति च नोक्तमिति न्यूनत्वम् । _ तथा
'त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः ।
किमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ।' . अत्रापराधस्य लवमपीत्यर्थो वाच्यः ।
-तथा--
'नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः
सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् । न वेत्ति परदेहदाहदुःखमहो । यदयमदहं दहति मामनलशरो ध्रुवमसौ न कुसुमशरः।।' इति। पर्यायेण यथा-'कुर्या हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ।' अन हि हरस्येति पर्यायशब्देनोपात्तत्यार्थस्य पिनाकपाणित्वं धैर्यच्युतेरशक्यकरणीयतायामार्थो हेतुः । अन्यथा हरग्रहणस्य पौनरुक्त्यं स्यादिति । यथा च-'एकः शकामहिवररिपोरत्यजद्वैनतेयात्' इति । सर्वनाम्ना यथा-'दृशा दग्धं मनसिजं जीव- . यन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' अत्रापि ता इति सर्वनामोपात्तस्यार्थस्य वामलोचनात्वं मनसिजदाहजीवनयोरन्योन्यविरुद्धयोरपि अभिनहेतुकत्वोपपत्तावार्थो हेतुः । इतरथा वामलोचनात्वस्य पुनरुपादानप्रसङ्गः । अत एव तृतीयः पक्षो न संभवत्येव । एकस्यैव शव्दस्यावृत्तिमन्तरेणानेकार्थप्रतिपादनसाम
•संभवात् । न चासावनिवन्धना शक्या कल्पयितुम् । न वैपामेकमप्यत्रोक्तमिति न्यूनपदत्वमिति । वयं तु ब्रूमः-न हि शब्दस्याभिधैव वृत्तिरिष्यते येनैकस्मिन्नेवार्थे उपक्षीणत्वात्तस्याः शब्दान्तरमर्थान्तरार्थं प्रयुज्येत तदावृत्तिनिवन्धनं वा किंचित्परिकल्प्येत । किं तु वृत्त्यन्तरमपि सहृदयैकसंवेद्यं व्यक्तिखभावमस्त्येव । एवं च वृत्त्यन्तरोपकल्पनायामेकस्मादेव शब्दाद्वाच्येन सहैव व्यङ्गयस्यापि प्रतीतिरनिवारितप्रसरैव । तथा हि-परमेश्वरवाचकसहस्रसंभवेऽपि 'कपालिनः' इति तद्वाचकतया प्रयुक्तं वीभत्सरसालम्बनविभावतां सूचयन् जुगुप्सास्पदत्वं ध्वनति । संप्रति द्वयं चेत्यतीव रमणीयम् । यत्किल पूर्वमेका सैव दुर्व्यसनदूषितत्वेन शोचनीया जाता । संप्रति पुनस्त्वया तस्यास्तथाविधदुरध्यवसायसाहायकमिवारब्धमित्युपहस्यते । प्रार्थनाशब्दोऽप्यतितरां रमणीयः । यस्मात्काकतालीययोगेन तत्समागमः कदाचिन वाच्यतावहः । प्रार्थना पुनरत्रात्यन्तकौलीनकलङ्ककारिणी । सा च त्वं चेति द्वयोरप्यनुभूयमानपरस्परस्पर्धिलावण्यातिशयप्रतिपादनपरत्वेनोपात्तम् । कलावतः कान्तिमतीति च मतुप्प्र. १. 'मदयं' स्यातू.
Page #153
--------------------------------------------------------------------------
________________
• काव्यमाला ।
अयमपि पटुर्धारासारो न बाणपरम्परा
___ कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥' अत्र प्रान्तौ निवृत्तायां तद्विषयभूतयोः सुरधनुर्धारासारयोरिव विधुतोऽपीदमा परामर्शी वाच्यः । यथा वा उपमायाम्'संहयवक्कायजुया वियसि कमलामुणालसंछन्ना ।
वावीबहुत्वरोयण विलित्तथणया सुहावेई ॥ अत्र कमलमृणालप्रतिकृत्योर्मुखबाह्वोः केनापि पदेनानुपादानान्यूनपदत्वम् । क्वचिद्गुणः । यथा'गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥' क्वचिन्न गुणो न दोषः। यथा-'तिष्ठेत्कोपवशात्-' इति ।
अत्र पिहितेत्यतोऽनन्तरं 'नैतत् यतः' इति एतैन्यूनैः पदैविशेषबुद्धेरकरणान्न गुणः । 'उत्तरा प्रतिपत्तिः पूर्वी प्रतिपत्तिं बांधते' इति न दोषः । / अधिकपदत्वं यथा'स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अनिरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ॥' अत्र 'आकृति'शब्दोऽधिकः । तथा__ 'ताडीजद्दयो निजघ्ने कृततदुपकृतिर्यत्कृते गौतमेन ।' अत्र 'तत्'शब्दः । १. 'वि' का० प्र०. २. 'नाडीजको' स्यात.
Page #154
--------------------------------------------------------------------------
________________
३ अध्यायः]
काव्यानुशासनम् ।
यथा
'दलत्कंदलभाग्भूमिः सनवाम्बुदमम्बरम् । - वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र भजिः सहशब्दो यजिश्चाधिकाः । तथा-'विसकिसलयच्छेदपाथेयवन्तः' इति ।
'त्वगुत्तरा सद्भवतीमधीतिनीम्' इति च मत्त्व यस्याधिक्यम् । बहुबीहिसमाश्रयेणैव तदर्थावगतिसिद्धेः । यदाहुः—'कर्मधारयमत्त्वर्थीयाभ्यां ? बहुव्रीहिर्लघुत्वात्प्रक्रमस्य' ।
तथा-'वासो जाम्बवपल्लवानि जघने गुञ्जास्रजोभूषणम्' इति, 'तदी.. यमातङ्गघटाविघट्टितैः' इति, येनाकुम्भनिमगवन्यकरिणां यूथैः पयः पीयते' इत्यत्र तद्धितप्रत्ययस्याधिक्यम् । षष्ठीसमासाश्रयेणैव तदर्थावगतेः ।
. यत्र त्वर्थान्तरे तद्धितस्योत्पत्तिः न तत्र समासात्प्रतीतिरिति न तस्या'. धिक्यम् । . यथा
'अथ भूतानिवार्तनशरेभ्यस्तत्र तत्रसुः ।' इति.। अत्र हि अपत्यार्थे तद्धितो नेदमर्थे इति । तथा''किं पुनरीदृशे दुर्जाते जातामर्षनिभेरे च मनसि नास्त्येवावकाशः शोकक्रियाकरणस्य । . इत्यत्र क्रियाकरणयोः । यथा वा उपमायाम्
'अहिणवमणहरविरइयवलयविहूसा विहाइ नववहुया । __कुन्दलयच्चसमुप्फुल्लगुच्छपरिच्छित्तभमरगणा ॥'
अत्रोपमेयस्य नीलरत्नादेरनिर्देशे भ्रमरगणपदमतिरिच्यते इत्यधिकपदत्वम् ।
Page #155
--------------------------------------------------------------------------
________________
१४२
काव्यमाला।
तथा'अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपतिनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थली न तिलकस्तिलकः प्रमदामिव ।'
अत्र तिलकप्रमदयोरेकतरस्य समासोक्तित एवाक्षेपादन्यतरस्याधिकपदत्वम् ।
यथा वा रूपके-'शोकानलधूमसंभारसंभूताम्भोदभरितमिव वर्षति नयनवारिधाराविसरं शरीरम् ।' |
अत्र शोकस्य केनचित्साधर्म्यणानलत्वेन रूपणमस्तु धूमस्य पुनर्न किंचिद्रूप्यमस्तीति अधिकपदत्वम् ।
तथा—'निर्मोकमुक्तिमिव गगनोरुगस्य लीलाललाटिकामिव त्रिविष्टपस्य ।'
अत्र रूपकेणैव साम्यस्य प्रतिपाद्यमानत्वादिवशब्दस्याधिक्यम् । यथा वा समासोक्तौ'स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजम्भिततापया।
अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥ __ अत्र तिग्मरुचेः ककुभां च यथासदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया व्यक्तिस्तथा ग्रीष्मदिवसश्रियोऽपि प्रति नायिकात्वेन भविष्यतीति दयितयेत्यधिकम् । यथा वान्योक्तौ
'आहूतेषु विहंगमेषु मशको नायान्पुरो वार्यते ___ मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां धुरम् । - खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां
धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ . अत्राचेतसः प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तेः प्रभुमिवेत्यधिकम् ।
१. 'रंगस्य' स्यात्. २. 'नायकतया नायिकात्वेन च व्यक्तिः ' का० प्र०. ३. 'मध्येवारिधि वावस' का० प्र०. ४. 'रुचम्' का० प्र०. ५. 'सं' का० प्र०.
Page #156
--------------------------------------------------------------------------
________________
३ अध्यायः ]
तथा
काव्यानुशासनम् ।
'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधार्य्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥' अत्र भवदर्थस्यान्योक्तिबलेनैवाक्षेपाद्भवानिवेत्यधिकम् ।
कचिद्गुणः ।
यथा
यथा
'यद्वञ्चनाहितमतिर्बहु चाटुगर्भ कार्योन्मुखः खलजनः कृतकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किं तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥'
अत्र विदन्तीति द्वितीयमन्ययोगव्यवच्छेदपरम् ।
उक्त पदत्वं द्विःप्रयोगः । 'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति हि
समयः ।
'अधिकरतलतल्पं कल्पितश्वापलीला
परिमलननिमीलत्पाण्डिमा गण्डपाली |
सुतनु कथय कस्य व्यञ्जयन्त्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥'
अत्र लीलेति ।
कचिद्गुणः । यथा लाटानुप्रासे
१४३
'जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः । वल्लभीकृत पूर्वाशः पूर्वाशातिलको रविः ॥'
क्वचिच्छब्दशक्तिमूले ध्वनौ ।
त्ययेन द्वयोरपि प्रशस्यता प्रतीयते ॥ क्वचिदुण इति । लाटानुप्रासव्यङ्ग्य विहितानुवा
१. 'खाप' का० प्र०.
Page #157
--------------------------------------------------------------------------
________________
१४४
यथा
'तीला जायन्ति गुणा जाला ते सहिअएहिं धिप्पन्ति । रविकिरणाणुगहियाई हुन्ति कमलाई कमलाई ||' विहितस्यानुवाद्यत्वे यथा—
'जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' अस्थानस्थपदत्वं यथा ---
'प्रियेण संग्रथ्य विपक्षसंनिधौ निवेशितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥' अत्र 'स्रजं काचिन्न जहौ' इति वाच्यम् ।
काव्यमाला |
तथा
'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥' अत्र त्वंशब्दादनन्तरश्चकारो युक्तः ।
तथा
'शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री
र्व पार्श्वे तथैषा प्रतिवसति महाकुट्टिनी खगयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुनः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥' अत्रेत्थं प्रोच्येवेति न्याय्यम् ।
द्यत्वेषु । तिमिरान्धाः घूकवर्जाः पक्षिणः ॥ तालेति तदा । जालेति यदा । 'डेडेाहेडाला या काले' इति यत्तद्भयां डेडलादेशः ॥ त्वंशब्दादिति । समुच्चयद्योतको हि चकारः । समुच्चीयमानार्थादनन्तरमेव प्रयोक्तव्य इति हि क्रमः । एवं पुनः शब्दोऽपि
१.
' तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥' (इति च्छाया . )
१- २, 'डेर्डा' स्यात्.
Page #158
--------------------------------------------------------------------------
________________
३ अध्यायः]
'काव्यानुशासनम् ।
१४६
तथा'लग्नं रागावृताङ्गया सततमिह ययैवासियष्ट्यारिकण्ठे
मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किंचिद्गणयति विदितं तेऽस्तु तेनामि दत्ता.
भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥' अत्र 'इति श्रीनियोगादू' इति वाच्यम् । तथा- 'तीर्थे तदीये गजसेतुबन्धात्प्रतीपगामुत्तरतोऽस्य गङ्गाम् ।'
इत्यत्र परामर्शनीयमर्थमनुक्त्वैव यस्तस्य तदा परामर्शः सोऽस्थानस्थपदत्वं दोषः।
तथा
'कष्टा वेधव्यथा कप्टो नित्यश्च वहनक्लमः । श्रवणानामलंकारः कपोलस्य तु कुण्डलम् ॥'
व्यतिरिच्यमानार्थानन्तयेणैव प्रयोगमर्हति । अन्यत्र तु प्रयुज्यमानोऽस्थानस्थपदत्वं प्रयोजयति । यथा-'उद्यता जयिनि कामिनी मुखे तेन साहसमनुष्ठितं पुनः ।' भत्र हि पुनःशब्दस्तेनेत्यनन्तरं प्रयोज्यः ॥ श्रीनियोगादितीति । तथा चोक्तम्-'उ. क्तिस्वरूपावच्छेदफलो योतिरिष्यते । न तत्र तस्मात्प्राकिंचिदुक्तेरन्यत्पदं वदेत् ॥ उपाधिभावात्स्वां शक्ति स पूर्वत्रादधाति हि । न च स्वरूपावच्छेदः पदस्यान्यस्य संमतः ॥ इतिनैवेतरेषामप्यव्ययानां गतिः समा। ज्ञेयेत्थमेवमादीनां तजातीयार्थयोगिनाम् ॥ यतस्ते चादय इव श्रूयन्ते यदनन्तरम् । तदर्थमेवावच्छिारासमञ्जसमन्यथा ॥' इति । एवं चाक्रमत्वं पृथग्दोषत्वेन न वाच्यम् । अस्थानस्थपद एवान्तर्भावात् ॥ तदेति । तच्छब्दस्य हि प्रक्रान्तोऽर्थो विषय इष्टो न प्रक्रस्यमानः स्मृतिपरामर्शरूपत्वात् । स्मृतेश्चानुभूत एवार्थो विषयो नानुभविष्यमाण: । अत्र च प्रतीतिमात्रमनुभावोऽभिमतो नेन्द्रियविषयभावः । न च गङ्गार्थः प्रतीतपूर्वो यः परामृश्येत। न वान प्रमादजः पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तुम् । तत्रापि प्रतीतगमनहेतोः शाब्दस्य तदीयतार्थाभिधानव्यवधाने सत्यन्यस्यास्थानस्थपदत्वदोषस्याविर्भावापत्तः । तेन पादयोर्विपर्ययः शब्दस्य च, हेतोर्गङ्गाविशेषणमुखेनार्थत्वमित्युभयवि
१. 'सुदृढ' का० प्र०.
Page #159
--------------------------------------------------------------------------
________________
१४६
.. काव्यमाला। अत्र श्रवणानामिति पदं पूर्वार्धे निवेशयितुमुचितम् । 'नार्धे किंचिदसमाप्तं वाक्यम्' इति हि कविसमयः । यथा वोत्प्रेक्षायाम्
'पैत्तनिअम्बप्फंसा हाणुत्तिन्नाए सामलङ्गीए । ' चिहुरा रुयन्ति जलबिन्दुएहिं बन्धस्स व भएण ॥' अत्र रोदनं बन्धनभयं चेत्युभयमुत्प्रेक्षितम् । तत्र प्राधान्याद्रोदनाभिधायिन एव पदादनन्तरमुत्प्रेक्षावाचि पदं प्रयोक्तव्यमिति यदन्यत्र प्रयुक्तं तदस्थानस्थपदम् । प्राधान्ये ह्युत्प्रेक्षिते तदितरदर्थादुत्प्रेक्षितमेव भवति ॥ यदाह
'एकत्रोत्प्रेक्षितत्वेन यत्रार्था बहवो मताः।
नत्रेवादिः प्रयोक्तव्यः प्रधानादेव नान्यथा ॥' इति । v पतत्पकर्षत्वं यथा
'कः कः कुत्र न घुर्घरायितधुरीघोरो घुरेत्सूकरः ___ कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः। . के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो विद्यते ॥ अत्र क्रमाक्रममनुप्रासो घनयितव्यः।
पतन्निबन्धः क्वचिद्गुणः । पर्ययोऽत्र श्रेयान् ॥ निवेशयितुमुचितमिति । तेनार्थान्तरैकवाचकत्वं पृथग्दोषत्वेन न वाच्यमित्यर्थः ॥ तदितरदिति । तस्मात्प्रधानादितरदप्रधानम् । यथा'ज्योतीरसाश्मभवनाजिरदुग्धसिन्धुरत्युन्मिषत्प्रचुरतुङ्गमरीचिवीचिः । वातायनस्थितवधूवदनेन्दुविम्बसंदर्शनादनिशमुल्लसतीव यस्याम् ॥' अत्र प्रधाने उल्लसने उत्प्रेक्षि
१. 'माप्तप्रायं' काव्यालंकारसूत्रे. २. 'प्राप्तनितम्बस्पर्शाः स्नानोत्तीर्णायाः श्यामलाङ्गयाः ।
चिकुरा रुदन्ति जलविन्दुभिर्वन्धस्येव भयेन ।' [इति संस्कृतम् ।] ___३. "जलविन्दुएहिं चिहुरा रुअन्ति' गाथासप्तशत्याम् ६५५. ४. 'प्रधाने' स्यात्. ५. 'वर्तते' का० प्र०.
Page #160
--------------------------------------------------------------------------
________________
१४७
३ अध्यायः]
काव्यानुशासनम् । यथा'प्रागप्राप्तनिशुम्भशांभवधनुर्द्वधाविधाविर्भव
क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्षणम् । उज्ज्वालः परशुर्भवत्वशिथिलत्वत्कण्ठपीठातिथि__ येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥' अत्र क्रोधाभावे पतत्प्रकर्षत्वं नास्ति । • समाप्तपुनरात्तत्वं यथा- 1 'ज्योत्सा लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालती
मालां गण्डजलैर्मधूनि कुरुते स्वादून्यसौ फाणितैः । यस्तस्य प्रथितान्गुणान्प्रथयति श्रीवीरचूडामणे..
स्तारत्वं स च शाणया मृगयते मुक्ताफलानामपि ॥' अत्र चूडामणेरिति समाप्ते वाक्ये तारत्वमित्यादि पुच्छप्रायं पुनरुपात्तं न चमत्करोति।
क्वचिन्न गुणो न दोषः । यत्र न विशेषणमात्रदानार्थ पुनर्ग्रहणमपि तु वाक्यार्थान्तरमेव क्रियते । यथा-'प्रागप्राप्त-' इति ।
रोलौंपे उत्वादिना उपहतौ च विसर्गस्याभावोऽविसर्गत्वम यथा
'धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः ।, . ..
यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभान्विताः ॥' — हतं लक्षणच्युतं यतिभ्रष्टं वा लक्षणानुसरणेऽप्यश्रव्यमप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तद्भावो हतत्तत्वम् ।।
यथा-: .. 'अयि पश्यसि सौधमाश्रितामविरलसुमनोमालभारिणीम् ।' ...
अत्र वैतालीययुग्मपादे लवक्षराणां षण्णां नैरन्तयं निषिद्धमिति ल. क्षणच्युतम् । . '. 'एतासां राजति सुमनसां दाम कण्ठावलम्बि ।'
: 'कुरङ्गाक्षीणां गण्डतलफलके स्वेदविसरः ।. . . . .,
Page #161
--------------------------------------------------------------------------
________________
काव्यमाला। इत्यनयोश्चतुर्थे षष्ठे च यतिनं कृतेति यतिभ्रष्टम् । एतदपवादस्तु स्वच्छन्दोऽनुशासनेऽस्माभिर्निरूपित इति नेह प्रतन्यते। 'अमृतममृतं कः संदेहो मधून्यपि नान्यथा
मधुरमथ किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन्रसान्तरविजनो
वदतु यदिहान्यत्वादु स्यात्प्रियादशनच्छदात् ॥ अत्र 'यदिहान्यत्वादु' इत्यश्रव्यम् । 'अन्यास्ता गुणरत्नरोहणभुवः कन्या मृदन्यैव सा ..
संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा । · श्रीमत्कान्तियुषां द्विषां करतलात्स्त्रीणां नितम्बस्थला- .
दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥' . अन 'वस्त्राण्यपि' इति पाठे लघुरपि गुरुत्वं भजते। . 'हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव ।
मुग्ध विदग्धसभान्तररत्न कासि गतः क वयं च तेथैते ॥ हास्यरसव्यञ्जकमेतद्वत्तं करुणरसाननुगुणम् । वाक्यान्तरपदानां वाक्यान्तरपदैर्व्यामिश्रत्वं संकीर्णत्वम् । यथा
'कायं खाइइ च्छुहिओ कूरं पत्तेइ निज्झरं रुद्धो।
सुणयं गिन्हइ कण्ठे हक्केइ मैं निअत्तयं थेरो ॥ अत्र 'काकं क्षिपति कूरं खादति कण्ठे नप्तारं गृह्णाति श्वानं भषयति' इति वक्तुमुचितम् । एकवाक्यतायां क्लिष्टमिति क्लिष्टाद्भेदः ।
१. चतुर्थे एकारोत्तरं षष्ठे गण्डपदे 'ग' इत्युत्तरं यतिर्भवति. २. 'वो धन्या' का० प्र०. ३. किल' प्रकाशे. ४. 'जुषां' प्रकाशे. ५. 'वैते' का० प्र०. .. ६. 'काकं खादति क्षिपति कूरं भषयति निष्ठुरं रुष्टः।
शुनकं गृह्णाति कण्ठे आकारयति च नप्तारं स्थविरः ॥' ... ५. 'बुल्लेइ निहुरं रुद्रो' वाग्भटकाव्यानुशासने. ८. 'अ निअत्तियं थेरो' वा० का०.
Page #162
--------------------------------------------------------------------------
________________
३ अध्यायः] . . . काव्यानुशासनम् ।
क्वचिदुक्तिप्रत्युक्तौ गुणः। . यथा
• 'बाले नाथ विमुञ्च मानिनि रुषं, रोषान्मया किं कृतं, - खेदोऽसासु, न मेऽपराध्यति भवान्, सर्वेऽपराधा मयि । तत्कि रोदिषि गद्गदेन वचसा, कस्याग्रतो रुद्यते,
न वेतन्मम, का तवास्मि, दयिता, नास्मीत्यतो रुद्यते ॥ वाक्यमध्ये वाक्यान्तरप्रवेशो गर्मितत्वम् ।। यथा
'परापकारनिरतैर्दुर्जनैः सह संगतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन ॥' अत्र तृतीयः पादो वाक्यान्तरं मध्ये प्रविष्टम् । क्वचिद्गुणः ।
यथा. 'दिड्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत । ... विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम् ॥' अत्र वीराद्भुतरसवशाद् 'वदन्त एव' इत्यादि वाक्यान्तरं मध्ये प्रविष्टं गुणाय ।
प्रस्तुतभङ्गो भग्नप्रक्रमत्वम् । यथा
. 'एवमुक्तो मन्त्रिमुख्यैः पार्थिवः प्रत्यभाषत। अत्र 'उक्तः' इति प्रक्रान्ते 'प्रत्यभाषत' इति प्रकृतेर्भग्नप्रक्रमत्वम् । (यथा) 'प्रत्यवोचत' इति युक्तम् । तेऽप्रधानमिन्दुसंदर्शनमुत्प्रेक्षितमेव ॥ प्रस्तुतभङ्ग इति । स हि यथा.। प्रक्रममेकरसप्रस्तां प्रतिपत्तृप्रतीति रुन्धान इव परिस्खलनखेददायी रसभङ्गाय पर्यवस्यतीत्यर्थः ॥ प्रत्यवोचतेति युक्तमिति । एवंविधस्य प्रक्रमभेदाख्यस्य शब्दौचित्यस्य विध्य
Page #163
--------------------------------------------------------------------------
________________
१५०
यथा वा
काव्यमाला |
.
'ते हिमालयमामन्त्र्य पुनः प्रेष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥'
अत्र 'अनेन विसृष्टाः' इति वाच्यम् ।
'धैर्येण विश्वास्यतया महर्षेस्तीत्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥
अत्र स्यादेः प्रत्ययस्य । 'तीत्रेण विद्वेषिभुवागसा च' इति तु युक्तम् । 'बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखर श्रीः । उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥' अत्र 'मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । 'सतुः पयः पुरनेनिजुरम्बराणि जक्षुर्विसंधृतविकासिविसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादमसृजन्वननिम्नगानाम् ॥' अन त्यादेः । 'विकचमस्य दधुः प्रसूनम्' इति तु युक्तम् । 'यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥'
नुवादभावप्रकारत्वोपगमात् । यथा 'ताला जायन्ति' इति । यथा वा - 'ऐमे जाणा तिस्सा देहकवोलोवमाइस्स सिविब्वम् । परमच्छविआरेउण चन्दो चन्दोच्चि भवेराउ ॥' अत्र ह्युत्कर्षापकर्षविवक्षया परिकल्पितभेदोऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेणैकेनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार एवायमिति मन्तव्यम् । केचन पर्यायप्रक्रमभेदनिवृत्तये चन्दणमिति पाठः परिणमयितव्यः । न चैवमुक्तपदत्वदोषप्रसङ्गः । यथान्ये मन्यन्ते—‘नैकं पदं द्विः प्रयोज्यं प्रायेण' इति । उद्देश्यप्रतिनिर्देश्यं व्यतिरिक्तो हि विषय उक्तपदत्वस्य, अयथोद्देशं प्रतिनिर्देशस्तु भग्नप्रक्रमस्येति भिन्नविषयत्वात् ॥ सस्तुरिति । अत्र स्तादौ यः कालविशेषः प्रक्रान्तः, स तेजनादावुपेक्षित इति कालस्याप्यत्र क्रमभेद इति केचिदाहुः । वयं तु ब्रूमः - कालविशेषस्य विवक्षामात्र
१. 'प्रेक्ष्य' का० प्र०.
१. एतस्य संस्कृतं न विज्ञायते. २. 'स्नानादौ' स्यात्.
३. 'नेजना' स्यात्.
Page #164
--------------------------------------------------------------------------
________________
३ अध्यायः
काव्यानुशासनम् । अत्र कृतः । 'सुखमीहितुं च' इति तु युक्तम् ।।
'उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं . सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः .
सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥' - अत्र पर्यायस्य । 'मिता भूः पत्यायां स च निधिरपां योजनशतम् . इति तु युक्तम् । .
'विपदोऽभिभवन्त्यविक्रम रहयत्यापदुपेतमायतिः ।
लघुता नियता निरायतेरगरीयान्न पदं नृपश्रियः ॥' अत्रोपसर्गस्य पर्यायस्य च । 'तदभिभवः कुरुते निरायतिम्, लघुतां ‘भजते निरायतिः, लघुताभाङ्गपदं नृपश्रियः' इति तु युक्तम् ।
'उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि।। अभिवाञ्छितं प्रसिध्यतु भगवति युष्मत्प्रसादेन ॥
भावितयानवच्छिन्नत्वादोषोऽयमनुद्भावनीय एव । यदाहुः-'परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये दर्शनयोग्यत्वात्परोक्षस्याविवक्षायां लिड् भवत्येव' । 'अजयज”(3) हूणाम्' इति । सतोऽपि वाविवक्षा भवति । यथा---'अनुदरा कन्या' इति ॥ सुखमीहितं चैति तु युक्तमिति । एवं च तुल्यकक्ष्यत्वेन विकल्पार्थवृत्ताशब्दस्य न विषयोऽयमित्यपि परिहृतं भवति । यथा च-रुदता कुत एव सा पुनर्भवता नानुमृतारेवाप्यते । परलोकजुषां खकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥' अन हि 'कुत एव तु सा नुरोदनात्' इति युक्तः पाठः । इह तु न दोषः-'पृथ्वि स्थिरीभव भुजङ्गम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिकुञ्जराः कुरुत तत्रितये दिधीर्षी देवः करोति हरकार्मुकमाततज्यम् ॥' अत्र हि पृथिव्यादिविषयः प्रैषलक्षणोऽर्थः कविना वक्तुं प्रक्रान्तः तस्य प्रत्ययभेदेऽपि नियूंढत्वात्प्रैषार्थानां पादानामुद्देश्यप्रतिनिर्देश्यभावेनोपादानं न कृतमिति नैतादृशः प्रत्ययक्रमभेददोषस्य विषयोऽवगन्तव्यः । "मिताभूः पत्यापाम्-' इत्यपि । एवं च छिदिक्रियाकर्तुरुदन्वतो वक्ष्यमा . १. 'नियता लघुता' किराते, का० प्रकाशे च. . २. 'वान' का० प्र०. ...
१. 'वेति' का० प्रकाशे. २. 'ऽप्यवाप्यते' स्यात. ३. 'स्थिरा भव' इति तु स्मर्यते. . . . . . . . . . . . . . . . . . .
Page #165
--------------------------------------------------------------------------
________________
१५२
काव्यमाला । अत्रैकवचनेन भगवतीं संबोध्य प्रसादसंबन्धेन यस्तस्यां बहुत्वनिर्देश: स वचनस्य ।
'कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ अत्र कारकस्य । 'न च तेऽहं कृतवत्यसंमतम्' इति तु युक्तम् । यथा च'चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदो दयितसंगमभूषः ॥' अत्र शृङ्खलाक्रमेण कर्तुः कर्मभावः । कर्जन्तरं च यथोपक्रान्तं तथा न नियूंढम् । 'तमपि वल्लभसङ्गः, इति युक्तम् ।
'तव कुसुमशरत्वं शीतरश्मित्वमिन्दो
यमिदमयथार्थ दृश्यते मद्विधेषु । विसृजति हिमगभैह्निमिन्दुमयूखै
स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥' अत्र क्रमस्य । यथा वा
'अकलिततपस्तेजोवीर्यप्रथिमि यशोनिधा__ ववितथमदाध्माते रोषान्मुनावभिधावति । अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥
णनयेन विधेयतया प्राधान्यात्समासानुपपत्तिदोषोऽपि परिहृतो भवति । यथा च'वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यमणिः श्रेयानालंकारच्युतोपलः ।।' एवम्-'खमिव जलं जलमिव खं हंस इव शशी शशीव खलु हंसः । कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ॥' इत्यादौ द्रष्टव्यम् ॥ अकलितेति । अत्र ‘पादोपसंग्रहणाय' इति पूर्व वाच्यम् । एवमन्येऽपि भेदा अभ्यूह्याः । ननु कर्तृप्रक्रमभेदोऽपीह कस्मानोपदर्शितः । असंभवादिति ब्रूमः । यत्तु क्वचित्कविभिः प्रयुज्यमानो दृश्यते स कर्तृ. .
Page #166
--------------------------------------------------------------------------
________________
"
३ अध्यायः ]
तथा
काव्यानुशासनम् ।
यथा वा व्यतिरेकालंकारे
'तरङ्गय दृशोऽङ्गणे पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिकामुदञ्चय मनाङ्मुखं भवतु च द्विचन्द्रं नमः ॥' अत्रोपमानानामिन्दीवरादीनां निन्दया नयनादीनामुपमेयानामतिशयो वक्तुं प्रक्रान्तः ‘भवतु च द्विचन्द्रं नमः' इति सादृश्यमात्राभिधानेन निर्व्यूढ इति भग्नप्रक्रमत्वम् । 'भवतु तद्विचन्द्रं नभः' इति तु युक्तम् ।
----
१९३
'तद्वक्रं यदि मुद्रिता शशिकथा, तचेत्स्मितं का सुधा, सा चेत्कान्तिरतन्त्रमेव कनकं, ताश्चेद्विरोधिमधु । सा दृष्टिर्यदि हारितं कुवलयैः किं वा बहु ब्रूमहे
यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः ||' अत्रोपमानादुपमेयस्यातिरेकलक्षणं वस्तु वक्तुमिष्टं तस्यार्थान्तरन्यासेन वस्तु सर्गपौनरुक्त्यस्य सादृश्यपर्यवसानाद्भग्नप्रक्रमत्वम् ।
व्यत्यासो नाम गुण एव, न दोषः । तत्रैव चायं ग्रक्रमभेदभ्रमो भवताम् (?) । तत्र युष्मदर्थस्य यथा - 'यथाहं सप्तमो वैकुण्ठावतारः' इति । अत्र हि यथा त्वमिति युष्मदर्थस्य कर्तृत्वं प्रकृतमपहाय चारुत्वाय ततोऽन्यत्रारोप्यैवमुक्तम् । दाशरथिं रामं प्रति हि कस्यचित्समक्ष मियमुक्तिः । अस्मदर्थस्य यथा 'नाभिवादप्रसाद्यो रेणुकापुत्रः । गरीयान् हि गुरुधनुर्भङ्गापराध:' इति । अत्रापि हि नाभिवादप्रसाद्योऽस्मीति वक्तव्ये पूर्ववच्चारुत्वायैवमुक्तम् । एषा हि भार्गवस्यात्मानमुद्दिश्योक्तिः । यथा वा 'अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिगोतुमर्हसि ।' इति । अत्रापि 'अहं प्रष्टुमनाः " इति वक्तव्ये अस्मदर्थस्य कर्तृत्वमन्यत्रारोप्यैवमुक्तम् । द्विविधो धन्यशब्दार्थः । तत्र चेतनेऽन्यत्रारोपो निदर्शित एव । अचेतने तु यथा ' चापाचार्य -' इति । अत्र हि 'त्वं रेणुकाकण्ठबाधां कृतवान्' इति । 'त्वया बद्धस्पर्धोऽहं लजे' इति वक्तव्ये चारुत्वाय युष्मदस्मदर्थयोः कर्तृत्वमुभयोः परशुचन्द्रहासयोर्जडयोरारोप्यैवमुक्तम् ॥ यथा च'हे' लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते कोऽयं ते मतिविभ्रमः स्मरं नयं
१. 'भो' प्रसिद्धः पाठः..
Page #167
--------------------------------------------------------------------------
________________
१५४
काव्यमाला ।
वाद्यौचित्ये न दोषः । 'व्रजतः क तात वजसीति परिचयगतार्थमस्फुटं धैर्यम् ।
अभिनदुदितं शिशुना जननीनिर्भर्त्सनवृद्धमन्युना ॥' अत्र शिशुना व्रजतिरेव प्रयुक्तो न वजतिस्तत्रैव परिचयगतार्थास्फुटत्वधैर्यभेदित्वसंभवात् । केवलं शक्तिवैकल्याद्रेफोऽनेन नोच्चारितः । पदार्थानां परस्परमसंबन्धोऽनन्वितत्वम् । यथा'दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' __ अत्र यद्याकारः संनिवेशलक्षणो विवक्षितस्तदा परस्परपरिहारस्थितिमतोरर्थयोः सिद्ध एवेत्यनुपादेयः । /अक्षरविशेषलक्षणस्तु शब्दनियतत्वादर्थयोर्न संभवत्येवेत्यनन्वितत्वम् ।
यथा वा--- 'निर्घातोप्रैः कुञ्जलीनाजिघांसुर्व्यानिषैिः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽसौ वीर्योदने राजशब्दे मृगाणाम् ॥'
अत्र सिंहानां न तावद्राजशब्दः संभवति, तेषां तद्वाच्यत्वाभावात्तत्संबन्धाभावाच्च । तत्पर्यायस्य मृगराजशब्दस्यास्तीति चेत्, न । तस्य प्रक्रान्तत्वाभावात् । मृगाणामित्यत्र मृगराजानामित्यनुक्तेश्च । किं च मृगेषु राजत्वं भवति सिंहानाम्, न तु शब्द इति वीर्योदग्रत्वं तद्विशेषणमनुपपन्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः । तेन सिंहानां मृगाणां वीर्योदग्रत्वस्य च न . राजशब्देनान्वयः संगच्छते । तेन 'राजभावे' इति 'मृगेषु' इति वा पाठः । श्रेयान् । यथा वा'येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि
लीलापानभुवश्च नन्दनतरुच्छायासु. यैः कल्पिताः। . नाद्यापि किंचिद्गतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्री नैष सहिष्यते. मम धनुर्ध्यावन्धवन्धूकृतः ॥' अत्राप्यहं न सहिध्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने . पत्रिणि समारोप्यैवमुक्तम् । इति ॥ अर्थयोरिति । कृपणकृपाणशब्दवाच्ययोः ॥
Page #168
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
"
किं तैस्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ॥' 'अङ्गाङ्गिनोरेव हि यत्तदर्थयोः संबन्धो न त्वङ्गानां यदर्थानामन्योन्यम्' इति नियमेन बहुभिर्यदर्थेर्नेक एवार्थो निर्दिश्यते इति यैरित्यत्र विशेषस्याप्रतीतिः । ‘क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः ।
यथा वा उपमायाम् —
यथा
'वापीव विमलं व्योम हंसीव विमलः शशी । शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥'
-
१५५
'सरांसीवामलं व्योम काशा इव सितः शशी । शशीव धवला हंसा हंसीव विशदा दिशः ॥' अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसाह - श्यादुपमानेन च संबध्यते इत्यनन्वितम् ।
यदि च लिङ्गवचसोर्विपरिणामादुपमानेनापि संबन्धः क्रियेत, तदाभ्यासलक्षणो वाक्यभेदः स्यात् ।
न त्वङ्गानामिति । प्रधानानुयायित्वेन समत्वादित्यर्थः । युज्यत इति । यदि क्षपाचारिणामित्यस्य स्थाने क्षपाचारिभिरिति पच्यते तथात्र योऽपि यच्छन्दार्थः समशीकया धात्वित्वा (?) अङ्गीभूतेन तैः क्षपाचारिभिरित्यनेन प्रतिखमाजस्यानेव संबन्ध - मनुभवतीत्यर्थः । यथा वा -- ' तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥' अत्रानुयातिक्रियापेक्षो राजमरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः । न चासौ तत्संबन्धयोः साक्षादुक्तः । सजललीलासंबन्धमुखेन राजसंबन्धस्योक्तत्वात् । अतोऽत्र साक्षात्तत्संबन्धो वा वाच्यः । तदर्द्धमन्यत्क्रियान्तरं वा येन कर्तृकर्मत्वभावस्तयोर्घटनामियात् । न चोभयोरेकमप्युकमित्यनुचितत्वम् । तेन च रस ( ? ) मयमत्र पाठ: -- ' आकाशगङ्गार तिरेप्सरोभिर्वृतोऽनुयातो मघवा विलासैः ।' इति ॥ अभ्यासलक्षण इति । पौनः पुण्यरूपः ॥ वाक्य
S
१. ' विशेष्यस्या' का० प्र०.
१. 'पठ्यते' स्यात्. २. 'सामजस्येनैव' स्यात्. ३. 'तेन वरमयमत्र पाठः' स्यात्. ४. 'पुन्य' स्यात्.
Page #169
--------------------------------------------------------------------------
________________
१५६
काव्यमाला। एवं चाव्यवधानेनं प्रकृतोऽर्थो न प्रतीयेत । विपरिणामश्च शास्त्रीयो न्यायः काव्येषु न युक्तः ।।
यत्र तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूपभेदं नापद्यते, न तत्रैतषणम् । यथा
'वाक्प्रपञ्चैकसारेण निर्विशेषाल्पवृत्तिना । स्वामिनेव नटत्वेन निर्विण्णाः सर्वथा वयम् ॥' 'चन्द्रमिव सुन्दरं मुखं पश्यति ।' 'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ॥' इति ।
यत्रापि गम्यमानं साधारणधर्माभिधायि पदम्, तत्रापि न दोषः । यथा 'चन्द्रमिव मुखम्, कमलमिव पाणिः, बिम्बमिवाधरः' इत्यादि ।
कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्यसावपि अनन्वितस्यैव विषयः । यथा
'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती।
पश्चिमाद्यामिनीयामाप्रसादमिव चेतना ॥' अन चेतना प्रसादमानोति, न पुनरापेति कालभेदः ।
'प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः
कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती
__ बालप्रवालविटपप्रभवा लतेव ॥ अन लता विभ्राजते, न तु विभ्राजसे इति पुरुषभेदः । भेद इति । द्वे वाक्ये स्यातामित्यर्थः ॥ असदृश इति । टैगन्तत्वादेकवचनम् । किंवन्तत्वाद्वहुवचनं च । मधुरतया भृतो धृतः । तां च बिभ्रति । दधते इति ।
१. 'विभ्राजसे इति संवोध्यमाननिष्ठस्य परभागस्यासंबोध्यमानविषयतया व्यत्यासात् पुरुषभेदः' इत्येवं काव्यप्रकाशे पाठः. १. 'कनन्त' पाणिनीयमते. २. 'किन्नन्त' पाणिनीयानाम्.
Page #170
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
१५७
'गङ्गेव प्रवहतु ते सदैव कीर्तिः' इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इति अप्रवृत्तप्रवृत्तात्मनो विधेः ।
एवंविधस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद्विध्यादिभेदः ।
अथाष्टावुभयदोषानाह
अप्रयुक्ताश्लीला समर्थानुचितार्थश्रुतिकटु क्लिष्टाविमृष्टविधेयांशवि
रुद्धबुद्धिकृत्त्वान्युभयोः ।
उभयोरिति । पदस्य वाक्यस्य चेत्यर्थः । दोषा इति वर्तते । कविभिरनादृतत्वादप्रयुक्तत्वम् । तच्च लोकमात्रप्रसिद्धत्वाच्छास्त्रमात्र
प्रसिद्धत्वाच्च ।
आद्यं यथा
----
‘कष्टं कथं रोदिति थूत्कृतेयम्' ।
देश्यं चैतत्प्रायमेव । यदाह
'प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्महादि कथंचिन्न रूढिरिति संस्कृते रचयेत् ॥' कचिद्गुणो यथा
'देव स्वस्ति वयं द्विजातत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे ।
'दध धारणे' इत्यस्य दधातेश्चात्मनेपदैकवचनबहुवचनाभ्याम् ॥ लोकमात्रप्रसिद्धत्वादिति । एतेन प्राम्यर्मयुक्तत्वान्न भिद्यत इत्याह ॥ शास्त्रमात्र प्रसिद्धत्वादिति । शास्त्राणि योगशास्त्रधातुपाठाभिधानकोशादीनि । तेनाप्रतीतासमर्थनिहतार्थत्वानि न पृथग्लक्षणीयानि अप्रयुक्तत्वं एवान्तर्भावादिति ॥ एतत्प्रायमेवेति । लोकमात्रप्रसिद्विप्रायम् | केवलं नियत देशविषयत्वेन प्रसिद्धिरिति प्रायग्रहणम् । मडहादीति । मडलडद्दाहारणकान्दाह एहु कफ सुमालवाणवालादिकम् । यथाक्रमं सूक्ष्मश्रेष्ठवस्त्रोत्पलदरिद्राञ्जलिचौरशकादिवाचकम् । रूढिरितीति । रूढिभ्रान्त्या कश्चिद्विद्धदेशप्रसिद्ध्या
१. 'प्रवर्तनात्मनो' का० प्र०.
१. 'अप्रयुक्त' स्यात्. २. 'विध्य' स्यात्.
Page #171
--------------------------------------------------------------------------
________________
काव्यमाला। तद्याचेमहि सप्तविष्टपशुचीभावकतानव्रतं
संयच्छ खयशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥' अत्रामुग्धस्यापि मुग्धस्येव ब्राह्मणस्य वक्तृत्व स्वस्तीति गुणः । वाक्यस्य यथा
'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः ।
करोति खादनं पानं सदैव तु यथा तथा ॥' क्वचिद्गुणाः।
'फुल्लक्करं कलमकूरसमं वहन्ति ।
जे सिन्दुवारविडवा मह वल्लहा ते । जे गालिदस्स महिसीदहिणो सरिच्छा
ते किं वि मुद्धवियइल्लपसूणपुञ्जा ।' अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेऽपि विदूषकोक्तौ गुणत्वम्। शास्त्रमात्रप्रसिद्धिर्यथा
'यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ।' अत्र दैवतशब्दः पुंलिङ्गे लिङ्गानुशासने प्रसिद्धः । यथा वा--
'सम्यग्ज्ञानमहाज्योतिर्गलिताशयताजुषः । विधीयमानमप्येतन्न भवेत्कर्मबन्धकम् ॥'
'अस्यार्थस्य शब्दोऽयं सर्वत्र वाचकः' इति मन्यमानः प्रयुञ्जीत । व्युत्पत्तिर्यस्य नास्तीति वचनाञ्च स व्युत्पत्तिकं देश्यं कदाचित्प्रयोज्यमेवेत्युक्तं भवति-यथा दूर्वायां छिन्नोद्भवाशब्दः, ताले भूमिपिशाचः, शर्वे महानरः, वृक्षे पशुभक्तः, चन्द्रामृतयोः
'पुष्पोत्करं कलमौदननिभं वहन्ति
ये सिन्धुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदनः सदृशा
स्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥' [इति संस्कृतम् ।]
Page #172
--------------------------------------------------------------------------
________________
३ अध्यायः] काव्यानुशासनम्।
११९ अत्राशयशब्दो वासनापरपर्यायो योगशास्त्र एव प्रसिद्धः । यथा वा
'तीर्थान्तरेषु लानेन समुपार्जितसत्कृतः ।
सुरस्रोतखिनीमेष हन्ति संप्रति सादरम् ॥' अत्र हन्तीति गमनार्थ धातुपाठ एव प्रसिद्धम् । यथा वा--
'सहस्रगोरिवानीकं दुःसहं भवतः परैः । अत्र गोशब्दस्याक्षिवाचकत्वमभिधानकोश एव प्रसिद्धम् । क्वचिद्गुणो यथा
'सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥' अत्राङ्गस्कन्धपञ्चकमित्यस्य तद्विध्यसंवादादौ गुणत्वम् । श्लेषे तु न गुणो न दोषः । यथा--- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोत्तभुजंगहारवलयोगङ्गां च योऽधारयत् । .' यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥' . अत्र माधवपक्षे शशिमच्छब्दः क्षयशब्दश्वाप्रयुक्तः ।
समुद्नवनीतम्,जले मेघक्षीरमित्यादि। अङ्गेति । कर्मणामारम्भोपायः, द्रव्यपुरुषसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गानि ॥ स्कन्धेति । 'विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । भिक्षणां शाक्यसिंहेन स्कन्धाः पञ्च प्रकीर्तिताः॥' येन ध्वस्तेति । माधवपक्षे-येन ध्वस्तं वालक्रीडायाम् । अनः शकटम् । अभवेन असंसारेण । बलि जितवान् । यः कायः स पूर्वममृतहरणे स्त्रीत्वं नीतः । उद्वत्तं भुजंग कालियाख्यं पीडितवान् । रवे शब्दब्रह्मणि लयः समाप्तिर्यस्य । अगं गोवर्धनगिरि गां च योऽधारयत् । शशिनं मनाति यो राहुस्तस्य शिरोहरः । अन्धकानां वृष्णीनां क्षयं निवासं करोति यः स माधवः कृष्णः । उमाधवपक्षे-बलिजित्कायो विष्णुदेहस्निपुरवधेऽस्त्रीकृतः शरतां नीतः । भुजंगाः सर्पाः शशियुक्तं शिरो यस्य तथाभूतो हरः । यदि
Page #173
--------------------------------------------------------------------------
________________
काव्यमाला।
वाक्यस्य यथा. .
'तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः ।।
दृढभूमिः प्रियप्राप्तौ यत्नः सफलितः संखे ॥ अनाधिमात्रोपायादयः शब्दा योगशास्त्रे प्रसिद्धाः। . क्वचिद्गुणो यथा
'अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः ।
अकितीव यजादीनां दुर्लभं संप्रसारणम् ॥' अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः । अत्र ब्रीडाजुगुप्सामङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा ।। तत्र पदस्य यथा
'साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालितां ध्रुवम् ॥' 'लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूततयाथ वा नतिमृते तेनानिशं चुम्बिता ॥' 'मृदुपवनविभिन्नो मत्प्रियाया विनाशा
घनरुचिरकलापो निःसपनोऽस्य जातः । .
वा शशियुक्तं शिर आहुर्नाम च हर इति । अन्धकाख्यो दैत्यः ॥ तस्याधिमात्रोपायस्येति। "तथा हि नव योगिनो भवन्ति । मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र । मृदूपायस्त्रिविधः-मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति । एवमितरावपि । तत्राधिमात्रोपायानां "तीसंवेगानामासन्नः" समाधिलाभः समाधिफलं च भवति ॥" "संपिपादयिषया चित्तवृत्तिनिरोधसाधनानुष्ठानं योऽभ्यासः “सं दीर्घकालनैरन्तर्येण सत्कारासेवितो
१. 'ऽद्य' का० प्र०.
१. 'ते खलु नवयोगिनो मृदुमध्याधिमात्रोपाया भवन्ति' इति पातालभाष्ये पाठः. २. 'इदं सूत्रम् । शेषं भाष्यम्' इति वाचस्पत्यम्. ३. इदं पातञ्जलसूत्रं समाधिपादे चतुर्दशम् । शेष भाष्यम्.
Page #174
--------------------------------------------------------------------------
________________
३ अध्यायः] काव्यानुशासनम् ।
रतिविलुलितवन्धे केशपाशे सुकेश्याः
___ सति कुसुमसनाथे कं हरेदेष वहीं ॥' एषु साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः । वाक्यस्य यथा
'भूपतेरुपसर्पन्ती कम्पना वामलोचना ।
तत्तत्प्रहणनोत्साहवती मोहनमादधौ ॥' कम्पना सेना, वामं शत्रु प्रति विरुद्धं वल्गु च । अत्रोपसर्पणप्रहणनमोहनशब्दा ब्रीडादायित्वादश्लीलाः ।।
तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते ।
इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥' . अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः ।
'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे ।
भवति सपदि पावकान्वये हृदयमशेपितशोकशल्यकम् ॥ पावकेन पवित्रेणाग्निना च । अत्र पितुर्ग्रहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् ।
कचिद्गुणो यथा-- सुरतगोष्ठयां 'यथैः पदैः पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रस्थितिः।
'करिहस्तेन संबाधे प्रविश्यान्तर्विलोलिते ।
उपसर्पन्ध्वजः पुंसः साधनान्तर्विराजते ॥
'तर्जन्यनामिके श्लिष्टे मध्या पृष्टस्थिता तयोः ।' करिहस्तः............ । संवाधः संघट्टो वराङ्गं च । ध्वजः पताकावचिहं पुंव्यञ्जनं च । साधनं सैन्यं स्त्रीव्यञ्जनं च ।
तजपा
दृढभूमिः" । दीर्घकालेनासेवितो निच्छिद्रासेवितस्तपसा ब्रह्मचर्येण विद्यया श्रद्धया संपा
१. 'मध्यमा पृष्टतस्तयोः' इत्युदाहरणचन्द्रिकायां पाठः. २. 'करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः' इति परिभाषितेन' इत्युदाहरणचन्द्रिकायां पाठदर्शनादत्र .कियान्पाठस्त्रुटितः प्रतीयते. . .
Page #175
--------------------------------------------------------------------------
________________
काव्यमाला।
शमकथासु यथा
'उत्तानोच्छ्रनमण्डूकपाटितोदरसंनिभे। क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥ .. 'निर्वाणवैरदहनाः प्रशमादरीणां
नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च |
वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ अत्र भाव्यमङ्गलसूचनम् । रक्ताः सानुरागाः । प्रसाधिता अर्जिता भूयः । रक्तेन मण्डिता भूश्च यैः । विग्रहो वैरं शरीरं च । स्वस्थाः कुशलिनः स्वर्गस्थाश्च ॥ AM 1/अवाचकत्वात्कल्पितार्थत्वात्संदिग्धत्वाच विवक्षितमर्थ वक्तुमशक्तिरसमर्थत्वम् । पदस्य यथा'हा धिक्सा किल तामसी शशिमुखी दृष्टा मया यत्र सा, ___ तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः, कुशले सदैव विधुरो धाता, न चेत्तत्कथं. __नादृग्यामवतीमयो भवति मे नो जीवलोकोऽधुना ।' अत्र दिनमिति प्रकाशमयमित्यर्थेऽवाचकम् । यथा वा'जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकरालः
प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जमञ्जीरभृङ्गः । भर्तुर्वृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी
संभूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥' अत्र दधदित्यर्थे विदधदित्यवाचकम् । यथा वा| 'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः
शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । दितः सत्कारवान् । दृढभूमिर्युत्थानसंस्कारेण द्रागित्येवानभिभूतविषय इत्यर्थः॥अवाचकखादित्यनेनावाचकत्वप्रसिद्धिद्वतत्खयोः, कल्पितार्थवादित्यनेन नेयार्थत्वस्य, संदिग्धत्वादि
Page #176
--------------------------------------------------------------------------
________________
३ अध्यायः
काव्यानुशासनम् । . - अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठवाधां
वद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥' अत्र विजित इत्यत्रार्थे विजेय इत्यवाचकः । यथा च'महाप्रलयमारुतक्षुभितपुष्करावर्तक
प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
___ कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥' अत्र रवो मण्डूकादिपु प्रसिद्धो, न तूक्तविशेषणे सिंहनादे इत्यवाचकः । तथा च
त्यनेन संदिग्धवस्यासमर्थत्वदोपेऽन्तर्भावमाह-मण्डूकादिषु प्रसिद्ध इति । मण्डू कादीनां शब्दो रवोऽभिधीयत इत्यर्थः ॥ यथा च–'यमिन्द्रशब्दार्थनिसूदनं हरेहिरण्यपूर्व कशिपुं प्रचक्षते ।' अत्र हिरण्यकशिपुमिति वक्तव्ये हिरण्यपूर्व कशिपुमित्यवाचकम् । यतोऽत्र हिरण्यशब्दः कशिपुशव्दश्चाभिधेयप्रधानौ वा स्याताम् , खरूपमात्रप्र- . धानी वा । तत्र न तावदभिधेयप्रधानावनभ्युपगमात् । अर्थस्यासमुच्चयात् । नापि खरूपप्रधानौ, न ह्येवमसुरविशेषस्य हिरण्यकशिपोरभिधानानुकारः प्रख्यानक्रियाकर्मभा. वेनाभिहितो भवति । द्विविधो हि शब्दानुकारः । शाब्दत्वार्थत्वभेदात् । तत्रेतिना व्यवच्छेदे शाब्दः प्रसिद्ध एव । अर्थादवच्छेदावगतावार्थः । यथा-'महदपि परदुःखं शीतलं सम्यगाहुः ।' इह चायमर्थोऽनुकार इति नानावच्छेदात् । केवलं यत्तस्याभिधानमनुकार्य तनानुकृतम् । यच्चानुकृतं तत्तस्याभिधानमेव न भवति । लोके हि हिरण्यक शिपुरिति तस्याख्या न हिरण्यपूर्वः कशिपुरित्यतः तस्या वाचकम् ॥ यथा वा-'क्षुण्णं, यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव ।' इत्यत्र कल्पवृक्षा इति वक्तव्ये कल्पोपपदा वृक्षा इत्यवाचकम् । यतो विशेषणमिदमभिधानखरूपविषयमेवावकल्पते । नाभिधेयविषयम् , सोपपदत्व निरुपपदत्वयोरभिधानधर्मत्वात् । न चेतने विशेषितेन किंचित्प्रयोजनम् । अभिधानमात्रादनभिमतार्थसिद्धेः । अभिधेयविषयत्वे च तत्सिद्धिभवेत् , किं तु न तत्र यथोक्तविशेषणसंवन्धः संगच्छते । यत्र च संगच्छते न ततोऽभिमतार्थसिद्धिरिति अवाचकत्वादसमर्थमेवेति । तस्माद्वरमयमन पाठः श्रेष्ठः-'क्षुण्णं यदन्तःकरणेन नाम तदेव कल्पद्रुमकाः फलन्ति । अस्मिंश्च पाठे क्षुण्णस्यार्थस्य कल्पदुमाणां वावगतौ गुणान्तरलाभः । एवम् 'दशपूर्वरथं .यमाख्यया दशकण्ठारिगुरुं प्रच
Page #177
--------------------------------------------------------------------------
________________
१६४
काव्यमाला। । मञ्जीरादिषु रणितप्रायं, पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रभृति ॥
दृष्ट्वा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत । । अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥' क्वचिद्गुणो यथा'आशुलम्बितवतीष्टकरागैर्नोविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतनू(?)मण्डलक्वणितचारु चुकूजे ॥'
अत्र कूजितस्य पक्षिषु प्रसिद्धत्वेऽपि कामशास्त्रे प्रसिद्धत्वाद्गुणः । यथा वा उपमायाम्'पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥'
अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमभिमतं कवेर्न तद्धर्मेण मलिनत्वमात्रेण, मृगपतौ पतिते तस्यैव निःप्रतिपक्षतया स्वेच्छाविहारोपपत्तेः न तद्वन्मलिनानां तमसाम्, पतङ्गस्य मृगपतिरूपणावैयर्थ्यप्रसङ्गात् । न च तत्साम्यं सुन्दरहारिसदृशसुभगसंनिभादिशब्दा इव मलिनादिशब्दाः शक्नुवन्ति वक्तुम् इत्यवाचकत्वम् । यथा वा उत्प्रेक्षायाम्---
'उद्ययौ दीर्घिकागभन्मुकुलं मेचकोत्पलम् ।
नारीलोचनचातुर्यशङ्कासंकुचितं यथा ॥' क्षते।' इत्यादावपि द्रष्टव्यम् ॥ मञ्जीरादीति । आदिग्रहणं रशनाघण्टाभ्रमराद्यर्थम् । प्रायग्रहणं सदृशार्थवृत्तिकणिसिञ्जिगुञ्जीत्याद्यर्थम् । प्रभृतिग्रहणं वेश्येत्याद्यर्थम् । पुनरादिग्रहणं सिंहमृगाद्यर्थम् । प्रायग्रहणमपि ध्वनत्याद्यर्थम् । एवंप्रायानिति । ये शस्त्रसामान्येन पैच्यन्ते, अथ च विशेष एव दृश्यन्ते तानित्यर्थः । तद्यथा-हेषति। रश्वेषु, भणतिः पुरुषेषु, कणतिः पीडितेषु, वातिर्वायो, न त्वन्यत्र । न हि भवति
१. "निष्प्रति' स्यात्. १. 'शिक्षि' स्यात्. २. 'तिरश्चां रुतवाशिते' इत्यभिधानात् 'वाशिताद्यर्थम्' स्यात्. ३. 'शाने स्यात्. ४. 'पठ्यन्ते' स्यात.
-
Page #178
--------------------------------------------------------------------------
________________
३ अध्यायः काव्यानुशासनम् ।
१६५ अत्र ध्रुवेवादिशब्दवद्यथाशब्दः संभावनं प्रतिपादयितुं नोत्सहते इत्यवाचकः । यथा वार्थान्तरन्यासे-- 'किमपेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ।' अत्र महीयस इत्येकवचनं न सामान्यमर्थरूपं व्यक्तमभिधातुं क्षमते इत्यवाचकत्वम् । बहुवचनस्यैव वीप्सासमानफलस्य स्फुटत्वेन तदभिव्यक्तिक्षमत्वात् । यथा--
'यावदर्थपदां वाचमेवमाधाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥' सर्वादिशब्दोपादाने त्वेकवचनस्यापि न दोषः । यथा
'छायामपास्य महतीमपि वर्तमाना
मागामिनी जगृहिरे जनतास्तरूणाम् । सर्वोऽपि नोपनतमप्यपचीयमानं
___ वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥' वाक्यस्य यथा
'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् ।
आवहन्ति न ते दुःखं प्रस्मरन्ति न ये प्रियाम् ॥' अत्र विभजतिविभागार्थः सेवने, आलभतिविनाशार्थे लाभे, आवहतिः करोत्यर्थो धारणे, स्मरतिविस्मरणार्थः स्मरणेऽवाचकः ।
कल्पितार्थत्वादसमर्थम् । पदस्य यथा
'किमुच्यतेऽस्य भूपाल मौलिमालामहामणेः ।
सुदुर्लभ वचोबाणैस्तेजो यस्य विभाव्यते ॥ १. 'दसमर्थत्वम्' स्यात्.
Page #179
--------------------------------------------------------------------------
________________
१६६
काव्यमाला |
अत्र वचःशब्देन गीःशब्दो लक्षित इति कल्पितार्थत्वम् । अत्र न केवलं पूर्वपदम्, यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्याद तूत्तरपदमेव, वडवानलादौ तु पूर्वपदमेव । यथा है—
इति ।
'निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियते सांप्रतं काचित्कश्चिन्नैव त्वशक्तितः ॥'
वाक्यस्य यथा
V‘सपदि पङ्किविहंगमनामभृत्तनयसंवलितं बलशालिना । विपुलपर्वतवर्षिशितैः शरैः प्लवगसैन्यमुलूकजिता जितम् ॥'
पङ्किरिति दशसंख्या लक्ष्यते । विहंगमोऽत्र चक्रस्तन्नामभृतो रथाः । दश रथा यस्य तत्तनयौ रामलक्ष्मणौ उलूकजिता इन्द्रजिता कौशिकशब्देनेन्द्रोलूकयोरभिधानमिति कौशिकशब्दवाच्यत्वेनेन्द्र उलूक उक्तः ।
3
संदिग्धत्वादसमर्थत्वम् ।
पदस्य यथा
--
'आलिङ्गितस्तत्र भवान्संपराये जयश्रिया ।
आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥'
अत्र वन्द्यां किं हठहृत में हेलायां किं नमस्यामिति संदेहः । यथा वा - 'कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् ।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह || '
अत्र ‘भूतपूर्वे चरट्' इति चरप्रत्यये किं पूर्वे साधुः, उत साधुषु चरतीति संदेहः ।
क्वचिद्गुणो यथा
‘पश्याम्यनङ्गजातङ्कलङ्घितां तामनिन्दिताम् ।
कालेनैव कठोरेण ग्रस्तां किं नस्तदाशया ॥'
१. 'लक्ष्यते' का० प्र०. २. 'अत्र खलु न' प्रकाशे. ३. कुमारिलभट्टः. ४. 'महिलायां' प्रकाशे.
Page #180
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
१६७
अत्र विरहातुराया ग्रीष्मकाल उपनते किं ग्रीष्मवाची कालशब्दः उत - मृत्युवाचीति संदेहकारीदं वचनं युवानमाकुलीकर्तुं प्रयुक्तमिति ।
वाक्यस्य यथा-
अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः । उत मदिराद्यर्था इति
• संदेहः ।
'सुरालयोल्लासपरः प्राप्तपर्याप्त कम्पनः । मार्गणप्रवणो भावद्भूतिरेष विलोक्यते ॥'
क्वचिद्गुणो यथा
'पृथुकार्तखरपात्र भूषितनिः शेषपरिजनं देव |
विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥'
अत्र वाच्यमहिम्ना नियतार्थप्रतिपत्तिकारित्वे व्याजस्तुतिपर्यवसायित्वागुणत्वम् ।
अनुचितार्थत्वं पदस्य यथा---
'तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्रिभिरिष्यते च या । प्रयान्ति तामाशु गतिं यशखिनो रणाश्वमेधे पशुतामुपागताः ॥' अत्र पशुपदं कातरतामभिव्यनक्तीति अनुचितार्थम् ।
यथा वा उपमायाम् -
-
तथा
'कचिद प्रसरता कचिदापत्यनिघ्नता ।
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥'
'वह्निस्फुलिङ्ग इव भानुरयं चकास्तिं ।' 'अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥'
पुरुषो वातीति । एवमन्यदपि बोद्धव्यम् ॥ पृथुकार्तस्वरेति । पृथुकानां बालानां ये आर्ताः खरास्तेषां पात्रम्, पृथूनि कार्तखरस्य स्वर्णस्य भाजनानि च यत्र । भुवि उषितो भूषितः, अलंकृतश्च । विलसत्कैर्गर्त संधिभि: पांसुभिर्गहनम्, विलसन्तीभिः करे
Page #181
--------------------------------------------------------------------------
________________
१६८
काव्यमाला । 'पातालमिव नाभिस्ते स्तनौ क्षतिधरोपमौ। .
वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ।।" एषु श्वाद्युपमानानां जातिप्रमाणगता हीनताधिता चेत्यनुचितार्थत्वम् । निन्दायां प्रोत्साहने च न दोषः । यथा
'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन ।
निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥' इति ।
___ 'विशन्तु वृष्णयः शीघ्रं रुद्रा इव महौजसः ।। इति च। यथा वा उत्प्रेक्षायाम्'दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥' अत्राचेतनस्य तमसस्तात्विकेन रूपेण दिवाकरात्रास एव न संभवति, कुत एव तत्प्रयोजितमद्विपरित्राणम् । संभावितेन तु रूपेण प्रतिभासमानस्य न काचिदनुपपत्तिरवतरतीत्यनुचितैव तत्समर्थना । वाक्यस्य यथा'कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो ___ यशो गायन्त्येते दिशि दिशि वनस्थास्तव विभो । जरज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा
तथापि त्वत्कीर्तिभ्रंमति विगताच्छादनमिह ।' अत्र कुविन्दादिशब्दास्तन्तुवायादिमभिदधाना उपश्लोक्यमानस्य तिरस्कारं व्यञ्जयन्तीत्यनुचितार्थम् ! .
परुषवर्णत्वं श्रुतिकटुत्वम् । पदस्य यथा
'अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः।
आलिङ्गितः स तन्वङ्गया कार्तार्थ्यं लभते कदा॥ अत्र कार्यमिति । १. 'क्षिति' प्रकाशोतं स्यात्.
Page #182
--------------------------------------------------------------------------
________________
३ अध्यायः] - काव्यानुशासनम् ।
१६९ वाक्यस्य यथा--- . .
'अचूचुरचण्डि कपोलयोस्ते कान्तिद्रवं द्राग्विशदं शशाङ्कः ।' अत्र चण्डिद्रागादीनि पदानि श्रुतिकटूनि । .. वक्राद्यौचित्ये गुणो यथा---
'देधीड़ेवीङ्समः कश्चिद्गुणवृद्ध्योरभाजनम् । .
कित्प्रत्ययनिमः कश्चिद्यत्र संनिहिते न ते ॥' . - अत्र वैयाकरणो वक्ता । . 'यदा त्वामहमद्राक्षं पदविद्याविशारदः । . उपाध्यायं तदास्मार्ष समस्प्राक्षं च संमदम् ॥'
अत्र वैयाकरणः प्रतिपाद्यः । __'मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः
सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । . कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनैः
सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ।।' अत्र सिंहे वाच्ये परुषाः शब्दाः ।
'अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणकऋण_ प्रायप्रेङ्खितभूरिभूषणरवैराघोषयत्यम्बरम् ।
पीतच्छर्दितरक्तकर्दमधनप्राधारघोरोल्लल
यालोलस्तनभारभैरववपुर्दोद्धतं धावति ॥ अन बीभत्से व्यङ्गये। __. . 'रक्ताशोक कृशोदरी क नु गता त्यक्त्वानुरक्तं जनं ।
नो दृष्टेति मुधैव चालयसि किं वाताभिभूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ।।' ': अत्र शिरोधूननेन कुपितस्य वचसि प्रक्रान्ते ॥ .. . १. 'दम्' प्रकाशे. २. 'पुरः' प्रकाशे. ३. 'प्रारभारघोरोल्लस-' प्रकाशे..
२२
Page #183
--------------------------------------------------------------------------
________________
१७०
काव्यमाला। कचिन्नीरसे न गुणो न दोषः । यथा'शीर्णघ्राणानिपाणीन्त्रणिभिरपघनैर्घर्घराव्यक्तघोषा
न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः । धर्माशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिम्ननिर्विघ्नवृत्ते/ दत्तार्धाः सिद्धसंधैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥' Vव्यवहितार्थप्रत्ययजनकत्वं क्लिष्टत्वम् । पदस्य यथा'दक्षात्मजादयितवल्लभवेदिकानां
ज्योत्स्नाजुषां जललवास्तरलं पतन्ति ।' दक्षात्मजास्तारास्तासां दयितश्चन्द्रस्तस्य वल्लभाः कान्तास्तद्वेदिकानामिति । झगित्यर्थप्रतीतौ गुणः । यथा
_ 'काञ्चीगुणस्थानमनिन्दितायाः । वाक्यस्य यथा'धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः ।
रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥' अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यति इति संवन्धे क्लिष्टत्वम् ॥ / अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयोंऽशो यत्र तस्य भावोऽविमृष्टवि
धेयांशत्वम् ।
गुभिः व्याप्तं च ॥ प्राधारः सेकः ॥ उल्लयन् स्वास्थ्यं नयन् । दक्षात्मजेति । अत्रैकपदप्रत्याय्योऽप्यर्थश्चन्द्रकान्तलक्षणो दक्षात्मजेत्यायनेकपदप्रत्यायितार्थपर्यालो. चनाव्यवहिततया क्लिश्यमानो वाचकस्य क्लिश्यतामावहति ॥ काचीगुणस्थानमिति । अत्र रूढत्वादवान्तरपदार्थप्रत्ययमन्तरेणैव एकपदवदर्थप्रतीतिरिति नैत
१. 'उल्लाघय' स्यात्. २. 'क्लिष्टता' स्यात्.
Page #184
--------------------------------------------------------------------------
________________
३ अध्यायः
काव्यानुशासनम् । . १७१ पदस्य यथा--- 'वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ।'
अत्रालक्षितत्वं नानुवाद्यम् , अपि तु विधेयमिति 'अलक्षिता जनिः' इति वाच्यम् । यथा-- . 'स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥' . अत्र 'मौर्वी द्वितीयामिव' इति द्वितीयात्वमात्रमुत्प्रेक्ष्यम् । यथा च. 'तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । . .
। खं च संहितममोघसायकं व्याजहार हरसूनुसंनिभः ॥
अत्र सायकानुवादेनामोघत्वं विधेयम् । 'अमोघमाशुगम्' इति तुः युक्तः पाठः । यथा च
'मध्येव्योम त्रिशङ्कोः शतमुखविमुखः स्वर्गसगै चकार । इत्यत्र हि व्योमैव प्राधान्येन विवक्षितम्, न तन्मध्यम् । तेन 'मध्ये व्योमः' इति युक्तम् । यथा वा. 'वाच्या वैचित्र्यरचनाचारुवाचस्पतेरपि ।
दुर्वचं वचनं तेन बहु तत्रास्म्यनुक्तवान् ॥' . अत्र नोक्तवानिति निषेधो विधेयः । यथा--
__'नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः' इत्यादौ । न चानुक्तवत्त्वानुवादेनान्यदत्र किंचिद्विहितम् । यथा
क्लिष्टम् ॥ व्योमैव प्राधान्येनेति । अत्र विश्वामित्रस्य तपःप्रभावप्रकर्षः प्रस्तुतः । स च तस्य निरुपकरणस्य सतः शून्यो व्योमनि खर्गसर्गसामर्थेनैव प्रतिपादितो भवतीति व्योमैव प्राधान्येन विवक्षितम्, न तन्मध्यम् ॥ निषेधो विधेय इति । प्रसन्यविषयत्वादित्यर्थः । यदुक्तम्-'अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रस
१. 'मुक्ततानु' प्रकाशे. . १. 'शून्य' स्यात्.
Page #185
--------------------------------------------------------------------------
________________
१७२
काव्यमाला। 'जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः ।
अगृनुराददे सोऽर्थानसक्तः सुखमन्वभूः ॥' अत्रात्रस्त इत्यनुवादेनात्मनो गोपनादि । वाक्यस्य यथा'शय्या शाडलमासनं शुचिशिला सभ द्रुमाणामधः
शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः। . इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने
दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ।' अत्र शाडुलानुवादेन शय्यादीनि विधेयानि । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषः, न वाक्यार्थस्य । एवं विध्यनुवादौ कर्तव्यो
ज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥' नसमासस्त्वनुपपन्नः । तस्य हि पर्युदास एव विषयस्तत्रैव विशेषणत्वानस्याद्यान्तेनोत्तरपदेन संवन्धोपपत्तेः । यदाह-'प्र‘धानत्वं विधेर्यत्र प्रतिषेधे प्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥' न । च पर्युदासाश्रयणं युक्तम्, अर्थस्यासंगतिप्रसङ्गात् । उक्तवत्वप्रतिषेधो यत्राभिमतः, नानुक्तवत्त्वविधिः । तस्मादस्य ननो विधेयार्थनिष्टतया प्राधान्यस्यानूद्यमानार्थपरतया तद्विपरीतवृत्तिना उक्तवच्छब्देन सह सदाचारनिरतस्येव पतितेन वृत्तिर्नेष्यत एवेति स्थितम् । यदाह-'नअर्थस्य विधेयत्वे निषेधस्य विपर्यये । समासो नेष्यतेऽर्थस्य विपर्यासप्रसङ्गतः ॥' इति ॥ शय्यादीनि विधेयानीति । यदाहुः-'अनुवाद्यमनुक्वैव न विधेयमुदीरयेत् । न ह्यलब्धास्पदं किंचित्कुत्रचित्प्रतितिष्ठति ॥ विधे. योद्देश्यभावोऽयं रूप्यरूपकत्वाभावः । न तत्र विधेयोक्तिरुद्देश्यात्पूर्वमिष्यते ॥' नै तु 'शाडलं शय्या शुचिशिला आसनम्' इत्येवं विपर्ययेणात्र संवन्धः करिष्यते, तस्य पुरुषाधीनत्वात् । तथा च न यथोक्तदोषावकाशो भविष्यतीति । सत्यम् । स सर्वविषयोऽयं संवन्धस्य पुरुषाधीनत्वोपगमः । तस्य हि विशेषणविशेष्यभाव एव विषयोऽवगन्तव्यो यत्र खसौन्दर्यादेव तयोरन्योन्याक्षेपः, न विध्यनुवादभावः । तदाहएवं चेति । विध्यनुवादयोर्यथाश्रुतपदार्थसंबन्धनिवन्धनोऽर्थप्रतीतिक्रम इति प
१. 'शाड्वलाद्यनु' स्यात्.
१. 'ञः स्याद्यन्ते' स्यात्. २. 'कभावतः । न हि तन' स्यात्. ३. 'ननु' स्यात. ४. 'न' स्यात्. ५. 'एवं वीति' स्यात्.
Page #186
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
'वक्तारवीनिवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घैटाश्च ।
मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहमेधिनस्ते ॥'
यथा वा
‘संरम्भः करिकीटमेघशकलोद्देशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल ।
१७३
इत्याशाद्विरदक्षयाम्बुदघटावन्धेऽप्यसंरब्धवा
न्योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिकाकेसरी || ' अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्र प्रतीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि । यत्र यत्तदोरेकतर निर्देशेनोपक्रमस्तत्र तत्प्रत्यवमर्शिना तदितरेणोपसंहारो न्याय्यः । तयोरप्यनुवा
दार्थपौर्वापर्य नियमो ऽवगन्तव्य इत्यर्थः । ततश्च यदनूद्यते तस्यादावुपादानमनुपपन्नम् । यस्तु विधीयते तस्य पश्चात् । 'विलिखने विलेपो भवति' इत्यादौ च तथैव दृष्टम् । तथा 'वृद्धिरादैच्' इत्यत्र भगवता महाभाष्यकारेणावस्थापितम् -- यदत्र मङ्गलद्योतनार्थमादौ वृद्धिशब्दस्योपादानं क्षमणीयम् ॥ अन्यथा देजनुवादेन वृद्धिसंज्ञा विधानात्पश्चादभिधानं कार्य स्यात्, यथा 'अदेङ्गुण:' इत्येवमादौ || 'प्रमाणमविसंवादि ज्ञानम् ' इत्यत्रापि 'यत्प्रमाणमिति लोके प्रसिद्धम्, तदविसंवादि ज्ञानमेवेति विज्ञेयम्' इति तात्पर्यार्थः । काव्येऽपि एपैव शैली । यथा-' -' इयं गेहे लक्ष्मीः' इत्यादि ॥ संरम्भ इति । अत्र करिणां कीटव्यपदेशेन तिरस्कारः, तोयदानां च शकलशब्दाभिधानेनादरः । सर्वस्येति । यस्य कस्यचित्तृच्छप्रायस्येति अवहेला । जातेश्व मात्रशब्दविशिष्टत्वे • नावलेपः हेलाशब्दाभिधानेनाल्पताप्रतिपत्तिरित्येतत्साधनतया कविनोपनिबद्धम् । असंरच्धवानित्यत्र वविमृष्टत्वविधेयांशत्वं प्रामादिकं तच्चानन्तरमेव दर्शितम् । पुनरविमृष्टविधेयांशत्वमेवाह – अत्र योऽसाविति । (ऐतदेव द्रढयितुं निदर्शयति-त्वत्कार
१. 'त्वक् तारवी निं' इति पाठो भवेत्. २. छन्दोनुरोधेन विधेयस्य गेहस्य प्राक्प्रयोगः प्रतिभाति. ३. कुम्भा इत्यर्थः.
१. 'एतदेकमाचार्यस्य मङ्गलार्थ मृष्यताम्' इति हि महाभाष्ये पाठः २. अयं धनुश्चिहान्तर्गतपाठः 'संरम्भ इति' इत्यादि ग्रन्थात्प्राक्तनो भवेत्. तारवी नि' इति भवेत्.
३. 'त्वक्
Page #187
--------------------------------------------------------------------------
________________
१७४
काव्यमाला। दविधेयार्थविषयत्वेनेष्टत्वात्, तयोश्च परस्परापेक्षया संबन्धस्य नित्यत्वात् । अत एवाहुः-'यत्तदोनित्यमभिसंबन्धः' इति । स चायमनयोरुपक्रमो द्विविधः-शब्दश्वार्थश्चेति । तयोरुभयोरुपादाने सति शाब्दो यथा___'यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।' तथा च-- 'स दुर्मतिः श्रेयसि यस्य नादरः स पूज्यकर्मा सुहृदां शृणोति यः ।' इति ।
एकतरस्योपादाने सत्यार्थः, तदितरस्यार्थसामर्थेनाक्षेपात् ।।
तत्र तृदः केवलस्योपादाने आर्थः प्रसिद्धानुभूतप्रक्रान्तविषयतया त्रिविधः।
तत्र प्रसिद्धार्थविषयो यथा-'द्वयं गतम्-' इत्यादि । अनुभूतविषयो यथा-'ते लोचने प्रतिदिशं विधुरे क्षिपन्ती' इति । प्रक्रान्तविषयो यथा--
'कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥' यदः पुनरुत्तरवाक्यार्थगतत्वेनैवोपात्तस्यार्थसंबन्धः संभवति, पूर्ववाक्यगतस्य तच्छब्दस्यार्थादाक्षेपात् । यथा-- 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके ।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ प्रागुपात्तस्य यच्छब्दस्य तच्छब्दोपादानं विना साकासतैव । यथात्रैव श्लोके आद्यपादयोर्विपर्यये। क्वचिदनुपात्तमपि द्वयं सामर्थ्याद्गम्यते । यथा
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान्प्रति नैष यनः । वीनिवसनमिति) ॥ ये नाम केचिदिति । नामशब्दोऽक्षमायाम् । यदुक्तम्
Page #188
--------------------------------------------------------------------------
________________
१७५ ।
३ अध्यायः] काव्यानुशासनम् ।
उत्पत्स्यते तु मम कोऽपि समानधर्मा
कालो ह्ययं निरवधिविपुला च पृथ्वी ॥' अत्र स कोऽप्युत्पत्स्यते यं प्रति यलो मे सफलो भविष्यतीत्युभयोरपि अर्थादाक्षेपः ॥ एवं च स्थिते तच्छब्दानुपादानेऽत्र साकासत्वम् । न चासावित्यस्य तच्छब्दार्थत्वं युक्तम् । यथा'असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥' अत्र हि न तच्छन्दार्थे प्रतीतिः । प्रतीतो वा--
'यस्य प्रकोपशिखिना परिदीपितोऽभू.
दुत्फुल्लकिंशुकतरुप्रतिमो मनोभूः । योऽसौ जगच्चयलयस्थितिसर्गहेतुः
पायात्स वः शशिकलाकलितावतंसः ॥' अत्र स इति पौनरुक्त्यं स्यात् ।
'नाम कुत्सप्रश्नविपादामपंप्रीतिसंख्यानृतानयसंभावनासु ।' ये केचिदिह प्रवन्धे देशकाले वास्माकमवज्ञां कुर्वन्ति, ते किमपि स्वल्पं किंचिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैप प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात् । लोकोत्तरं यनानन्तीति व्याख्यातं(?)तत्तेपामुपहासाय । कान्प्रति तींत्याह-उत्पत्स्यते विति । सारेतरविभागज उत्पत्स्यते कश्चिदिति संभाव्यते । एवमिति । तथा हि-सर्वेषामेव तावत्समासानां प्रायेण विशेषणविशेष्याभिधायिपदोपरचितशरीरत्वं नाम सामान्य लक्षणमाचक्षते । इतरथा तेषां समर्थतानुपपत्तेः । स च विशेपणविशेष्यभावो द्विधैव संभवतिसमानाधिकरणो व्यधिकरणश्चेति । तत्राद्यः कर्मधारयस्य विषयः । यत्र तु द्वे बहूनि वा पदान्यन्यस्य पदस्याथै विशेपणभावं भजन्ति सा बहुव्रीहेः सरणिः । तत्रैव यदा संख्यायाः प्रतिपेधस्य च विशेषणभावो भवेत्तदा द्विगोर्नसमासस्य च गोचरः। द्वितीयः प्रकारः कारकाणां संवन्धस्य च विशेषणत्वाद्वहुविधः स तत्पुरुषस्य पन्थाः । तत्रापि यदाव्ययार्थस्य विशेषणता स्यात्तदाव्ययीभावस्य परामर्शः। तदेवं समासानां विशेष
१. 'तेऽस्ति' इति मालतीमाधव-काव्यप्रकाशयोः २. 'योऽसौ कुत्र चम-' इत्युदाहृतश्लोक इति. ३. 'ब्दार्थप्रतीतिः' प्रकाशे. . .. १. 'ये जानन्ति' इति स्यात्.
Page #189
--------------------------------------------------------------------------
________________
१७६
काव्यमाला। णविशेष्योभयांशसंस्पर्शत्वेऽपि यदा विशेषणांशः स्वाश्रयोत्कर्षाधानमुखेन वाक्यार्थचमत्कारकारणतया प्राधान्येन विवक्षितौ विधेयधुरामधिरोहे दितरस्त्वनूद्यमानकल्पतया न्यग्भावमिव भजते तदासौ न वृत्तर्विषयो भवितुमर्हति । तस्यां हि स प्रधानेतरभावस्तयोरस्तमियात् । तच्चैतद्विशेषणमेकमनेकं वास्तु नानयोर्विशेषः कश्चित् । नन्वत्र विशेषणत्वमवच्छेदकत्वाद्गुणभावो विधेयत्वं च विवक्षितत्वाप्राधान्यं तत्कथं तयोर्भावाभावयोरिवान्योन्यविरोधादेकत्र समावेश उपपद्यते येनैकत्र नियमेन समासो निषिध्येतान्यत्र च विकल्प्येत । नैष दोषः । विरोधस्योभयवस्तुनिष्ठत्वात् शीतोष्णा दिवत् । न चेह वस्तुत्वमुभयोः संभवति । एकस्यैव वास्तवत्वादन्यस्य वैवक्षकत्वेन विपर्ययात् । न च वस्तुवस्तुनोविरोधः । न हि सत्यहस्तिनः कल्पना केसरिणश्च कश्चिदन्योन्यं विरोधमवगच्छति । फलभेदस्त्वनयोर्निर्विवाद एव । एकस्य हि सकलजगद्गम्यं शाब्दिकैकविषयपदार्थसंबन्धमात्रम् । अपरस्य पुनः कतिपयसहृदयसंवेदनीयः सत्कवीनामेव गोचरो वाक्यार्थचमत्कारातिशय इति । अत्र क्रमेणोदाहरणानि । तत्र कर्मधारये यथा-'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहुलक्ष्म्याः पुनातु ॥' अत्र विगलितकवरीभारत्वमलसलसद्वाहुत्वं चांसवपुषोर्विशेषणे रतेरुद्दीपनविभावतापादनेन वाक्यार्थस्य काममपि कमनीयतामा• वहत इति प्राधान्येन विवक्षितत्वान ताभ्यां सह समासे कविना न्यग्भावं गमिते । यथा चात्रैव तत्कालकान्तिद्विगुणितसुरतप्रीतित्वं हेतुभावगर्भ विशेषणं शौरेरुचिताचरणलक्षणमतिशयमादधद्विधेयतया प्राधान्येन विवक्षितमिति न तेन सह समासे निमी. लितम् । ‘पदमेकमनेकं वा यद्विधेयतार्थतां गतम् । न तत्समासमन्येन न चाप्यन्योन्यमर्हति ॥ तत्रैकमुदाहृतमेव । अनेकं यथा-'अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यन्त्रोल्लिखितो विभाति ॥ यथा च'विद्वान्दारसखः परं परिणतो नीवारमुष्टिंपचा सत्यज्ञाननिधिर्दधत्प्रहरणं होमार्जनी. हेतुतः । रे दुःक्षत्रिय किं त्वया मम पिता शान्तं मया पुत्रवानीतः कीर्त्यविशेषतां तदिह ते धिक् धिक् सहस्रं भुजाम् ॥ यथा वा-'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुवान्धवस्य मिषतः कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥' यथा च–'हे हस्त दक्षिण मृतस्य शिशोद्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणम् । भो रामपाणिरसनिर्भरगर्भखिन्नदेवीप्रवासनपटोः करुणा कुतस्ते॥' एवम् –'अङ्गराजसेनापते राजवल्लभ द्रोणापहासिन् , रक्ष भीमाहुःशासनम्' इत्यादौ द्रष्टव्यम् । विशेषणविशेष्यभा. वतुल्यफलो विध्यनुवादोऽपीति । तत्रापि तद्वदेव समासाभावोऽवगन्तव्यः । यथा'चापाचार्यस्त्रिपुरविजयी' इति । प्रत्युदाहरणं त्वेतेषामेव कृतसमासवै... ... कल्पनीयम् । बहुव्रीहौ यथा-'येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः । वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥' अत्रापि विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेष
Page #190
--------------------------------------------------------------------------
________________
३ अध्यायः
काव्यानुशासनम् ।
१७७
णतयोपात्तं तत्कर्तुर्मुनेरतिदुष्करकारितया कमपि तपःप्रभावप्रकर्षमेव द्योतयति ।।। विन्ध्यस्य प्रतिदिवसमुच्छ्याच्छादितार्कप्रकाशस्य जगदान्ध्यविधायित्वात्पयोनिधेरगाधत्वादपारत्वाच्च वातापेश्च मायापरिग्रहग्रस्तसमस्तलोकत्वात्ततस्तत्प्राधान्येन विवक्षितमिति न तैः सह समासे निजींवीकृतम् । प्रत्युदाहरणं यथा-'यः स्थलीकृतविन्ध्योऽदिराचान्तापारवारिधिः । यश्च तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ॥' केचित्पुनरनयोरुदाहरणप्रत्युदाहरणयोरर्थस्योत्कर्पापकर्पप्रतीतिभेदो न कश्चिदुपलभ्यत इति मन्यन्ते । ते इदं(एवं) प्रष्टव्याः-'किं भोः, सर्वेष्वेव समासेपु इयं तदप्रतीतिरुत वहुव्रीहावेवायं शापः' इति । तत्र यदि सर्वेष्वेवेत्यभ्युपगमस्तहि सहृदयाः साक्षिणः पृच्छ्यन्ताम् । वयं तावन्महदन्तरमेतयोः प्रतीत्योः पश्यामः । अथ बहुव्रीहावेवे. त्युच्यते, तदयुक्तम् । न हि प्रतीतिभेदहेतौ प्रतीतसामर्थे सत्यकस्मात्तदसंभवो भवितुं न्याय्यः । एवं हि क्षित्यादिसामग्र्यामविकलायामरादिकार्योत्पादाभावाभ्युपगमोऽपि प्रसज्यते । सर्वत्रैवायं प्रतीतिभेदोऽभ्युपगन्तव्यो नैव वा कुत्रचिन्न पुनरिदमर्धजरतीयं लभ्यते । इह प्रतीतिवैचित्र्यं स्पष्टमवधारयतु मतिमान् । यत्र विध्यनुवादभावाभिधित्सयैव पदार्थानामुपनिवन्धस्तत्रापि हि प्रधानेतरभावविवक्षानिवन्धनौ समासस्य भावाभावावुपगतावेव । यथा-'सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । खयं वृतः पतिभ्यामुर्वश्यावनुवाचयः ॥' अत्र हि त्रैलोक्यालंकारभू तौ . चराचरस्य जगतो जीवितायमानौ भगवन्तौ सूर्याचन्द्रमसौ प्रसिद्धावनूद्य यन्मातामहपितामहभावो विहितस्तत्तस्य पुरूरवसस्तो लोकोत्तरभयाभिजनजनितमभिमानं कामपि काष्ठामधिरोपयतो विशेपणविशेष्यभावाभिहितेनैव नयेनानाप्यनूद्यमानगतोऽतिशयो विधीयमानाकारसंक्रमणक्रमेण तत्संवन्धिनः पर्यवस्यति । तयोहि खरूपमानं भिन्नं फलं पुनः पारम्पर्येण वाक्यार्थोत्कर्पलक्षणमेकमेवेति प्राधान्येन विवक्षितत्वान्न तौ ताभ्यां सह समासे म्लानिमानीतौ । इह च–'जनको जनको यस्या याता तस्योचिता वधूः ।.आर्यस्य गृहिणी या च स्तुतिस्तस्यानपास्पदम् ॥' इति । द्विगौ यथा-'उपपन्नं ननु शिवं सप्तखनेयु यस्य मे । दैवीनां मानुपीणां च प्रतिकर्ता त्वमापदाम् ॥' इत्यत्र संख्यायाः संख्येयेष्वङ्गेषु निरवशेषताप्रतिपत्तिफलमतिशयमादधानायाः प्राधान्येन विवक्षा । तत एव हि तेषु द्विविधापत्प्रतीकारेण राज्ञः शिवोपपत्तिः परिपुष्यतीति तस्यास्तैः सह समासो न विहितः । यथा च-'निग्रहात्खसुराप्तानां वधाच्च धनदानुजः। रामेण निहितं मेनं पदं दशसु मूर्धसु ॥' प्रत्युदाहरणमेतदेवोदाहरणम् , कृतसमासवैशसं(पम्यं) द्रष्टव्यम् । नञ्समासविषयस्तु पूर्वमेव वितत्योपदर्शित उपपादितश्च । तत्पुरुपे कर्तुर्यथा-'देशः सोऽयमरातिशोणितजलैयस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितशास्त्रघस्मरगुरूण्यत्राणि भाखन्ति नो
१'शस्त्र प्रकाशे. २'मे' प्रकाशे.
Page #191
--------------------------------------------------------------------------
________________
१७८
काव्यमाला।
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' रामेणेति रामस्य कर्तृभावेन करणं प्रति यद्विशेषणत्वं तत्तस्य दारुणतातिरेकात्मकमुत्कर्ष रौद्ररसपरिपोषपर्यवसायिनं. समर्पयति । तस्य निरतिशयशौर्यशौण्डीर्यशालित्वेन घोरतरनैघण्यनिन्नतया च प्रसिद्धः। तेन तत्प्राधान्यान्न विशेष्येण सह समासे गुणतां नीतं कर्नादेः कारकस्यानेकस्य समशीर्षकया विशेषणभावेन यदुपादानं स द्वन्द्वस्य विषय इति तत्स्वरूपनिरूपणावसर एव तस्य प्राधान्यमप्राधान्यं चाभिधास्यत इति न तदुदाहरणमिहोपदर्शितम् । नापि विध्यनुवादभावोदाहरणं तस्य विशेषणविशेष्यभावतुल्यफलतया तत्समानवृत्तान्तत्वोपपादनात् । प्रत्युदाहरणं यथा-'यस्यावमत्स गुरुदत्तमिमं कुठारं डिम्भोऽपि राम इति नाम पदस्य हन्ता।' इति । कर्मणो यथा-'कृतककुपितष्पाम्भोभिः सदैन्यविलोकितैर्वनमसि गता यस्य प्रीत्या मृतापि तथा स्वया । नवजलधरश्यामाः पश्यन्दिशो भवती विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥' अत्र वनमिति यद्गमनक्रियायाः सीताविशेषणभूतायाः कर्मभावेन विशेषणं तत्तस्या रामप्रीतिप्रकर्षयुक्ताया अन्यकुलमहेलादुर्लभं दुष्करकारित्वं नामोत्कर्षमर्पयति । वनवासदुःखस्यातिकष्टत्वात् । स चोत्कर्षों रामस्य रतेरुद्दीपनतां प्रतिपद्यत इति प्रधानं न गतेत्यनेन सह समासे कविना तिरस्कृतम् । यथा च-गुर्वर्थमर्थी श्रुतपारदृश्वा रघोः सकाशा. दनवाप्य कामम् ।' इत्यत्र गुर्वर्थमित्यर्थिनोऽर्थक्रियामुखेन यद्विशेषणं तत्तस्य श्लाध्यतातिशयाधानद्वारेण रघोरुत्साहपरिपोषे पर्यवस्यतीति प्राधान्येन विवक्षितत्वानार्थिना सह समासे सताममतामवमतां गमितम् । संवर्धितानां सुतनिर्विशेषमिति । प्रत्युदाहरणं यथा-'प्रदक्षिणक्रियातीतस्तस्याः कोपमजीजनत् ।' इति । 'तमभ्यनन्दप्रथम प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः।' इति । यथा-'कामार्चितार्थिनाम्' इति । यथा--'कालप्रबोधिनाम्' इति च । करणस्य यथा-'आलोकमार्ग सहसा' इति । अत्र करणेति यत्केशहस्तकर्मकस्य संभाविता........"स्पारोधानस्य करणभावेन विशेषणं तत्तस्याः कस्याश्चिद्रभसौत्सुक्यप्रहर्षप्रकर्षरूपमतिशयं प्रतिपादयद्वधूवरयोरुपसंपदम. साधारणीमभिव्यनक्ति । यदवलोकनाधानव्यवधानाधायिनी तावतीमपि कालकलां विघ्नायमानां मन्यमानया सततस्वाधीनेनैकेन करकमलेन रोधोऽप्यस्य न कृतस्तेन तत्प्रधानमिति न रुद्ध इत्यनेन समासेऽस्तमुपनीतम् । यथा च कर्तुमक्षमया मानं प्राणेशः प्रत्यभेदि यत् । सोऽयं सखि स्वहस्तेन समाकृष्टस्त्वयानलः॥ इति । प्रत्युदाहरणं यथा-'धाना खहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ।' इति । संप्रदानस्य यथा---'पौलस्त्यः स्वयमेव याचत इति श्रुला मनो मोदते देयो नैष हरप्रसादपरशुस्तेनाधिकं ताम्यति । तद्वाच्यः स दशाननो मम गिरा दत्त्वा द्विजेभ्यो महीं तुभ्यं ब्रूहि रसातलत्रिदिवयोनिर्जित्य किं दीयताम् ॥' अत्र द्विजेभ्य इति निर्जयपूर्वकस्य भार्गवकर्तृकस्य महीदानस्य संप्रदानत्वेन यद्विशेषणं तन्मयाः पात्रसाकरणेनोत्कर्षमादधद्भार्गवशौर्यातिरेकाभिव्यञ्जनेन दशाननस्य क्रोधोद्दीपनपर्यवसायि
Page #192
--------------------------------------------------------------------------
________________
३ अध्यायः ]
काव्यानुशासनम् ।
१७९
भवतीति प्राधान्येन विवक्षितत्वान्न दत्तेत्यनेन सह समासे कविना विच्छायीकृतम् । प्रत्युदाहरणमेतदेव पूर्ववद्द्रष्टव्यम् । अपादानस्य यथा -- ' ताताजन्मवपुर्विलति वियत्क्रौर्य कृतान्ताधिकं शक्तिः कृत्स्नसुरासुरोष्मशमनी नीता तथोच्चैः पदम् । सर्वे वत्स भवातिशायि निधनं क्षुद्रान्नु यत्तापसात्तेनाहं त्रपया शुचा च विवशः कष्टां दशामा - गतः ॥' अत्र तातादिति क्षुद्रान्नु यत्तापसादिति च ये जन्मनिधनयोरपादानभावेन विशेषणे ते तातस्य [पितामह] पितामहतया महामुनिपुलस्त्यापत्यतया च क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्पापकर्पद्वारेण तद्वतः कुम्भकर्णस्य कामपि कुलीनतां शौर्यापक चादधाने भ्रातुर्दशाननस्य शोकत्रपापावकेन्धनत्वभावेन परिणमत इति प्राधान्येन विवक्षितेन ताभ्यां सह समासे गुणतां गमिते । प्रत्युदाहरणं यथा - अत्रैव 'कौर्य कृतान्ताधिकम्' इति । यथा च ' आसमुद्र क्षितीशानाम्' इति । अधिकरणस्य यथा— 'शैशवेऽभ्यस्त विद्यानां यौवने विषयैपिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥' अत्र शैशव इत्यादीनि यान्यभ्यस्त विद्यात्वादीनामधिकरणभावेन विशेपणानि तानि तेपामितरान्वय वैलक्षण्यलक्षणमतिशयमादधानानि रघूणां यथौचित्यं नयविनयादिसंपदमुन्मीलयन्तीति प्राधान्येन विवक्षितत्वान्न तैः सह समासे समशीर्षिकां नीतानि । प्रत्युदाहरणं यथा - 'रेणुरक्तविलिप्ताङ्गो विकृतो व्रणभूषितः । कदा दुःप्र. त्यभिज्ञातो भवेयं रणभूषितः ॥' संबन्धस्य यथा - 'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । इति । यत्समागमप्रार्थनायाः शोचनीयतां गतौ हेतुत्वेनोपात्तायाः संबन्धिद्वारेण विशेषणं तत्तस्यास्तत्र यत्सामर्थ्य तत्सुतरामुपबृंहयति । तस्य सकलामङ्गलनिलयतया निन्दिताचारनिरततया च दर्शनस्पर्शन संभाषणादीनामपि प्रतिषिद्धत्वात् । अतो विधेयार्थतया प्राधान्येन विवक्षितं न विशेष्येण सह समासे ! प्रत्यरीकृतम् । यथा च 'स्कन्दस्य मातुः पयसां रसज्ञः' इति । 'कः क्षमेत तवानुजम्' इति । प्रत्युदाहरणं तु 'किं लोभेन विलङ्घित:-' इति दर्शितमेव । यथा च'जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥' इति । अत्र हि हरेः संवन्धित्वेन चक्रस्य जयाशास्पदत्वमिति हरेरेव प्राधान्यविवक्षा न चक्रमानस्य । तच्च तस्य समासेऽस्तमुपगतम् । विभक्त्यन्वयव्यतिरेकानुविधायिनी हि विशेषणानां विधेयतावगतिः । तत एव चैषां विशेष्ये प्रमाणान्तरसिद्धत्वात्कर्पापकर्पाधायिनां शाब्दे गुणभावेऽव्यार्थ प्राधान्यम् । विशेष्याणां च शाब्दे प्राधान्येऽप्याथों गुणभावोऽप्यनूयमानत्वात् समासे च विभक्तिलोपानोत्कर्पापकर्पावगतिरिति न तन्निबन्धनारसाभिव्यक्तिरिति तदात्मनः काव्यस्येदमविमृष्टविधेयांशत्वं दोषतयोक्तमिति । अव्ययीभावे यथा - ' सा दयितस्य समीपे नावस्थातुं न चलितुमुत्सहते । हीसाध्वसरसविवशा स्पृशति दशां कामपि नवोढा ॥' इत्यत्र दयितस्येति संबन्धितया यत्समीपस्य विशेषणं तत्तस्य सुकृतशतलभ्यतालक्षणमुत्कमादरुद्दीपने पर्यवस्यतीति प्राधान्येन विवक्षितत्वान्नोपदयितमितिवत्समीपार्थ
,
"
Page #193
--------------------------------------------------------------------------
________________
१८०
काव्यमाला।
नाव्ययेन सह समासेऽवसादं गमितम्।प्रत्युदाहरणं तु 'मध्ये व्योम-' इत्यादि प्रदर्शितमेव । । अनेनैव न्यायेन कृत्तद्धितवृत्त्योरपि प्रतिषेधोऽवगन्तव्यः । तत्राप्युतक्रमेण प्राधान्येन रसभावविवक्षाविशेषात् । तयोरुदाहरणं यथा-'यः सर्व कषति खलो विभर्ति यः कुक्षिमेव सत्यतिथौ । यस्तु विधुं तुदति सदा शीर्षच्छेदं त्रयोऽपि ते हंसी ॥' इत्यत्र सर्वादीनां कर्षणादिषु कर्मभावेन विशेषणतयोपात्तानामुत्कर्षाभिधायितया प्राधान्येन विवक्षितत्वान तैः सह वृत्तौ न्यग्भावो विहितः । सर्वार्थस्य भुवनाभयदानदीक्षावद्धकक्षाणां वोधिसत्त्वानामपि चरितस्य तदन्तःपातित्वात् । खलाः खलु दम्भादिदोषारोपेण तदपि तेषां कषन्त्येव । कायोपलक्षणस्य कुक्षेः कायस्य सर्वाशुचिनिधानत्वाद्विनश्वरत्वाच्च । विधोश्च सकलजगदानन्दहेतुत्वात्कषणादिष्वकार्यकारितयापराधातिरेकलक्षणमुत्कर्षमादधतां प्राधान्येन विवक्षा शीर्षच्छेदस्य च शरीरेपु निग्रहेषु तदतिरिक्तस्यान्यस्यासंभवात् । यथा च-'रामोऽस्मि सर्व सहे' इति । उचितकारित्वं प्रति किमुच्यते । रामभद्रस्य दशरथप्रसूतिरसाविति च । प्रत्ययोत्पत्तिः पुनर्त्यग्भूतसर्वादिकर्मभावः कषणादिषु कर्नेश एवोन्मन्नतया प्रकाशेत न कौशस्तत्रैव प्रत्ययो. त्पत्तेः । वाक्ये तु यद्यपि शब्दवृत्तेन क्रियायाः प्रधानभावेन प्रतीतिः तथापि तत्रान्या । विवक्षा कृतः साधनानामपि सा प्रतीयत एव । न चैकस्मिन्नेव वाक्ये द्वयोः साध्य. । साधनयोयुगपत्प्रधानभावोऽनुपपन्न इति शक्यं वक्तुम् । शब्दार्थसामर्थ्य विवक्षाकृतानां
त्रयाणामप्येकस्यैव विवक्षाकृतस्य प्राधान्यस्य बलीयस्तया तयोः समशीर्षिकाभावात् । तदिदमत्र तात्पर्यम् । यत्कथंचिदपि प्रधानतया विवक्षितं न तनियमेनेतरेण सह | समासमहतीति । इतरच विशेष्यमन्यद्वास्तु न तत्र नियमः तेन द्वन्द्वपदानां । खरूपाणां च पदानामर्थस्यान्योन्यं विशेषणविशेष्यभावाभावेऽपि यदा प्रत्येक क्रिया
संवन्धोपगमलक्षणं प्राधान्यं विवक्ष्यते तदा तेषामपि समास एकशेषश्च नेष्यत एव । यथा-'किमञ्जनेनायतलोचनाया हारेण किं पीनपयोधरायाः । पर्याप्तमेतननु मण्डनं ते रूपं च कान्तिश्च विदग्धता च ॥' अत्र रूपादीनां प्रत्येकं मण्डनक्रियाभिसंवन्धकृतं प्राधान्यं रत्युद्दीपनपर्यवसायि विवक्षितमिति न तत्तेषां समासेऽवसादितम् । यथा च'यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवन्तशतपत्रनिभं वहन्त्या । दिग्धामृतेन च विषेण च पक्ष्मलाक्ष्या गाद निखात इव मे हृदये कटाक्षः ॥' इति । एकशेषे यथा'प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । कश्च कश्च स कर्णारिः स च क्रूरो वृकोदरः ॥' इति । प्रत्युदाहरणमेतदेव कृतैकशेपमवगन्तव्यम् ॥ अन पुनरेष प्रधा. नेतरभावो न विवक्षितः खरूपमात्रप्रतिपत्तिफलश्च विशेषणविशेष्यभावस्तत्र समासासमासयोः कामचारः । यथा-'स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकानेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥' इत्यत्र भवत इति रिपुस्त्रीणामिति च रिपुस्त्रीणां स्तनयुगस्य च संवन्धित्वेन यद्विशेषणं न ततस्तेषामुत्कर्पयोगः कश्चिद्विवक्षितः । अपि तु तत्संवन्धप्रतीतिमानं तच्च व्रतमिव भवदरिवधूस्तनद्वयमित्यतः
Page #194
--------------------------------------------------------------------------
________________
:
३ अध्यायः ]
काव्यानुशासनम् ।
१८१
समासादपि तुल्यमेव । यथा चात्रैव रिपुस्त्रीणामिति रिपुसंवन्धमात्रप्रतीतिः स्त्रीणामिति । 'विनोत्कर्षापकर्षाभ्यां वदन्तेऽर्था न जातुचित् । तदर्थमेव कवयोऽलंकारं 'पर्युपासते ॥ तौ विधेयानुवाद्यत्वविवक्षैकनिबन्धनौ । सा समासेऽस्तमायातीत्य सकृत्प्रतिपादितम् ॥ अत एव हि वैदर्भी रीतिरेकैव शस्यते । यतः समाससंस्पर्शस्तत्र नैवोपपद्यते । संवन्धमात्रमर्थानां समासो यंववोधयेत् ॥' नोत्कर्षापकर्ष वा । यथा - 'ऊर्धा - क्षितापगलितेन्दुसुधालंवत्के जीवत्कपालचयमुक्तमहागृहासम् । संत्रस्तमुग्धगिरिजावलिताङ्गसङ्गहृष्टं वपुर्जयति हारि पिनाकपाणेः ॥' वाक्यात्तूभयमप्यदः । यथा --- 'न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिक् धिक् शक्रजितं प्रवोधितवता किं कुम्भकर्णेन वा स्वर्गग्राम टिकाविलुण्ठनवृथोच्छ्नैः किमेभिर्भुजैः ॥' इति । तथा हि । मम अरय इति बहुवचनेन शत्रु शत्रुमद्भावो ममानुचित इति संवन्धानौचित्यं क्रोधविभावो व्यज्यते । तपो विद्यते यस्येति पौरुषकथाहीनत्वं तद्धितेन मत्वर्थीयेनाभिव्यक्तम् । तत्रापिशब्देन निपातसमुदायेन तापसस्य सतः शत्रुताया अत्यन्तासंभाव्यमानत्वमभिव्यक्तम् । मत्कर्तृका यदि जीवनक्रिया तदा हननक्रिया तावदनुचिता तस्यां च स कर्ता । अपिशब्देन मानुषमात्रकः । अत्रैवेति मदधिष्ठितो देशोऽधिकरणम् । निःशेषेण हन्यमानतया राक्षसवलं च कर्मेति । तदिदमसंभाव्यमुपनतमिति पुरुषकारासंपत्तिर्ध्वन्यते । रावण इति । येन इन्द्रपुरविमर्दनादि किं किं न कृतमिति । धिग्धिगिति निपातेन शक्रजितमित्युपपदसमासेन सह कृता च शक्रं जितवानित्याख्यायिकेयमिति व्यज्यते । स्वर्गेत्यादिसमासस्य स्वपौरुपानुस्मरणं प्रति व्यञ्जकत्वम् । ग्रामटिकेति स्वार्थिकतद्वितप्रयोगेण स्त्रीप्रत्ययसहितेनावहुमानास्पदत्वं व्यज्यते । विलुण्ठनशब्दे विशब्दस्योपसर्गस्य निर्दयावस्कन्दव्यञ्जकत्वं वृथाशब्देन स्वात्मपौरुपनिन्दा व्यज्यते । भुजैरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यते इति । किं तु प्रवृत्तिरेतस्य रसाभिव्यत्तत्यपेक्षया शान्तश्टङ्गारकरुणानन्तरेण प्रशस्यते । 'यतः समासो वृत्तं च वृत्तयः काकवस्तथा । वाचिकाभिनयात्मत्वासाभिव्यक्तिहेतवः । स चान्तावधिः कार्यो नाधिको गद्यताप्तितः । गये हि वृत्तवैकल्यान्यूना तद्यक्तिहेतुता ॥' यथानन्तरोक्ते उदाहरणे - ' तस्याभिन्नः पदार्थानां संवन्धश्चेत्परस्परम्। न विच्छेदोऽन्तरा कार्यो रसभङ्गकरो हि सः ॥ यथा - 'माद्यद्दिग्गजगण्डभित्तिकषणैर्भग्नसवञ्चन्दनः' इति । अत्र हि 'क्षुण्णस्रवच्चन्दनः' इति युक्तः पाठः । विधेयत्वं चैतत्प्राधान्यापलक्षणमव्यभिचारात् । ततश्च प्रधानाविमर्शोऽपि दोषतयावगन्तव्यः । यथा - 'स्नेहं समादिशति कजलमादधाति सर्वान्गुणान्दहति पात्रमधः करोति । योऽयं कुशानुकणसंचयसंभृतात्मा दीपः प्रकाशयति तत्तमसो महत्त्वम् ॥' अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा नान्यासामिति तासां तत्समशीर्षिकया 'निर्देशो दोष एव । स च तत्र शत्रादिभिरेव वक्तुं न्याय्यो नाख्यातेन । यथा-'विभ्राणः शक्तिमाशु प्रशमितचलवत्तार कौर्जित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्र
1
•
Page #195
--------------------------------------------------------------------------
________________
१८२
काव्यमाला।
अथ-- 'योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः ।
आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥' इत्यादौ इदमदाप्रभृतयः शब्दाः तच्छब्दार्थमभिदधतीत्युच्यते । तर्हि यथादर्शनं व्यवहितानामेवोपादानं युज्यते । अव्यवहितत्वे हि प्रत्युत तदितराकाङ्क्षा भवत्येव । यथा_ 'यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुते
____तदाचष्टे लोकः' इत्यत्र ।
'सोऽयं वरः श्याम इति प्रसिद्धस्त्वया पुरस्तादुपयाचितो यः' इत्यादौ च । अथ
'स्मृतिभूः स्मृतिभूर्विहितो येनासौ रक्षतात्क्षतायुष्मान् ।' इत्यादावव्यवहितत्वेऽपि दृश्यते । तर्हि अत्रैव भिन्नविभक्तिकानां सोऽस्त्वित्यलम् । यथा वा'किं लोभेन विलचितः स भरतो येनैतदेवं कृतं ___ मात्रा स्त्रीलघुतां गता किमथ वा मातैव मे मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोऽसौ गुरु
र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥'
कान्तावभासम् । आधिक्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥' इत्यादौ सर्वासां पुनः प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः । यथा-'सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवी द्वारानश्यति चित्रकेलिसदसो वेषं विषं मन्यते । आस्ते केवलमब्जिनी किसलयप्रस्तारशय्यातले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥' 'यत्रैककर्टकानेका प्राधान्येतरभालिया। तत्राख्यातेन वाच्याद्या शत्राद्यैरपरा पुनः ॥' इत्यन्तर श्लोकः । अयं च समासासमासविषयः सूक्तरत्नपरीक्षाव्यसनैकरसिकतया पदवाक्यविवेकानवधारणेन प्रदर्शि
Page #196
--------------------------------------------------------------------------
________________
३ अध्यायः] .. काव्यानुशासनम् । १८३
अनार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरेष्वप्युदाहार्यम् । विरुद्धबुद्धिकृत्वं पदस्य यथा
. 'गोरपि यद्वाहनता प्राप्तवतः सोऽपि गिरिसुतासिंहः । . सविधे निरहंकारः पायाद्वः सोऽम्बिकारमणः ।।'
अत्राम्बिकाया गौर्या रमण इति विवक्षितम् , मातृरमण इति विरुद्धां । धियमुत्पादयति। . यथा-- 'सहस्राक्षैरङ्गैर्नमसितरि नीलोत्पलमयी
मिवात्मानं मालामुपनयति पत्यौ दिविषदाम् । जिघृक्षौ च क्रीडारभसिनि कुमारे सह गणै
हंसन्वो भद्राणि गुढयतु मृडानीपरिवृढः ।। अत्र मृडानीपरिवृढ इति मृडान्याः पत्यन्तरे प्रतीतिं करोति । ... 'चिरकालपरिप्राप्तिलोचनानन्ददायिनः ।।
कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥ अत्र कण्ठग्रहमिति वाच्यम् । वाक्यस्य यथा--- । 'अनुत्तमानुभावस्य परैरपिहितौजसः । . अकार्यसुहृदोऽस्माकमपूर्वास्तव कीर्तयः ।
सत्रापकृष्टश्छादितमकार्येषु मित्रम् । अः पूर्वो यासां ता अकीर्तय इति विरुद्धा प्रतीतिः । कचिद्गुणो यथा
'अभिधाय तदातदप्रियं शिशुपालोऽनुशयं परं गतः । . भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ अत्रानुशयमिति पश्चात्तापं कोपं च । अभिमना इति प्रसन्नमना
१. आर्यानुज इत्येतत्स्थाने 'आर्यस्यानुजः' इति, तातकलनमित्यस्य स्थाने 'तातस्य कलत्रम्' इति वाच्यमित्यर्थः,
Page #197
--------------------------------------------------------------------------
________________
१८४
काव्यमाला। निर्भयचित्तश्च । माननामिति पूजां निर्बहणं च । अत्र विपरीतार्थकल्पनाविरुद्धत्वेऽपि संध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद्गुणत्वम् ॥
अथार्थदोषाः
कष्टापुष्टव्याहतग्राम्याश्लीलसाकासंदिग्धाक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्ग-यप्रसिद्धिविद्याविरुद्धत्यक्तपुनरातपरिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य ।
दोषा इति वर्तते । कष्टादगम्यत्वात्कष्टत्वमर्थस्य । यथा-५ 'सदामध्ये यासाममृतरसनिःस्यन्दसरसं
सरखत्युद्दामा बहति बहुमार्गा परिमलम् । प्रसादं ता एता घेनपरिचयाः के न महतां
महाकाव्य योनि स्फुरितरुचिरा यान्तु रुचयः ॥ यासां कविरुचीनां प्रतिभारूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमारविचित्रमध्यमात्मकत्रिमार्गा सरस्वती भारती परिमलं चमत्कारं वहति, ताः कविरुचयो महाकाव्यव्योनि सर्गबन्धलक्षणे परिचयगताः कथमभिनेयकाव्यवत्प्रसादं यान्तु । तथा यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति, ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥ प्रकृतानुपयोगोऽपुष्टार्थत्वम् । यथा-/
'तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् ।
फालेन लङ्घयामास हनूमानेष सागरम् ॥ अत्र तमालश्यामलादयोऽनुपादानेऽपि प्रकृतमर्थ न बाधन्ते इत्यपुष्टाः । यथा वानुप्रासे
भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत्कि त्वदीयं मे ॥' १. 'मियममृतनिष्यन्दसुरसा' प्रकाशे. २. 'धनपरिचिताः केन' प्रकाशे. ३. 'स्फुरितमधुरा' प्रकाशे.
Page #198
--------------------------------------------------------------------------
________________
काव्यानुशासनम् ।
'अनणुरणन्मणिमेखलमविरतसिञ्जानमञ्जुमञ्जीरम् | परिसरणमरुणचरणे रणरणक्रमकारणं कुरुते ॥ अत्र वर्णसावर्ण्यमात्रं न पुनर्वाच्यवैचित्र्यकणिका काचिदस्तीत्यपुष्टा
र्थत्वम् ॥
३ अध्यायः ]
पूर्वापरव्याघातो व्याहतत्वम् । यथा-
'जहि शत्रुकुलं कृत्स्नं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥' अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः ॥ अवैदग्ध्यं ग्राम्यत्वम् । यथा -
✓
'स्वपिति यावदयं निकटे जनः, स्वपिमि तावदहं, किमपैति ते । इति निगद्य शनैरनुमेखलं मम करं खकरेण रुरोध सा ॥' व्रीडादिव्यञ्जकत्वमश्लीलत्वम् । यथाV ' हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः ॥'
एतद्वाक्यं खलेषु प्रयुज्यमानं शेफसि प्रतीतिं जनयति । इहान्वयव्यतिरेकाभ्यामर्थस्यैवाश्लीलत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः ॥
साकाङ्क्षत्वम् । यथा -
'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः, प्रत्युत द्रुह्यन्दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
१८५
उत्कर्षं च परस्य, मानयशसोर्विस्रंसनं चात्मनः, स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥' अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्क्षति न हि परस्येत्यनेन संबन्धो योग्यः ।
·
यथा च
――――
'गृहीतं येनाशीः परिभवभयान्नोचितमपि,
प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
तोsपि सहृदयैः स्वयमेव तद्विवेकेन परामर्शनीयः ॥ स्वपितीति । निद्राति ॥
१. 'ऽस्य' प्रकाशेः २. 'सी' प्रकाशे.
२४
Page #199
--------------------------------------------------------------------------
________________
१८६
काव्यमाला। परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया
द्विमोक्ष्ये शस्त्र त्वामहमपि यतः खस्ति भवते ॥' यत इति तत इत्यत्रार्थे । अत्र शस्त्रमोचनं हेतुमाकासति । यत्र त्वाकाला नास्ति तत्र न दोषः । यथा'चन्द्रं गता पद्मगुणान्न भुङ्क्ते, पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥
अत्र रात्रौ पद्मस्य संकोचः, दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति 'न भुते' इति हेतुं नापेक्षते ॥1/
संशयहेतुत्वं संदिग्धत्वम् । यथा'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ अत्र प्रकरणाद्यभावे संदेहः, (शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः)॥ प्रधानस्यार्थस्य पूर्व निर्देशः क्रमस्तदभावोऽक्रमत्वम् । यथा---
'तुरगमथ वा मातङ्गं मे प्रयच्छ मदालसम्-' अत्र मातङ्गस्य प्रानिर्देशो न्याय्यः। यदा तूदारसत्त्वो गुर्वादिर्बलाद्राह्यमाणस्तुरगमित्यादि च वक्ति तदा न दोषः । क्रमानुष्ठानाभावो वाक्रमत्वम् । यथा-- 'कोराविऊण खउरं गामउडो मज्जिऊण जिमिऊण ।
नक्खत्तं तिहिवारे जोइसिओ पुच्छिओ चलिओ ॥ क्वचिदतिशयोक्तौ गुणः । यथा
'पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥'
खपिमीति । कामये ॥ हेतुमाकाकृतीति । तेन निर्हेतुः पृथडा वाच्यः साकला
१. 'कारयित्वा क्षौरं ग्रामवृद्धो मज्जित्वा भुक्त्वा च ।
नक्षत्रं तिथिवारौ ज्योतिषिकं प्रष्टुं चलितः ॥ इति छाया. २. 'जेमिम अ' प्रकाशे.
Page #200
--------------------------------------------------------------------------
________________
__
आनान्द
__३ अध्यायः] काव्यानुशासनम् ।
१८७ यत्र तदेशिनामनुद्देशिनां च क्रमभ्रंशोऽक्रमखम् । यथा-1
'कीर्तिप्रतापौ भवतः सूर्याचन्द्रमसोः समौ ।' इति । तत्र पदरचना विपरीतेति भग्नप्रक्रमत्वलक्षणो वाक्यस्यैव दोषो न वाक्यार्थस्येति ॥ द्विरभिधानं पुनरुक्तम् । यथा--- 'प्रसाधितस्याथ मधुद्विषोऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ।
च पुष्पशेषेऽखिललोककान्ता सानन्यकाम्या झुरसीतरा नु।' इत्युक्त्वैकार्थमेवाह । 'कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।
आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥' .' यथा वा-'अश्वीयसंहतिभिरुद्धतमुद्धराभिः। अश्वीयेति समूहार्थायाः प्रकृतेः संहतेश्च पौनरुक्त्यम् । यथा- . . 'छायामपास्य महतीं परिवर्तमाना
. मागामिनी जगृहिरे जनतास्तरूणाम् ।' अत्र जनता इति तद्धितार्थस्य बहुवचनार्थस्य च । तथा---'पायात्स . शीतकिरणाभरणो भवो वः।' अत्र विशेषणाद्विशेष्यप्रतिपत्तौ भव इत्यस्य । यत्र तु विशेषणान्न विशेष्यमांत्रस्य प्रतीतिरपि तु तद्विशेषस्य तत्र पौनरुत्त्यमेव नास्ति । यथा'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यो हरस्यापि पिनाकपाणेधैर्यच्युतिं किं मम धन्विनोऽन्ये ॥'
अत्र हरशब्दस्य । यथात्र कुसुमायुधोऽपीत्यस्माद्विशेष्योपादानमन्तरेणाप्युभयार्थप्रतिपत्तिस्तद्वदत्रापि भविष्यति । नैवम् । सप्तम्युत्तमनिर्देशेनैवास्मदर्थस्य विशेषस्य प्रतिपादितत्वात् । । एवं धनुर्व्यादिपदेष्वपि विशेषप्रतिपत्तौ न पौनरुत्यम् । यदाह'धनुर्ध्याशब्दे धनुःश्रुतिरारूढेः प्रतिपत्यै' इत्यादि । यथा
'धनुर्व्याकिणचिडून दोष्णा विस्फुरितं तव ।'
Page #201
--------------------------------------------------------------------------
________________
काव्यमाला।
अन्न धनुःशब्दादारूढेः प्रतिपत्तिः । 'दोलाविलासेपु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।'
'लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' 'अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
आययुभृङ्गमुखराः शिरःशेखरशालिनः ॥' एषु कर्णश्रवणशिरःशब्देभ्यः संनिधानस्य प्रतिपत्तिः ।
'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण हसता हसतीव स्तनद्वयम् ॥' अत्र मुक्ताशब्दाच्छुद्धिप्रतीतिः। 'प्रायशः पुष्पमालेव कन्यका कं न लोभयेत् ।' अत्र पुष्पशब्दादुत्कर्षप्रतीतिः । 'त्यज करिकलभ प्रेमबन्धं करिण्याः ।' अत्र करिशब्दत्वात्ताद्रप्यावगतिः । यत्र तु न विशेषप्रतिपत्तिर्यथा-'ज्याबन्धनिष्पन्दभुजेन यस्य' इति, 'अदादिन्द्राय कुण्डले' इति, 'पाण्ड्योऽयमंसार्पितलम्बहारः' इति, 'मालाकार इवारामः' इति, 'लब्धेषु वर्त्मसु सुख कलभाः प्रयान्ति' । इति च, तत्र केवला एव ज्यादिशब्दाः, न च नितम्बकाञ्चयोष्ठकरभादिषु तथा प्रसङ्गः । तेषां कविभिरप्रयुक्तत्वात् । संकेतव्यवहाराभ्यां हि शब्दार्थनिश्चय इति । कचिद्गुणो यथा
'प्राप्ताः श्रियः सकलकामदुधास्ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम् ।
एवान्तर्भावादिति ॥धनुःशब्दादिति । अन्यथा ज्याकिणचिन दोणेत्युक्तेऽनवरतढाकर्षणाहितकिणमण्डितलं दोष्णो न प्रतीयेत । वेष्टयमानेऽप्यमानया न्यया । कृतकिणचिहस्य संभवात् ॥ कर्णेति । विलासनिर्वाहाथै प्रतिनियतवदेशसंनिहितै-- राभरणैः प्रयोजनमिति तदर्थं प्रयुक्तेभ्य इत्यर्थः ॥ मुक्ताशब्दादिति । उत्प्रेक्ष्यमाणस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवलताप्रतिपत्तये साधकतमस्य हारस्य केवलमुक्तालतावेष्टितत्वप्रतीत्यर्थ प्रयुक्तात् ॥ पुष्पशव्दादिति । विदग्धजनमनोविलोभनक्षमकन्यारत्नोपमानभावेन मालाया उपादानादुत्कृष्टपुष्पग्रथितलागमनाय प्रयुक्तादि
१. 'लसता' प्रकाशे.
Page #202
--------------------------------------------------------------------------
________________
३ अध्यायः काव्यानुशासनम् ।
१८९ संप्रीणिताः प्रणयिनो विभवैस्ततः किं
___ कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ ___ अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत रसपोषाय । यदाह
'वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् ।
यत्पदमसकृते तत्पुनरुक्तं न दोषाय ॥' इति । उचितसहचारिभेदो भिन्नसहचरखम् । यथा-1 'श्रुतेन बुद्धिर्व्यसनेन मूर्खता, मदेन नारी, सलिलेन निम्नगा । निशा शशाङ्केन, धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता ॥' अत्र श्रुतवुद्धयादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोनिकृष्टयोभिन्नत्वम् । विरुद्धं व्यङ्गचं यस्य तद्भावो विरुद्धव्यङ्गयत्वम् । यथा--
'इदं ते केनोक्तं कथय कमलातङ्कवदने ___ यदेतस्मिन्हेम्मः कटकमिति धत्से खलु धियम् । इदं तदुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्र करकमलमूले विनिहितम् ॥' अत्र कामस्य चक्र लोकेऽप्रसिद्धम् । 'लग्नं रागावृताङ्गया-' इति । अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते ।। प्रसिद्ध्या विद्याभिश्च विरुद्धत्वम्, तत्र प्रसिद्धिविरुद्धत्वम् । यथा--
'उपपरिसरं गोदावर्याः परित्यजताध्वगाः - सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशयां
___ चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥' अत्र पादाघातेनाशोकस्य पुष्पोद्गम एव कविषु प्रसिद्धो नाङ्करोगमः ।
१. 'संतर्पिता:' प्रकाशे.
Page #203
--------------------------------------------------------------------------
________________
१९०
काव्यमाला। यथा वानुप्रासे----- 'चक्री चक्रारपति हरिरपि च हरीन्धूर्जटिवूर्वजान्ता
नृक्षं नक्षत्रनाथोऽरुणमपि वरुणस्तुम्बरागं कुबेरः । रंहःसंघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ।। अत्र कर्तृकर्मप्रतिनियमेन स्तुतिरनुप्रासानुरोधेनैव कृता न पुराणादिषु तथा प्रतीता । कदाचिच्चक्रिणश्चक्रारप्रियत्वं संभाव्येतापि तु उत्तराणि तु न तथा संगच्छन्ते इति प्रसिद्धिविरोधः । ___ यथा वोपमायाम्-'ग्रश्नामि काव्यशशिनं विततार्थरश्मिम् ।' अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्यं न प्रसिद्धम् । तथा--
'चकास्ति वदनस्यान्तः स्मितच्छाया विकासिनः ।
उन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथा ॥ . अत्र मध्यगतचन्द्रिकयारविन्दस्योन्निद्रत्वमसंभवमिति प्रसिद्धिविरुद्धत्वम् ।
कलाचतुर्वर्गशास्त्राणि विद्या । कलाश्च गीतनृत्यचित्रकर्मादिकाः । तत्र गीतविरुद्धत्वम् । यथा---
'श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः ___ सततमृषभहीनं भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकि श्रावकस्निग्धकण्ठाः
परिणतिमिति रात्रेर्मागधा माधवाय ॥ . श्रुतिसमधिकमिति । श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः। पीडयन्त इति श्रुतिहासेनाल्पीकुर्वन्त इत्यर्थः । भिन्नकीकृत्य षड्जमिति । भिन्नषड्ज कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्यामायात् । अत्र भिन्नषड्जेन माधवी(गधी) गीतिरुपनिबद्धा । तस्यां च पञ्चमस्य ऋषभवदसंभव एव दूरे पुनः श्रुतिसमधिकत्वम् । यतो भिन्नषड्जस्येदं लक्षणम्-'धांशस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । षड्जोदीच्यवती जातेभिन्नषड्ज उदाहृतः ॥' त्यर्थः ॥धांश इति । धैवतांश इत्यर्थः । षड्जोदीच्यवती जातेरिति । जातयो
Page #204
--------------------------------------------------------------------------
________________
३ अध्यायः] काव्यानुशासनम् ।
१९१ . एवं कलान्तरेष्वप्युदाहार्यम् । चतुर्वर्ग धर्मशास्त्रविरुद्धवं यथा---
'सततं स राजसूयैरीजे विप्रोऽश्वमेधैश्च ।' अत्र विप्र इति । क्षत्रियस्य हि तत्राधिकारः । अर्थशास्त्रविरुद्धत्वं यथा
'अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।' . द्विषजयस्य हि नयमूलत्वं स्थितं दण्डनीतौ । कामशास्त्रविरुद्धत्वं यथा
'तवोत्तरोष्ठे बिम्बोष्ठि दशनाङ्को विराजते ।' .. उत्तरोष्ठमन्तर्मुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनस्थानानि इति हि । कामशास्त्रे स्थितम् । मोक्षशास्त्रविरुद्धत्वं यथा-.
'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदः ।' एतस्यार्थस्य मोक्षशास्त्रेऽस्थितत्वाद्विरुद्धत्वम् ॥
त्यक्तपुनरात्तत्वम् । यथा-'लग्नं रागावृताङ्गचा-' इति । अत्र ।। 'विदितं तेऽस्त्वित्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः। -
क्वचिद्गुणः. 'शीतांशोरमृतच्छटा यदि कराः कस्मान्मनो मे भृशं
संपुष्पत्यथ कालकूटपटलीसंवाससंदूषिताः । ह्यष्टादश।तथा हि मुनि:-'षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी। षड्जोदीच्यवती चैव तथा स्यात्षड्जकैशिकी ॥ स्यात्षड्जमध्यमावेव षड्जग्रामसमाश्रयाः । अत ऊर्व प्रवक्ष्यामि मध्यमग्रामसंश्रयान् ॥ गान्धारी मध्यमा चैव गान्धारोदीच्यकी तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपञ्चमी ॥ मध्यमोदीच्यका चैव नन्दयन्ती तथैव च । कामीरवी च विज्ञेया तथान्ध्री कैशिकी मता ॥' इत्येतासां मध्या या षड्जोदीच्यवती जातिस्तस्याः सकाशादित्यर्थः ॥ कलान्तरेण्वप्युदाहार्यमिति । तत्र चित्रकलाविरोधो यथा-'कालिङ्ग लिखितमिदं वयस्य पत्रं पत्रज्ञैरपतितकोटिकण्टकत्रि ।' 'कालिङ्गं पतिताग्रकण्टकम्' इति पत्रविदामाम्नायः । एवं कलान्तरेष्वभ्यूह्यम् ॥ क्षत्रियस्य हीति। । तथा च स्मृतिः–'राजा राजसूयेन खाराज्यकामो यजेत । राजा सर्वतो विजाती .. अश्वमेधेन यजेत' इति ॥ देवताभक्तित इति । 'चतुर्विधा भजन्ते मां जनाः सुकृ...
Page #205
--------------------------------------------------------------------------
________________
१९२
काव्यमाला |
किं प्राणान्न हरन्त्यतिप्रियतमासंजल्पमात्राक्षरैरक्ष्यन्ते किमु मोहमेम हहहा नो वेद्मि का मे गतिः ॥' अत्र ससंदेहालंकारस्त्यक्त्वा त्यक्त्वा पुनरुपात्तो रसपरिपोषाय | परिवृत्तौ विनियोजित नियमानियमौ सामान्यविशेषौ विध्यनुवादौ च
यत्र । तद्भावस्तत्त्वम् ।
तत्र परित्तो नियमोऽनियमेन । यथा'यत्रानुल्लिखितोक्षमेव निखिलं निर्माणमेतद्विधे, रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घय यत्संपदस्तस्याभासमणीकृताश्मसुम रश्मत्वमेवोचितम् ||'
अत्र ' च्छायामात्र मणीकृताश्मसु मणेस्तस्याश्मतैवोचिता' इति नियमे वाच्ये तस्याभासेत्यनियम उक्तः ।
परिवृत्तौ नियमोsनियमेन । यथा
काम्भोजे सरस्वत्यधिवसति सदा, शोण एवाधरस्ते, बाहुः काकुत्स्थवीर्य स्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं,
स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥ अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः ।
ON THE MONEY.
तिनः सदा । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥' इत्युक्तनीत्या ज्ञानित्वेन एका भक्तिः । सा नात्र विवक्षिता । अपि त्वार्तत्वादिभिस्त्रिरूपा ॥ अनुल्लिखिताक्षमिति । अनभिव्यक्ताकारम् ॥
इति श्री हेमचन्द्राचार्यविरचिते विवेके तृतीयोऽध्यायः ।
१. 'तार्थमे' प्रकाशे. २. 'वक्राम्भोजं स' प्रकाशे.
१. 'तार्थमे' प्रकाशे.
Page #206
--------------------------------------------------------------------------
________________
३ अध्यायः ] ✓
काव्यानुशासनम् ।
परिवृत्तं सामान्यं विशेषेण । यथा'कल्लोलवेल्लितदृपत्परुषप्रहारै
रत्नान्यमूनि मैकराकर मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाथ
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥' अत्र 'एकेन किं न विहितो भवतः स नाम' इति सामान्ये वाच्ये
कौस्तुभेनेति विशेष उक्तः ।
१९३
/ परिवृत्तौ विशेषः सामान्येन । यथा
‘श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकै - मन्त्रं तत्रमथ प्रयुज्य हैरतश्चेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमो दश दिशस्तद्वक्रमुद्राङ्किताः ॥' अत्र ज्योत्स्नामिति विशेषे वाच्ये श्यामामिति सामान्यमुक्तम् । परिवृत्तौ विधिरनुवादेन । यथा
'अरे रामाहस्ताभरण मधुपश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन । सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे
―――
सखेदोऽहं मोहं श्लथय कथय केन्दुवदना ॥' अत्र विधौ वाच्ये विरहिप्राणदमनेति अनुवाद उक्तः । परिवृत्तोऽनुवादो विधिना । यथा-- ✓ ‘प्रयत्नपरिवोधितः स्तुतिभिरद्य शेषे निशामकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाद्य दो: शालिनापैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥' अत्र शयित इत्यनुवादे वाच्ये शेषे इति विधिरुक्तः । प्रयत्नेन परिबो
CONCENTRAT
१. 'मकरालय' प्रकाशे. २. 'नाम' प्रकाशे. ३. 'हरत श्वेतो' प्रकाशे.
२५
Page #207
--------------------------------------------------------------------------
________________
१९४
काव्यमाला। ध्यसे इति विधौ वाच्ये परिबोधित इत्युक्तमिति परिवृत्तविधित्वमपि । अत्र चान्वर्थवलादेवाधिगतेः पदादिदोषाणां विशेषलक्षणं न प्रणीतम् ॥
अथापवादानाहनानुकरणे।
दोषा इत्यनुवर्तते । अनुकरणविषये निरर्थकादयः शब्दार्थदोषा न भवन्ति । उदाहरणं प्रागेव प्रदर्शितम् ॥ वक्रायोचिये च।
वक्तप्रतिपाद्यव्यङ्गचवाच्यप्रकरणादीनां महिम्ना न दोषो न गुणः । तथोदाहृतम् ॥
कचिद्गुणः। वाद्यौचित्ये क्वचिद्गुण एव । तथैवोदाहृतम् ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशा
सनवृत्तौ दोषविवेचनो नाम तृतीयोऽध्यायः ।
चतुर्थोऽध्यायः । सगुणौ शब्दार्थों काव्यमित्युक्तम् । गुणानां च रसोत्कर्षहेतुत्वं सामान्यलक्षणं प्रतिपादितम् । इदानीं तद्भेदानाहमाधुर्योजाप्रसादास्त्रयो गुणाः।
त्रयो न तु पञ्च दश वा, लक्षणस्य व्यभिचारादुच्यमानगुणेष्वेवान्तर्भावात्, दोषपरिहारेण स्वीकृतत्वाच्च । गुणा इति रसस्य गुणाः शब्दार्थयोस्तु भक्त्या इत्युक्तमेव ।
न तु दश पञ्च वेति । अयं भावः-माधुयोजःप्रसादा एव गुणाः, ते च मुख्यवृत्त्या रसस्यैवेति प्राक् सामान्यलक्षणे निर्णीतम् । ततश्चैते शब्दार्थाश्रयखेनान्ये च गुणा यत्कैश्चन प्रतिपाद्यन्ते तन युक्त मिति । तथा हि-'ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो वन्धगुणा दश' इति केचित् । तत्र 'अवगीतस्य
१. टीकायां तु 'दश पञ्च वा' इत्युपलभ्यते, व्याख्यायते च तेनैव क्रमेण. तस्मात् 'पञ्च दश' इति पाठो लेखकप्रमादजो भवेत्.
१. मूले तु 'पञ्च दश वा' इत्युपलभ्यते.
।
Page #208
--------------------------------------------------------------------------
________________
४ अध्यायः काव्यानुशासनम् ।
१९५ हीनस्य वा वस्तुनः शब्दार्थसंपदा यदुदात्तत्वं निषिश्चन्ति कवयस्तदोजः' इति भरतः ।। यथा-'गोमायवः शकुनयोऽत्र शुनां गणोऽत्र लुम्पन्ति कीटकृमयः परितस्तथैते । त्वं संपदं सकलसत्त्वकृतोपकारं(?) नादृष्टवान्यदपि(?) तच्छव वचितोऽसि ॥' अनवगतस्याहीनस्य वा वस्तुनः शब्दार्थयोरर्थसंपदा यदनुदात्तत्वं निषिञ्चन्ति कवयस्तर्हि तदनोजः स्यादिति मङ्गलः । यथा-'ये संतोषसुखप्रबद्ध मनसस्तेषां न भिन्ना मुदो येऽप्येते धनलोभसं. कुलधियस्तेषां तु दूरे नृणाम् । धिक्तं कस्य कृते कृतः स विधिना तादृक्पदं संपदा खात्मन्येव समाप्तहेममहिमा मेरुन मे रोचते॥' कवीनामभिधेयं प्रति त्रयः पन्थानः। एते न्यूनमुत्कर्षन्ति, अधिकमपकर्षन्ति, यथार्थ वस्तु स्थापयन्ति, तत्कथमिवायं गुण इति दण्डी । तस्मात्समासभूयस्त्वमोजः । तच्च गद्यविभूषणं प्रायेण, वृत्तवर्मन्यपि गौडास्तदाद्रियन्ते । प्रथममाख्यायिका दिपलभ्यते । द्वितीयं यथा-'दूरोद्दण्डतडित्करालतरलज्योतिश्छटाडम्बरस्फारस्फूर्जितदुर्जयास्त्रसचिवज्याघोषघूत्कारिणाम् । यस्यैकस्य शतानि पञ्च धनुपां दैत्याहवेषु व्यधुर्लोलीभावगभीरघोरमखिलब्रह्माण्डकोलाहलम् ॥ रीतित्रयेऽप्योजसः साधारणत्वाद्गौडीयानिर्देशो न युक्तिमानिति वामनो मङ्गलश्च । तस्माद्गाढत्वमोजः । यथा-'भस्मवर्म फणिनः पतिर्गवामस्थिपतिरिति ते परिग्रहः । ईश इत्ययमनन्यचुम्वितश्चन्द्रचूड तदपि त्वयि ध्वनिः ॥' एवं रीत्यन्तरेऽपि ॥ ओजसि हेत्वन्तरमवमृश्यतां, न पुनर्गाढत्वम् । तद्धि शुद्धमोजसः प्रत्युत हानिहेतुः । यथा-'वजेणान्तर्नु वजिन् जहि वहुविशतं(?) वासुके शेपघोणां दन्तैर्दिग्दन्तिनोऽक्ष्णो विघटयत पुटानङ्गुलीहि त्रिशूलैः । दध्वन्यध्वं श्रवःस्थाः प्रलयजलमुचः कूर्म आकम्पयोर्वी मैनाक क्षुध्वि(?) वक्षस्तुटमटतु रणे कुम्भकर्णोऽस्तनिद्रः ।।' तस्मान गाढत्वमोजः । अर्थगुणस्तु 'अर्थस्य प्रौढिरोजः' इति वामनः । तत्र-पदार्थे वाक्यवचनं वाक्यार्थे च पदाभिधा । प्रौढिक्ससमासौ च साभिप्रायत्वमस्य च ॥' इति या प्रौढिरोजस्तद्वैचित्र्यमानम् । साभिप्रायत्वरूपं चौजोऽपुष्टार्थत्वदोषमात्रं न गुणः । किं च । भोः स. हृदया अर्थो जडस्तस्याभिप्राय इति केषां भाषा । वक्तृश्रोत्रोः स इति चेत्तद्गतोऽर्थस्य गुण इति कथम् । अथ वस्त्वन्तराक्षेपकत्वमेव तस्य गुण इत्युच्यते । तद्वस्त्वन्तरमाक्षेप्यं वक्रभिप्रायरूपमेवमाक्षेपकत्वमपि कविव्यापारवलादेव तथा विनिवेशनाप्रकारयोगे तथाभावात् अत एव प्रौढिर्वस्तुतो वक्तृगतैव, सा त्वर्थे काममुपचर्यतामित्यलं बहुना ॥
१. भरते तु 'समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सा(?)तु स्वरैरुदारैश्च तदोजः परिकीर्त्यते ॥' इत्युपलभ्यते. २. 'नो' इति भवेत्. ३. 'गीत' इति भवेत्. ४. तथा च काव्यादर्शे-'ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् । पद्येऽप्यदाक्षिणात्यानामिदमेकं परायणम् ॥ तद्गुरूणां लघूनां च बाहुल्याल्पत्व मिश्रणैः । उच्चावचः प्रकार तदृश्यमाख्यायिकादियु ॥' इति. ५. तथा च वामनसूत्रम्-'गाढवन्धनत्वमोजः' इति. ६. वामनेन तु 'न शुद्धः' इति सूत्रेण शुद्धस्य प्रसादस्य दोषत्वमङ्गीकृतम्. ७. 'दोषनिराकरणमात्रम्' इति भवेत.
Page #209
--------------------------------------------------------------------------
________________
काव्यमाला।
विभक्तवाच्यवाचकायोगादनुक्तयोरपि शब्दार्थयोः प्रतिपत्तिः प्रसादः इति भरतः। पदपूर्विका तदर्थावगतिरिति शब्दार्थयोर्ग्रहणम् । यथा-'यस्याहुरतिगम्भीरजलदप्रतिमं गलम् । स वः करोतु निःसङ्गमुदयं प्रतिमङ्गलम् ॥' सेयं विशेषणाधारा विशेष्याणामुक्तिरिति वामनीयाः । तस्मात् 'शैथिल्यं प्रसादः'। ओजोविपर्ययात्मा कथं गुण इति । गाढत्वसंप्लतं शैथिल्यमेव गुण इति चेत् । परस्परविरोधित्वाद्गाढत्वशैथिल्ययोः कथमेकत्र संनिवेशः संभवतीति । अनुभवादेव विरोधप्रतिषेध इति चेत् । यदाह-करुणप्रेक्षणीयेषु संप्लवः सुखदुःखयोः । यथानुभवतः सिद्धस्तथैवौजःप्रसादयोः ॥' सेयं दृष्टान्तस्यैव तावदसिद्धिः। दृष्टान्तविघातश्च दार्टान्तिकमपि प्रतिहन्ति । तथा हि-सामाजिकजनो नाट्यकर्मणि करुणरसवासितचेताः प्रथमं दुःखातिमात्रप्रयोगवैशारद्येन च पश्चात्सुख्यति । ओजःप्रसादयोः पुनर्युगपंदेवानुभवप्रतिज्ञा । यदि च तत्त्वं विवेच्यते तदा सर्वेषामपि रसानां प्रतीतिश्चमत्कारसारत्वात्सुखरूपैवेति दृष्टान्त एव न संगच्छते । तस्माद्विकाशहेतुः सर्वत्र प्रसाद इति । अर्थगुणस्तु 'वैमल्यं प्रसादः इति । प्रयोजकपदपरिग्रहो हि वैमल्यम् । तच्चाधिकपदत्वदोषनिराकरणात्वीकृतमेव ।। 'स्वभावस्पष्टं विचारगहनं वचः श्लिष्टम्' इति भरतः । 'क्षणं स्थिताः पक्षमसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः । वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभि प्रथमोदबिन्दवः ॥' सेयमभिधानाभिधेयव्यवहारे वैदग्धी, न पुनः संदर्भधर्मः। रचनारूपता हि गुणस्य स्वरूपमिति वामनीयाः । तस्मात् 'ममृणत्वं श्लेषः । तदाह-यस्मिन् सति बहून्यपि पदानि एकपदवद्भासन्ते स श्लेषः ॥ यथा—'अस्त्युत्तरस्यां दिशि देवतात्मा' इति । मसृणमदन्तरायां(?) हि रीतिवैशसोपनिपातः।तं चान्यतररसनिर्वाह निषेवन्ते । तस्मात् 'अशिथिलं श्लिष्टम्' इति दण्डी ॥ यथा-'प्रेक्षामृदङ्गनिनदानुपकर्ण्य तूर्णमम्भोदनादरभसान वृते मयूरैः । यन्मन्दिरे सरलकण्ठमकण्ठकूजमुन्मण्डलीकृतशिखण्डमकाण्ड एव ॥' सोऽयमोजः प्रकार एव । अदृष्टगौडसंदर्भस्य वा दर्शनमित्युपेक्षणीयम् । गौडा हि शिथिलमाद्रियन्ते । यथा-'लीलाविलासललनाललितालकलासकाः । विलुप्तमालतीमाला जलकालानिला ववुः ॥' इति । अर्थगुणस्तु 'घटना श्लेषः' । क्रमकौटिल्यानुल्वणत्वोपपत्तियोगो हि घटना। यथा---'दृष्ट्वैकासन-' इति । संविधानकभवं
१. भरते तु 'अथानुक्तो बुधैर्यत्र शब्दादर्थः प्रतीयते । सुखशब्दार्थसंयोगात्प्र. सादः परिकीर्त्यते ॥' इति. २. अन 'चेत्' इति भवेत्. ३. अत्र 'चेत्' इति न भवेत्. ४. अत्र 'चेत्' इति भवेत्. ५. अन 'चेत्' इति न स्यात्. ६. 'दुख्यति, पात्रप्रयो' इति स्यात्. ७. वामनसूत्रं तु 'अर्थवैमल्यं' इत्युपलभ्यते. ८. 'मात्रपरि' इति वामनसूत्रवृत्तौ. ९. भरते तु 'विचारगहनं यत्स्यात्स्फुटं चैव स्वभावतः । स्वतः सुप्रतिबद्धं च लिष्टं तत्परिकीर्तितम् ॥' इति. १०. 'स्थिताः क्षणं' इति कुमारसंभवे. ११. 'यन्नैकपदवद्भावः पदानां भूयसामपि । अनालक्षितसंधीनां स श्लेषः परमो गुणः ॥' इति वामनसूत्रवृत्तौ. १२. काव्यादर्शे तु 'श्लिष्टमस्पृष्टशैथिल्यमल्पप्राणाक्षरोत्तरम्' इति.
Page #210
--------------------------------------------------------------------------
________________
४ अध्यायः ]
काव्यानुशासनम् |
१९७
वैचित्र्यमात्रमिदं न गुणः ॥ 'परस्परविभूषणो गुणालंकारग्रामः समम्' इति भरतः । यथा - 'स्मरनवनदी -' इति । भिन्नाधिकरणा हि गुणालंकारास्तत्कथमन्योन्यं भूषयेयुरिति दण्डी । पयमकचित्राणि हि प्रायेण गुणान्विगृह्य वर्तन्ते । अनुप्रासोऽपि प्रचुरं प्रयुक्तस्तद्वदेव । तस्माद्बन्धेष्वविषमं समम् । ते च प्रौढो मृदुर्मध्यश्चेति त्रयः । प्रौढमृदुमध्यवर्णविन्यासयोनित्वात् । प्रौढो यथा - 'आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुय्यतः प्रियतमोरसि हारात्पुष्पवृष्टिरिव मौक्तिकवृष्टिः ॥ मृदुयथा - 'ललितमङ्गमपाङ्ग विलोकितं स्मितसुधालवपल्लवितोऽधरः । इति मनो जयतः प्रमदाजनं मनसिजस्य जयन्ति शिलीमुखाः ॥' मध्यो यथा - 'ईदृशस्य भवतः कथमेतलाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुर्व्या काचिदाम जघनस्य महत्त्वम् ॥' तदिदं वृत्तिभ्यो न पृथग्भवतीति वामनीयाः । तस्माद्येन रीतिविशेपेणोपक्रम स्तस्यापरित्याग आ समाप्तेरिति समताया रूपम् । तन्मुक्त के प्रबन्धे च । वैदर्भमार्गनिर्वाहो यथा— 'किं व्यापारै:-' इति । गौडमार्गनिर्वाहो यथा - 'क्षुद्रः कोऽयं तपखी क्षव (?)वदनवनच्छेदनिष्ठयूतमजव्याजाज्यस्फारधाराहु तिहुतहुतभुक्पच्यमानैः कपालैः । जातास्थिस्फोटभीतिप्रविघटितवलङ्कामपार्श्वप्रवेशकाम्यत्सव्येतरार्धाकुलितहरठा कृष्टखगोदशास्यः ॥' पञ्चालमार्गनिर्वाहो यथा - ' ते काकुत्स्थपृपत्कजर्जरजरत्तालद्रुमस्थाणवस्ते विच्छिन्नमहेन्द्रकन्दरकणत्कर्णेषु टङ्काङ्किताः । ते लीलाशबरेन्दुशेखरशरव्याक्षेपवीथीभुवो दुर्गाहा अपि गाहिताः शशिरुचा कीर्त्य वनान्तास्तव ॥ एवं प्रवन्धेऽपि ॥ प्रयोगमार्गे प्रतिवसन्तः प्रमाणम् । ते च न सर्वत्र समतां वैचित्र्याय संगिरन्ते । तथा हि-'अज्ञानाद्यदि वाधिपत्यरभसाद स्मत्परोक्षे हृता सीतेयं प्रतिमुच्यतामिति वचो गत्वा दशास्यं वद | नो चेल्लक्ष्मणमुक्त मार्गणगणाच्छादोच्छ लच्छोणितच्छत्रच्छन्न दिगन्त मन्तकपुरं पुत्रैर्धृतो यास्यति ॥ ' इत्यादौ मसृणमार्ग त्यागो गुणः । तस्मात्समता वक्तव्या । अर्थगुणस्तु ‘अवैषम्यं श्लथता’। प्रक्रमाभेदो ह्यवैपम्यम् । यथा – 'च्युतसुमनसः कुन्दाः पुष्पेष्वलसा द्रुमा मनसि च गिरं ग्रन्थन्ति मे किरन्ति न कोकिलाः ।' प्रक्रमभेदो यथा'च्युतसुमनसः कुन्दाः पुष्पेष्वलसा द्रुमा मलयमरुतः सर्पन्तिं मे वियोगधृतिच्छिदः ।' इति । मधुग्रीष्म प्रतिपादनपरेऽत्र द्वितीयपादे प्रक्रमभेद: । मलयमरुतामसाधारणत्वात् । ततश्वापदोषत्वमेतन्न गुण इति ॥ अर्थस्य गुणान्तरसमाधानात्समाधिरिति भरतः । यथा - ' परिणतशरकाण्डच्छायमच्छाच्छया यत्किसलयितमिवासीच्चारुलावण्यलक्ष्म्या । तदनुदिवसमस्यास्तोयविच्छेद सीदन्नवकुवलयदामश्यामलं जातमङ्कम् ॥' सो
-
१. 'समं वन्धेष्वविषमं ते मृदुस्फुटमध्यमाः । बन्धा मृदुस्फुटोन्मिश्रवर्ण विन्यासयोनयः ॥ इति काव्यादर्शवचनात् २. ' च सन्तः ' स्यात्. ३. 'समता' वामनसूत्रे. ४. 'पुष्पोद्गमे' वामनालंकारसूत्रवृत्त्युपलब्धः साधीयान्. ५. 'वनन्तीमे' वामनसूत्रवृत्ती. ६. 'पुष्पोद्गमे' स्यात्. ७. 'ती' स्यात्. ८. 'वियुक्त' सूत्रवृत्तौ वामनः. ९. 'ऋतुसंधि' सूत्रवृत्तिः.
Page #211
--------------------------------------------------------------------------
________________
१९८
काव्यमाला । ऽयमतिशयोक्तिविशेष इति वामनीयाः । तस्मात् 'आरोहावरोहक्रमः समाधिः।' तत्रारोहपूर्वोऽवरोहो यथा-शृङ्गोत्खातभुवः कृतान्तमहिषादत्रस्त उच्चैःश्रवाः श्रुत्वैरावणकण्ठगर्जितमयं क्रुद्धोऽम्बिकाकेसरी । संगीतागतकम्बलाश्वतरयोः प्रेक्षागृहद्वारि च प्रेक्ष्य स्कन्दशिखण्डिनं चकितयोः कस्मान्मुखं म्लायति ॥' अवरोहपूर्व आरोहो यथा'यद्वाभिर्जगाहे गुरुसकलकुलास्फालनत्रासहासव्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्जयप्रक्रमेषु । अम्भोगम्भीर...."कुहरकवलनोन्मुक्तिपर्यायलोलत्कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुङ्कुमं कामिनीभिः ॥' तदिदं गुरुलघुसंचययोरन्योन्यान्तरणमिति दण्डी। तस्मादन्यधर्मस्यान्यत्र समाधानात्समाधिः । यथा-'प्रतीच्छत्याशोकी किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरहिताडीपरणतिम् । परिम्लानप्रायामनुवदति दृष्टिः कमलिनी मितीयं माधुर्य स्पृशति च तनुत्वं च भजते ॥' सेयमुपचरिता वृत्तिरिति चेद्गुणः, योगवृत्त्या किमपराद्ध मिति ॥ अर्थगुणस्तु अर्थदृष्टिः समाधिः । यथा'अग्रादपि मध्यादपि मूलादपि सर्वतोऽथ शोकस्य । पिशुनस्थमिव रहस्यं यतस्ततो निर्गतं कुसुमम् ॥' अर्थस्य योनेरन्यच्छायायोने; यदि न भवति दर्शनं तत्कथं काव्यं स्यात् । ततश्च सकलसत्कविदृष्टः काव्यार्थः समाधिः स्यादिति नार्थगुणः समाधिः ॥ बहुशो यच्छ्रुतमभिहितं वाक्यमनुद्वेजकं मनसः तन्मधुरमिति भरतः । दयितजनरूक्षाक्षराक्षेपव बनेऽपि तत्समानमिति वामनीयाः । तस्मात् 'पृथक्पदवं माधुयम्' । तदिदमनुभवविरुद्ध मिति दण्डी । समासेऽपि माधुर्यस्य दर्शनात् । यथा-'अनवरतन- . यनजललवानिपतनपरिमुषितपत्रलेखान्तम् । करतलनिषण्णमबले वदनमिदं किं न तापयति ।।' इति । तस्माद्रसवन्मधुरम् । रसस्तु द्विधा-...............: । व्यङ्गयस्तु विषयत्वेन । तयोः श्रुतिवर्णानुप्रासाभ्यां वापसः । अनुप्रासो ह्यलंकारः । कथं तस्य गुणत्वम् । अग्राम्याभिधेयता तु वस्तुरसः । असभ्यार्थ निबन्धनं हि ग्राभ्यता । यथा-'ब्रह्मचर्योपतप्तोऽहं त्वं च क्षीणा बुभुक्षया । भद्रे भजख मां तूर्णं तव दास्याम्यहं पणम् ॥' सोवेदोमाभावो न गुणः । एतेनोक्तिवैचित्र्यरूपं माधुर्य वामनोक्तोऽप्यर्थगुणो निरस्त एव । तस्मादाह्लादकत्वं माधुर्यमिति ॥ सुखशब्दार्थ सकुमारमिति भरतः । यथा---'अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च । अच्छाञ्जने च नयने वसनं तनीयः कान्तासुभूषणमिदं विभवावशेषः ॥' 'सुखशब्दमेव' इति वामनः । यथा-'हरेः कुमारोऽपि कुमारविक्रमः
१. 'ति तालीपरि-' स्यात्. २. 'तोऽप्यशो' स्यात्. ३. 'अर्थस्यायोने' स्यात्. ४. 'बहुशो यच्छ्रुतं काव्यमुक्तं वापि पुनः पुनः । नोवैजयति तस्माद्धि तन्माधुर्यमुदाहतम् ॥' इति भरतोत्त्यनुसारेण 'वा काव्य' स्यात्. ५. 'सा वै दोषाभावः' इति स्यात्, ६. 'सुखप्रयोज्यैश्छन्दोभिर्युक्तं प्रश्लिष्टसंधिभिः । सुकुमारार्थसंयुक्तं सुकुमारं तदुच्यते ॥' इति भरतपाठः. ७. 'अजरठलं सौकुमार्यम्' इत्येवं वामनसूत्रेषूपलभ्यते, तत्र जरठत्वं परुषत्वं श्रुतिकटुत्वमिति यावत्.
Page #212
--------------------------------------------------------------------------
________________
४ अध्यायः काव्यानुशासनम् ।
१९९ सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपन्नलताक्रियोचिते खनामचिहं निचखान सायकम् ॥' सोऽयं श्रुतिकटुत्वदोषाभावो न गुणः । माधुर्यप्रकार एवाऽयम् । अर्थगुणस्तु 'अपारुष्यम् सौकुमार्यम्' । यथा-'स किलेन्द्रप्रयुक्तेन सौरिणा भूमिनन्दनः । चक्रघातोपदिग्धाध्वा नीतात्यन्तप्रवासताम् ॥' सोऽयममङ्गलरूपाश्लीलत्वदोषाभावो न गुणः ॥ यदि वा उक्तिविशेषः पर्यायोक्तालंकारविषय एवासौ ॥ बहुभिः सूक्ष्मैश्च विशेषैः समेतमुदारमिति भरतः । यथा-'ये पूर्व यवसूचिसूत्रसुहृदो ये केतकाग्रच्छदच्छाया धाम(?)पुनर्पणाललतिकालावण्यभाजोऽत्र ये। ये धाराम्बुविडम्विनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥' उल्लेखवानयमर्थः कथं गुण इति वामनीयाः । तस्माद् 'विकटत्वमुदारता' । यस्मिन् सति नृत्यन्तीव पदानीति वर्णना भवति । यथा-'अत्रान्तरे रणितहारलतानितम्बसंवाहनस्खलितवेगतरङ्गिताङ्गी। देवी व्यपास्य शयनं धृतमानतन्तुरन्तःपुरं गतवती सह सौविदल्लैः ॥' सोऽयमीषदममृणोऽनुप्रासभावो न गुणः । ओजःप्रकार एव वायम् । अर्थगुणस्तु-'अग्राम्यत्वमुदारता' । यथा-'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथ । अयि द्वन्द्वं दिष्टया तदिह सुभगे संवदति वामतः शेषं चेत्स्याज्जितमथ तदानीं गुणितया ॥' सोऽयं दोषाभावो न गुणः॥ यस्मिन्न तथास्थितोऽपि तथास्थित एवार्थः प्रतिभाति सोऽर्थव्यक्तिर्गुण इति भैरतः । यथा--'च्युतामिन्दोलॆखां रतिकलहभनं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया । अवोचवं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशन किरणापूरिततनुः ॥' सोऽयं प्रसादादभिन्न इति वामनीयाः । तस्माद्यत्र पुरस्तादिव वस्तुनोऽवगतिः पश्चादिव वाचां सार्थव्यक्तिः । यथा-'महेश्वरे वा जगतां महेश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥' सोऽयमुक्त्यन्तराभिहितः प्रसाद एवेति दण्डी। तस्मादनेयार्थत्वमर्थस्यार्थव्यक्तिः । तत्र चास्तोकमुदाहरणम् । दोषाभावोऽयं कथमिव गुणः । तथा चेद्वहुत्वादोषाणां शतं गुणाः स्युः । अर्थगुणस्तु 'वस्तुनः स्फुटत्वमर्थव्यक्तिः । यथा-'पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलतकलो हिनीभिः । गोरोचनाहरितवभ्रवहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥' कविवचनवैशारद्यतो वस्तुनः स्फुटत्वमनिसर्गतः । तदुकम्-'निवेशयति हृद्यर्थान्न तथापि तथेति वा । महाकवीनां विकटा वाणी विजयतामसौ ॥' अपि च । जाति मायमलंकार इति ॥ श्रोत्रमनः प्रह्लादजननं कान्तं
१. 'नीतो' स्यात्. २. 'वासिताम्' स्यात्. ३. "दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारं तत्प्रकीर्तितम् ॥' इत्येवं भरते पाठः. ४. 'नाम' स्यात्. ५. 'तदिति' वामनसूत्रवृत्तौ. ६. 'सुप्रसिद्धा धातुना(?)तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रकीर्त्यते ॥' इत्येवं समुपलभ्यते. ७. 'वस्तुखभावस्फुटख' वामनसूने.
Page #213
--------------------------------------------------------------------------
________________
२००
काव्यमाला।
भरतः । यथा---'ददृशुभरदेशस्थां सीतां वल्कलधारिणीम् । अङ्गदाहादनङ्गस्य रति प्रवजितामिव ॥' तदिदं माधुर्यसाधारणमिति वामनीयाः । तस्मात्-'औज्ज्वल्यं कान्तिः'। यदभावे पुराणी बन्धच्छायेयमिति व्यपदिशन्ति । यथा-'स्त्रीणां केतकगर्भपाण्डुसुभगच्छन्दावदातप्रभे मन्दं कुड्मलिताः कपोलफलके लावण्यनिष्पन्दिनि । अन्यां कामपि कामिनीयककलामातन्वते नूतनां शीतांशोसिकन्दकन्दलशिखामुग्धश्रियो रश्मयः॥' ओजोऽप्योज्ज्वल्ययोगात्तर्हि कान्तिः । तस्मालोकसीमानतिक्रमः कान्तिरिति दण्डी । सा च द्विधा वार्तावर्णनयोः । तत्रोपचारवचनं वार्ता । प्रशंसावचनं वर्णना। वार्ता यथा-'एते वयममी दाराः कन्येयं कुलजीवितम्। ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ।' वर्णना यथा-'तदाननं निर्जितचन्द्र कान्ति कन्दर्पदेवायतनं मनोज्ञम् । प्रदक्षिणीकर्तुमितः प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥' लोकसीमानतिक्रमः पुनरकान्तिः । तत्र वार्ता यथा--'मम दृष्टस्य राजेन्द्र तव दीर्पण चक्षुषा । चरणद्वितयस्याग्रे नित्यं लुठति चन्द्रमाः॥' वर्णना यथा-वदनस्य तवेणाक्षि लक्ष्यते पुरतः शशी। पिण्डीकृतेन बहुना कज्जलेनेव निर्मितः॥'सेयमतिशयोक्तेर्यन्त्रणा न पुनर्गुणान्तरमिति । अर्थगुणस्तु 'दीप्तरसवं (पुनः) कान्तिः' इति वामनः । थथा-'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥' रौद्रादयो दीप्ता रसास्ततोऽन्ये तु शृङ्गारादयस्तद्विपरीतास्तनिबन्धनमकान्तिस्तर्हि स्यात् । अथ वा व्यङ्ग्यं रसादिस्वरूपनिरूपणेनैव कान्तिः खीकृतेति ॥ ओजःप्रसादमधुरिमाणः साम्यमौदार्य च पञ्चेत्यपरे । तथा हि । यददर्शिविच्छेदं पठ. तामोजः, विच्छिद्य पदानि पठतां प्रसादः, आरोहावरोहतरङ्गिणि पाठे माधुर्यम् , ससौष्ठवमेव स्थानं पठतामौदार्यम् , अनुच्चनीचं पठतां साम्यमिति ॥ तदिदमलीकं कल्पनातन्त्रम् यद्विषयविभागेन पाठनियमः स कथं गुणनिमित्तमिति छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित् । तथा हि । स्रग्धरादिष्वोजः । यथा-'ताम्यत्यामजमजन्मणिममृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार । कृच्छत्पातालमूलाबिलबहलनिरालम्बजम्बालनिष्ठः पृष्ठाश्लीलप्रतिष्ठामवनिमवनमन्कर्परः कूर्मराजः ॥' इन्द्रवज्रोपेन्द्रवज्रा दिषु प्रसादो यथा-'यथा यथा सापदमङ्गकेषु प्रमोदि. लक्ष्म्या निदधे मदस्य । तथा तथा कार्मुकमाततज्यं प्रसूनधन्वाकलयांचकार ॥' मन्दाक्रान्तादिषु माधुर्य यथा-'किं व्यापारैः-' इति ॥ शार्दूलादिषु समता यथा'गाहन्तां महिषा निपानस लिलं शृङ्गैर्मुहुस्ताडितं छायावद्ध कदम्बकं मृगकुलं रोमन्थमभ्य
१. 'यन्मनःश्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्ति कवयो विदुः ॥' इत्येवमुपलभ्यते. २. 'च्छेदा' स्यात्. ३. 'कामनीयक' स्यात्. ४. 'सीमातिक्रमः' स्यात्. ५. 'नितम्ब' वामनसूत्रवृत्तौ. ६. 'कृच्छात्' स्यात्. ७. 'नमत्कर्परः' स्यात्..
Page #214
--------------------------------------------------------------------------
________________
४ अध्यायः ]
काव्यानुशासनम् ।
-
तत्र माधुर्यस्य लक्षणमाहद्रुतिहेतुर्माधुर्य शृङ्गारे |
द्रुतिरार्द्रता गलितत्वमिव चेतसः । शृङ्गारेऽर्थात्संभोगे । शृङ्गारस्य च ये हास्याद्भुतादयो रसा अङ्गानि तेषामपि माधुर्यं गुणः । शान्तकरुणविप्रलम्भेषु सातिशयम् । सातिशयमिति अत्यन्तद्भुतिहेतुत्वात् ।
एतद्व्यञ्जकानाह
२०१
तत्र निजान्त्याक्रान्ता अटवर्गा वर्गा ह्रस्वान्तरितौ रणावसमासो मृदुरचना च ।
निजेन निजवर्गसंबन्धिनो.......ङञणनमलक्षणेन शिरस्याक्रान्ता अट
स्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पत्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ विषमवृत्तेष्वौदार्य यथा - 'निरवधि निराश्रयं च-' इति । सोऽयमनवगाहितप्रयोगाणां विभागक्रमः । तथा हि । स्रग्धरादिष्वनोजोऽपि यथा'शंभो केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परि चितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाव्यमव्याद्विभोर्वः ॥ इन्द्रवज्रादिष्वप्रसादो यथा— 'विविच्य बाधाः प्रभवन्ति यत्र न तत्र मिथ्यामतयश्चरन्ति । संसारमो - हस्त्वयमन्य एव दिमोहवत्तत्त्वधिया सहास्ते ॥ मन्दाक्रान्तादिष्वमाधुर्य यथा - 'सर्वप्राणप्रगुण मघवन्मुक्तमाहत्य वक्षस्तत्संघाद्विघटितवृहत्खण्डमुचण्डरोचिः । एवं वेगाकुलिशमकरोद्व्योमविद्युत्सहस्रैर्भर्तुवऋज्वलन कपिशास्ते च रोषादृहासाः ॥' शार्दूलादिष्वसाम्यं यथा --- ' अज्ञानाद्य दिवाधिपत्यरभसात्' इति ॥ विषमवृत्तेष्वनौदार्य यथा— 'अयमहिमरुचिर्भजन्प्रतीचीं कुपितबलीमुखतुण्डताम्रविम्वः । जलनिधिमकरीभिरीक्ष्यते द्राक् नवरुधिरारुणमांसपिण्डलोभात् ॥ तदेवं यथान्यैर्गुणानां लक्षणमभिहितं तथा न वाच्यम् । यथायोगं लक्षणव्यभिचाराद्विवक्षितगुणेष्वन्तर्भावाद्दोषपरिहारेण स्वीकृतत्वाच्चेति ॥ द्रुतिरिति । द्रुतिहेतुत्वं माधुर्यस्य लक्षणं न तुः श्रव्यत्वम् । ओजःप्रसादयोरपि श्रव्यत्वात् । तेन 'श्रव्यत्वं नातिसमस्तार्थशब्दं मधुरमिष्यते' इति माधुर्यलक्षणत्वेन श्रव्यत्वं यद्भामहेनोक्तं तन्त्र युक्तमित्यर्थः ॥ अर्थादिति । यद्यपि संभोगविप्रलम्भोभयरूपः शृङ्गारः तथापि गोवलीवर्दन्यायेनानन्तरविप्रलम्भप्रयोगसामर्थ्यात् । शृङ्गारः संभोग इत्युक्तः ॥ अङ्गानीति । यद्यपि हास्याद्भुत
१. ' अन्त्येन' इति त्रुटितं भवेत्.
२६
Page #215
--------------------------------------------------------------------------
________________
काव्यमाला ।
वर्गा टठडढरहिता वर्गाः, हस्वान्तरितौ च रेफणकारौ। असमासः इति समासाभावोऽल्पसमासता वा, मृद्वी च रचना । तत्र माधुर्ये माधुर्यस्य व्यञ्जिकेत्यर्थः । यथा
'शिञ्जानम मञ्जीराश्चारुकाञ्चनकाञ्चयः ।।
कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥ 'दारुणरणे रणन्तं करिदारुणकारणं कृपाणं ते ।
रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥' - न पुनरेवं यथा
'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलिकण्ठि माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ .. . अत्र शृङ्गारप्रतिकूला वर्णाः । 'बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां
किं त्वं पक्ष्मान्तवान्तैर्मलिनयसि मुधा वक्रमथुप्रवाहैः । एषा प्रोद्वत्तमत्तद्विपकटकषणक्षुण्णवन्ध्योपलाभा
दावानेव्योंनि लग्ना मलिनयति दिशां मण्डलं धूमलेखा ॥' अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा । ओजसो लक्षणमाहदीप्तिहेतुरोजो वीरवीभत्सरौद्रेषु क्रमेणाधिकम् ।
दीप्तिसँज्ज्वलिता। चित्तस्य विस्तार इति यावत् । क्रमेणेति वीराबीभत्से ततोऽपि रौद्रे । तेषामङ्गेऽद्भुते च सातिशयमोजः ।
योर्विकासहेतुतया ओजोऽप्यस्ति । तथापि शृङ्गाराङ्गतया माधुर्यमेव प्रकृष्टं प्रतीयत इत्यर्थः ॥ न पुनरेवमिति । अयं भावः-यथान्यैः प्रतिकूलवर्णलक्षणो दोष उक्तस्तथा न वाच्य एतगुणविपर्ययेणैव खीकृतत्वात् ॥वर्णा इति । समासरचनयो
१. 'दारण' इति भवेत्. २. 'कण्ठिनाम्' इति वाग्भट्टकाव्यानुशासने. ३. 'रुज्ज्वलता' इति भवेत्.
Page #216
--------------------------------------------------------------------------
________________
४ अध्यायः काव्यानुशासनम् ।
२०३ एतयञ्जकानाह---
आद्यतृतीयाक्रान्तौ द्वितीयतुरों युक्तो रेफस्तुल्यश्च टवर्गशषा वृत्तिदैर्घ्यमुद्धतो गुम्फश्चात्र ।
आद्येन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथाध उपरि उमयत्र वा येनकेनचित्संयुक्तो रेफस्तुल्यश्च वर्णों वर्णेन युक्तस्तथा. टवर्गोऽर्थात् णकारवर्जः, शषौ च, दीर्घसमासः, कठोरा रचना च । अत्र ओजसि । ओजसो व्यक्षिकेत्यर्थः । यथा'मू मुद्वत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा
धौतेशानिप्रसादोपनतजयजगजातमिथ्यामहिनाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धराणां
दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥' ' न पुनरेवं यथा'देशः सोऽयमरातिशोणितजलैर्यसिन्हूदाः पूरिताः .
क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । . तान्येवाहितशस्त्रघसरगुरुण्यस्त्राणि भास्वन्ति नो .
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ।। अत्र यथोक्तवर्णाभावोऽनुद्धता रचना असमासश्च विरुद्धः । अथ प्रसादलक्षणमाहविकासहेतुः प्रसादः सर्वत्र । विकासः शुष्कन्धनाग्निवत्स्वच्छजलवच्च सहसैव चेतसो व्याप्तिः वत्रेति सर्वेषु रसेषु । - एतब्यञ्जकानाह--
इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः । . श्रुत्यैवार्थप्रतीतिहेतवो वर्णसमासरचनाः । इह प्रसादे । प्रसादस्य व्यञ्जका इत्यर्थः । यथारुपलक्षणमिदम् । माधुौजःप्रसादव्याकेषु च वर्णादिध्वभिहितेषु वृत्तयो रीतयश्चा
Page #217
--------------------------------------------------------------------------
________________
२०४
काव्यमाला।
'दातारो यदि कल्पशाखिभिरलं, यद्यर्थिनः किं तृणैः, ___ सन्तश्चेदमृतेन किं, यदि खलास्तत्कालकूटेन किम् । किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया
संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥' माधुर्योजःप्रसादव्यञ्जकाश्च वर्णा उपनागरिका परुषा कोमला च वृत्तिराचक्षते ।
वैदर्भी गौडीया पाञ्चाली चेति रीतय इत्यन्ये । यदाह
'माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकेष्यते ।
ओजः प्रकाशकैस्तैस्तु परुषा, कोमला परैः ।
केषांचिदेता वैदर्भाप्रमुखा रीतयो मताः ॥ यद्यपि गुणेषु नियता वर्णादयस्तथापिवक्तृवाच्यप्रवन्धौचित्याद्वर्णादीनामन्यथात्वमपि । तत्र वाच्यप्रबन्धानपेक्षया चक्राद्यौचित्यादेव वर्णादयो यथा'मन्थायस्तार्णवाम्भाप्रतिकुहरचलन्मन्दरध्वानधीरः, __कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डा । कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्यातवातः,
केनास्मिनिसहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥ अत्र यद्यपि वक्तृवाच्यं क्रोधादिव्यञ्जकम्, काव्यं चाभिनेयार्थम् । तथापि भीमसेनस्य वक्तुरौचित्यादुद्धता वर्णादयः ।। भिहिताः, एतदव्यतिरिक्तखरूपत्वात्तासाम् ॥ अवेति । यदि हि क्रोधादिव्यजकं वाच्यं भवेत्तत उपपद्येरनुद्धता रचनादयः । न चैतदभिनेयाथै, येन खेच्छाप्यनुमान्येत रचनादीनाम् । किं त्वभिनेयार्थमिदम् । न च तत्र रौद्रादावप्युद्धता रचनादय
१. 'कोच्यते' का० प्रका०. २. 'वक्रौचित्या' का० प्रका०. ३. 'सुतिकु' इत्याधुनिककाव्यप्र०. ४. 'चण्डः' इति भवेतू. ५. 'स्मसिह' इति प्रकाशे. ६. 'हि' का. प्रका०. ७. 'इति' का प्रका०. १. अत्रेति' स्यात्.
Page #218
--------------------------------------------------------------------------
________________
४ अध्यायः काव्यानुशासनम् ।
२०५ क्वचिद्वक्तप्रबन्धानपेक्षया वाच्यौचित्यादेव । यथा'प्रौढच्छेदानुरूपोच्छलनरयभवत्सँहिकेयोपघात
त्रासाकृष्टाश्च तिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां
भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥' __ क्वचिद्वक्तृवाच्यानपेक्षाः प्रवन्धोचिता एव । यथा आख्यायिकायां शृङ्गारेऽपि न मैसृणा वर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदप्यौचित्यमनुसतव्यम् ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ती
गुणविवेचनश्चतुर्थोऽध्यायः ।
उपपन्नाः । अतो वक्रौचित्यादेव रचनादीनामप्यन्यथालमत्रेत्यर्थः ॥न मसृणा इति। गद्यस्य विकटनिवन्धाश्रयेण छायावत्त्वात् ॥नाटकादौ रौद्रेऽपीति । न केवलं करुणविप्रलम्भयोः । रौद्रेऽपि न दीर्चसमासादयो निबन्धनीयाः ॥ कथमिति चेत्, उच्यते-रसो यदा प्राधान्येन प्रतिपाद्यस्तदा तत्प्रतिपत्ती व्यवधायिका विरोधिनश्च सर्वात्मनैव परिहार्याः । एवं च दीर्घसमासः। समासानामनेकप्रकारसंभावनया रसप्रतीतिं कदाचिद्यवदधातीति तस्मिन्नात्यन्तमभिनिवेशः शोभते विशेपतोऽभिनेयार्थे काव्ये । तत्रापि करुणविप्रलम्भयोः । तयोहिं सुकुमारत्वात् खल्पायामप्यखच्छतायां शब्दार्थयोः प्रतीतिर्मन्थरीभवति । रसान्तरे पुनः प्रतिपाद्यो रौद्रादौ मध्यमसमासोऽपि । कदाचिद्धीरोद्धतनायकसंवद्धव्यापाराश्रयेण दीर्घसमासोऽपि वा तदाक्षेपाविनाभावि रसोचितवाच्यापेक्षया न विगुणो भवतीति । सोऽपि नात्यन्तपरिहार्यः । सर्वत्र प्रसादाख्यो गुणो व्यापी।स हि सर्वरससाधारण इत्युक्तम् । प्रसादातिकमे हि असमासोऽपि करुणविप्रलम्भशृङ्गारौ न व्यनक्ति । तदपरित्यागे मध्यसमासोऽपि न प्रकाशयति । तस्मात्सर्वत्र प्रसादोऽनुसर्तव्यः । अत एव च–'यो यः शस्त्रं विभर्ति खभुजगुरुमदात्पाण्डवीनां चमूनां यो यः पश्चालगोने शिशुरधिकवयां गर्भशय्यां गतो वा । यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपं क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥' इत्यादौ प्रसादाख्य एव गुणो न माधुर्य नाप्योजः समासाभावात् । न चाचारुत्वमभिप्रेतरसप्रकाशनात् ॥ एवमन्यदपीति । मुक्तकेषु रस
१. 'एव ते । तथाहि' का० प्रका०. २. 'मसणव' का० प्रका०.
Page #219
--------------------------------------------------------------------------
________________
२०६
काव्यमाला।
पञ्चमोऽध्यायः। 'शब्दार्थों सालंकारौ काव्यम्' इत्युक्तम् । तत्रालंकाराणाम् 'अगाश्रिता अलंकाराः' इति सामान्यलक्षणमुक्तम् । अथ विशेषलक्षणस्यावसरः । तत्रापि शब्दालंकाराणां वण्णां तावदाह
व्यञ्जनस्यावृत्तिरनुप्रासः।
व्यञ्जनस्येति जातावेकवचनम् । तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः। पुनः पुनर्निबन्धो रसायनुगतः प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किंचिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते । अनेकस्य । तु सकृदसकृच्च ।
तत्रैकस्यासकृदावृत्तिर्यथा'अनझरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि । अनेकस्य सकृदावृत्तिर्यथा
'वतोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दर्तो कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ रुरिन्दन्दीत्यादेरनेकस्य सकृदावृत्तिः । बन्धाश्रयेण न दीर्घसमासरचना । अन्यथा तु कामचारः । संदानितकादिषु विकटनिवन्धौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रवन्धाश्रितेषु तु मुक्तकादिषु यथोक्तप्रबन्धविशेषौचित्यमेवानुसतव्यम् । पर्यायवन्धेषु पुनरसमासामध्यमसमासे एव । कदाचिद्रौद्रादिविषये दीर्घसमासायामपि संघटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः । तत्रेतिवृत्तमानोपन्यासेनात्यन्तं . रसवन्धा(?)भिनिवेशते । खण्डकथासकलकथयोस्तु प्राकृतसिद्धयोः कुलकादिनिवन्धनभूयस्त्वाद्दीर्घसमास...... योरपि न विरोधः । वृत्तौचित्यं च यथारसमनुसतव्यम् । सर्गवन्धे तु रसतात्पर्य यथारसमौचित्यम् । अन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गवन्धविधायिनां दर्शनादसतात्पर्य साधीय इति ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके चतुर्थोऽध्यायः ।
१. 'षट्' टीकासंमत:१. 'निविशते' इति स्यात्.
-
-
Page #220
--------------------------------------------------------------------------
________________
५ अध्यायः
काव्यानुशासनम् ।
२०७
यथा वा'नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमनौ ।' अत्र द्वयोयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः । यथा वा-'धूसरितसरिति-' इति । अनेकस्यासकृदावृत्तिर्यथा'सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि
क्षामक्ष्मारुहि मन्दमुन्मधुलिहि खच्छन्दकुन्दद्रुहि । शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि
ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥' अत्र रुधीत्यादेः। तात्पर्य मात्रभेदिनो नाम्नः पदस्य वा लाटानाम् ।
शब्दार्थयोरभेदेऽपि अन्वयमात्रभेदिनो नाम्नः पदस्य वा एकस्यानेकस्य वा सकृदसकृच्चावृत्तिाटानां संबन्धिनी लाटजनवल्लभोऽनुप्रासः। तत्रैकस्य नाम्नः सकृदावृत्तिर्यथा'स एष भुवनत्रयप्रथितसंयमः शंकरो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥' अत्र करेति नामः। असकृद्यथा'दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशखपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥' अत्र दुशेति नामः । अनेकस्य सकृद्यथा--'जयति क्षुण्णतिमिरः-' इति । .
Page #221
--------------------------------------------------------------------------
________________
२०८
काव्यमाला 1.
असकृद्यथा
'वस्त्रायते नदीनां सितकुसुमधराः शक्रसंकाशकाशाः
काशाभा भान्ति तासां नवपुलिनगताः स्त्रीनदीहंस हंसाः ।
हंसाभाम्भोदमुक्तस्फुरदमलवपुर्मेदिनीचन्द्रचन्द्र
-
चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥'
पदस्यैकस्य सकृद्यथा—
'वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क नु पुनः कलङ्कविकलो भवेत् ॥
' न भवति भवति च न चिरं भवति चिरं चेत्फले विसंवदति । कोपः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥'
अनेकस्य सकृद्यथा
'यस्य न सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य । ' यस्य च सविधे दयिता, दवदहनस्तुहिनदीधितिस्तस्य ॥'
असकृद्यथा
'किंचिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशं दृश्यन्ते न भवादृशेषु पतिषु खेषामदोषे दमाः ।
ते किं सन्ति न सन्ति सन्ति यदि वा के सन्ति सन्तीदृशाः
सर्वस्तेऽद्य गुणैर्गृहीतहृदयो लोकः कृतो वर्तते ॥'
सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । आवृत्तिरिति वर्तते । सत्यर्थे भिन्नार्थानां वर्णानां खरसहितव्यञ्जनाना
षडिति । अनुप्रासयमकचित्रश्लेषवक्रोक्तिपुनरुक्ताभासान् ॥ यस्य न सविधे इति । अत्र पूर्वार्धे दवदहनत्वं विधेयं तुहिनदीधितित्वं चानुवाद्यम् । तदुभयमप्युत्तराधें विपरीतं ज्ञेयमिति ॥ किंचिद्वच्मीति । भवादृशेषु पतिषु सत्सु स्वेषामात्मीयानामदोषेदमादोषं विना सर्वस्वापहारिणः केऽपि न दृश्यन्ते केवलं त्वदीया एव गुणा ईदृशाः सन्ति । एतदेव सवितर्कमाह - ते किं सन्तीति । हृदयं हि सर्वस्य सर्व
Page #222
--------------------------------------------------------------------------
________________
२०९
५ अध्यायः] काव्यानुशासनम् । मुपलक्षणाच्च वर्णस्य वर्णयोश्चावृत्तिः श्रुत्यैक्ये क्रमैक्ये च यमौ द्वौ समजातौ तत्प्रतिकृतिर्यमकम् । तेनैकस्याक्षरस्य द्वयोर्वहूनां चाद्वितीयं सदृशं निरन्तरं सान्तरं वा शोभाजनकमलंकारः । 'मधुपराजिपराजितमानिनीइत्यादावुभयेषामनर्थकत्वे 'स्फुटपरागपरागतपङ्कजम्-' इत्यादावेवैपामर्थवत्त्वेऽन्येषामनर्थकत्वेऽन्यार्थानामिति न युज्यते वक्तुमिति सत्यर्थ इत्युक्तम् । न च तदर्थस्यैव शब्दस्य पुनः शक्यमुच्चारणम्, पौनरुत्त्यप्रसक्तेः इति सामर्थ्यलब्धेऽपि भिन्नार्थत्वे यत्र स एवार्थः प्रसङ्गेन पुनः प्रतिपिपादयिपितो भवति वन्धुवन्धुरत्वादिना च प्रयुक्त एव शब्दः पुनः प्रयुज्यते 'उदेति सविता ताम्रस्ताम्र एवास्तमेति च' इत्यादौ तत्र पौनरुत्यदोपाभावात् यमकत्वं केन निवार्यतेत्यन्यार्थानामित्युपात्तम् । श्रुत्यैक्यग्रहणं लोकप्रतीतितुल्यत्वपरिग्रहार्थम् । तेन दन्त्यौप्ठ्यौप्ठ्यवकारवकारादिवर्णभेदे, लघुप्रयत्नतरालघुप्रयत्नतरकृते च भेदे, संयोगस्थयोः सजातीययोर्व्यञ्जनयोवास्तवे विशेपे यमकवन्धो न विरुध्यते । यथा-~
'तस्यारिजातं नृपतेरपश्यदवलम्बनम् । ययौ निर्झरसंभोगैरपश्यदवलं वनम् ॥'
भूतमेवेति ॥ वर्णस्येति । वर्णस्य पादान्तरगतत्वेनावृत्तिन वैचित्र्यमादधातीति तस्मिनेव पादे आवृत्त्यन्तरविचित्रायां नैरन्तर्येणावृत्ती यमकता ज्ञेया । यथा-'नानाकारेण कान्तभ्रराराधितमनोभुवा । विविक्तेन विलासेन ततक्ष हृदयं नृणाम् ॥' मध्यान्तयोरपि—'उदाररचनारोचिर्भामुरा राजते कथा । अकलकयश....."मिन्दुमौले मातिं मम ॥ यथा वा-'विविधधववना नागगर्धर्धनानाविविततगगनानाममज्जजनाना । शशरुरुललना नाववन्धुं धुनाना मम हि हिततनानाननखखनाना ॥' विविधानि धववनानि यस्याम् । नागान् हस्तिनो गृध्यन्ति अभिलषन्ति ऋद्धाश्चतुरा महान्तो वा नानाप्रकारा ये वयः पक्षिणो व्याडादयस्तैाप्तं गगनं यस्याम् । अविद्यमानो नामो नमनं यत्र तथाभूतं कृत्वा मजन्तो जना यत्र । अनितीत्यना संस्फुरेति यावत् । स्त्रीरूपिणी वा । शशानां रुरूणां च ललनं यस्याम् । नौ आवयोः । अवन्धुं शत्रु धुनाना । मम यस्माद्धितं तनोति । अमुख आत्मीयः खन एव आनः प्राणा यस्याः । सैवं समुद्रभूहरिणा हलधरं प्रत्यभिधीयत ॥ वर्णयोर्यथा--'भ्रमर द्रुमपुष्पाणि भ्रम प्रीत्यै पिवन्मधु । का कुन्दकुसुमे प्रीतिः काकुं हृत्वा विरौपि यत् ॥' तस्मिन्नेव पादे यथा-'हन्त हन्तररातीनां धीर धीरर्धिता तव । कासं कामन्दकेनौतिरस्या रस्या
२७
Page #223
--------------------------------------------------------------------------
________________
२१०
काव्यमाला ।
अवलम्बनं पाणिग्रहाक्रन्दासारादि । प्रपातपानीयास्वादैः पानीयानि तनूकुर्वत् | अबलं सैन्यरहितम् । वनं काननम् । अत्रैकत्र - चवौ दन्त्यौ - ष्ठौष्ठयौ, अपरत्र - ओष्ठयदन्त्यौष्ठयौ । अपश्यदित्यत्रैकः शकारः, अपरत्र द्वौ । तथा—
'भवानि ये निरन्तरं तव प्रणामलालसाः । मनस्तमो लालसा भवन्ति नैव ते क्वचित् ॥'
चित्तमोहमलेन जडाः । अत्र लालसेति प्रथमलकारोऽलघुप्रयत्नतरः । मलालसेत्यत्र लघुप्रयत्नतरः ।
तथा नकार - णकारयोरखरमकार - नकारयोर्विसर्जनीयस्य भावाभावयोरपि न विरोध इति केचित् । यथा
'वेगं हे तुरगाणां जयन्नसावेति भङ्ग हेतुरगानाम् ।' 'पातयाशु रथं धीर समीरसमरंहसम् । द्विषतां जहि निःशेषं पृतनाः समरं हसन् ॥' 'द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषयस्यति कथं वृकयूथादजा यथा ॥' मैक्यग्रहणात्स रस इत्यादौ
'प्रवणः प्रणवो यत्र प्रथमः प्रमथेषु यः । रणवान्वारणमुखः स वः पातु विनायकः ॥'
इत्यादौ च यमकत्वं मा भूत् ॥
तत्पादे भागे वा ।
तद्यमकं पादे तस्य च भागे भवति । तत्र पादजं पञ्चदशधा । तथा हि - प्रथम द्वितीयादावावर्तते । द्वितीयस्तृतीयादौ । तृतीयश्चतुर्थ इति षट् । प्रथमो द्वितीयतृतीययोः द्वितीयचतुर्थयोः, तृतीयचतुर्थयोः, द्वितीयस्तृतीयचतुर्थयोरिति चत्वारः । प्रथमस्त्रिष्वपीत्येकः । प्रथम द्वितीये ।
१. अत्र विसर्जनीयपदम् ' यमक श्लेषचित्रेषु ववयोर्डलयोर्न भित् । नानुखारविसग च चित्रभङ्गाय संगतौ ॥' इति वाग्भटालंकारीयश्लोकोत्तरार्धस्थचित्रपदस्य यमकाद्युपलक्षणत्वं सूचयन्ननुखारपदमप्यत्र स्मारयति. २. 'भङ्गहेतु' स्यात्.
Page #224
--------------------------------------------------------------------------
________________
५ अध्यायः ]
काव्यानुशासनम् ।
२११
तृतीयश्चतुर्थे इति । प्रथमश्चतुर्थे द्वितीयस्तृतीय इति द्वौ । अर्धा वृत्तिः श्लोकावृत्तिश्चेति । द्वे इति । यथा
-
'चक्रं दहतारं चक्रन्द हतारम् । खड्गेन तवाजौ राजन्नरिनारी ॥'
केश्चिद्राजानमाह – समूहम् । नता । अरिसंबन्धि । रुरोद | भग्नाशा
अत्यर्थम् ॥
'संयतं याचमानेन यस्याः प्रापि द्विपा वधः । संयतं याच मानेन युनक्ति प्रेणताञ्जनम् ॥' रणम् । देव्याः । जितेन्द्रियम् । पूजया ज्ञानेन वा ॥ 'प्रभावतोsनाम न वासवस्य प्रभावतो नाम नवासवस्य ।
प्रभावतो नाम नवा सवस्य विच्छित्तिरासीत्त्वयि विष्टपस्य || ' प्रभावात् । शक्रस्य । तेजखिनः । नामः नमतेः कारकः । अनाम नमनरहितः । अतश्च विष्टपस्य प्रभौ स्वामिनि त्वयि नवसोमरसस्य सवस्य यज्ञस्य नवा विच्छित्तिरासीत् । नवेत्येक एव निपातः प्रतिपेधार्थः । नामेत्यभ्युपगमे निपातः । इत्यादि ॥
अर्धावृत्तिर्यथा---
'सा रक्षतादपारा ते रसकृद्गौर वाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥'
I
सा देवी । त्रायताम् । अनन्ता । तव । रागकृदभिमतं वस्त्वित्यर्थः । वाग्रूपा । पालिनी । उत्कृष्टक्षतेः । अपगतविपक्षात् । अविरतम् । गौरवेणाधिका सर्वेषां गुरुरित्यर्थः ॥ श्लोकावृत्तिर्यथा
' स त्वारं भरतो वश्यमवलं विततारवम् । सर्वदा रणमानैपीवानलसमस्थितः ||
१. कश्चिन्नृपमाह - हे राजन् तव संबन्धिना खड्गेनाजी रणे आरं रिपुसंबन्धि चक्रं समृहं अरं शीघ्रं दहता नता अरिनारी रिपुस्त्री हता भर्तृवधेन ताडिता सती चक्रन्द कन्दितवतीत्यर्थः' इति रुद्रटालंकारव्याख्या. २. 'प्रणतं जनम्' स्यात्.
Page #225
--------------------------------------------------------------------------
________________
२१२
काव्यमाला। सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । ..
सर्वदारणमानैषी दवानलसमस्थितः ॥ महापुरुषः । पुनः । शत्रुसमूहम् । भरात् । वशे वर्तमानम् । बलरहितम् । दीर्घाक्रन्दम् । सर्वकालम् । संग्रामम् । प्रापयामास । अवानलसम् अपि तु त्वरितं गच्छन् । अस्थीनि तस्यात्युपक्षिणोति । सत्त्वेन ये ते आरम्भास्तेषु रतः । सर्वथा आश्रितं तरुत्वग्वसनं येन शत्रुसमूहेन । सर्वेषां दारणे यो मानस्तमिच्छति । दवाग्निना समं स्थितं यस्य ॥ . । तथा भागजस्य द्विधा विभक्ते पादे प्रथमपादादिभागः पूर्ववद्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेष्वित्यष्टाविंशतिर्भेदाः । श्लोकान्तरे हि न भागावृत्तिः संभवति । तद्यथा
'सरस्वति पदं चित्तसरस्वति विधेहि मे।।
त्वां विना न हि शोभन्ते नराः काया इवासुभिः ॥' 'करेण ते रणेष्वन्तःकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥' 'परागतरुराजीव वातैवंस्ता भटैश्चमूः । परागतमिव क्वापि परागततमम्बरम् ।। 'पातु वो भगवान्विष्णुः सदा नवधनद्युतिः ।
स दानवकुलध्वंसी सदानवरदन्तिहा ॥' 'भवानि शं विधेहि मे भवानिशं कृपापरा।
उपासनानि यजनोऽभवानि शंसति त्वयि ॥ दिवानिशम् ॥' इति । चित्तसरखतीति । चित्तसमुद्रे ॥ अन्तःकरणेति । द्विपतामन्तविधायिना । परागतेति । परा प्रतिपक्षभूता पर्वते तरुपतिरिव । अत्र च व्यतिकारपरागेण रणरेणुना व्याप्तं गगनं परागतमिव न जाने क गतमित्यर्थः ।। सदेति । सर्वदा । स इति विष्णुः । समदस्य कुवलयापीडाख्यस्य वरदन्तिनो हन्ता । भवानीति। हे गौरि, शं सुखम् । अनिशमनवरतम् । न विद्यते जन्म येभ्यस्तान्यभवानि ॥
१. रुद्रटालंकारव्याख्यायां तु-'अवान् अगच्छन् । कम् । अलसं निष्क्रिय जनम्' इत्येवमुपलभ्यते. २. 'अन्तकरण' इति स्यात्,
१. 'अन्तकरेणेति' स्यात्.
Page #226
--------------------------------------------------------------------------
________________
५ अध्यायः
काव्यानुशासनम् ।
२१३
'पदद्वयं कपालिनः पुनातु लोकपालिनः ।
अलीयते नतो हरिः स यत्र पङ्कजप्रभे ॥' एवमन्यान्यप्युदाहार्याणि ॥
त्रिधाविभक्ते द्वाचत्वारिंशत् । चतुर्धाविभक्ते षट्पञ्चाशत् । प्रथमपादादिगतान्त्यार्धादिभागे द्वितीयपादादिगताद्यार्धादिभागे यम्यन्त इत्याधन्वर्थतानुस्मरणेनानेकभेदमन्तादिकम् । अन्तादिकमाद्यन्तकं तत्समुच्चयः ।। तत्र पादद्वयगतत्वेन 'सरस्वति-' इत्यायुदाहरणमेकमेव प्रदर्शितम् । पादत्रयगतत्वेन च यमकं केषांचिन्नाभिमतमिति, लक्ष्यव्याप्तिदर्शनाय 'करण-' इत्यायुदाहरणचतुष्टयं दर्शितम् । एषु च प्रथमपादादिभागस्य द्वितीयपादादिभागेष्वावृत्तिर्दर्शिता। पादान्त्यभागस्य द्वितीयपादान्त्यभागेनावृत्तिप्रदर्शनार्थ तु पदद्वयमित्यायुदाहृतम् ॥ अन्यान्यपीति । तत्रोदाहृतशेषाण्याद्यभागजानि यथा-'सरस्वति यथा रत्नान्यनन्तानि स्फुरन्ति हि । सरस्वति तथा चित्ते शब्दार्थाः संस्फुरन्तु मे ॥', 'परमा या समृद्धिः स्यात्सुखदुःखविवर्जिता । तस्या हेतुं नमामीशं परमायाविनाशनम् ॥', 'योगिगम्यं गुणातीतं मधुकेतुं विभुं हरिम् । मधु केतुं नमाम्याचं दृप्तदैत्यविनाशनम् ॥' मधोः केतुरिव । मधु ब्रह्म केतुं ज्ञातुम् । 'कि कित ज्ञाने' इत्यस्य ॥ 'प्रणमामि सुरारिघ्नं शिवं सोमं भवान्तकम् । यो विभर्ति विपन्नेषु शिवं सोमं च मूर्धनि ।' सह उमया ॥ 'सुरासुरशिरोरत्नघृष्टपादनखांशवे । शंकराय नमस्तस्मै शंकराय जगत्रये ॥' सुखकराय ॥ 'पयोधरारवाः खराः पयोधरा जवान्विताः । पयोधरान्सरन्त्यतो पयोधरान्वियोगिनः।।' जलधारी आरवो येषाम् । दुःसहाः । मेघाः । कुचान् । असंजातस्तन्यात् ॥ 'माधवाय नमस्तस्मै धेनुकान्तविधायिने । धेनुकान्तवृषस्थायोमाधवाय नमोऽस्तु ते ॥ धेनुको नाम खररूपधारी विष्णुविघाताय कंसप्रयुक्तो दैत्यः। गोवल्लभवृषभासीनायै ॥ जग. देकगुरुर्यो हि जगदे कमलो वा । भवतः पातु देवोऽसौ भवतः पार्वतीप्रियः ॥' जगदेकगुरुरिति ब्रह्मणा यः कथितः । युष्मान् । संसारात् ॥ 'देवि त्वा ये गिराजस्रं सत्यसंधेत्युपासते । देवि त्वा ये भजन्ते ते सत्यसंधेयसंपदाम् ॥' एतानि वृत्त्युदाहरणपश्चकेन सहायभागजानि चतुर्दश । एवमन्यभागजान्यप्युदाहरणीयानि ॥ अन्तादिकमिति । दिङ्मात्रम् । यथा---'नारीणामलसं नाभि लसनाभि कदम्बकम् । परमास्त्र. मनङ्गस्य कस्य नो रमयेन्मनः ॥' अलसं क्रियासु सविलासम् । न अभि अपि त्वभयम्॥ आद्यन्तकं यथा-'पिनाकिने नमस्त्रातदैत्यभीवेपिनाकिने । नीलकण्ठमपीक्षन्ते योगिनो हंसमेव यम् ॥' भीवेपिनो भयकम्प्राः ॥ तत्समुच्चय इति । आद्यन्तकान्तादिक
१. 'देवि' इत्यस्यामन्त्रितत्वेनाविद्यमानवत्त्वेन त्वादेशाप्राप्त्या 'त्वा' इति पाठेऽपि यमकनिर्वाहः, विसर्जनीयस्येवानुस्वारस्यापि यमकाविरोधित्वात्; यद्वा परसवर्णे कृते ध्यक्षरमेव यमकं स्यात्.
Page #227
--------------------------------------------------------------------------
________________
२१४
काव्यमाला । मध्यादिकमादिमध्यमन्तमध्यं मध्यान्तकं तेषां समुच्चयाः । तथा तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागेष्वनियतेऽवस्थाने आवृत्तिरिति प्रभूततमभेदं यमकम् ॥
योर्योगः । यथा-'ससार साकं दर्पण कन्दर्पण ससारसा । शरं नवाना विभ्राणा नावि. भ्राणा शरनवा ॥' प्रववृते । सार्धम् । दर्पण कामेन च । लक्ष्मणाख्यपक्षियुक्ता। काण्डम् । नूतनशकटा । धारयन्ती । ........................... अपि तु पक्षिशब्दयुक्ता । ऋतुविशेषः । नूतना ॥ एवं मध्यादिक आदिमध्यः अन्तमध्यमध्यान्तकतत्समुच्चयतोऽत्रोदाहरणानि अभ्यूह्यानि । मध्यादिकादयो भेदाः संभविनोऽपि न हृद्या इति नोदाह्रियन्ते इति केचित् ॥ तस्मिन्नेव पादे इति । न तु पादान्तरे । तत्रादिभागस्य मध्यभागेनावृत्तिर्यथा-'स रणे सरणेन नृपो बलितावलितारिजनः। पदमाप दमानमतेरुचितं रुचितं च निजम् ॥' समं ग्रामे । प्रयाणेन हेतुना । बलवत्वेन वेष्टितारिजनः । पदं राज्यलक्षणम् । उपशमाद्धेतोः । अनुरूपमभीष्टं च ॥ आदिभागस्यान्तभागेन यथा-'घनाघ नायं न नभा घनाघनानुदीरयन्नेति मनोऽनुदारयन् । सखेऽदयं तामविलास खेदयन्नहीयसे गोरथवा न हीयसे ॥' एतत्पथिकस्य प्रावृषि सुहृदोच्यते-बहुपाप । श्रावणो मासो वार्षुकमेघान्विस्तारयन्न नायमेति । मनोऽर्थाद्विरहिणाम् । पश्चात् स्फोटयन् । तां कान्ताम् । निलील । उद्वेजयन् । सर्पवदाचरसि । यद्वा कियत्तवैतद्बलीवर्दान्यूनो न भवति ॥ मध्यस्यान्तेन यथा-'असतामहितो महितो युधि सारतया रतया । स तयोरुरुचे रुरुचे परमेभवते भवते ॥' अननुकूल: । अत एव पूजितः । उत्कृष्टतया वलवत्तया वा । तदेकसूक्तया । स कश्चिद्वीरः । प्रसिद्धतया । विस्तीर्णकान्तये । प्रीतिमुत्पादितवान् । प्रकृष्टगजयुक्ताय । तुल्यम् ॥ आदेमध्यान्ताभ्यां यथा-'स्तेनतास्तेनतास्ते नता मानवामा नवा मानवाः । दानवादानवा दा. नवा वा नरावा नरा वानराः ॥' चिरंतनस्य कस्यचिदनुचरस्य तत्कालीनानामनुजीविनामात्मसमर्पणेन केनचिनरपतिनापमानितस्य तमेव प्रतीयमुक्तिः-हे नरा नृपाश्च । प्रणताः। नूतनाः। पुरुषाः । स्तेनतया चौर्येण क्षिप्तखामिलक्ष्मीकाः । दर्पण प्रतिकूलाः । दानकथायामस्तुतिपराः । दानवा एव । नृपतयः । इत्यस्य(?) नरो न्यायस्तद्रहिता वा• नरा एवेति ॥ अनियतस्थाने आवृत्तिर्यथा-'कमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥' पद्मिनीम् । भ्रमरी । न क्षमते। तां दृष्ट्वा तप्यत इत्यर्थः । सार्धम् । तं प्रियम् । इदानीम् । वसन्तेन । क्रीडाप्रधानम् ॥ प्रभूततमभेदमिति । महाकविभिराहतस्यानियतदेशावयस्य
१. 'वीनां पक्षिणां प्राणो विभ्राणो न विद्यते विभ्राणो यस्यां साविभ्राणा नैवंविधा । इति रुद्रटालंकारटीकादर्शनेनात्र त्रुटिः प्रतीयते. २. 'दमात्' रुद्रटालंकारे. ३. 'सः । संग्रामे ।' स्यात्. ४. 'प्रसिद्धया' रुद्रटव्याख्याने. ५. 'तुभ्यम्' स्यात्. ६. 'ते' स्यात्.
Page #228
--------------------------------------------------------------------------
________________
५ अध्यायः
काव्यानुशासनम् ।
मतदितरच तितधियां का यत्नः।
एतस्य च कविशक्तिख्यापनमात्रफलत्वेन पुरुषार्थोपदेशानुपायत्वात्काव्यगडुभूततेति भेदलक्षणं न कृतम् । काव्यं हि महाकवयः सुकुमारमतीनां पुरुषार्थेषु प्रवर्तनाय विरचयन्ति । न च पृथग्यत्ननिर्वर्त्य यमकादिनिरुद्धरसं तत्तथा सुखोपायः । सरित्पर्वतसागरादिवर्णनमपि वस्तुवृत्त्या रसभङ्गहेतुरेव, किमगनकष्टकाव्यम् ॥ तथा च लोल्लट:'यस्तु सरिदद्रिसागरनगतुरगपुरारिवर्णने यत्नः । कविशक्तिख्यातिफलो विततधियां नो मतः प्रबन्धेषु ॥ यमकानुलोमतदितरचक्रादिभिदोऽतिरसविरोधिन्यः ।
अभिमानमात्रमेतद्गडरिकादिप्रवाहो वा ॥ इति । स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् ।
स्वरादीनां नियमच्युतगूढादिश्च चित्रं सादृश्यादाश्चर्यहेतुत्वाद्वा चित्रम् । तत्र स्वरचित्रं यथा
'जय मदनगजदमन वरकलभगतगमन ।
गतजननगदमरण भवभयगनरशरण || हस्बैकस्वरम् ॥
एवं दीर्घकस्वरद्विन्यादिस्वरनियमे उदाहार्यम् ॥ यमकस्यासंख्यत्वात् इत्यर्थः ॥ न च पृथग्यन्ननिर्वत्येति । यदाह ध्वनिकारः'रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् । अपृथग्यन्ननिर्वर्त्यः सोऽलंकारो ध्वनी मतः ॥' इति ॥ दीधैंकखरद्वियादिस्वरनियमे इति । दीर्धेकखरनियमे यथा'वैधेरैनैशैरैन्द्रैरैजैरैलैजैन: सैद्धैः । मैत्रैनैकैवै धैर्यैः खै रौदैः स्वैधै दैवैस्तैस्तैः ॥' विधिर्विरचिः । ईर्लक्ष्मीस्वस्या इनो भर्ता विष्णुः । ईशः शिवः । इन्द्रो हरिः । ईजः कन्दर्पः । इला भूः । जिनोऽहन् । सिद्धा देवविशेषाः । मित्रो रविः । रौदो धनदः । देवाः सुराः । तेषां संवन्धिभिः तैस्तैः । अनेकैधैर्यः स्वैर्वित्तैश्च वै स्फुटं सुष्टु । समन्तादेधै समृद्धो भवाम्यहम् ॥ द्विखरनियमे यथा--'क्षितिस्थितिमितिक्षिप्तिविधिविनि
१. 'भिदो हि र रुद्रटव्याख्याने. २. 'अभिधान' रुद्रटव्याख्याने. १.-२. 'पृथग्यत्न' इति मूले ध्वन्यालोके च. ३. 'रैदैः' स्यात्. ४. 'रैदो' स्यात्.
Page #229
--------------------------------------------------------------------------
________________
२१६
काव्यमाला । व्यञ्जनचित्रं यथा--
'ने नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥' रणपराङ्म खा गणाः कुमारेण जगदिरे इति प्रक्रमः । हे नानानना अनेकरूपवदनाः, स न ना न पुरुषो य ऊनेन हीनेन जितः विजितहीनोऽपि पुरुषोऽपुरुषः । ननु संबोधने । जितोऽप्यजित एव यो न जितप्रभुः । सोऽपि पाप एव, यो जितं जितं नुदतीति ॥
एकव्यञ्जनम् ॥ एवं द्विव्यादिव्यञ्जननियमे उदाहार्यम् ।।
धिसिद्धि लिट् । मम त्र्यक्ष नमद्दक्षहरः स्मरहर स्मर ॥' पृथिव्याः पालनपरिच्छेदःप्रेरणसृष्टीर्वेत्ति निधिसिद्धीलेंढि चेति क्विपि संवोधने मां स्मरेति ॥ निखरनियमे यथा'क्षितिविजितस्थितिविहितिव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुस्तुबु(?)युधि कुरवः स्म मरिकुलम् ॥' भूमेर्विजयस्य मर्यादायाश्च विधाने नियमपराः । विस्तीर्णम् । रुद्धवन्तः । दुःसहम् । विक्षिप्तवन्तश्च । युधिष्ठिरादयः ॥ आदिग्रहणाच्चतुःखरादिनियमे. ऽप्यभ्यूह्यम् ॥ द्विन्यादिव्याननियमे इति ॥ द्विव्यञ्जननियमे यथा-'भूरिभि
१. किरातार्जुनीयस्य पञ्चदशे सर्गे चतुर्दशस्यास्य श्लोकस्य व्याख्यानावसरे मल्लिनाथस्तु-"नेति । पदच्छेदस्तावत्-न. ना. ऊननुन्नः. नुन्नोन:. ना. अना. नानाननाः. ननु । नुन्नः. अनुन्नः. ननुन्नेनः. ना. अनेनाः, नुन्ननुन्ननुत् ॥ अथ योजना-हे नानानना नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः । ऊनेन निकृष्टेन नुनो विद्ध ऊननुन्नो यः स ना न पुरुषो न । तथा नुन्न ऊनो येन स नुनोनो ना पुरुषोऽना नन्वपुरुषः खलु । ऊनाद्भीतः पलायमानस्तु किं वक्तव्यमिति भावः । किंच नुन्न इनः खामी यस्य स नुन्नेनः स न भवतीति ननु. नेनः । नबर्थस्य नशब्दस्य 'सुप्सुपा' इति समासः । स नुन्नो विद्धोऽप्यनुन्नोऽविद्ध एव । यूयमनुनखामिकत्वादनुमा एवेति भावः । तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्ताचुदतीति नुन्ननुन्ननुदतिपीडितपीडको ना पुरुषोऽनेना निर्दोषो न भवतीति।किंतु सदोष एवेति । 'नात नातिपरिक्षतम्' इति निषेधादित्यर्थः । अयं तु नैतादृश इति न पला.. यितव्यमिति भावः । अयमेकव्यञ्जनः । अन्त्यस्तकारस्तु न दोषावहः । 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥” इत्येवं स्फुटं व्याख्यातवान्.
१.-२. विसर्जनीयो लेखकप्रमादजो भवेत्. ३. 'विजिति' स्यात्. ४. 'ख' स्यात्.
Page #230
--------------------------------------------------------------------------
________________
५ अध्यायः ]
स्थानमुरः कण्ठादि । तच्चित्रं यथा
काव्यानुशासनम् ।
'अगा गां गाङ्गकाकाकगाहकाघककाकहा ।
२१७
अहाहाङ्गखगाङ्कागकङ्कागखगकाककः ॥'
कश्चित्पुरुषः स्तूयते --- हे गाङ्गकाकाकगाहक गङ्गासंबन्धीषज्जलकुटिलगतिविलोडक, त्वं कुत्सितपापान्येव वायसास्तेषां हन्ता । जिहीतेः क्विपि हानं हाः । न हां गतिं जहाति यत्तथाविधमङ्कं यस्य स खगः सू'हिं यस्य स गिरिरर्थान्मेरुस्तत्र कङ्काख्याः पर्वतपत्रिणः काककाः शव्दकारिणो यस्य स त्वं पापहा मेरुनिवासिभिः पक्षिभिरपि प्रख्याप्यमानकीर्तिगमगाः स्वर्गं गतोऽसीत्याशंसायां भूतवन्निर्देशः । कायति अर्थमभिधत्ते इति काकः शब्दः औणादिके । तं करोति इति णिचि तदन्तादके च काककः ॥ कण्ठस्थानम् । एवं द्वित्र्यादिस्थाननियमे उदाहार्यम् । गतिर्गतप्रेत्यादिका । तच्चित्रं यथा
'वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वरितारिका ||
र्भरिभिर्भीरा भूभारैरभिरेभिरे । भेरीरेभिभिरभ्रामैरभीरुभिरभिरिभाः ॥' बहुभिः । कङ्कटपताकादिभारयुक्तैः । भयप्रदाः । भुवो भारभूतैः । डुढौकिरे । संजग्मिरे इति यावत् । दुन्दुभिवन्नदनशीलैः । मेघश्यामैः । निर्भयैर्गजैः । गजाः ॥ त्रिव्यञ्जननियमे यथा'देवानां नन्दनो देवो नोदनो देवनिन्दिनः । देवं दुदाव नादेन दाने दानवनन्दिनः ॥' देवो विष्णुः । स्वर्गमुपतापयामास किमित्युपजातशङ्कमकरोत् । नादेन वक्षोस्थिशब्देन । दाने विदारणे । दानवनन्दिनो हिरण्यकशिपोः ॥ आदिग्रहणाच्चतुर्व्यसनादिनिमेऽप्यभ्यम् ॥ द्वित्र्यादिस्थाननियम इति । द्विस्थाननियमे यथा - 'अनङ्ग लङ्घनालग्ननानातङ्का सदङ्गना । सदानघ सदानंन्दिन्नताङ्गासङ्गसंगत ॥ कंचित्कामिनमन्यासैक्त निजवधू निमित्तं सानुनयं काचिदाह - हे सततमपाप, सतामानन्दकारिन्, प्रणताङ्गेष्वनुरागयुक्त सा सलना कामाक्रमणविलमा नेकपीडा वर्तते । तत्तां रक्षेत्यर्थः ॥ दन्तकण्ठलक्षणं स्थानद्वयमत्र ॥ त्रिस्थाननियमे यथा - 'अलिनीलालकलतं कं न हन्ति
'१. 'प्रत्यागता' स्यात्.
१. 'रिभैरिभाः' स्यात्. २. दिवं' स्यात्. ३. 'सक्तं स्यात्. ४. 'सल्ललना' स्यात्. ૧૯
Page #231
--------------------------------------------------------------------------
________________
२१८
काव्यमाला। करिगिरिदुर्विगाहा । उत्कृष्टा । अभीगानामप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता । विहितशत्रुक्षया । खार्थे णिग् । अविद्यमान आसेधो यस्याः । मया सह युध्यध्वमिति चरिताः प्रार्थिता अरयो यया सा यदूनां सेना । द्विषतां बलं प्रयातेति पूर्वेण संबन्धः । अत्रायुक्पादयोर्गतिः युक्पादयोः प्रत्यागतिरित्यर्धे ते एवेति पादगतप्रत्यागतम् । __ एवमर्धगतप्रत्यागत-श्लोकगतप्रत्यागत-सर्वतोभद्र-अर्धभ्रम-तुरगपद-गोमूत्रिकादीन्युदाहार्याणि । घनस्तनि । आननं नलिनच्छायनयनं शशिकान्ति ते ॥' अलिवन्नीला अलका एव चञ्चलत्वादिना लता यत्र ॥ दन्ततालुकण्ठलक्षणं स्थानत्रयमन ॥ एवं चतु:स्थानादिनियमेऽप्युदाहार्यम् ॥ अर्धगतप्रत्यागतं यथा-वेदापन्ने स शक्ले रचित निजरुगुच्छे. दयत्नेऽरमेरे देवासक्तेऽमुदक्षो वलदमनयदस्तोददुर्गासवासे।सेवासर्गादुदस्तोऽदयनमदलवक्षोदमुक्ते सवादे रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे ॥' स कश्चित्कस्मिद्रने रत्नभूते पुरुषे रेमे निर्वृतोऽभवत् । वेदापन्ने । प्रियंवदे। कृतः सहजाया अविद्याख्यरुज उच्छेदयत्नो येन । न रमन्ते सुजनेषु धर्मे चेत्यमरान् दुर्जनानीरयति यः । देवभक्ते । अविद्यमानहर्षाण्यक्षाणि यस्य सः । जितेन्द्रिय इत्यर्थः । शक्त्युपशमनीतीनां दाता । व्यथायाः परकृताया दुर्गा इव दुर्गाः । शूरा इत्यर्थः । तानपि क्षिपन्ति ये तेषां स्थाने । राजप्रणतिकरणानिवृत्तः । अदयया दोशेन हिंसया च त्यक्ते । प्रमाणशास्त्रकुशले । अयमनुकूलं दैवं ये द्यन्ति खण्डयन्ति तान्व्यति छिनत्ति यः । यदि वा अयन् अयच्छन् अच्छा नैर्मल्यं नाम गुणो यस्य तस्मिन् शुद्धचरिते । गुरुभिः शुश्रूष्यमाणैः जनितो यश्चिरं क्लेशस्तेन श्रान्ते तत्र वा सक्ते । पदरहितानवति यः ॥ श्लोकगतप्रत्यागतं यथा-'निशितासिरतोऽभीको न्येजतेऽमरणा रुचा । सारतो न विरोधी ने खाभासो भरवानुत ॥ तनुवारभसो भाखानधीरोऽविनतोरसा । चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥' कुमारेण गणा जगदिरे इति प्रक्रान्तम् । हे अविद्यमानरणाः । तीक्ष्णखड्गप्रसक्तः । भीरहितः । बलात् । न न विरोधी । सुष्टु आभासत इति खाभासो दर्शनीयः । धुर्यश्च । उत चार्थे । वर्मणा वभस्ति । तेजस्वी । रुचा तेजसा हेतुना न्येजते न कम्पते । निशब्दः प्रतिषेधार्थः । कः पुनरधीरो भयवान् । सिंहनादेनादशीले समरे कमनीयेनोन्नतवक्षसा । क्रीडतीति ॥ सर्वतोभद्रं यथा--'जितानया
१. 'अच्छो' रुद्रटालंकारव्याख्याने. २. 'नोऽस्माकम्' इति व्याख्यानस्योपलम्भेन 'नः' इति सविसर्गपाठः किरातार्जुनीये. ३. 'मरणरहिताः' इति घण्टापथसंवादात् 'अविद्यमानमरणाः' स्यात्. ४. 'नोऽस्माकम्' घण्टापथे. ५. 'रसितेन शब्दितेनैवानाति प्रसतीति रवेणैव विश्वप्राणहारिणीत्यर्थः' इति घण्टापथे.
Page #232
--------------------------------------------------------------------------
________________
-- ५ अध्यायः]
.
काव्यानुशासनम् ।
२१९
या नताजितारसाततसारता । न सावना नावसानयातनारिरिना(?)तया ॥' जिता अनीतयोऽननुकूलदैवं वा यया । प्रणतानां रणान्तरे आतननमाततं सह तेनेति सवि. स्तरा दृढतया । बहुतरं दाळमित्यर्थः । न न सरक्षणा । अर्थाद्भक्तानाम् । अन्तकालदुष्कर्मविपाकताडनायाः वैरिणी खामिनी(?)तयेत्युक्तरणे संवन्धः ॥ अत्र न केवलमधोधःक्रमेण स्थितानां पादानां प्रातिलोम्येन स्थितिर्यावदर्धभ्रमस्यापि । तत्र हि प्रथमादिपादानां प्रथमैश्चतुर्थतृतीयद्वितीयप्रथमपादानामष्टमैश्चाक्षरैः प्रथमपादः । एवं द्वितीयसप्तमैस्तृतीयषष्टैश्चतुर्थपञ्चमैश्च द्वितीयतृतीयचतुर्थपादाः । इह च सर्वं तदेवोपलभ्यत इत्यर्धभ्रमस्याप्यवस्थानात्सर्वतोभद्रम् ॥ अर्धभ्रमं यथा--'ससत्त्वरतिदे नियं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वमकर्षति ॥' सपौरुषाणां रागप्रदे । सभयानां कोपाहारिणि । त्वरयाधिकप्रसरत्सिंहनादे रणर सिकत्वमपनयति ॥ तुरगपदागतं यथा---'सेना लीलीलीना नाली लीनाना नानालीलीली । नालीनालीले नालीना लीलीली नानानानाली ॥' सेना अहं ना पुरुषो लडयोरेकत्वस्मरणमिति ईंले स्तौमि । लीला विद्यन्ते येषां तान् ली लिनः ईले स्तोतीत्येवंशीलो यः स खामी यासाम् । शुद्धविषये सविलासानरानर्चयति यासां प्रभुरित्यर्थः । आलमनर्थो विद्यते यस्य स नाहम् । लीनानि अनांसि रथादौ यस्य सः । नानाप्रकारा या आल्यो व्यूहरचनास्तासु या ली. लयनं श्लेषस्तां लान्ति गृह्णन्ति ये ते विद्यन्ते यस्य । न आलीनामाश्रितानामली भृङ्गः उपजीवकः । आलीनाः श्लिष्टाः । लीलिनी लीलावती इला भूर्येषां ते नृपा विद्यन्ते यस्येति मत्वर्थीयः । नानाप्रकारा नरो यस्य । आलवान् मूर्खः । न आली अनाली अमूर्खः ॥ अनेन तुरगः खेल्यते । तथाहि-'खाद्यो व्यग्निर्विधुशरः स्तनाश्वः सागराष्टमः । त्रिषष्ठोऽध्यम्बुधिख्यभिः खाग्निीषुः खसप्तमः ।। त्र्यन्तोऽब्धिषष्ठस्वयम्भोधिस्तुर्याक्षिस्तनचन्द्रमाः । व्यग्निरब्धिखमङ्यङ्गिःखाम्भोधिर्वहिसायकः ।। वेदाश्वो द्विवसुः खर्तुत्यश्वः खान्तोऽभिषष्ठकः । तुर्येषुद्यब्धिराद्यख्यिाद्योऽध्यग्निर्ययोर्गमः ॥' खादिभिरेकादीनि लक्ष्यन्ते । अत्र समासस्थं पूर्वपदं पतेरुत्तरपदं तु कोष्टकस्य ग्राहकम् । ययोरश्वस्य गमः संचारपदमिति यावत् । एवमेव च तुरगफलकस्यार्पोरेधैर्धे खेलनीयाः ॥ गोमूत्रिका यथा-'कान्पुलोमतनयास्तनताडनानि वक्षःस्थलोच्छितरयाञ्चनपीडनानि । पायादपायभवतो नमुचिप्रहारी मायामपास्य भवतोऽम्बुमुचां प्रसारी ॥' पादे गोमूत्रिकेयम् ॥ अर्धगोमूत्रिका यथा-'चूडाप्रोतेन्दुभागातिदलिततमःकन्दलीचक्रवालो देवो देयादुदारं शममरजनतानन्दनोऽनन्यधामा । क्रीडाधूतेशभामा द्युस
१. 'दृढता' स्यात्. २. 'सेनाः, लीलीलीनाः, न, आली, लीनानाः, नानालीलीली, न, आलीनाली, ईले, ना, आलीनाः, लीलीली, नानाना, अनाली' इत्येवं पदानां विभागो रुद्रटव्याख्याने दर्शितः. ३. 'ईटे' स्यात्, ४. 'आलीनाना' रुद्रटव्याख्याने. ५. 'लीलीली' स्यात. ६. 'परे' स्यात्.
Page #233
--------------------------------------------------------------------------
________________
२२०
काव्यमाला।
आकारः खड्ग-मुरजबन्धाद्याकृतिः। तचित्रं यथा
'मारारिशकरामेभमुखैरासाररंहसा ।। सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ॥ माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ।' मारारिः शिवः । रामो मुशली । आसारवेगतुल्येन सर्वेषामाद्या ॥ खगः॥ तथा चद्राढिकान्तरे साधारणो माशब्दः । तस्य दक्षिणतोऽधः क्रमेण वर्णाश्चतुर्दश । शिखायां साशब्दः । ऊर्ध्वक्रमेण । वामतस्तावन्त एव यावन्माशब्दः साधारणः । एतत्फलम् । तस्यैव माशब्दस्य दक्षिणतो निःसरणक्रमेण गण्डिकायां वर्णत्रयम् । उपरि माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारश्चत्वारो वर्णाः । एतच्च कुलकम् । ततस्तस्य माशब्दस्योपरि वर्णद्वयम् । एतन्मस्तकम् । सामामाशब्दा द्विःपञ्चकृत्वो द्विरावृत्ताः ॥ ___ 'या दमानवमानन्दपदमाननमानदा ।
दानमानक्षमानित्यधनमानवमानिता ॥ या इन्द्रियजयेन उत्तमो य आनन्दस्तस्य पदम् । विद्यया हि शमसुखलाभः । मुखस्य पूजां ददाति । निरपभ्रंशभाषणाद्धि मुखं पूज्यं भवति । दनतनिमच्छेदनीव भ्रवा णो देहे देवी दुरीरं दममरतनानन्दिनो नान्यधामा ॥' शं सुखम् । असाधारणस्थानः । क्रीडया अपनीतः शिवक्रोधो यया । भ्रुवा भ्रक्षेपण अस्माकं शरीरो दुरपसार्यमुपशमं संततप्रणता प्रतीहारेण । उमा च अपूर्वयतिः ॥ श्लोके गोमूत्रिका यथा-'पायाद्वश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्योरुद्धाङ्गभागः पुरदनुजदवः स्त्यानसंविनिधानम् । कन्दर्पक्षोददक्षः सरससुरवधूमण्डलीगीतगर्यो दैत्याधीशान्धकेनानतचरणनखः शंकरो भव्यभाव्यः ॥' घनज्ञाननिधिः । भव्यध्येयः ॥ 'देयानश्चण्डधामा सलिलहरकरो रूढकन्दाभबिम्बो देहे रुग्भङ्गरागः सुरमनुजदमस्त्यागसंपनिधानम् । भंदं दिग्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो दैन्यैधी बन्धहानावततरसनयः शंपरो दिव्यसेव्यः ॥' तिग्मांशुः । रुजां विनाशे आसक्तः । भंदं कल्याणम् । दिशां क्षोभदा श्रीर्यस्य । सत्योऽत एव निर्भया या वध्वस्तनिर्भर्त्सनवचसामविषयः । न दैन्यमेधयत इत्येवंशीलः । कर्मवन्धपरित्यागे विस्तीर्णो
१. 'अस्माकं' इति व्याख्याकरणात् 'नो' स्यात् २. 'नता नन्दिनानन्य' स्यात्. ३. 'शरीरे' स्यात्.
Page #234
--------------------------------------------------------------------------
________________
५ अध्यायः काव्यानुशासनम् ।
२२१ दानमानक्षमा एव शाश्वतं धनं येषां तैः पुरुषैः पूजिता । मानं ज्ञानम् ॥ सुरजवन्धः ॥ तथा हि-पादचतुष्टयेन पतिचतुष्टये कृते प्रथमादिपादेभ्यः प्रथमाद्यक्षराणि चत्वारि । चतुर्थादिपादेभ्यः पञ्चमादीनि च चत्वारि गृहीत्वा प्रथमः पादः । द्वितीयात्प्रथमं प्रथमाद्वितीयतृतीये द्वितीयतृतीयाभ्यां चतुर्थे चतुर्थात्ततीयद्वितीये तृतीयात्पादात्प्रथममक्षरं गृहीत्वा । द्वितीयः पादः । द्वितीयादष्टमं प्रथमात्सप्तमषष्ठे द्वितीयतृतीयाभ्यां पञ्चमे चतुर्थात्षष्ठसप्तमे तृतीयादष्टमं च गृहीत्वा चतुर्थः पादः। एवं मुसलधनुः-बाण-चक्र-पद्मादय उदाहार्याः ॥
नयो यस्य । शं पिपर्ति पूरयति ॥ आदिग्रहणाद्गजपदरथपदादीनि ज्ञातव्यानि ॥ मुसलेत्यादि । मुसलधनुषी यथा-'मायावित्तं महाहावा रसायातं लसद्भुजा । जातलीलायथासारवाचं महिषमावधीः ॥' 'मामभीदा शरण्या मुत्सदैवारुक्प्रदा च धीः । धीरा पवित्रा संत्रासाबासीष्ठा मातरारमः ॥' संदानित कमिदम् । महान् हावश्चेष्टालंकारो यस्याः । वीररसेनागतम् । सारादपानतं यथासारं यथासारं चाग्यस्य । प्रतिज्ञाभ्रष्टमित्यर्थः । हे मातः, हतवती त्वम् । एवंभूता या सा त्वमारमः व्यापारान्तरानिव. तव मां भयात्रासीष्टाः रक्ष्याः । अभियं ददाति या मुत् हर्षरूपा । धीः संविद्रूपा ॥ मुसलस्य न्यासो यथा---'मा' इत्यतः प्रभृत्यधोधः क्रमेण वर्णसप्तकम् । ततो वर्णदेशमानं दक्षिणपार्श्वे प्रसृत्याधोधः क्रमेण हस्तग्राह्यस्थानार्थ वर्णत्रयम् । ततो वामपार्श्वे प्रसृत्य वर्णपश्चकम् । ततो मध्ये 'जा'शब्दः साधारः । तदुपरि दक्षिणपार्श्व प्रमृत्योर्यक्रमेण वर्णपश्चकम् । तदुपरि वामपार्श्वे प्रसृत्य साधारं वर्णत्रयम् । ततो दक्षिणपार्श्वे प्रसृत्य वर्णसप्तकम् ॥ धनुषो न्यासो यथा-'मा'शब्दः शिखा । ततो 'म'कारात् प्रभृत्याद्यमधं कुटिलमधः क्रमेण विन्यास्यम् । ततो 'धी'शब्दात्साधारात्प्रभृति 'बा'शब्दान्तमूर्धक्रमेण न्यासः । ततः 'सं'शब्दः । पार्वे ततः 'त्रा' इति साधारः । ततोऽपरपार्थे 'सा' इति । ततः 'त्रा'शब्दः साधारः। ततोऽक्षरषटमूर्वक्रमेण न्यास्यम् । ततो 'म'शब्दः साधारः ।। वाणो यथा-'माननापरुषं लोकदेवीं सद्रस संनम । मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥' पूजयापगतो रोषो यस्यास्ताम् । त्रिभुवनदेवीम् । हे शोभनभक्तिरस । सम्यक् प्रणम । मनसा दास्यं गत्वा । तां देवीम् । अ
१. 'मायाविनं' रुद्रटे. २. 'दनपेतं' स्यात्. ३. 'न यथासारं' स्यात्. :
.
Page #235
--------------------------------------------------------------------------
________________
२२२
काव्यमाला । ड्रेति प्रियाह्वाने ॥ न्यासो यथा-अधोधः क्रमेण वर्णचतुर्दशकम् । ततोऽक्षरद्वयं फलकार्ध साधारम् । तत ऊर्ध्वक्रमेणाक्षरचतुर्दशकम् ॥ यथा वा-प्रथमपादेन ऊर्ध्वक्रमेण शरः । तत ऊर्ध्व फलस्यादौ 'दे'। तदृवं च वामभागे 'वीम्' । मध्ये 'सः'। दक्षिणतो 'द्रः' । ततो मध्यसकार एव द्विः । तदुपरि फलाग्रे 'नमौ' । अटनेमित ऊव॑क्रमेण 'मनौ' । मूले 'सा' साधारः । दक्षिणतोऽधःक्रमेण 'दरम्' । दक्षिणवाजे ऊर्ध्वक्रमेण 'गत्वा सर्वे' । ततः शरे 'सामा'वर्णयोरन्तरे 'दा' साधारः । वामवाजेऽधः क्रमेण ‘स्यमङ्गताम्' ॥ चक्रं यथा-'त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराजयन्ति वरदे द्विषः ॥' हे अभिलषितदायिनि, वादे स्वपक्षपरपक्षप. रिग्रहे शास्त्रसक्तायां भारत्यां त्वम् । शोभसे । तथा देवा रिपून् अभिभवन्ति । कुतः तवाहवास्त्रं विनाशायाभिमन्त्रितं द्रव्यं तद्भावनाया हेतोः ॥ अत्र पञ्चाक्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकम् ॥ 'सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजत्रं शिवताः सूदत्तोजदिशि स्थिताः ।।' सर्वदा अव्याज जितेन्द्रियाताः । शोभनं कृत्वा गृहीतमन्त्रवर्तनैरभ्यस्ताः । श्रेयस्त्वानि सुष्टूर्जितं विष्णुस्थानं परं ब्रह्म तत्र स्थिताः ॥ गोमूत्रिका धेनुरियं क्रमव्युत्क्रमाभ्यां चतुर्विंशतिप्रकाराः । तथा हिचतुर्ध्वपि पादेषु पतिशो लिखितेषु प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च क्रमवैपरीत्याभ्यां प्रकाराश्चत्वारः । एवं प्रथमतृतीययोः शिष्टयोश्च प्रथमचतुर्थयोः शिष्टयोश्च द्वितीयतृतीययोः शिष्टयोश्च द्वितीयचतुर्थयोः शिष्टयोश्च तृतीयचतुर्थयोः शिष्टयोश्च चत्वारश्चत्वार इति साकल्येन षट्चतुष्का इति ॥ 'हरेः खसारं देवित्वा जनताश्रित्य तत्त्वतः । वेत्ति स्वसारं देवि त्वा योगेन क्षपिताशुभा ॥ हे देवि, भगवतीं गोविन्दस्य भगिनीमुपास्य जनसमूहो निजमुत्कर्ष परमार्थतो जानाति । कथम् । चित्तवृत्तिनिरोधेन व्यवहृत्य । कीग्जनता । विनाशित किल्विषा । तथा च मनु:-'प्राणायामैर्दहेद्दोषान्प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥' अनियतावयवं यमकमेतत् ॥ 'सदाप्नोति पतियॊतिस्तादृशं त्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥' शोभनम् । आदित्यस्य तुल्यः । मोहविनाशात् । एतेन ज्योतिःस्वरूपा भगवतीति प्रतिपादितम् । यदुक्तम्-'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ॥' मध्ययमकमन्तादिकमिदम् ॥ त्वं सद्गतिः सित्तापारा परविद्योत्तितीर्षतः । संसा'दन चाम्व त्वं [सत्वं पासि विपत्तितः] ॥ त्वं शोभना गतिः । निर्मला अनन्ता प्रकृष्टं तत्त्वज्ञानम् । अत्र भवे । हे मातः । प्राणिनामापदः । गूढचतुर्थः ॥ ‘परमा या तपोवृत्तिरार्यायास्तां स्मृति जनाः । परमायात पोषाय धियं शरणमादृताः ॥' हे जनाः, अत्यर्थ सादराः सन्तः देव्यास्तां स्मृतिं शरणमागच्छत ।
१. 'सूदात्ताज' इति देवीशतके. २. 'यति' इति देवीशतके. ३. 'परावि-' इति देवीशतके. ४. 'संसारा' इति देवीशतके. ५. 'प्राणिनम् । आ' स्यात्. ६. 'यां' इति देवीशतके.
Page #236
--------------------------------------------------------------------------
________________
५ अध्यायः ]
काव्यानुशासनम् ।
२२३
किंविधा । या स्मृतिः प्रकृष्टा तपोवृत्तिः । देवीस्मरणमेव परमं तप इत्यर्थः । अनियतावयवं यमकमिदम् ॥ ' प्रवादिमतभेदेषु दृशास्ते महिमाश्रयः । भान्ति त्वन्निशि खस्येव शिखानामसमाश्रयः ॥' दर्शनानि महिनामाश्रयः । यानि प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया दृष्टय इति तात्पर्यम् । भवत्रिशूलस्य कोटीनां विषमधारा इव । अन्तयमकम् ॥ ‘यच्चेष्टया तव स्फीतमुदारवसु धामतः । तच्चेतो यात्यवहितं मुदा रवसुधामतः ॥' यच्चेतस्तव श्रवणचिन्तनाध्ययनादिव्यापारेण विकसितं सावधानं च । अत एव शाश्वतधनरूपम् । तच्चेतो हर्पेणोपलक्षितं धामतोऽतो मोक्षलक्षणात् खसुधां शब्दामृतं शब्दब्रह्मोदयं याति । गोमूत्रिकावन्धो यमकं वा ॥ ' सुरदेशस्य ते कीर्तिर्म - ण्डनत्वं नयन्ति यैः। वरदे शस्यते धीरैर्भवती भुवि देवता ॥' स्वर्गस्य । ते पुमांसः । हे वरदे | धीरैरविकृतचित्तैः । तेषां कीर्तिः स्वर्ग यातीति भावः । अनियतावयवं यमकम् ॥ पादपरावृत्त्या गोमूत्रिकापि ॥ 'तत्त्वं वीतावततनुत्तत्त्वं ततवती ततः । वित्तं चित्तं च वित्तत्वं वीतावीतवतां वत ॥' यतस्त्वं भवती तत्तत्वं परब्रह्मखरूपम् । वीतावततनुत् विगतविस्तीर्णव्यथम् । विस्तारितवती । सांख्यानां त्वमेव यस्मात्सर्वत्र प्रधानमित्यर्थः । ततो हेतोर्हे वित् विद्ये, वीतसंज्ञाश्च सांख्यानां प्रधानपुरुषसैद्भावका दश हेतवस्तद्वत्तां सांख्यानां तव वित्तत्वं वित्तं भवत्या धनत्वं प्रतीतम् । त्वं धनं प्रसिद्धमित्यर्थः । वतेत्याश्चयें । व्यक्षरः ॥ ' तारे शरणमुच्यन्ती सुरेशरणमुद्यमैः । त्वं दोपापासिनोदग्रवदोपा पासि नोदने ॥' हे ताराख्ये देवि विमले, वस्त्वं शरणं सती आश्रितत्राणायोत्तिष्टमाना । शक्रस्य संग्रामम् । व्यापारैः । दोपक्षेपणा निजवाहुना रक्षसि । प्रेरणकाले पलायितारो देवा भवतीं शरणमेत्य पुनः संग्रामसमर्थाः संपद्यन्त इति वाक्यार्थः । उद्यन्तीत्यत्र मुँन् चिन्त्यः | अनियतावयवं यमकम् । पादगोमूत्रिकापि ॥ प्रागुक्तेन 'सुरदेशस्य ते कीर्तिः' इत्यनेन पादपरावृत्तिगोमूत्रिकाबन्धेन सह अमुना पादगोमूत्रिकाबन्धन तूणवन्धेयम् । तथा हि । प्राक्तनश्लोकस्य प्रथमतृतीयपादाक्षरैरधोधः क्रमेण पङ्क्तिद्वये कृते गोमूत्रिकया नालिरुत्पद्यते । अनावृत्त्यान्त्यवर्णाभ्यां चुन्नम् । तदुपरिष्टाच 'तारे' इत्यादिश्लोकपादैरूर्ध्वक्रमेण पतिचतुष्टये कृते पादगोमूत्रिकया मुखम् । अन्त्यानां वर्णानामनावृत्त्या शराकर्षणार्थं द्वारप्रादेशदर्शनम् । इति ॥ 'सुमातरक्षयालोकरक्षयात्तमहामनाः । त्वं धैर्य जननी पासि जननीतिगुणस्थितीः ॥' अक्षयज्ञानरक्षणेन । गृहीतं महन्मनो यया । धैर्यात्पादिका । अनियतावयवं मध्यादियमकम् ॥ ‘ख्यातिकल्पनदक्षैका त्वं सामर्ग्यजुपामितः । सदा सरक्षसां मुख्यदानवानामसुस्थितिः ॥' ख्यातिरेकत्र वेदानामन्यत्र दानवानां कल्पनं छेदनमिति । अद्वितीया ।
१. 'शस्ते' इति देवीशतके. २. 'वित्तव' इति देवीशतके. ३. 'वीतसंज्ञा - अवीतसंज्ञा च सांख्यानाम्' इति देवीशतकव्याख्यायां कैयटः ४. 'सद्भावा वेदका देश हे -' इति देवीशतकव्याख्यायां कैयट : ५. 'तद्वतां' इति देवीशतकव्याख्या६. 'मुद्यन्ती' इति देवीशतके. ७. 'नुम्' स्यात्.
Page #237
--------------------------------------------------------------------------
________________
२२४
काव्यमाला।
त्रयाणां वेदानां परिपूर्णत्वभाजामपि । इतोऽस्मिल्लोके । अस्माजगतश्च । सरक्षणाभिमुख्यप्रदा । अकृतकानों वेदविशेषण मिदम् । जीवितरूपा सती । सराक्षसानां प्रधानदैत्यानां दुःखासिका सत्यपि । रेफविवर्तिकोऽयम् । 'N' इत्यत्र रेफ उपरिष्टादधश्च परिवृत्तः ॥ "सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः। ततास्तितैति तस्तेतिसूतिः सूतिस्ततोऽसि सा ॥' हे देवि, यतो निर्मला । सभासु। शोभनता । तिष्ठति । स्तवात् । तव । सदा । साधोः। तथा विस्तीर्णा । विद्यमानता। एति। दीर्घायुर्भवतीत्यर्थः। क्षिप्ता ईतिसूतिरुपद्रवप्रभवो यस्यामस्तितायाम् । ततो हेतोः शोभना ऊतिः सुरक्षा।सा प्रसिद्धा । भवसि त्वम् । यक्षरः ॥ त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्वससिद्धमरिनुत्तितः ॥' हे मलनुत् आवरणनिवारिणि, त्वच्छासनेन त्रैलोक्यं वर्तते । यतो रिपुक्षे. पणात्त्वया प्रकाशितम् । अर्धगोमूत्रिकावन्धः ॥ 'यतो याति ततोऽत्येति यया तां तायतां यतेः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥' यया मत्या यतो निवर्तते ततो विमुच्यते तां मम मतिं विगततमस्कां तायतां पालयताम् । भवतीत्यर्थः । या मतिश्चतुर्थाश्रमस्थस्य जननी । अपरिच्छिन्ना । अत एव प्रकृष्टतमा । त्र्यक्षरः ॥ एते षोडश श्लोकाश्चक्रे रेमेरारभ्य नाभिं यावत् अनुलोमतो 'लिखितः षोडशाराः । अत एव च नाभेरारभ्य पुनरनुलोमतो लिखिता अन्ये षोडश । इत्थं द्वात्रिंशदराः ॥ 'महतां त्वं श्रिता दासजनं मोहच्छिदावस । यः शुद्धत्वं गतः पापमन्यस्य प्रसभं जयाँ ।। माहात्म्यम् । हे मोहच्छिदज्ञाननाशिनि । आवस अधिष्ठाय । इति द्विविधो हि जनः, अपापः सपापश्च ॥ त्वं साज्ञासु जगन्मातः स्पष्टज्ञाता सुवर्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥' हे जगन्मातर् , विविक्तं विदिता सती त्वं शोभनवर्त्मसु सन्मार्गेषु विषये आज्ञासु निरूपणासु सा मुख्या प्रज्ञा वर्तते । तस्याः प्रज्ञायाः पृथुत्वं समुद्भासनशीलं प्रकटी कुरु । अस्मादेव चेयमार्या प्रादुर्भवति । 'आज्ञासु जगन्मातः स्पष्टज्ञाता सुवर्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥' शोभनं वर्त्म येषां तद्विषयासु राजा सः । स्पष्टं समुत्प्रकटमानन्दरूपं महिमानं तस्मात् । शेषं तथैव ॥ 'हन्यो रुषः क्षमा एताः सदक्षोभास्त्वमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥' क्रोधस्य विनाशिन्यः एताः क्षमाः शोभना अविकाराश्च त्वमसि । अतो हेतोर्य उन्नतः प्रकृष्टः सता शोभनेन मार्गेण ईहितो व्यापारितः सततं ताः सेवते स तेऽनुक्लः ॥ 'करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मती: । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥' हे उन्मूलिताज्ञानपदे यतस्ता मतीमैत्रीप्रभृदितादिकाः अचलास्त्वं करोषि, अतो हेतोः यतिर्मुमुक्षुः सह शुक्लिन्ना वर्तते यत्तत्पदम् । तमोमल
१. 'तता' स्यात्. २. 'वै समिद्धम-' इति देवीशतके. ३. 'तैः' इति देवीशतके. ४. 'नेमे' स्यात्. ५. 'त्तां' इति देवीशतके. ६. 'यच्छुद्ध-' इति देवीशतके. ७. 'य' इति देवीशतके. ८. 'अधितिष्ठ' इति देवीशतकव्याख्यायामः ९. 'टं ज्ञा' इति देवीशतके. १०. 'टं' इति देवीशतके... .
-
Page #238
--------------------------------------------------------------------------
________________
५ अध्यायः] काव्यानुशासनम् ।
च्युतं मात्रार्धमात्राबिन्दुवर्णगतत्वेन चतुर्धा । तत्र मात्राच्युतकं यथा
'भूतियोजितभर्तव्यः कृपाणाक्रान्तमण्डलः ।
महापदशुभावास त्वत्समः कुपतिः कुतः ॥'. . अत्र कृपणेति । विभूतिर्भस्म च । महापदेति शुभावासेति संबोधने पदद्वयम् । महापदोऽशुभस्यावासेति पदमेकं च ॥ अर्धमात्राच्युतं यथा
‘पयोधरभराक्रान्ते विद्युल्लेखाविराजिते ।
कान्तः सर्वजनाभीष्टो बाले दुःखेन लभ्यते ॥' अत्र 'न्दु' इत्यत्र नकारो व्यञ्जनं च्युतम् ॥ बिन्दुच्युतं यथा
'सहंसा नलिनी ताराशारिता गगनावनिः ।
शोभते भूमिपालानां सभा च विबुधाश्रिता ॥' सह हसेन विकाशेनेत्यपि ।। हीनमित्यर्थः । चत्वार एते नेमिश्लोकाः। एभ्यश्च प्रथमं प्रथमं त्रीणि त्रीण्यक्षराणि लिख्यन्ते । चतुर्थ चारश्लोकप्रारम्भाक्षरं भवति । इत्थं नेम्यर्धनिमीलनम् । पुनरनुलो
मलिखिताच्छोकषोडशकाच्चैवमेवान्त्यमक्षरं त्रिषु लिखितेषु चतुर्थ भवतीति नेमेर्द्वि. तीयमधैं मीलितं भवति । एवमेव चान्तलिखितैस्तैरेव नेमिश्लोकैर्नाभिनिमीलनं भवति ।
अत एव चारद्वात्रिंशतो नेमिस्थानान्नाभितो वा तृतीयं तृतीयं चाक्षरमादाय वर्णद्वात्रिंशतः श्लोकोऽयमुत्पद्यते॥ 'देव्या स्वप्नोद्मादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥' देव्या वागीश्वर्या स्वप्नाविर्भावे आदिष्टा या देवी शतकमिति संज्ञा तया देशो निर्देशो विद्यतेऽस्यास्तस्या भावो देशिता तयानुपमां देवीस्तोत्रतया सर्वातिशायिनी नोणसुतः श्रीमानानन्दवर्धननामा स्तुतिमिमामकार्षीदिति ॥ पद्मं यथा'भासते प्रतिभासार रसाभाताहताविभा। भावितात्मा शुभा वादे देवाभा वत ते सभा ॥' हे प्रज्ञातिशयोत्कृष्ट, वादे रसेन समन्ताद्दीप्ता हता अशोभा यया । एकाग्रीकृतहृदया वादे एव । देवैर्विजिगीषुभिः पण्डितैराभा यस्याः । वतेत्याश्चर्ये निपातः । एषोऽष्टदलपद्मवन्धः । तथा हि-भाशब्दः कर्णिकास्थाने । ततोऽक्षरद्वयेनैकं दिग्दलं निःसरणक्रमेण विदिग्दलं चाक्षरद्वयेन प्रवेशक्रमेण । ततः स एव भाशब्दः। ततोऽक्षरद्वयेन दिग्दलं निर्गमप्रवेशाभ्यां भाशब्दं यावत् । ततोऽक्षरद्वयेन विदिग्दलं निर्गमेण तावतैव दिग्दलं प्रवेशेन भाशब्दं यावत् । पुनर्भाशब्दो निर्गमेण च तदेवाक्षरमित्यादिना क्रमेण दलाष्टकमुत्पाद्यमिति दिग्दलवर्णानां द्विर्भाशब्दस्य चाकृष्टत्व आवृत्तिः ॥
Page #239
--------------------------------------------------------------------------
________________
२२६
वर्णच्युतं यथा'सितनृशिरःस्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वदृक्पृथुललाटतटे तिलकक्रिया च सा । स्फुटविकटाट्टहासललितं वदनं स्मितपेशलं च त
दभिनवमीश्वरो वहति वेषमहो तुहिनाद्विजार्चयुक् ॥'
अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षर - सप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन । यदि वा आद्याक्षरसप्तकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन ॥ गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा । क्रियागूढं यथा
'स्तनजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥' युवानः, कथमिव यूयं न स्त' इति क्रियागूढम् | कारकगूढं यथा—
'हे
'केने मौ दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावेण वारिकहारशीतलम् ॥'
काव्यमाला |
अत्र 'शरौ' इति कर्मणो गूढत्वम् ॥
संबधगूढं यथा
'न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यति । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥'
अत्र " मे चेतसागोरसाभिज्ञम्' इति संबन्धगूढम् ॥
पादगूढं यथा
(2)(9) (8) (2) (€) (u) (0) (e) 'द्युवियद्गामिनीतारसंराव विहतश्रुतिः । "हैपुमाला शुशुभे...
• अत्र 'विद्युतामिव संहतिः' इत्यस्य गूढत्वाद्भूढत्वम् |
१. 'मे, चेतः, आगोरसाभिज्ञम्' स्यात्.
רון
Page #240
--------------------------------------------------------------------------
________________
९ अध्यायः ]
काव्यानुशासनम् ।
गूढादीत्यादिपदेन प्रश्नोत्तर- प्रहेलिका- दुर्वचकादिपरिग्रहः ॥
एतच्च कष्टकाव्यत्वात्क्रीडामात्र फलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते ॥
अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेषः ।
'अर्थभेदाच्छब्दभेदः' इति नयेन वाच्यभेदेन भिन्नानामपि शब्दानां तन्त्रेण युगपदुच्चारणं भिन्नस्वरूपापह्नवनं श्लिष्यन्ति शब्दा अत्रेति श्लेषः । स च वर्णपद लिङ्गभाषाप्रकृतिप्रत्ययवचनविभक्तिरूपाणां शब्दानां भङ्गादभङ्गाच्च द्वेषा भवति ।
यथा
--
२२७
'अलंकारः शङ्काकरनरकपालं, परिजनो
विशीर्णाङ्गो भृङ्गी, वसु च वृष एको बहुवयाः ।, अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो - विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ।' अत्र विधुर्विधिश्वेत्युकारेकारयोर्वर्णयोर्भङ्गः ॥ 'ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते
तेषां तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥'
1
आदिग्रहणात् हल- शक्ति - शूल - खस्तिक-नागपाशादयो ज्ञेयाः ॥ प्रश्नोत्तरेति । तथा चाह-'यस्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः । विदग्धगोष्ठयां वाक्यैर्वा तद्धि प्रश्नोत्तरं विदुः ॥' यथा— 'काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् । । कथमुक्कं न जानासि कदर्थयति यत्सखे ॥' अत्र कदर्थयसीत्येतत् कथवर्णाभ्यां मुक्तं दर्यसीति उत्तरम् ॥ एतच अन्तःप्रश्न- वहिः प्रश्न-जातिप्रश्नादिभेदैरनेकप्रकारं प्रकृतानुपयोगात्कविशतिख्यापनफलत्वान्न प्रतन्यते ॥ प्रहेलिका यथा— ' पयखिनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥' धेन्वा ऊनाम् ॥ एवमन्येऽपि प्रहेलिकाप्रकारा अभ्यूह्याः ॥ तथा दुर्वचं दुःश्रवं दुर्बोधमपि क्रीडायां न विरुध्यते । यथा - 'नांष्ट्रा त्वाष्ट्रारिराष्ट्रे न भाष्ट्रे नादंष्ट्रिणो जनाः । धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः ॥' नांष्ट्राः राक्षसाः । त्वष्टुरपत्यमिति त्वाष्ट्रो
Page #241
--------------------------------------------------------------------------
________________
२२८
काव्यमाला।
अत्र महतीमापदं महत्पदं वेत्यादि पदानां भङ्गः ॥ 'भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैीते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती ।
युष्माकं कुरुतां भवार्तिर्रामिनी नेत्रे तनुर्वा हरेः ।। अत्र च 'नीता ईहितप्राप्तये' इति च स्त्रीनपुंसकलिङ्गयोः श्लेषः ॥ 'कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने ।
हरिणारिसारदेहे वरे वरं हर उमे भावम् ॥ कश्चिद्युयुत्सुयॊनोनीनां भवानी खकान्तां च संस्कृतप्राकृतया वाचा तुष्टुवे हे उमे, हरे रुद्रे भावं श्रद्धां विधेहि । अर्थान्मम । कीदृशे हरे । लालसमर्थान्मनस्तद्भुवं कामं लेढि म यस्तत्र । महिनैव वितर्कहर्तरि । हरसंनिधौ हि सर्वज्ञानाभिभव इति श्रुतिः । तोहन्त्यर्दन्ति येऽरयस्तैर्विरहिते सिंहबलशरीरे परिणेतरि श्रेष्ठम् । उमाया एव इमानि संबोधनपदानि ॥ प्राकृते तु-हे वरे कान्ते, ते तव संबन्धिनि कुरुलालसभ्रूलेखे महीमोहगृहे हारिणि विच्छिन्ने च तनुमध्यत्वात् । हरिप्रियाप्रधानवपुषि(?) यद्वरं नयनाननस्तनजघनादि तन्मेऽभिलाषं हरतु कामं पूरयतु ॥ ___ एवं भाषान्तरभङ्गेऽप्युदाहार्यम् ॥
वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे खर्गे ॥ भाषान्तरभङ्गेऽपीति । संस्कृतभाषाया मागध्या समावेशो यथा-'कुललालिलावलोले शलिले शे शालशालिलवशूले । कमलाशवलालिबले मालेदि शमन्तके विशमे ॥' कश्चिजातसंसारभयों वक्ति-कुललालिनो महापु
१. 'शमनं' का० प्र०. २. 'ध्यानोनीतां' स्यात् .. ३. 'कुरु लालसभूलेहे' महिमो हहरे तुहारि विच्छिन्ने हरिणारिसारदेहे वरे वरं हरे उमे भावम्' इत्येवं संस्कृतपक्षे पदानि. ४. 'कुरुलालसभ्रूलेखे महीमोहगृहे ते हारिविच्छिन्ने। '
हरिनारीसारदेहे वरे वरं हरतु मे भावम् ॥ इति प्राकृतपक्षे छाया. . १. 'कुररालिरावलोलं सलिलं तत्सारसालिरवशूरम् । ..
कमलासवलालिवरं मारयति शाम्यतो विषमम् ॥' इति मागधीच्छाया.
Page #242
--------------------------------------------------------------------------
________________
५ अध्यायः]]
काव्यानुशासनम् ।
२२९
रुषान् लुनातीति । कर्मण्यण् । स चासौ लम्पटश्च तस्मिन् । शलं वकं तदुपलक्षितः खनो येषां तान् लिशत्यल्पीकरोति यस्तस्मिन् । गृहशालिनां छेदनशूले । लक्ष्म्याः शवानि अस्पृष्टतया दरिद्रास्तल्लालनशीलं वलं यस्य । क्षमारहिते । मलनं मालो धारणं क्षमेति यावत् । यमे एवंभूते सति ए विष्णौ दिशमविशम् । विष्णुविषयं मार्गमहमास्थित इत्यर्थः । अपरोऽर्थो मागध्याम् । कुररपङ्गिरवैर्लोलं व्याप्तम् । रवशब्दस्य प्राकृते दीर्घः । सलिलं तत् । सारसश्रेणिकूजितेन शूरं विरहिणां मारणसमर्थत्वात् । कमलसाँधुग्राहकैरलिभिः श्रेष्ठम् । मारयति शाम्यतो मुनीनपीत्यर्थः । विषमं वियोगिभीषणम् । अनेकपक्षिसंकुलं सलिलं दृष्ट्वा मुनयोऽपि क्षुभ्यन्ति किमु विरहिण इत्यर्थः ॥ संस्कृतस्य पैशाच्या यथा-'कमनेकतमादानं सुरतनरजतुच्छलं तदासीनम् । अप्पतिमानं खमते सोगनिकानं नरजेतुम् ॥' कस्यचित्केनचित्पौरुषे स्तुते. न्योऽसहमान आह-हे सुरते प्रेधानपुरुष, न तु रणे । खमते शून्ययुद्धे स त्वया वर्ण्यमानो राजादिः कं नरं जेतुमजतु गच्छतु । नास्त्येवासौ यं सोऽभिभवति । कीदृशं बहुतमोत्पत्तिस्थानम् । मायां प्रसिद्धामाश्रयमाणम् । अर्थान्तरवृत्तित्वेन सकर्मकता। यद्वा मूर्तच्छद्मरूपं लब्धरूपं च । अपां पत्युवरुणस्येव मानो यस्य । पर्वतस्येव निकानः कान्तिर्यस्य । 'कनी दीप्तिकान्तिगतिषु' इति हि पठ्यते । अथ वा न गच्छतीत्यगोऽनश्वरः । अभ्रष्टकान्तिमित्यर्थः । एवंविधा यदा नराः सन्ति तदा स त्वदुक्तः कमिव जयस्विति वाक्यार्थः । अथ वा एवंविधा यदा न सन्ति सर्व तेन जितमतः स कं नरं जेतुमजत्विति एवान । परार्थः पिशाचभाषायाः-'कामे कृतमदाः सुरत्नरजतोच्छलदासीः । अप्रतिमाः क्षमते म गणिका न रञ्जयितुम् ॥' अत्र हि द्वितीयार्थे षष्टी । केनचिद्वेश्यानामुपचारः कृतः, ताभिस्तु तस्य न कृत इति सोऽत्र वर्ण्यते ॥ संस्कृतस्य सूरसेन्या यथा-संवादिसारसंपत्ती सदागोरिजयेसुदेभवसत्तीरदे सत्ते संसारे सुसमानदे॥' हे देवि प्राणदायिनि, तव संवन्धिन्यौ सत्ते सतो विद्यमानस्य शोभनस्य च भाव इति
१. 'यावत्' इत्युत्तरं योग्यम्. २. 'पविष्टौ' क. ३. 'मधु' इति स्यादासवशब्दार्थत्वात्. ४. 'कम् अनेकतमादानम् सुरतनः अजतु छलं तदा आसीनम् अप्पतिमानं खमते सः अगनिकानं नरं जेतुम् ॥ इति संस्कृतपक्षे पदानि. ५. 'निधुवनपुरुष-' इति रुद्रटव्याख्यायाम. ६. 'वु' इति रुद्रटव्याख्यायाम.
७. 'शंवातिसारसंप्राप्तिः सदा गौरि जगत्सु ते । ___ तपः शक्ती रते सत्त्वे शंसारे सुशमानते ॥ इति शूरसेनीच्छाया.
'संवादिसारसंपत्ती सदागोरिजये असुदे तव सत्तीरदे सत्ते संसारे सुसमानदे' इति संस्कृतपक्षे पदानि.
८. 'तव' इति देवीशतके; 'रव' ख. ९. 'सन्तु' इति देवीशतके.
Page #243
--------------------------------------------------------------------------
________________
काव्यमाला ।
'आत्मनश्च परेषां च प्रतापस्तव कीर्तिनुत् । भयकृद्भूपतेर्बाहुर्द्विषां च सुहृदां च ते ॥' अत्र नौतिनुदत्योः करोतिकृन्तत्योश्च प्रकृत्योर्भङ्गः ॥ 'त्वदुद्धृतामयस्थानरूढंत्रणकिणाकृतिः ।
विभाति हरिणीभूता शशिनो लाञ्छनच्छविः ॥' हरिणीभूतेति मृगीभूता श्यामा संपन्नेति च । अत्र च्चिङीप्रत्यययोर्भङ्गः ॥
२३०
द्वौ भाव विद्यमानतोज्वलतालक्षणी विद्यमानापराधरिपुजयविषये विज्ञायमाना बलस्य समृद्धिर्ययोः ते तथाविधे वर्तते इत्यर्थः । अरिविजये जनस्य तव सांनिध्य मौज्ज्वल्यं च लक्ष्यत इति भावः । अन्यत्ते सत्ते भवसागरे शोभनपारप्रदे त्वयि सत्यां त्वत्प्रभावेण संसारसागरादुत्तीर्यत इत्यर्थः । तथा सुसमामनपभ्रंशमानं शब्दं यदि वा ब्रह्मस्तम्भपर्यन्तचतुर्दशभूतसर्गे नित्योदिततया सुगमं साधारणत्वेनावस्थितं शब्दब्रह्म दत्तो ये ते तादृश्यौ । अपरोऽर्थः सूरसेन्याः - हे गौरि, जगत्सु सर्वदा देवतपःशक्तिर्वज्रवदतिदृढधचिः । अनपायिनी वर्तत इत्यर्थः। कीदृशि । रदे आसते । क्व । संसारे । सत्ते श्रेयःप्रधाने सत्वे सुसमैश्चित्तोद्रेकजयिभिर्मुमुक्षुभिः प्रणते चित्तजय एव हि मोक्षः । तथा च - - 'चित्तमेव हि संसारो रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥' संस्कृतस्यापभ्रं - शेन यथा—'आगममणिसुदमहिमसमसंमदकृदपरजस्सु । किर सविभयवदितोसमय उज्जलभावसहस्सु ॥' हे देवि, अपरजस्सु विगलितमोहेषु उत्क्रान्तजडतायां सत्यां बलं येषां तेषु पुरुषेष्वनवसरे आगमा एव प्रकाशकत्वान्मणयस्तथा शोभनो दमश्चित्तोपशम एव निर्वापकत्वात् हिमं तयोः संबन्धी योऽसौ समोऽनाकुलो हर्षस्तं कृन्तति यत् तदर्थादज्ञानम् इतः संसारात् किर क्षिप । सविभयवत् यज्विनां भयं यथा किरसि तद्वदज्ञानं किरेत्यर्थः ॥ परोऽर्थः -- जस्सु पर यस्य केवलमागमाश्चेतसि तथाश्रुतमहिमा शास्त्रावबोधशमादिविषयनिग्रहाः एते च सर्वे साम्यमनाकुलत्वं ददानाः कृताः । किल सापि भगवती तोषमयं निर्मलपदार्थ सहस्रं सहस्रशब्दो बाहुल्यार्थे । देवी प्रसादविल
१. 'संप्राप्तिः' इति देवीशतकव्याख्यायाम् २. ' सुशमै' स्यात्..
३. 'आगमा मनसि श्रुतमहिमा शमः साम्यदाः कृताः परं यस्य ।
किल सापि भगवती तोषमयमुज्ज्वलभावसहस्रम् ॥' इत्यपभ्रंशच्छाया. ‘आगममणि सुदमहिमसमसंमदकृत् अपरजस्सु किर सविभयवत् इतः असमये उज्ज लभावसहस्सु' इति संस्कृतपक्षे पदानि.
Page #244
--------------------------------------------------------------------------
________________
५ अध्यायः]
काव्यानुशासनम् ।
२३१
_ 'विषं निजगले येन बने च भुजगप्रभुः ।
देहे येनाङ्गजो दधे जाया च स जयत्यजः ॥' अत्र गिलितं, निजे गले ।दग्धो वपुषि चेति स्यादित्यादिविभक्त्योर्भङ्गः॥
'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः ।
ददतां निर्वृतात्मान आद्योऽन्येऽपि मुदं जिनाः ॥' अत्रैकवचनबहुवचनयोर्भङ्गः ॥ एषामेव वर्णादीनामभङ्गाद्यथा
'असावुदयमारूढः कान्तिमानक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥' उदयः शत्त्युपचयो गिरिविशेषश्च । रक्तमण्डलोऽनुरक्तप्रकृतिररुणविम्बश्च । राजा नृपतिश्चन्द्रश्च । मृदुभिरखेदावहैः करैर्दण्डादिभिः किरणैश्चेत्यभङ्गः शब्दश्लेषः ॥ ___ अत्र प्रकरणादिनियमाभावात् द्वावप्यर्थो वाच्यौ ॥ न चायमर्थालंकार इति वाच्यम् । अन्वयव्यतिरेकाभ्यां शब्दगतत्वेन प्रतीयमानत्वात् । तथा हि-उदयादिशब्दप्रयोगेऽलंकारः, तदर्थशक्त्युपचयगिर्यादिप्रयोगे तु नेति तद्भावतदभावानुविधायित्वात् शब्दालंकार एवायम् ॥
'स्वयं च पल्लवाताम्रभाखत्करविराजिनी ।
प्रभातसंध्येवाखापफललुब्धेहितप्रदा ॥' __ इत्यादौ तु संकरत्वमेव युक्तम् । अथ वा न्यायपरीक्षायामुपमात्वमेव । तथा हि-यथा गुणक्रियासाम्ये उपमा, तथा शब्दमात्रसाम्येऽपि दृश्यते--
'सर्कलकलं पुरमेतज्जातं संप्रति सितांशुबिम्बमिव ।' इत्यादौ । न च तत्र शब्दश्लेषत्वं युक्तम् । पूर्णोपमाया निर्विषयत्वासितं तत्तस्येति वाक्यार्थः ॥ ननु खरितादिगुणभेदाद्भिन्नप्रयत्नोच्चार्याणां तदभेदादभिनप्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलंकारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थश्लेषश्चेति द्विविधाप्ययमर्थालंकारमध्ये गणितोऽन्यरित्याशङ्कयाह-न चायमर्थालंकार इति॥ स्वयं चेति । गौरीपक्षे-किसलयवद्दीप्यमानाभ्यां शोभते सुखेनाप्तुं यंन शक्यं फलं तत्र लुब्धानामीहितं प्रददाति । संध्यापक्षे-उज्वलस्तया मरीचिभिः शोभिता खाप
१. 'कराभ्यां' त्रुटितं. स्यात्. २. 'उज्ज्वलसूर्यमरी' स्यात.
Page #245
--------------------------------------------------------------------------
________________
२३२
काव्यमाला। पत्तेः । गुणक्रियासाम्ये सा भविष्यतीति चेत्, न । अर्थश्लेषस्य निर्विघयत्वप्रसङ्गात् । अथ 'दिशः प्रसादयन्नेषः' इत्यादौ वक्ष्यमाण उपमाविरहितोऽर्थश्लेषस्य विषयः कल्प्यते । तदा द्वयोरप्यन्यत्र लब्धसत्ताकयोरेकत्र संनिपाते संकरतैव प्राप्नोति । गुणक्रियासाम्यंमुपमा शब्दसाम्यं तु श्लेष इति विशेषस्यानभिधानात् शब्दसाम्यमुपमाया विषयः । श्लेषस्य तूपमया विरहित इति 'स्वयं च पल्लवा-' इत्यादौ उपमैव न्याय्या ॥ एवं च
'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ।' इत्यादौ न विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोध एव । अत्र हि श्लेषस्य प्रतिभामात्रं न पुनः प्ररोहः । न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः । तस्मादेवमादिषु श्लेषप्रतिभोत्पत्तिरलंकारान्तरमेव ॥
फले विश्रान्तौ यो न लुब्धस्तद्विषये हितं प्रददाति.॥ अलंकारान्तरमिति । समासोत्तयादिरूपम् ,न तु श्लेष इत्यर्थः। तथा च-'अनुरागवती संध्या 'दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥' इत्यत्र समासोक्तित्वम् । तत्पुरःसर इति आगच्छन्त्या इव संध्यायाः कामुक. इव दिवसः पुरः संमुखं सरतीति व्याख्ये. यम् । न तु पदातिन्यायेनाग्रे दिवसो गच्छति संध्या पश्चादिति । एवं हि वर्षशतैरपि समागमो न भवतीति किं चित्रम् . ॥ 'नालस्यप्रसरः-' इत्यादौ अन्योक्तित्वम् ॥ 'यो गोपीजनवल्लभः स्तनतटव्यासङ्गलब्धास्पदश्छायावानवरक्तको बहुगणश्चित्रश्चतुर्हस्तकः । कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मे किं. राधे मधुसूदनो नहि नहि प्राणाधिकश्चोलकः ॥' इत्यत्र ससंदेहत्वम् ॥ यदि वान्योक्तेः सारूप्यादिः, ससंदेहस्य च सादृश्यादिः, श्लेषव्यतिरेकेण विविक्तोऽप्यस्ति विषयस्तदात्रापि श्लेषस्यान्योक्तिससंदेहानुग्राहकत्वेन प्रवृत्तवात्संकरत्वं भवतु श्लेषत्वमिति । 'अलौकिकमहालोकप्रकाशितजगत्रय । स्तूयते देव सद्वंश मुक्तारत्नं न कैर्भवान् ॥' 'आदाय चापमचलं कृत्वाहीनं गुणं विषमवृष्टिः। यश्चित्रमच्युतशरो लक्ष्यमभाडीनमस्तस्मै ॥' अचलं पर्वतं निश्चलं च । अहीनां सर्पाणामिनं खामिनं हीनं च । विषमा त्रिरूपा अस्थिरा च । अच्युतः कृष्णः गतिशून्यश्च ॥ 'अखण्डमण्डलः श्रीमान्यस्यैष पृथिवीपतिः । न निशाकरवजातु कलावैकल्यमागतः ॥' इत्यादौ च एकविषयरूपकविरोधव्यतिरेकानुग्राहकः
१. दृष्टिः' स्यात्. २. 'पश्यैष' का० प्र०.
Page #246
--------------------------------------------------------------------------
________________
५ अध्यायः] काव्यानुशासनम् ।
२३३ अर्थैक्ये यादिभाषाणां च । द्वित्रिचतुःपञ्चषण्णां भाषाणामर्थाभेदे युगपदुक्तिर्यादिभाषाश्लेषः।
तत्र संस्कृतप्राकृतमागधपिशाचशूरसेनापभ्रंशभाषाणां द्वियोगे पञ्चदश, त्रियोगे विंशतिः, चतुर्योगे पञ्चदश, पञ्चयोगे षट्, षड्योगे एकः । सर्वमीलने भाषाश्लेषस्य सप्तपञ्चाशद्भेदाः । एते च पूर्वोक्तभाषाश्लेषे भिन्नार्थत्वेऽपि द्रष्टव्याः ॥ संस्कृतप्राकृतयोर्योगो यथा'सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् ।
विरसं विरहायासं वोढुं तव चित्तमसहं मे ॥' संस्कृतमागध्योर्यथा
'शूलं शलन्तु शं वा विशन्तु शबला वशं विशङ्का वा । __ अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥'
शलन्तु गच्छन्तु । अधिरोहन्त्वित्यर्थः । शं शुभं वा यान्तु । संकीर्णाः पापकारिण इति यावत् । विशङ्काः सन्तो वशं बन्धनं वा विशन्तु । यतोऽविद्यमानोपशमावस्थं यथा भवत्येवमेते खला अकल्याणं दिशन्त्येव । संस्कृतपैशाच्योर्यथा'चम्पककलिकाकोमलकान्तिकलापाथ दीपिकानगी ।
इच्छति गजपतिगमना चपलायतलोचनालपितुम् ॥ संस्कृतशूरसेन्योर्यथा_ 'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । . साधु पिबन्तु सुपीवरपरिणाहपयोधरारम्भे ॥' सुपीवरेत्याद्यपि संबोधनपदम् । संस्कृतापभ्रंशयोर्यथा
'क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति ।
भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥' एवं द्वियोगान्तरे त्रिचतुर्णा च योगेषु चोदाहार्यम् । १. 'कपोला' रुद्रटे. २. परिणाहि' रुद्रटे.
Page #247
--------------------------------------------------------------------------
________________
२३४
काव्यमाला । षड्योगो यथा
'अलोलकमले चित्तललामकमलालये। .
पाहि चण्डि महामोहभङ्गभीमबलामले ॥ हे चण्डि देवि, रक्ष । अचपललक्ष्मि, मनःप्रसाधनपद्मालये । महामोहस्य जन्मलक्षाभ्यस्ताया अविद्याया भञ्जने उग्रं यहलं तेन अकलङ्के ॥
उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः।
अन्येन वक्रान्यथोक्तस्यान्येन प्रतिवत्रा श्लेषाद्भङ्गाभगरूपादन्यथाभिधानं वक्रोक्तिः। भङ्गाद्यथा-- 'किं गौरिमां प्रति रुषा, ननु गौरहं किं,
कुप्यामि का प्रति, मयीत्यनुमानतोऽहम् । . जानाम्यतस्त्वमनुमानत एव सत्य
मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥' अभङ्गाद्यथा'कोऽयं द्वारि; हरिः, प्रयायुपवनं शाखामृगस्यात्र किं,
कृष्णोऽहं दयिते, बिभेमि सुतरां कृष्णादहं वानरात, । कान्तेऽहं. मधुसूदनो, व्रज लतां तामेव मध्वन्विता.
मित्थं निर्वचनीकृतो दयितया ह्रीतो हरः पातु वः ।। काकुवक्रोक्तिस्त्वलंकारत्वेन न वाच्या । पाठधर्मत्वात् । तथा च
श्लेष इति संकर एवायम् । एवमन्यत्राप्यूह्यामिति ॥ अत इति । अस्मादनुमानात् । न उमा अनुमा अर्थात्संध्या तस्या नत इत्यपि ॥ काकुवक्रोक्तिरिति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः । तत्र हि साकासनिराकासादिक्रमेण पठ्यमानोऽसौ शब्दः प्रकृतार्थादतिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वा ईषदर्थे कुशब्दस्तस्य कादेशः, तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः । काकुर्वा जिह्वा तव्यापारसंपाद्यत्वात्काकुः । तद्रूपा वक्रोक्तिः काकुवक्रोक्तिरिति ॥ पाठंधर्मत्वादिति ।
१. 'हरिः' स्यात्. २. 'विस्पष्टं क्रियमाणादक्लिष्टा खरविशेषतो भवति । अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥ इति रुद्रटे तल्लक्षणं ज्ञेयम्. ३. 'पाठ्य' स्यात्.
१. 'अनुपमा' इत्येवं कैश्चित्पश्चाच्छोधितः पाठः. २. 'पाठ्य' इति स्यात्. अत
Page #248
--------------------------------------------------------------------------
________________
५ अध्यायः ]
काव्यानुशासनम् ।
२३.५
अभिप्रायवान् पाठधर्मः काकुः स कथमलंकारी स्यादिति यायावरीयः गुणीभूतव्यङ्ग्यप्रभेद एव चायम्, शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात् । यदाह ध्वनिकारः-
'अर्थान्तरगतिः काक्वा या चैपा परिदृश्यते । सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता ॥'
तथा च भरतः -- 'सप्त खरात्रीणि स्थानानि चलारो वर्ण द्विविधा काकुः पडलंकाराः पडङ्गानीति पाठ्यगुणाः । तत्र काकौ खरा एव वस्तुत उपकारिणः । तत्परिकरभूतं तु स्थानादि । खरेषु प्रकृतिभूतेषु काकुरूपता जन्यते । तत्र स्थानशब्देनैपां खरूपनिपत्तेराश्रयो दर्शितः । उदात्तानुदात्तखरितकम्पितरूपतया खराणां यदुक्त प्रधानत्वमनुरणनमयं तत्त्यागेनोचनीच मध्यमस्थान स्पर्शित्वमात्रं पाठ्योपयोगीति दर्शितम् । यदि हि खरमतारक्तिः पाठ्ये प्राधानान्येनावलम्व्यते तदा नागक्रियासौ स्यात्, न पाठ: । अत एव गानवैलक्षण्ये संपन्ने वाद्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते । तत एव काकुरूपत्वमेव सर्वत्रानुयायि, अभिनयत्वे मुख्यापयोगात् । तथा चोचदीप्ताद्यलंकारेष्वपि काकुशब्देनैव मुनिर्व्यवहरति । काकोरेव हि प्रकारसंपादकाः परिपूर्णताधायिनोऽलंकाराः । अलमिति पर्यात्यर्थ इह, न भूषणार्थः । अङ्गानि तु विच्छेदादीनि समर्थ शोभादिकं च पोपयितुं काकोरेवोपकारीणीत्येवं परमार्थतः काकृरेवेयं पैत्रमी रूपान्तरैः पूर्णक्रियते । काक्का च पठ्यमानस्य खोचितंचिनडरूपार्थाभिमुख्यनयनेनाभिनयता दीयत इति काकुरेवात्र प्रधानमिति । तत्र च सप्तखराः --- पड्जपभगान्धारमध्यभधैवत निपादवन्तः । एते रसेषूपपाद्याः - 'हास्य श्टङ्गारयोः काय खरी मध्यमपश्चमी । पड्जर्पभौ तु कर्तव्यौ वीररौद्राद्भुतेध्यथ ॥ निपादवान् सगान्धारः करुणे संविधीयते । धैवतथापि कर्तव्यो वीभत्से सभयानके ॥' त्रीणि स्थानानि -- उरः कण्ठः शिर इति । अयमर्थः - शारीय वीणायां केवलमुरःशिरः कण्ठलक्षणेभ्यस्त्रिभ्यः एव स्थानेभ्यो न तु पैड्जष्टः (?), खरः परित्यक्तरञ्जनात्मकगानोपयोगिख व्यापारः काकुभूतः संप्रवर्तते । चायायां हि
1
१. 'पाठ्य' स्यात्.
एव 'पाठ्यगुणानिदानीं वक्ष्यामः' इत्युपक्रम्य ' तद्यथा - सप्त खराः तु इत्यायभिधानमुपलभ्यते.
५.
१. 'मुख्योप' क. २. 'रेवाप' क. ३. 'पत्रभी' स्यात्. ४. 'पद्मम' पदं त्रुटितं भरते. 'निपादाः । त एते ' भरते. ६. 'यथा' इत्यपीतः प्राग्भरते. ७, 'पु च' भरते. ८. 'गान्धारच निपादश्च कर्तव्यः करुणे रसे' भरते. ९. 'धैवतश्चैव' भरते. १०, 'पद्भ्योऽष्टभ्यः (?)' स्यात्.
·
Page #249
--------------------------------------------------------------------------
________________
२३६
काव्यमाला |
वीणायां प्रतिबिम्बात्मिकायां रञ्जनात्मकखरखरूपव्यतिरेकेण न काकुसंपत्तिः ॥ यंदाह – 'शीरार्यामथ वीणायां त्रिभ्यः स्थानेभ्य एव तु । उरसः शिरसः कण्ठात्स्वरः काकुः प्रवर्तते ॥' तत्र उरोनिष्पन्नेन तारेण दूरस्थानामाभाषणविधिः कार्यः । यद्वा मन्द्रखरेण पाठमारभ्य क्रमेण तारं गत्वा मध्येन परिसमाप्नुयादित्यभिप्राय: ॥ उदात्तानुदात्तखरितकम्पिता वर्णाः । तत्र हास्य शृङ्गारयोः खरितोदात्तैर्वर्णैः पाठ्यमुपपाद्यम् । वीररौद्राद्भुतेषूदात्तकम्पितैः । करुणवीभत्सभयानकेष्वनुदात्तकम्पितैरिति ॥ द्विविधा तु काकुः साक्षादत्रैव प्रतिपादयिष्यते ॥ 'उच्चो दीप्तश्च मन्द्रश्च नीचो द्रुतविलम्वितौ । पाठ्यास्यैते ह्यलंकारी:-' इति । उच्चो नाम शिरः स्थानगतस्तारः । स च दूरस्थाभाषणविस्मयोत्तरोत्तरसंजल्पत्रासनावादाद्येषु ॥ दीप्तो नाम शिरः स्थानगतस्तारतरः । स चाक्षेपकलह विवादामर्षोत्कुष्टाधर्षणशौर्य दर्पतीक्ष्णरूक्षाभिधाननिर्भर्त्सनाक्रन्दादिषु ॥ मन्द्रो नामोरःस्थानस्थः निर्वेदग्लानचिन्तैौत्सुक्य दैन्य व्याधिगाढशस्त्रक्षतमूर्छामदादिषु ॥ नीचो नामोरःस्थानस्थो मन्द्रतरः । स स्वभावाभाषणव्याधितपःश्रान्तत्र स्वपतितमूछोदिषु ॥ द्रुतो नाम कण्ठगतस्त्वरितलल्लमन्मनभयशीतज्वरार्तत्रस्ताय स्तात्ययिककार्यावेदनादिषु । लल्लं सविलासम् । मन्मनमव्यक्तम् । अहमेव मनो मन्ता यत्रेत्यनेनाश्रूयमाणम् । लल्लमन्मनौ नायिकागतावेव बालविनोदनसान्त्वनादौ । मुञ्च मुञ्चेत्येवंप्रायपराभियोगानङ्गीकरणादौ वेति । आत्ययिकं शीघ्रसंपाद्यं यत्कार्यं तस्यावेदनम् ॥ विलम्बिता नाम कण्ठस्थानस्थो मन्द्रः । शृङ्गारवितर्कविचारामर्षासूयिताव्यक्तार्थप्रवादलजाचिन्तातर्जितविस्मितदीर्घरोगनिपीडनादिषु । 'हास्य शृङ्गारकरुणेष्विष्टा काकुर्विलम्विता । वीररौद्राद्भुतेषूच्चा दीप्ता चापि प्रशस्यते ॥ भयानके सवीभत्से द्रुता नीचा च कीर्तिता । एवं भावरसोपेता काकुः कार्या प्रयोक्तृभिः ॥' अङ्गानि — वि च्छेदोऽर्पणं विसर्गोऽनुबन्धो दीपनं प्रशमनमिति ॥ तत्र विच्छेदो नाम विरामकृतः । अर्पणं नाम लीलायमानमधुरवल्गुवरेण पूरयतेव रङ्गं यत्पठ्यते । विसर्गो नाम वाक्य - न्यासः । अनुवन्धो नाम पदान्तरेष्व विच्छेदोऽनुच्छ्रसनम् । दीपनं नाम विस्थानशोभि वर्धमानखरं च । प्रशमनं नाम तारगतानां खराणामेवैश्वर्येणावतरणम् ॥ तत्र हास्यङ्गारयोरर्पणविच्छेददीपनप्रशमन संयुक्तम् । करुणे विच्छेदप्रशमनार्पणदीपनानुबन्धबहुलम्। वीररौद्राद्भुतेषु विसर्गविच्छेदार्पणयुक्तम् । बीभत्सर्भयानकयोरिति । सर्वेषामप्येतेषां मन्द्रमध्यतारकृतः प्रयोगस्त्रिस्थानस्थो भवति । तत्र दूरस्थाभाषणे तारं शिरसा, नातिदूरे मध्यं कण्ठेन, पार्श्वतो मन्द्रमुरसा प्रयोजयेत्पाठ्यमिति ॥ मन्द्रात्तारं गच्छेत्ताराद्वा मन्द्रमिति । तदेवं ध्वनिधर्मविशेषस्य काकोः पीठः । धर्मत्वमवस्थितम् ॥
1
I
१. 'वात्सल्य' भरते. २ 'ख' भरते. ३. 'पाठ्यस्यैते' भरते. ४. 'लक्षणं च निबोधत' इत्यस्याग्रे भरते. ५. 'त्रासनार्थ वाद्येषु' भरते. ६. 'हखो' भरते. ७. 'विलम्बितो' भरते. ८. 'त्रिस्थान' भरते. ९. 'भयानकयोर्विसर्गविच्छेदाकाङ्क्षिण (?)प्रायम्' इति भरते उपलम्भादत्र पाठखुटितः प्रतीयते. १०. ' पाठ्यधर्मत्व' स्यात्.
Page #250
--------------------------------------------------------------------------
________________
५ अध्यायः
काव्यानुशासनम् ।
सा च काकुर्द्विधा-साकाङ्क्षा निराकासा च । वाक्यस्य साकायनिराकाङ्कत्वात् । यस्माद्वाक्यात् यादृशः संकेतवलेनार्थः प्रतीयते, न तादृश एव, किं तु न्यूनाधिकः प्रमाणवलेन निर्णययोग्यस्तद्वाक्यं साकासम् । तद्विपरीतं निराकासम् । वक्तगता ह्याकाङ्क्षा वाक्ये उपचर्यते । सा च प्रकरणवलान्निश्चीयते । विशिष्टविषयत्वं च तस्यास्तत एवावसीयते ।। ___ विषयोऽपि त्रिविधः-अर्थान्तरम्, तदर्थगत एव विशेषः, तदर्थाभावो वा । यथा
'देशः सोऽयमरातिशोणितजलैर-' इति । अत्र साकाकाकुप्रभावात् 'ततोऽभ्यधिकं कुरुते' इत्यर्थान्तरे गतिः ॥
साकामिति । मन्द्रादितारान्तमपरिसमाप्तवर्णालंकारं कण्ठोरःस्थानगतं यथा भवति तथैतत्पठनीयम् ॥ तद्विपरीतमिति । यादृशो वाक्यात्संकेतवलेनार्थः प्रतीयते तादृश एव यनान्यूनाधिकः प्रमाणवलेन निर्णययोग्यस्तदति ॥ निराकामिति । मन्द्रादितारान्तं परिसमाप्तवर्णालंकारं शिरःस्थानगतं यथा भवति तथेदं पठनीय मि. त्यर्थः । काकुप्रभावादिति । उदात्तकम्पितवर्णस्योच्चदीप्तालंकारस्य वासमाप्त्या या काकुपठितिस्तत्प्रभावादित्यर्थः । एवमुत्तरत्रापि साकाङ्क्षकाकूदाहरणद्वये व्याख्येयम् ॥ ननु श्रुतमर्थमनादृत्य कथं काकुरर्थान्तरं प्रतिपादयेत् । तत्रोक्तमन्यैः-वस्तुखभावोऽत्र द्रष्टव्यः, न हि दृष्टेऽनुपपन्नं नाम' इति । वयं तु ब्रूमः-इह येयं प्रथमेन संवित्स्यन्देन प्राणोल्लासया वर्णादिरूपविशेषहीना वाग्जन्यते सा नादरूपा सती हर्षो(कादिचित्तवृत्ति विधिनिषेधाद्यभिप्रायं वा तत्कार्य लिङ्गतया तादात्म्येन वा गमयतीति तावस्थितम् । तथा च प्राण्यन्तरस्य मृगसारमेयादेरपि नादमाकर्ण्य भयरोषशोकादि प्रतिपद्यते तदयं नादाच्चित्तवृत्त्याद्यवगमोऽनुमानं तावत् । ये त्वेते वर्णवि. शेपास्ते तन्नादरूपसामान्यात्मकवाक्तन्तुग्रन्थिमया इव प्राच्यप्रयत्नातिरिक्त निमित्तान्त
'यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहात् । तान्येवाहितहेतिघस्मरगुरुण्यत्राणि भावन्ति मे
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥' इति शेषपूरणे संपूर्णः श्लोको वेणीसंहारे. २. 'ततोऽप्यधिकं' स्यात्,
१. 'अनियुक्तार्थमनिर्यातितवर्णा' भरते. २. 'तदिति...' स्यात्. ३. 'नियुक्तार्थ निर्यातित' भरते.
१.
Page #251
--------------------------------------------------------------------------
________________
काव्यमाला |
' स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क स क स दशाननो ननु निवेद्यतां राक्षसाः ||' अत्र ‘तदात्मज इहाङ्गदः' इति साकाङ्क्षया काका खगता वालिपुत्रो - चिता विशेषा अर्घ्यन्ते ॥
'निर्वाणवैरदहनी :-'
इति । अत्र भैवन्तीति साकाङ्क्षाका कुर्भवनाभावमाह । भवन्तीति व चनोच्चारणं त्वर्थेऽसंभावनां विदधदभावस्य निषेधात्मनो विषयं भवनलक्षणमर्पयति । न भवन्त्येवेत्यर्थः ॥
२३८
भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः ।
भिन्नरूपाणां सार्थकानर्थकानां शब्दानामेकार्थत्वमिवामुखे, न पुनः परमार्थतः, पुनरुक्तवदाभासनं पुनरुक्ताभासः ।
यथा-
"सत्त्वं सम्यक्समुन्मील्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥'
रापेक्षास्तत एवान्यत्राप्यभिप्रेतेऽन्यथापि प्रयोक्तुं शक्याः । अत एव दृष्टव्यभिचाराः । नादस्तु झटित्युद्भिन्नमुखरागपुलकस्थानीयो नान्यथाकर्तुं पार्यत इत्यन्यथासिद्धोऽन्यथासिद्धं शब्दार्थ बाधत एव वा यथोक्तं भीरुर्नाम भयमिति । अन्यप्रकारतां वा वाक्यार्थस्य विशेषार्पणेन विधत्ते ॥ वचनोच्चारणमिति । वचनस्य भवन्तीति रूपस्य ॥ इत्याचार्यश्री हेमचन्द्रविरचिते विवेके पञ्चमोऽध्यायः ।
'प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह माधवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥' इति शेषयोजने संपूर्ण श्लोको वेणीसंहारे द्रष्टव्यः.
२. - ३. 'भवन्त्विति' स्यात्, नाटके वा 'भवन्ति' इति स्यात्,
विवेकसंवादात्.
१. ' इत्यनन्यथासिद्धो' स्यात्.
Page #252
--------------------------------------------------------------------------
________________
६ अध्यायः] काव्यानुशासनम् ।
२३९ हे देवि, विगतरजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य. शोभसे । अरीणामखिन्नां सनायकां चमूमुत्कम्पितवती । अत्र 'भासि'-'विराजसे'इत्यादिशब्दाः सार्थकाः । 'उदकम्'-'पयः'-शब्दौ निरर्थको । इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ती
शब्दालंकारवर्णनः पञ्चमोऽध्यायः ।
षष्ठोऽध्यायः । अथार्थालंकाराणामेकोनत्रिंशतमाहहृद्यं साधर्म्यमुपमा ।
कार्यकारणयोरसंभवादुपमानोपमेययोरेव साधर्म्यं भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा । हृद्यं सहृदयहृदयालादकारि । तेन सत्त्वज्ञेयत्वप्रमेयत्वादिसाधर्म्य नोपमा । तथा 'कुम्भ इव मुखम्' इत्यादि शृङ्गारादौ । हास्यादौ तु न दोषः । हृद्यग्रहणं च प्रत्यलंकारमुपतिष्ठते । साधम्य च देशादिभिर्भिन्नानां गुणक्रियादिसाधारणधर्मवत्त्वम् । अभेदे ह्येकत्वमेव स्यात् । तेन 'पुरुष इव पुरुषः' इति सत्यपि पुरुषद्वयस्य पुरुषत्वानुगमनलक्षणे साम्ये नोपमा । यदा तु द्वितीयः पुरुषशब्दः शक्तिमूलव्यङ्गचपरतयावदातकर्मवचनः, तदानीं भिन्नत्वाद्भवत्येव ।
-
यथा--
'निघ्नन्नभिमुखः शूरोऽनेकशो बहुशः परान् ।
संग्रामे विचरत्येष पुरुषः पुरुषो यथा ॥ एवं च यत्रासाधारणताप्रतिपादनार्थमेकस्यापि भेदः कल्प्यते, तत्राप्युपमा भवति ।
एकोनत्रिंशतमिति । उपमोत्प्रेक्षारूपकनिदर्शनदीपकान्योक्तिपर्यायोक्तातिशयोतयाक्षेपविरोधसहोक्तिसमासोक्तिजातिव्याजस्तुतिश्लेषव्यतिरेकार्थान्तरन्यासससंदेहापदुतिपरिवृत्त्यनुमानस्मृतिभ्रान्तिविषमसमसमुच्चयपरिसंख्याकारणमालासंकरान् ॥ असाधारणताप्रतिपादनार्थमिति । एतत्सदृशमन्यं नास्तीत्यसाधारणता तत्प्रतिपादनार्थमित्यर्थः । यथा 'उभौ यदि व्योनि पृथक्प्रवाही' इत्यादौ कल्पितोपमायामन्यैरुत्पाद्योपमेत्यपरैरतिशयोक्तिरिति च व्यपदेश्यायां वर्णनीयस्य वस्तुनः प्राप्तोत्कर्षस्य
Page #253
--------------------------------------------------------------------------
________________
२४०
काव्यमाला।
यथा'न केवलं भाति नितान्तकान्तिनितम्बिनी सैव नितम्बिनीव । .
यावद्विलासायुधलासवासास्ते तद्विलासा इव तद्विलासाः ॥' तत्र देशेनोपमानोपमेययोर्भेदो यथा-'मधुरेव पाटलिपुत्रमाढ्यजनपदम्।
कालेन यथा-'वसन्त इव हेमन्तः कामिनीसुखहेतुः' । क्रियया यथा-'नृत्यमिव गमनमस्याः सविलासम्' । गुणेन यथा-'गौरीव श्यामा सुभगा' । जात्या यथा--'विप्र इव क्षत्रियः श्रोत्रियः' । द्रव्येण यथा-'तीर्थकर इव गणधरः पूज्यः । समवायेन यथा-'विषाणित्वमिव दंष्ट्रित्वं हिंस्रम् । अभावेन यथा-'मोक्ष इव समाधौ दुःखाभावः' ।
धर्मस्य च साम्यसमन्वयसमुद्भवसातिशयत्वविरहात्सर्वेषां पुराणानां पदार्थानां नूतनम. सद्भूतं किमपि काल्पनिकमुपमानं धर्मान्तरं वा विवक्षितसातिशयत्वसंपत्तये कवयः समुल्लिखन्ति तथानन्वयेऽपि वर्ण्यमानसौकुमार्यमाहात्म्यात्काल्पनिकमप्युपमानमुपपनम् ॥ ननु वास्तवस्य द्वित्वस्याविद्यमानत्वात् उभयनिष्टत्वाच्चोपमानोपमेयभावव्यवस्थितरुपमया सह लक्षणानन्यत्वमनन्वयस्य न संभवतीत्याशङ्कयाह-एकस्यापि भेदः कल्प्यत इति । अयमभिप्रायः-समारोपितरूपस्य द्विलस्याभ्युपगमादपमानो. पमेयभावसंबन्धनिबन्धनत्वमुपमाया लक्षणं विद्यत एवेति नान्वयः पृथगलंकारत्वेन वाच्य इति ॥ विलासायुधः कामः । अत्र सैव नितम्बिनीवेत्येतत्तद्विलासा इवेत्येतच्चोपमानतया विश्रान्तिमलभमानमन्यव्यावृत्तौ लक्षणयावतिष्ठते ॥ विषाणित्वमिव दंष्ट्रित्वमिति । अत्र 'समासकृत्तद्धितेषु संवन्धाभिधानम्' इति वचनात्संयोगस्य चाभावादर्थात्समवायस्य संभवाद्यस्य गुणस्य हि भावाद्रव्ये शब्दनिवेशस्तदभिधाने 'त्वतलौ' इति त्वप्रत्ययेन समवायस्याभिधानम् । तस्य च सत्यप्येकत्वे उपाधिनिबन्धनं भेदकल्पनं न्याय्यम् । ततश्च विषाणोपाधिक: समवाय उपमानं दंष्ट्रोपाधिकस्तूपमेय इति ॥ मोक्ष इवेति । मोक्षे दुःखाभाव इव समाधौ दुःखाभाव इति भावः ॥ नित्यसमास
१. 'नानन्वयः' स्यात्. २. 'इत्यर्थः' ख. ३. अयं कोष्टकान्तर्गतः पाठोऽत्र लेखकप्रमादात्पतितो भवेत्. अग्रे 'नेरिवो-' इत्येतच्छोकप्रकरणे 'इवेन नित्यस. मासः' इत्यस्य व्याख्यारूपो भवेत्.
Page #254
--------------------------------------------------------------------------
________________
६ अध्यायः
काव्यानुशासनम् ।
२४१
सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च ।
सेत्युपमा । प्रसिद्धमुपमानमप्रसिद्धमुपमेयम् । प्रसिद्धयप्रसिद्धी च कविविवक्षावशादेव । धर्मों मनोज्ञत्वादिः । उपमावाचका इव-वा-यथाशब्दाः सदृशसंनिभादयश्च । अमीषामुपादाने पूर्णा । सा च वाक्ये वृत्तौ च भवति । वाक्ये यथा--
'क्षणं कामज्वरोच्छित्यै भूयःसंतापवृद्धये ।
वियोगिनामभूञ्चान्द्री चन्द्रिका वदनं यथा ॥' परार्थाभिधानं वृत्तिः । सा च यद्यपि समासतद्धितनामधातुभेदेन त्रिविधा लुप्तायामुदाहरिष्यते, तथापीह समासतद्धितयोरेव संभवति । यथा
'नेरिवोत्पलैः पौर्मुखैरिव सरःश्रियः ।
तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव ॥' अत्रेवेन नित्यसमासः।
इति । ये विवेन समासं नेच्छन्ति, तन्मते वाक्योपमायामिदमुदाहरणम् । समासोपमायां तु-'अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुतदृशः स भवानभिलपणीयः क्षितीश्वर न कस्य ॥' इत्युदाहार्यम् ॥] प्रसिद्धमिति । इन्दुमुखी कन्या इत्यादी प्रसिद्धं चन्द्रादि उपमानम्, प्रसिद्धं तु मुखाद्युपमेयम् । ननु 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥' इत्यादी कामिनीगण्डादेरुपमानत्वं चन्द्रादेश्चोपमेयत्वमुपलभ्यते, तत्कथमुच्यते प्रसिद्धमुपमानमप्रसिद्धमुपमेयमिति आशङ्कयाह–प्रसिद्धयप्रसिद्धी चेति । तथा हि स्त्रीमानस्य गण्डपाण्डुतायाः कल्पनानुपपत्तेः । कामयते प्रियतममिति यौगित्वाश्रयणे कामिनीशब्दात्प्रतीयमानहृदयस्थितदुर्लभमनोहारिप्रियतमाया गण्डश्चन्द्रादप्यधिकचमस्कारदायित्वेन प्रधानतया प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्धयप्रसिद्धी अङ्गीक्रियेते । न सर्वलोकप्रसिद्धयेत्यर्थः । यैरपि प्राकरणिकमुपमेयमप्राकरणिकमुपमानमिति पक्षः समाश्रियते, तैरपि कविप्रसिद्धिरवश्यमङ्गीकर्तव्यैव । तथा हि चन्द्रकामिनीगण्डादिना प्रसिद्धगुणेनाप्राकरणिकेन प्राकरणिकं मुखचन्द्रायप्रसिद्धगुणमुपमीयते । उप समीपे मीयते क्षिप्यते खसादृश्यपरिप्रापणादुपमेयं येन तदुपमानम् । यत्तु तेन समीपे क्षिप्यते सौन्दर्या दिगुणयोगित्वेन तत्र प्राकरणिकेऽप्रसिद्धं वदनचन्द्रादि तदुपमे१. 'यौगिकत्वा' स्यात.
३१ ।
Page #255
--------------------------------------------------------------------------
________________
काव्यमाला |
'गाम्भीर्यमहिमा तस्य सत्यं गङ्गाभुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ॥' अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः ।
२४२
एकद्वित्रिलोपे लुप्ता |
उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवं लोपे लुप्तो
पमा । सा च वाक्ये वृत्तौ च ।
एकलोपे वाक्यगता यथा
'अनाधिव्याधिसंबाधममन्दानन्दकारणम् ।
न किंचिदन्यदस्तीह समाधेः सदृशं सखे ॥
अत्र यद्यपि सदृशशब्दाभिधेयस्योत्कृष्टतरगुणत्वेनाप्राप्यताप्रतिपादनादुपमानत्वं बलादायातम्, तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः ।
तथा
‘धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः ।
करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥ अत्राह्लादकत्वादिधर्मलोपः । उपमेयोपमावाचकयोस्तु वाक्ये लोपो
नं संभवति ।
. द्विलोपे यथा
A
'ढुण्ढेिल्लिन्तु मरीहिसि कण्टयकलियाई केयइवणाई | माइकुसुमेण समं भमर भमन्तो न पाविहिसि ॥' अत्र धर्मोपमानयोर्लोपः ।
वृत्तौ एकलोपे यथा
-
'अनाधिव्याधिसंबाधममन्दानन्दकारणम् ।
न किंचिदन्यदस्तीह समाधिसदृशं सखे ॥' अत्र समासे उपमानस्यानिर्देशः ।
१. 'दुदुजन्त' का० प्र०.
'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालती कुसुमेन समं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥ [ इति च्छाया ॥]
Page #256
--------------------------------------------------------------------------
________________
६ अध्यायः ]
तथा
काव्यानुशासनम् ।
'राजीवमिव ते वक्रं नेत्रे नीलोत्पले इव । रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ||' अत्रेवेन नित्यसमासे धर्मलोपः ।
तथा-
'शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः ॥' अत्र बहुव्रीहौ उपमावाचकलोपः ।,
तथा---
'मृधे निदाघधर्माशुदर्श पश्यन्ति ते परे । स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥'
अत्र नित्यसमासे ‘कर्मकत्रर्णमि' इव-लोपः ।
तथा
'हंसो ध्वाङ्गविरावी स्यादुष्टृकोशी च कोकिलः । खरनादी मयूरोऽपि त्वां चेदसि वाग्मिनि ॥ अत्र नित्यसमासे कर्तरि णिनि चोपमावाचकलोपः । ..
यथा वा
'पूर्णेन्दुकल्पवदना मृणालीदेश्यदोलता ।
चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते || '
२४३
अत्र तद्धितवृत्तौ धर्मलोपः । इवार्थश्च कल्पवादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थो न तु पूर्णेन्दुरेवेति ईषदपरिसमाप्तिविशिष्टेऽर्थे कल्पवादीनां स्मरणात् । ईषदपरिसमाप्तः पूर्णेन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छायां भजते, तथापि प्रातीतिकेन रूपेणोपमैव ।
यम् ॥ वचनवृत्त्येति । सामानाधिकरण्यरूपया । ननु कथमीषदपरिसमाप्तिर्घटते यावता पूर्णेन्दुशब्देन पूर्णेन्दुजा तिरुच्यते तदाधारो वा द्रव्यम् । तत्र जातिस्तावदेका
१. 'त्वं' स्यात्.
Page #257
--------------------------------------------------------------------------
________________
२४४
काव्यमाला।
तथा ह्यत्र पूर्णेन्दुसदृशं वदनमित्ययमर्थः प्रतीयते, न त्वीषदपरिसमाप्तः पूर्णेन्दुरिति । यथा वा
'सू-यति सुधारश्मिमनाथति मृतायते ।
मृतस्तु कान्ताविरहे स्वर्गेऽपि नरकीयति ॥' .अत्र नामधातुवृत्तौ कर्माधारयोः क्यनि कर्तुः विपि क्यङि च इव-लोपः। द्विलोपे यथा
'ढुण्डल्लिन्तु मरीहिसि कण्टयकलियाई केयइवणाई ।
मालइकुसुमसरित्थं भमर भमन्तो न पाविहिसि ॥' अत्र कुसुमसदृक्षमिति समासे धर्मस्योपमानस्य च लोपः । तथा
'परिपन्थिमनोराज्यशतैरपि दुराक्रमः ।
संपराये प्रवृत्तोऽसौ राजते राजकुञ्जरः ॥' अत्र समासे धर्मस्येवस्य च लोपः ।
निरवयवा चेति सर्वस्मिन्नाश्रये समाप्ता । द्रव्यमपि यत्तया संवद्धं तत्सर्वतः पूर्णवात्स. माप्तमेव । तस्मादसंभव एवास्याः । सामानाधिकरण्यमपि पूर्णेन्दुकल्पं वदनमिति वदनशब्देन प्राप्नोति तस्यार्थान्तरवाचित्वानैष दोषः । इह शब्दादुच्चरितद्वयं प्रतीयते । शब्दार्थों जातिव्यं वा । अभिधेयसंबन्धेन वा अशब्दार्थभूता अपि गुणाः । यत्र चैतदुभयमस्ति तत्र परिसमाप्तिः । यत्र त्वन्यतरनास्ति तत्रेषदपरिसमाप्तिः । तत्रेह पूर्णेन्दुशब्दः पूर्णेन्दुजातिहीने आह्लादना दिगुणहीने वा द्रव्ये वर्तत इत्युपपद्यते । ईषदपरिसमाप्तिः। सामानाधिकरण्यमुपपद्यत एव कथं यदा तावत्पूर्णेन्दुजातिहीने केनचिसाधर्म्यण वदनशब्दाभिधेयेऽर्थे वर्तिवात्पूर्णेन्दुशब्दः कल्पप्प्रत्ययमुत्पादयति तदा वदनशब्देन सामानाधिकरण्यं भवति । उभयोरेकार्थवृत्तित्वात् । यदा तु गुणहीने पूर्णेन्दुजातीय एव पूर्णेन्दुशब्दस्तदापि यथा गौर्वाहीनक इति । सामानाधिकरण्यं तथा भवति । गुणहीनो हि पूर्णेन्दुः पूर्णेन्दुकल्पशब्देनोच्यते तेन च तुल्यं वदनमिति तदपि
१. 'ढुण्डज्जन्त' का० प्र०. २. 'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालतीकुसुमसदृक्षं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥' [इति च्छाया ।]
Page #258
--------------------------------------------------------------------------
________________
६ अध्यायः
काव्यानुशासनम् ।
२४६
यथा वा
'अरातिविक्रमालोकविकस्वरविलोचनः ।
कृपणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥' अत्र नामधातुवृत्तौ सहस्रायुधमिवात्मानमाचरतीत्यात्मा उपमेयः । स चेवादिश्च लुप्तः । आचारलक्षणश्च धर्मः क्यप्प्रत्ययेन साक्षादभिहितः । तथा'सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः ।
यामिनयन्ति दिनान्यपि सुखदुःखवशीकृते मनसि ॥' अत्र नामधातुवृत्तौ धर्मस्योपमावाचकस्य च लोपः । त्रिलोपे यथा--मृगनयनेति ।
मृगस्य नयने इति प्रथमं तत्पुरुषः, ततो मृगनयने इव नयने यस्या इति उष्ट्रमुखादित्वाद्वहुव्रीहिः । अत्र गुणद्योतकोपमानशब्दानां लोपः । यदा तु मृगशब्द एव लक्षणया मृगनयनवृत्तिस्तदा मृग एव नयने यस्या इति रूपकसमासस्यैष विषयः, न त्वस्योपमासमासस्येति नास्ति स्थानमुपमायास्त्रिलोपिन्याः । केचित्तु-अयःशूलेनान्विच्छत्यायःशूलिक इत्यादौ क्रूराचारोपमेयतैक्ष्ण्यधर्मेवादीनां लोपे त्रिलोपिनीमुपमामुदाहरन्ति, तन्न युक्तम् । क्रूरस्याचारस्यार्थान्वेषणोपायादेरयःशूलतयाध्यवसानादतिशयो. क्तिरेवायम् ।
एवं दाण्डाजिनिक इत्यादिष्वपि द्रष्टव्यम् ।
पूर्णेन्दुकल्पशब्देनाभिधायिष्यते ॥ क्रूराचारोपमेयेति । तथा पत्रायःशूलमुपमानम् , अर्थान्वेपणोपायः कश्चिदुपमेयः, तीक्ष्णलादिः साधारणो धर्मः, उपमानोपमेयभावश्चेति चतुष्टयमवगम्यते तन्मध्याच्च शब्दस्पष्टमुपमानमयःशूलेनेति शिष्टस्य तु नितयस्यार्थसा- . मादवगतिरिति ॥ दाण्डाजिनिक इत्यादिप्वपीति । तथा हि दम्भस्य दण्डा. जिनतयाध्यवसितस्य जीवनक्रियाकरणत्वं दण्डाजिनेनार्थानन्विच्छति दम्भेन जीवतीति दाण्डाजिनिकः । दाम्भिक इत्यर्थः । एवं पार्श्वनार्थानन्विच्छति । अनृजूपायेन जीवतीति पार्श्वकः । कौमृतिको जालिक इत्यर्थः । तथा शीतक उष्णक इत्यत्राप्यलसत्वशीघ्रत्वयोः शीतोष्णत्वाभ्यामध्यवसितयोः करणक्रियां प्रति विशेषणत्वं कर्मत्वं च । शीतं करोति शीतकोऽलसः। जड इत्यर्थः । एवमुष्णकः शीघ्रकारी दक्ष इत्यर्थः । तथैव च श्वा मुमू
Page #259
--------------------------------------------------------------------------
________________
२४६
काव्यमाला ।
| मालोपमादयस्तूपमाया नातिरिच्यन्ते इति न पृथग्लक्षिताः । तथा हि
'सोह व लक्खणमुहं वणमाल व वियडं हरिवइस्स उरम् । कित्ति व पवणतणयं आण व बलाई से वेलग्गए दिट्ठी ॥' इयमभिन्ने साधारणे धर्मे
'ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्ट सर्वलोका नितम्बिनी || ' इति भिन्ने वा तस्मिन्नेकस्यैव बहूपमानोपादाने मालोपमा ।
तथा
'याम इव याति दिवसो दिनमिव मासोऽथ मासवद्वर्षम् । वर्षमिव यौवनमिदं यौवनमिव जीवितं जगतः ॥'
'नभ इव विमलं सलिलं सलिलमिवानन्दकारि शशिबिम्बम् । शशिबिम्बमिव लसति तरुणीवदनं शरत्कुरुते ||' 'अत्र यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नभिन्नधर्मत्वे रसनोपमा ॥ 'अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते । भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥'
तथा
'कमलदलैरधरैखि दशनैरिव केसरैविराजन्ते । अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥'
र्षति, ' ' अश्मा लुलुठिषते,' 'कूलं पिपतिषति' इत्यादि ॥ भाष्यकारस्यापि चैवमादावति - शयोक्तिभेदत्वमेवेष्टम् । यदाह - 'न तिङन्तेनोपमानमस्ति' । आख्यातं नोपमानं भवतीत्यर्थः । एवं वर्तमानसामीप्यादावतिशयोक्तिभेदत्वं यथाप्रतीति योज्यम् । तथा च-'सत्सामीप्ये सद्वद्वा' इति वर्तमानसमीपे भूते भविष्यति च वर्तमानवत्प्रत्यया भवन्ति । कदा देवदत्त आगतोऽसि । अयमागच्छामि । आगच्छन्तमेव मां विद्धि । अयमागमम् एषोऽस्म्यागतः । कदा देवदत्त, गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । एष गमिष्यामि । एष गन्तास्मि । एवमन्यदपि । हरिपतेः सुग्रीवस्य । से इति १. ' शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः ।
कीर्तिरिव पवनतनयमाज्ञेव बलान्यस्य विलगति दृष्टिः ||' [इति च्छाया ।] २. 'विलग्ग' सेतुबन्धे.
Page #260
--------------------------------------------------------------------------
________________
६ अध्यायः]
काव्यानुशासनम् ।
२४७
अत्रोपमानोपमेययोरवयविनोः समस्तविपया, अवयवानां चैकदेशविषया ॥
'तवाननमिवाम्भोजमम्भोजमिव ते मुखम् ।
निलीनां नलिनीखण्डे कथं तु त्वां लभेमहि ॥ अत्रोभयोरुपमेयत्वे उपमानत्वे चोपमेयोपमा ॥
'त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव ।
स्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥' अत्रैकस्येवोपमानोपमेयत्वेऽनन्वयः॥ 'उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' अत्रासद्भूतस्योपमानसंभावनादुत्पाद्योपमा ॥ 'तासां तु पश्चात्कनकप्रमाणां काली कपालाभरणा चकाशे । बलाकिनीनीलपयोदराजिः पुरः परिक्षिप्तशतहदेव ॥
अन यथेष्टं विशेषणैरुपमेयं परिकल्प्य तादृशमेव सिद्धमुपमानमुपात्त. मिति कल्पितोपमेत्यादि । आसां हि पृथग्लक्षणकरणे एवंविधवैचित्र्यसहस्रसंभवादतिप्रसङ्गः स्यादिति ॥
असद्धर्मसंभावनमिवादियोत्योत्प्रेक्षा ।
प्राकरणिकेऽर्थे ये धर्मा गुणक्रियालक्षणास्तदभावलक्षणा वा तेषां संभावनं तद्योगोत्प्रेक्षणमुत्प्रेक्षा । सा चेव-मन्ये-शङ्के-ध्रुवं-प्रायो-नूनमित्यादिभिः शब्दैोत्यते ।
रामस्य ॥ तदभावलक्षणेति । गुणक्रियाभावलक्षणः । तद्योगोत्प्रेक्षणमिति । अन्यधर्माणां स्वधर्मीभूताद्वस्तुन उत्कलितानां रसभावाभिव्यक्तयनुगुणतया वस्त्वन्तराध्यस्तत्वेन लब्धप्रकर्षाणामीक्षणमित्यर्थः । हृद्यग्रहणानुवृत्तेर्लोकातिक्रान्तगोचरत्वमस्या अभ्यनुज्ञातमेव । तेन यत्र कुतश्चिनिमित्ताहौकिक्येव धर्माणां संभावना, न तत्रोत्प्रेक्षा। न हि 'भारं वह तीव पुंगवः', 'पयो ददातीव स्त्रीगवी' इत्युत्प्रेक्षा प्रवर्तते, लोकातिकान्त
Page #261
--------------------------------------------------------------------------
________________
२४८
काव्यमाला।
यथा--- 'बलं जगध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि । इतीव संचिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ ।' अत्र रोषलक्षणस्य गुणस्योत्प्रेक्षा ॥
'असंतोषादिवाकृष्टकर्णयोः प्राप्तशासनः ।
स्वधाम कामिनीनेत्रे प्रसास्यति मन्मथः ॥' अत्र संतोषगुणाभावस्य ॥ 'वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां
प्रतिफलतीव जरठशरकाण्डविपाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ___ ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ अत्र क्रियायाः ॥ 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥' अत्र दर्शनक्रियाभावस्य ॥ एवं च~ 'हिरण्मयी सा ललनेव जङ्गमाच्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥' तथा
'अकालसंध्यामिव धातुमत्ताम् । तथा--- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥' तथा'अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् ।
रैतिमिषमन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥' १. 'रतिमिव मन्म०' स्यात्.
Page #262
--------------------------------------------------------------------------
________________
६ अध्यायः काव्यानुशासनम् ।
२४९ तथा
'स्थितः पृथिव्या इव मानदण्डः।' इत्यादावुत्प्रेक्षावुद्धिर्न विधेया ॥
यद्यप्येषु खरूपतो विशेषणतश्चोपपाद्य(?) कल्पितम् , तथाप्युपमैव । उपमानोपमेययोः साधर्म्यस्य तद्वाचकानां प्रतीयमानत्वात् ॥ ___ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् ।
सादृश्ये निमित्ते सति भेदेन विषयविषयिणोनिर्देशेन आरोपोऽतथाभूतेऽपि तथात्वेनाध्यवसायो रूपयत्येकतां नयतीति रूपकम् । आरोप्यमाणरूपेणारोपविषयस्य रूपवतः क्रियमाणत्वात् । सादृश्यग्रहणं कार्यकारणभावादिनिमित्तान्तरव्युदासार्थम् । तेन 'आयुघृतम्' इत्यादौ न रूपकम् । भेदग्रहणमभेदारोपनिरासार्थम् । तत्र ह्यतिशयोक्तिर्वक्ष्यते । तच्च एकमनेकं चारोपस्य विषयो यत्र तत्तथा ॥
तत्रैकविषयं यथा. 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य
सखीः कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । गोचराया एव संभावनाया उत्प्रेक्षागोचरत्वात् ॥ विषयविषयिणोरिति । अर्थादुपमानोपमेययोः ॥ तथानाध्यक्लायति । 'मुखं चन्द्रः' इत्यादी गौणीवृत्तिविषयतयेत्यर्थः । तथा हि उपवनो भावासो। द्वितीचेगोपनानशब्देन तथाभूतेनानुपपद्यमानसामानाधिकरवताना इस सानिमिताभूतगुणवृत्ति नियमयति। ततश्च सामानाधिकरण्यमप्युपपद्यते । अत एव च भेदेऽवभेदशतीतिरियं नापन्यायः । तथा ह्यज्ञाते भेदे किलाभेदप्रतीतिरेव यत्र, तन्मिथ्याज्ञानम् । यथा शुक्तिकायां रजतप्रतीतिः । तथा भेदे ज्ञातेऽपि यत्राभेदप्रतीतिरिव सोपमा । भेदे ज्ञातेऽप्यामुख्ये कि. लाभेदप्रतीतौ संजातायामपि पश्चादत्रैवंविधे विशिष्टे सादृश्ये विश्रान्तिस्तद्रपकम् । अन्यथा भेदेऽप्यभेदप्रतीतावन्याय एव स्यात् । ततश्च मिथ्याज्ञानसालंकाररूपत्वं कथमुच्यते । अत्र च केचिच्छब्दारोपपूर्वकमारोपं त्रुवते। अपरे विपर्ययम् । अन्ये योगपद्येनोभयम् । एष एव च युक्तः पक्ष इत्याहुः । तथा हि-शब्दापचारात्ताद्रूप्यं रूपके कैश्चिदुच्यते । ताद्रूप्यारोपतस्त्वन्यैः शब्दारोपोऽन कथ्यते ॥ उपमानगुणैस्त्वन्यानुपपमेयगुणान्गुणान् । पश्यतां युगपद्भाति तत्र तच्छब्दरूपता ॥' तत्रेत्युपमेये । तच्छ
१. 'सखी' का० प्र०.
Page #263
--------------------------------------------------------------------------
________________
२५०
काव्यमाला।
विनिद्रं यच्चान्तः स्वपिति तदहो वेदयभिनवां
- प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' यत्र चैकस्मिन्विषयेऽनेकान्यारोप्याणि, तदप्येकविषयम् । यथा--- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्मः ___ कान्तेः कार्मणकर्म नमरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्रिया
प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥' यत्र चैकत्र विषये आरोप्यं श्रौतं विषयान्तरे तु गम्यं तदप्येकविषयम्। व्देति । उपमानशब्दारोप उपमानरूपारोपश्च ॥ प्रेमलतिकेति । प्रेमैव लति- . केति । मयूरव्यंसकादित्वादेवशब्दलोपी समासः ॥ ननु व्याघ्रादिद्वारेण इवशब्दलोपी समासो लुप्तोपमाया दृश्यते । ततश्चोभयप्राप्तेरवश्यंभाविनीत्वाद्वक्ष्यमाणसंदेहसंकरः प्राप्नोति । उच्यते-यत्रान्यतरपरिग्रहे साधकप्रमाणाभावस्तदितरस्य वा परिहारे न स्याद्वाधकं प्रमाणं तत्रैवोभयप्रसक्तिरनिवार्येति स एव संदेहसंकरोऽलंकारस्य विषयो वक्ष्यते । इह तु लतायाः सेवनमानुकूल्यादारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्ति तत्संकरशङ्का न कार्या । एवं बाधकेनापि प्रमाणेन संदेहांशापवर्तनादपरांशप्रतिष्ठायां निरवकाशतैव संदेहस्य । यथा-'मधुसुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूरिव । ..................." मुख इव पुष्पे मधुकरेण चुम्ब्यते स्म' इति विवक्षायामिवश. ब्दद्वयेन वाक्यार्थासंगतिर्वाधकं प्रमाणं समासे लुप्तोपमायाः, न तु 'साललतावधूगुणयोगिनी मुख इव षट्पदेन चुचुम्बे' इति रूपकस्य । तथा हि मुख इव पुष्प इत्यत्र सदृशस्य पुष्पस्य प्रतिपत्तौ मुखाधीयमानविशेषता पुष्पाश्रिता पूर्वमेव प्रतीतौरस्यतयोपारोहति । तेन मुखसामर्थ्याक्षिप्तया वध्वा कयापि भवितव्यमिति । सात्र लताभिधीयते । तस्मालतैव वधूरित्याञ्जसी रूपके प्रतिपत्तिः । उपमाप्रतिपत्तेस्त्वनाअसत्वं मुखोपमितिसामर्थ्याक्षिप्तपुष्पगतरूपविशेषानुपयोगित्वात् । तथा चात्रोपमेये पुष्पविशेषे मुखोपमितिसामर्थ्याक्षिप्ते चुम्बनाधारत्वादौ न सालताया उपयोगोऽस्ति, वध्वा एव तत्रोपयोगित्वात् । तेन वधूरत्र प्रधानम् , तदुपयोगिनी तु साललता साललतैव वधूरित्यनया रूपकच्छायया संगतिः प्रतिपद्यत इति । तस्माद्यत्र विशेषावसाये निमित्तमस्ति, तत्र रूपकं समासाभिहितोपमा वान्यत्र संकर इति ॥ सौन्दर्यस्येति । अत्र तरङ्गि
१. 'अनिद्र' का० प्र०. १. 'साललताया' स्यात्.
Page #264
--------------------------------------------------------------------------
________________
६ अध्यायः]
काव्यानुशासनम् । ____२५१ यथा'जस्स रणन्तेउरए करे कुणन्तस्स मण्डलग्गलयम् ।
रससंमुही वि सहसा परम्मुही होइ रिउसेणा ॥' अत्र रणस्यान्तःपुरत्वारोपः श्रौतो मण्डलाग्रलताया नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वमर्थसामर्थ्यादवसीयते । अनेकविषयं यथा'यस्या वीजमहंकृतिर्गुरुतरो मूलं ममेति ग्रहो
नित्यत्वस्मृतिरङ्कुरः सुतसुहृज्जात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः
सा मे त्वच्चरणाहणापरशुना तृष्णालता ल्यताम् ॥' यथा वा__ 'इन्द्रस्त्वं तव वाहू जयलक्ष्मीद्वारतोरणस्तम्भौ । - खड्गः कृतान्तरसना रसना च सरखती राजन् ।' एवं च येऽन्ये रूपकप्रभेदा वर्ण्यन्ते । यथा--- 'ललनाः सरोरुहिण्यः कमलानि मुखानि केसरैर्दशनैः ।
अधरैर्दलैश्च तासां नवविसनालानि बाहुलताः ॥' इदं सहजावयवं रूपकम् ।
'गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि ।
यन्ता सिंहोऽपि शोभन्ते भ्रमरा हरिणास्तथा ॥' इदमाहार्यावयवं च । 'अलिकुलकुन्तलभाराः सरसिजवदनाश्व चक्रवाककुचाः ।
राजन्ति हंसवसनाः संप्रति वापीविलासिन्यः ॥' १. 'यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् ।
रससंमुख्यपि सहसा परामुखी भवति रिपुसेना ॥' [इति च्छाया ।] २. 'जिहा' रुद्रटे.
-
-
Page #265
--------------------------------------------------------------------------
________________
२५२
काव्यमाला |
इदमुभयावयवमित्यादि ॥ ते न लक्षिताः, उक्तग्रहणेनैव संगृहीतत्वात् । एवंविधवैचित्र्यसहस्रसंभवाच्चातिप्रसङ्गः स्यात् ।
यदाह
'न पर्यन्तो विकल्पानां रूपकोपमयोरतः । दिङ्मात्रं दर्शितं धीरैरनुक्तमनुमीयताम् !!'
इति ।
/ इष्टार्थसि दृष्टान्तो निदर्शनम् ।
इष्टस्य सामान्यरूपस्य विशेषरूपस्य वा प्राकरणिकस्यार्थस्य सिद्ध्यै यो दृष्टान्तः स निर्दिश्यते प्राकरणिकोऽर्थोऽत्रेति निदर्शनम् ।
यथा
"होइ न गुणाणुराओ जडाण णवरं पसिद्धिसरणाण । किरपण्डुवइ समिणी चन्दे पियामुहे दिडे ||
यथा वा
-~
'उपरि वनं घनपटलं दूरे दयिता तदेतदापतितम् | हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥'
१
प्यादेरारोप्यस्य प्रियालक्षण एक एव विषयः । रहसामिति हास्यानाम् ॥ इष्टस्येति । उत्तरत्र विशेषस्य सामान्येन समर्थनेऽर्थान्तरन्यासत्वं वक्ष्यत इत्यत्रार्थादर्थस्य सामान्यरूपस्य विशेषरूपस्य चेति लभ्यते । ननु चार्थान्तरन्यासोऽपि निदर्शनलक्षणेन संग्रहिष्यते । किं तस्य पृथग्लक्षणकरणेनेत्याशङ्कयाह-यो दृष्टान्त इति । दृष्टोsन्तो निश्चयो यत्र स दृष्टान्तः । निश्चयश्च विशेषादेव संभवतीति विशेषरूप एवासौ । तेन 'यत्र सामान्यस्य विशेषस्य वा विशेषेण समर्थनं तन्निदर्शनम् । यत्र तु विशेषस्य सामान्येन समर्थनं सोऽर्थान्तरन्यासः' इति विवेक उत्पद्यते ॥ होइ न गुणाणु| राओ इति । अत्र सामान्यं विशेषेण साध्यते ॥ उपरीति । अत्र विशेषो विशेषेण
१. 'भवति न गुणानुंरागो जडानां केवलं प्रसिद्धिशरणानाम् । शशिमणिश्चन्द्रे प्रियामुखे दृष्टे ॥' [ इति च्छाया ।]
*****....
१. 'संग्रह' स्यात्.
Page #266
--------------------------------------------------------------------------
________________
६ अध्यायः]
काव्यानुशासनम् ।
२५३.
यथा वा'देवीभावं गमिता परिवारपदं कथं भजत्येषा ।
न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥ यथा वा---
'क्व सूर्यप्रभवो वंशः क चाल्पविषया मतिः ।
तितीर्घर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥' यथा वा'अत्युच्चपदाध्यासः पतनायेत्यर्थशालिनां शंसत् ।
आपाण्डु पतति पत्रं तरोरिदं बन्धनग्रन्थः ॥' एते साधर्म्यण निदर्शनप्रकाराः ॥ वैधय॒णापि यथा
'गुणानामेव दौरात्म्याश्रुरि धुर्यों नियुज्यते ।
असंजातकिणस्कन्धः सुखं जीवति गौर्गलिः ॥' 'तवाहवे साहसकर्मनर्मणः पाणिं कृपाणान्तिकमानिनीयतः ।
भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः ॥' इति ॥
साध्यते ॥ देवीभावमिति, व सूर्येति, अत्युच्चपदाध्यास इति । उदाहरणत्रयस्यायमभिप्रायः । यथा कैश्चित्प्रतिवस्तूपमा, प्रकारद्वयेन निदर्शना च पृथक् लक्षिता तथा न लक्ष्यत इत्यर्थः । निदर्शनलक्षणेनैव व्याप्तवात् । तथा हि 'देवीभावं-' इति 'क्व सूर्य-' इत्युदाहरणद्वये विशेष एव दृष्टान्तेन साध्यमान उपलभ्यते ॥ ननु प्रतिवस्तूपमान्तर्भवतु निदर्शने । निदर्शनाविशेषस्तु कथमन्तर्भविष्यति । तस्य 'अभवद्वस्तुसंवन्ध उपमापरिकल्पकः' इत्येवं लक्षणखात् । अत्रोच्यते-क सूर्येत्यादौ दार्टीन्तिके वस्तुसंबन्धस्य असंभवः, दृष्टान्ते वा, अल्पविषयमत्या सूर्यवंशस्य वर्णनमसंभवदिति दार्शन्तिके वस्तुसंवन्धस्यासंभव इति चेत्, न । यत्र वाक्येऽसंभवनेवार्थः प्रतिपद्यते, तत्र कथमभवद्वस्तुसंवन्धता । स्यादेवं यदि प्रतिपद्यमानस्यार्थस्य वाक्ये कश्चिदसंबन्धः स्यात् । तस्मान दान्तिके वस्तुसंवन्धस्यासंभवः दार्टान्तिकप्रतिवि. १. 'शर्मणः' का० प्र०. 'साहसकर्मणा शर्म सुखं यस्येति विग्रहः' इत्युदाहरणचन्द्रिका.
Page #267
--------------------------------------------------------------------------
________________
२५४
काव्यमाला।
।
प्रकृताप्रकृतानां धर्मेक्यं दीपकम् । बहुवचनं समस्तव्यस्तपरिग्रहार्थम् । तेन प्रकृताप्रकृतानां प्राकरणिकाप्राकरणिकानामर्थादुपमानोपमेयत्वेन प्रकृतानामप्रकृतानां च केवलानां धर्मः क्रियादिर्यदेक एव प्रयुज्यते तदा दीपवदेकस्थानस्थमनेकदीपनादीपकम् । यथा'चन्दमऊएहिं निसा णलिणी कमलेहिं कुसुमगुच्छेहिं लया ।
हंसेहिं सरयसोहा कबकहा सज्जणेहिं कीरइ गरुई ।' अत्र काव्यकथा प्रकृता शेषाण्यप्रकृतानि । गुरुकीकरणमेका क्रिया । म्वरूपत्वाच्च दृष्टान्तस्य दृष्टान्तेऽप्ययमेव न्यायः । 'उदयति विततोलरश्मिरजी-' इत्यादौ तु अतिशयोक्तिभेदलं वक्ष्यते । 'अत्युच्चपदाध्यासः' इत्यत्र तु सामान्यं दृष्टान्तेन समर्थ्यते । साक्षास्क्रियापि तदर्थान्वयख्यापनं कुर्वतीति न दृष्टान्तात्प्रच्यवत इति ॥ चन्दमऊएहिं इति । चन्द्रमयूखादीनामपि न निशा दिना विना कोऽपि परभागलाभः । सज्जनानामपि काव्यकथां विना कीदृशी साधुजनता । चन्द्रमयूखैश्च निशाया गुरुकीकरणं भाखरवसेव्यतादि यत्क्रियते, कमलैनलिन्याः शोभा परिमललक्ष्म्यादि, कुसुमगुच्छलताया अभिगम्यत्वमनोहरत्वादि, हंसैः शारदशोभायाः श्रुतिसुखकरत्वमनोहरत्वादि, तत्सर्व काव्यकथायाः सजनैरित्येतावानयमों गुरुकी क्रियते इत्येतद्दीपकवलाच्चकास्ति । कथाशब्द इदमाह-आसतां तावत्काव्यस्य केचन सूक्ष्मा विशेषाः, सजनैर्विना काव्यकथा काव्यमित्येष शब्दोऽपि विध्वंसते । तेषु तु सत्सु आस्तां सुभगं काव्यं काव्यशब्दस्य व्यपदेशभागपि शब्दसंदर्भमात्रं तथा तथा तैः क्रियते यथादरणीयतां प्रतिपद्यते ॥ ननु यदि क्रियापदोपनिबन्धो दीपकम् , तर्हि न तदलंकारः । क्रियापदे हि सति वाक्यपरिसमाप्तिः प्रतीयते, न पुनरातिशयः, विना क्रियापदं वाक्यमेव किंचिन्नास्ति यदवोचाम । 'सविशेषणमाख्यातं वाक्यम्' इति आख्यातशब्देन चात्राख्यातान्तं पदमुच्यते, तस्यैव क्रियावाचकत्वात् । तेनात्र कुतः कस्यातिशयः, शास्त्रारम्भवैयर्थ्याच्च । तथा हि-अलंकारशून्यं काव्यं मा भूदिति कवीनामलंकारव्युत्पत्तिः क्रियते । क्रियापदस्य च दीपकत्वे सर्व काव्यं सालंकारमिति नार्थोऽनेन ग्रन्थेन । अलंकारभेदप्रज्ञापनार्थोऽयं ग्रन्थ इति चेत्, तेनैव तावज्ज्ञापितेन कोऽर्थः सर्वथा सालंकारं काव्यं विधेयम् । तत्र यद्यलंकारान्तरं काकतालीयेन १. 'चन्द्रमयूखैर्निशा नलिनी कमलैः कुसुमगुच्छलता।
हंसैः शारदशोभा काव्यकथा सज्जनैः क्रियते गुरुकी ॥ [इति च्छाया।]:
Page #268
--------------------------------------------------------------------------
________________
६ अध्यायः
काव्यानुशासनम् ।
२६६
यथा वा
'मदो जनयति प्रीति सानङ्गं मानभङ्गुरम् ।
स प्रियासंगमोत्कण्ठां सासह्यां मनसः शुचम् ॥' अत्र मदादौ यत्प्राकरणिकतया विवक्ष्यते तदुपमेयं शेषाण्युपमानानि। न च क्रमैकत्वमुपमां रुणद्धीति वाच्यम् ।
'राम इव दशरथोऽभूद्दशरथ इव रघुरजोऽपि रघुसदृशः ।
अज इव दिलीपवंशश्चित्रं रामस्य कीर्तिरियम् ॥ इत्यादौ क्रमैकत्वेऽप्युपमादर्शनात् ।
प्रकृतानां धर्मैक्यं यथा'पाण्डक्षामं वदनम्-' इति । यथा वा'हसाण सरेहिं सिरी सारिज्जइ अह सराण हंसेहिं । अण्णोण्णं विय एए अप्पाणं णवर गरुअन्ति ॥
भवति तदा शोभनमेव, नो चेद्दीपकमवस्थितमेव । किं च संकरस्योच्छेदप्रसङ्गान कियापदं दीपकालंकारः । पृथक् पृथक् लब्धात्मनामलंकाराणामेकवाक्यसंसर्गे संकरः । न
च क्रियापदस्य दीपकत्वे रूपकादयोऽलंकारा दीपकात्पृथगात्मानं लब्धुमुत्सहन्ते । त. स्मान क्रियापदं दीपकम् । सत्यम् । न क्रियापदमात्रमस्माकं दीपकम् । किं तु बहुभिः समानजातीयैः कारकविशेषैरभिसंवध्यमानम् । तस्य चानेकेष्वर्थेष्वभिसंवध्यमानस्यार्थादन्वयिरूपं यत्तत्साम्यमुच्यते । प्राकरणिकाप्राकरणिकत्वाभ्यां च तेपामर्थानामुपमा. नोपमेयभावो गम्यमानो न श्रौतः । अत एव दीपकमुपमातो भिद्यते । यत्रापि प्राकरणिका एव अप्राकरणिका एव वा पदार्था एकधर्मानुगता वर्ण्यन्ते, तत्रापि तेषां परस्परं किंचित्साम्यं विज्ञेयमेव ॥ ननु रुद्रटप्रभृतिभिर्वास्तवभेदतयापि दीपकं प्रतिपादितम्, तत्र च कथमौपम्यं स्यादित्याशय निदर्शयति-मद इति । मदः सुरादिपानविकारविशेषः । मानभङ्गुरं मानभजनशीलम् । यद्वा मानो भङ्गुरो यत्रेति समासः ॥ क्रियादेर्धर्मत्यैकस्यैव वाक्यार्थेष्वनेकेष्वपि साधारणतयोपादीयमानत्वादत्रौपम्यं वलादापतति । तत्रापि यद्विवक्षितं तदुपमेयमितरस्तूपमानमिति । अत एव रुद्रटोक्त औपम्यसमुच्चयोऽपि दीपकमेव तुल्यखभावत्वादिति ॥ हंसाणेति । अत्र हंसानां श्रीः स
'हंसानां सरोभिः श्रीः सार्यतेऽथ सरसां हंसैः । अन्योन्यमेवैते आत्मानं केवलं गुरूकुर्वन्ति ॥' [इति च्छाया ।
१.
Page #269
--------------------------------------------------------------------------
________________
२५६
काव्यमाला।
अप्रकृतानां यथा'कुमुदकमलनीलनीरजालिललितविलासजुषोशोः पुरः का। अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे त्वदाननस्य ॥ 'विद्यति कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक ।
अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने ॥ इत्यादौ जातेरेव चमत्कारो न दीपकस्येति कारकदीपकं न लक्ष्यते । , सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः।
सामान्य प्रस्तुते तदन्यस्य विशेषस्य, विशेषे सामान्यस्य, कार्ये कारणस्य, कारणे कार्यस्य, सदृशे सदृशस्य चान्यस्याप्रस्तुतस्योक्तिरभिधानमन्योक्तिः । अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेप इत्यर्थः । .
रोभिः सरसां च हंसैः सार्यत इति साधारणक्रियया एकयैव हंससरसोः प्राकरणिकयोः संवन्ध इति अन्योन्यनामालंकारो न दीपकतामतिकामति ॥ यथा वा-'कण्ठस्य तस्यास्तनुवन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननाद्बभूव साधारणो भूषणभूघ्यभावः ॥' इति । अत्र कण्ठमुक्ताकलापयोः प्राकरणिकयोरन्योन्यं भूध्यभूषणभाव इति ॥ कुसुदेति । अत्र कुमुदादीनि अमृतादीनि चाप्राकरणिकानि दृशोरान. नस्य च प्रकृतस्य वर्ण्यमानत्वात् । यथा वा—'यैईटा सा नवा दृष्टा सुषिताः. सममेव . ते । हृतं हृदयमेकपामन्येषां जन्मनः फलम् ॥' अत्र प्रियतां पाकरणिकी प्रति अ. वलोकयितृणासनवलोकयितृणां च प्राकरणिकानां मुषितत्वमेको धमे इति । एवं च तुल्ययोगिता पृथक् न वाच्या इति । ननु कारकदीपकमन्यैरुक्तं तर्तिक नोच्यते इत्याशङ्कयाह-विद्यतीत्यादि ॥ अप्रस्तुतस्येति । उपवर्णनावसरादपेतत्वादप्राकरणिकस्येत्यर्थः । अभिधानमिति । स्तुतिनिन्दोभयानुभयरूपम् ॥ ननु चाप्रस्तुतपदार्थखरूपोक्तावसंबद्धभाषिता नालंकारगन्धोऽपि । तथा हि । पर्वतोपवर्णनायां कः समुद्रखरूपमुपवर्णयेत् । उपवर्णने वा शिष्टविगर्हणमवश्यं भावीत्याशय, अन्योक्तिशब्दार्थ प्रकटीचिकीर्षुराह-अप्राकरणिकस्याभिधानेनेत्यादि । सान्तरेण शब्दव्यापारेण गोचरीक्रियमाणः प्राकरणिको योऽर्थस्तेन सहाप्रस्तुतस्य कार्यकारणभावादौ संबन्धे सति सहृदयहृदयावर्जकमलंकाररूपत्वमेतस्या इत्यर्थः । तुल्ये प्रस्तुते यत्र तुल्यस्याप्रस्तुतस्याभिधानं तत्र विशेषो विशेषेण प्रतीयत इति पूर्वाभ्यो भेदः ।
१. 'तवा' का० प्र०.
Page #270
--------------------------------------------------------------------------
________________
|
६ अध्यायः ]
यथा
काव्यानुशासनम् ।
'ऐरावणं स्पृशति मन्त्रयते मरुद्भिवज्रं परामृशति पश्यति योधसार्थान् । मेरोस्तटानि विषमीकुरुते महेन्द्र
२.५.७
स्त्वच्छङ्कया निशि न याति नरेन्द्र निद्राम् ॥'
अत्र त्वय्युद्युक्ते न कश्चित्सुखं शेते इति सामान्ये प्रस्तुते विशेष उक्तः । 'अहो संसारनैर्घृण्यमहो दौरात्म्यमापदाम् ।
अहो निसर्गजिह्मस्य दुरन्ता गतयो विधेः ॥'
अत्र क्वापि वस्तुनि विनष्टे विशेषात्मनि प्रस्तुते दैवखातन्त्र्यं सर्वत्र सामान्यरूपमप्रस्तुतं वर्णितम् ।
'ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च ।
ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः ॥'
अत्र जरासंधः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभिव्यक्तुं सुहृद्वान्धवरूपत्वमप्रस्तुतं कारणं वर्णयति ।
'सेग्गं अप्परियायं कुच्छुहलच्छिविरहियं महुमहस्स उरम् । सुमरामि महणपुरओ अमुद्धयन्दं व हरजटाप भारम् ॥' 'अत्र जाम्बवान् वृद्धसेवाचिरजीवित्वव्यवहार कौशलादौ मन्त्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहितहरिवक्षः स्मरणादिकमप्रस्तुतं कार्यं वर्णयति । तुल्ये प्रस्तुते तुल्यस्याभिधाने द्वौ प्रकारौ । श्लिष्टविशेषणता, सादृश्यमात्रं वा तुल्यान्तरस्याक्षेपहेतुः ।
अन्योक्तौ च यद्वाच्यं तस्य कदाचिद्विवक्षितत्वं कदाचिदविवक्षितत्वं कदाचिद्विवक्षिता. विवक्षितत्वमिति त्रयी वन्धच्छाया । तत्र विवक्षितत्वं यथा - 'परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं 'खर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधुमथनस्योरः ।
१.
स्मरामि मथनपुरतोऽमुग्धचन्द्रं च हरजटाप्राग्भारम् ॥' [ इति च्छाया ।] २. 'अपारिजाअं कौत्थुह' सेतौ .
१. 'अप्रस्तुतप्रशंसायां' ध्वन्यालोके.
३३
Page #271
--------------------------------------------------------------------------
________________
२५८
काव्यमाला।
यथा-- 'नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि- .
दण्डे कर्कशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे
यस्यैषा स्थितिरम्बुजस्य वसतियुक्तैव तत्र श्रियः ॥ अत्राप्रस्तुतेनाम्बुजेन तुल्यविशेषणबलात्तुल्यः सत्पुरुष आक्षिप्यते ॥
आदाय वारि परितः सरितां मुखेभ्यः
किं तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवावेदने हुतं च
पातालकुक्षिकुहरे विनिवेशितं च ॥ अत्रार्णवस्य गर्हणयान्यायोपार्जितधनत्वादिप्रतीयमानसादृश्यः कश्चिपुरुषविशेष आक्षिप्यते ॥
यदि स भृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः ॥' इक्षौ पीडनं पीडा, सत्पुरुषे तु परार्थोद्यते तदर्थ क्लेश: । भङ्गोऽपीक्षौ ग्रन्थित्रोटनम् , सत्पुरुषे तु धनाभावनिमित्तो विप्लवः । इक्षोर्माधुर्यमाखाद्यलक्षणो गुणः, सत्पुरुषे त्वनुल्वणत्वम् । इक्षोविकारः शर्करागुडखण्डादि, सत्पुरुषे तु चित्तविक्रिया। न हि सत्पुरुषा विकृत्यवस्थायामप्यसेव्याः । उल्वणत्वाभावात् । इक्षोरक्षेत्रमूषरम् , सत्पुरुषे निर्विवेकखाम्यादिस्थानम् ॥ यथा वा--'अमी ये दृश्यन्ते ननु सुभगरूपाः सफलता भवत्येषां यस्य क्षणमुपगतानां विषयताम् । निरालोके देशे कथमिदमहो चक्षुरधुना समं जातं सर्वैर्न सममथ वान्यैरवयवैः ॥' नन्विति । यैर्जगदिदं भूषितमित्यर्थः । यस्य चक्षुषो चिषयतां क्षणं गतानामेषां सफलता भवति तदिदं चक्षुरिति संवन्धः । आलोको विवेकोऽपि । न सममिति । हस्तो हि वरं स्पर्शादानादावप्युपयोगी। अवयवैरिति । अतितुच्छप्रायरित्यर्थः । अत्र अविचारकजनाकुले काले कश्चिन्महापुरुषः कुखामिभिरितरजनसमसत्कारतया ततोऽपि चाप्रयोजनया न्यूनसत्कारतया खली क्रियमाण: प्रस्तुतः ॥ यथा च-'प्राणा येन समर्पितास्तव बलायेन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्या पुरः । तस्यास्य स्मितमात्रकेण जनयजीवाप
१. 'शतेभ्यः' प्राग्लिखितम्. २. 'दहने' का० प्र०.
१. 'न सममित्यर्थः' ख.
Page #272
--------------------------------------------------------------------------
________________
६ अध्यायः ]
काव्यानुशासनम् ।
. विशेष्यश्लिष्टता तु अन्योक्तिप्रयोजकतया न वाच्या ।
यथा
'पुंस्त्वादपि प्रविचलेद्यदि यद्यधोऽपि यायाद्यदि प्रणयनेन महानपि स्यात् ।
अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥'
२५९
.,
हारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताललीलायसे ॥' अत्र यद्यपि सारूप्यवशेन कृतघ्नः कश्चिदन्यः प्रस्तुत आक्षिप्यते, तथाप्यप्रस्तुतस्य वेतालवृत्तान्तस्यापि चमत्कारकारित्वं न ह्यचेतनोपालम्भवदसंभाव्यमानोऽयमर्थ इति । एषु वाच्यं विवक्षितखरूपमेव, न तु प्रस्तुतम् । आद्ययोर्द्वयोर्महागुणस्याविपयपतितत्वादप्राप्तपरभागस्य, तृतीये च कृतघ्नस्य कस्यचित्स्वरूपं वर्णयितुं तात्पर्येण स्तुतमिति ॥ अविवक्षितत्वं यथा - 'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यसे । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि मे ॥ कथयामीत्यादि प्रत्युक्तिः । अनेन पदेनेदमाह - 'अकथनीयमेतत् श्रूयमाणं हि निर्वेदाय भवति, तथापि तु यद्यनुबन्धस्तत्कथयामि' । वैराग्यादिति । काक्का दैवहतकमित्यादिना च सूचितं ते वैराग्यमिति यावत् । साधु विदितमित्युत्तरम् । कस्मादिति वैराग्ये हेतुप्रश्नः । इदं कथ्यत इत्यादि सनिर्वेदस्मरणोपक्रमं कथं कथमपि निरूपणीयतयोत्तरम् । वामेनेति । अनुचितेन कुलादिनोपलक्षित इत्यर्थः । वट इति । छायामात्रकरणादेव फैलदानशून्यादुद्धरकन्धर इत्यर्थः । छायापीति । शाखोटको हि श्मशानाग्निज्वालाली ढलतापल्लवादिस्त रुविशेषः । न हि वृक्षविशेपेण सहोक्तिप्रत्युक्ती संभवत इति अविवक्षिताभिधेयेनैवानेन श्लोकेन समृद्धासत्पुरुषसमीपे वासिनो निर्धनस्य कस्यचिन्मनखिनः परिदेवितं तात्पर्येण वाक्यार्थीकृतमिति प्रतीयते ॥ विवक्षिताविवक्षितत्वं यथा - ' उप्पहजायाए असोहि - णीए फलकुसुमपत्तरहिआए । वोरीए वई दन्तो पामर "हो हो हसिज्जिहसि ॥' अत्र वाच्योऽर्थो नात्यन्तं संभवी ने वासंभवीति वा न वक्तुं शक्यम्, व्यङ्ग्यस्यापि भावात् ।
१. 'लेदपि' का० प्र०.
१. ‘यदि निर्वन्ध' ध्वन्यालोकलोचने. २. 'फलदानादिशून्या' ध्वन्यालोकलोचने. 'उत्पथजाताया अशोभिन्याः फलकुसुमपत्ररहितायाः ।
३.
वदर्यावृतिं ददत्पामर भो भो हसिष्यते ॥' [इति च्छाया ।]
४. 'हो ओहसिज्जिहसि' ध्वन्यालोके. ५. ' वाच्य एव नियमो नास्तीति ध्वन्यालोकलोचने.
Page #273
--------------------------------------------------------------------------
________________
२६०.
अत्र पुरुषोत्तमशब्दस्यार्थद्वयवाचकत्वेऽपि सत्पुरुषचरितस्य प्रस्तुत - त्वादभिधा एकत्र नियन्त्रितेति सत्पुरुष एव वाच्यो न विष्णुः, तच्चरितस्याप्रकृतत्वात् । तत्प्रतीतिस्तु शब्दशक्तिमूलात् ध्वनेरेव । यद्यपि च सत्पुरु1
काव्यमाला |
तथा हि———उत्पथजाताया इति न तथा कुलोद्गतायाः । अशोभनाया इति लावव्यरहितायाः । फलकुसुमपत्ररहिताया इति । एवंभूतापि काचित्पुत्रिणी वा भ्रात्रादिपक्षपरिपूर्णतया संवन्धिवर्गपोषिका वा परिरक्ष्यते । बदर्या वृत्ति ददत्पामर भो भो हसिष्यसे । सकललोकैरिति भावः ॥ यथा वा --- ' सोऽपूर्वो रसनाविपर्ययविधिस्तत्क - र्णयोश्चापलं दृष्टिः सा मदविस्मृतखपरदिक्किं भूयसोक्तेन वा । सर्व विस्मृतवानसि - मर हे यद्वारणोऽद्याप्यसावन्तः शून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥' रसना - विपर्ययोऽसत्यभाषित्वमपि । चापलमश्रोतव्यश्रवणमपि । मदो गर्वोऽपि । शून्यकरत्वमपि । अत्र रसनाविपर्यासः शून्यकरत्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवने निमित्तमिति ॥ ननु यत्राप्रस्तुतं वस्तु प्रस्तुतार्थानुबन्धि कथ्यते, तत्र यद्यन्योक्तित्वमभिधीयते, तदा सहस्रमायप्रयाणे भटीनां प्रियविरहोत्कण्ठितानामनेकविधव्यापारोपवर्णने भूतकालसंवन्धिनि प्रस्तुते 'औत्सुक्यगर्भा भ्रमतीव दृष्टिः पर्याकुला क्वापि मतिः प्रयाति । निरत्ययप्रेम निबन्धनं च वियोगकाले द्रवतीव चेतः ॥' इत्य प्रस्तुतार्थाभिधायिनि श्लोकान्तरे । तथा समुद्रेण रामं प्रति- 'त्वयैव महामियं स्थितिर्दत्ता । यामनुपालयता मया भवान्विष्णुरारोषितः' इति प्रस्तुत्योपन्यस्ते 'ि असन्तरअक्खउरं मअरन्दरसुद्धुमायमुहलमहुअरम् । डेउणा दुमाण ति उणा अप्पण चिअ कुसुमम् ॥' इत्यप्रस्तुतार्थप्रतिपादके छन्दोन्तरे च अन्योक्तित्वप्रसङ्गः । अत्र हि तद्वये उपवर्ण्यमानेनाप्रस्तुतेनार्थेन वृत्तान्तरोपनिबद्धः स्तुतोऽर्थोSनुसंबध्य मैवम् । यत्र हि तस्मिन्नेव वाक्येऽभिधीयमानेनाप्रस्तुतेनार्थेन शब्दानुरूपारूढस्यापि प्रस्तुतस्यार्थस्य सारूप्यादिभिराक्षेपः सोऽन्योक्तेर्विषयः, यत्र त्वेकस्मिन्नेव वाक्ये वाक्यद्वये वा समर्थ्य समर्थकतया बिम्बप्रतिबिम्बभावेन वा प्रस्तुताप्रस्तुतयोरभिधयैव संस्पर्शो वाक्यैकवाक्यता च सोऽर्थान्तरन्यासस्य निदर्शनस्य वा विषयः । एवं च ' औत्सुक्यगर्भा -' इत्यादौ यद्यपि श्लोकान्तरे समर्थस्य वस्तुन उपक्रान्तत्वात् श्लोकान्तरेण तथाभूतमप्रस्तुतमेव प्रस्तुतार्थाभिसंबन्धि वस्तूपनिवध्यते, तथापि नान्यो
१. 'कुलोद्भूता' ध्वन्यालोकलोचने.
२. ‘विकसद्रजः कलुषं मकरन्दर साध्मातमुखरमधुकरम् ।
ऋतुना द्रुमाणां दीयते ह्रियते न पुनस्तदात्मनैव कुसुमम् ॥' [इति च्छाया ।] ( आ० ६ स्क० ११) सेतुटीकानुसारेण ३. 'उदुणा' सेतौ ४. 'दिनइ' सेतो . ५. ‘उणो तमप्पण' सेतौ ६. 'वृत्तद्वये' स्यात्. ७. ' वध्यमेवेति चेत् । मैवम्' स्यात्.
4
Page #274
--------------------------------------------------------------------------
________________
६ अध्यायः ]
काव्यानुशासनम् ।
२६१ः
षस्य विष्णोरिव विश्वोद्धरणशक्तिर्नास्ति, तथापि गुणवृत्त्या संभवतीति ।
न दोषः ॥
अन्योक्तिश्च क्वचित्स्तुतिरूपा । यथा -- 'नालस्य प्रसर-' इति ।
क्वचिन्निन्दारूपा ।
यथा - 'आदाय वारि-' इति ।
तिरिति वक्तव्यम् । अपि त्वर्थान्तरन्यास एवासौ । अत्र हि वृत्तान्तरेणोपक्षिप्तो योऽसौ भटीनां वियोगजनितो व्यापारो भूतकालसंबन्धी विशेषभूतः स कालमात्र संबन्धिना सकलवियोगिनीव्यापारेण सामान्यरूपेण समर्थितः ॥ यद्यप्युत्प्रेक्षाप्यत्रास्ते, तथापि प्रधानेन व्यपदेशा भवन्तीति न्यायोऽत्रानुसर्तव्यः । यद्वा संकर एवास्तु, न तावदन्योक्तिरियम् । तथा 'वियसन्तरअर केउरं' इत्यत्रापि वृत्तान्तरोपनिबन्धनोपस्थितेऽर्थे रामसमुद्रव्यापाररूपे वृत्तान्तरेण ऋतुद्रुमव्यापारात्मनस्तत्प्रतिविम्वस्य निदर्शित - त्वान्निदर्शनालंकारतैव । 'विकसद्रजः कर्बुरं मकरन्देसाध्मात मुखर मधुकरम् । ऋतुमाणां दीयते ह्रियते न पुनरात्मनैव कुसुमम् ॥' इत्यर्थः । ऋतुरत्र वसन्तः । कुसुममिति जातावेकवचनम् ॥ अथात्र कोऽलंकारः - 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्स्वीकृत: खच्छन्दस्य सुखं जनस्य वैसतश्चिन्तानलो दीपितः । एषापि स्वयमेव तुल्यरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥ द्रविणशब्देन सर्वस्वप्रायत्वमनेकस्वकृत्योपयोगित्वमुक्तम् । गणित इति । चिरेण हि यो व्यय: संपद्यते न तु विद्युदिव झटिति, तत्रावश्यं गणनया भवितव्यम् । अनन्तकाल - निर्माणकारिणोऽपि (तु) विधेर्न विवेकलेशोऽप्युदभूदिति परमस्या प्रेक्षावत्त्वम् । अत एवाह -क्लेशो महानिति । अनेन प्रत्युतानर्थप्राप्तिरुक्ता । एवमपि यदि परस्योपकारः .. स्यात्तदा को दोष इत्याशङ्कयाह — स्वच्छन्दस्येति । परार्थोऽपि न कश्चित् । यतो विशृङ्खलस्य । जनस्यैतदभिलाषजननेन प्रथमेऽभिलाषो द्वितीये चिन्तनमिति । चिन्तानलो दीपितः । येन सर्वमन्यत्परित्यज्यैतत्प्राप्त्युपायान्वेषणपरः संजातः । न चाप्यस्या कश्चित्स्वार्थोऽनर्थलावण्यसुन्दरतरतनुलतानिर्माणे प्रत्युत समुचितवल्लभलाभाभावादसंप्राप्तसंभोगविफलमनोरथवश्चितैवेयं वराकीत्याह - एषापीति । यत्स्वयं निर्मीयते तदेव
१. ‘क्खउरं’ सेतौ. २. 'न्दरसा' स्यात्. ३. 'ऋतुना' स्यात्. ४. 'स्वच्छन्दं चरतो' ध्वन्यालोके. ५. 'सखीजनस्य' ध्वन्यालोके. ६. 'हृदये चिन्ताज्वरो निर्मितः ' ध्वन्यालोके. ७. 'योग्यो यः' ध्वन्यालोकलोचने. ८. 'मस्य प्रेक्षा,' 'मस्योत्प्रेक्षा.' ध्वन्यालोकलोचने.
Page #275
--------------------------------------------------------------------------
________________
२६२
काव्यमाला।
क्वचिदुभयरूपा । यथा'निष्कन्दामरविन्दिनी स्थपुटितोद्देशां कशेरुस्थली .
जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं __ यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पोत्रिणी ॥' अत्र पूर्वार्धे निन्दा, अपरार्धे तु स्तुतिः ।।
च निहन्यत इति महद्वैशसमपिशब्देनैवकारेण चोक्तम् । कोऽर्थ इति । न खात्मनो न लोकस्य न निर्मितस्येत्यर्थः ॥ निन्दाद्वारिका स्तुतिरत्र प्रतीयत इति व्याजस्तुतिरिति केचित् । तच्चे न चतुरस्रम् । यतोऽस्याभिधेयस्यैतदलंकारस्वरूपमात्रपर्यवसायित्वेन सुश्लिष्टता। तथा हि-न तावदयं रागिणः कस्यचिद्विकल्पस्तस्य एषापि इत्येवंविधोक्त्यनुपपत्तेः । रागिणो हि वराकी हता इति कृपालिङ्गितममङ्गलोपहतं चानुचितं वचनम् । तुल्यरमणाभावादिति खात्मन्यत्यन्तमनुचितम् । आत्मन्यपि हि तद्रूपासंभावनायां रागितायां च पशुप्रायत्वं स्यात् । नापि नीरागस्य तस्यैवंविधविकल्पपरिहारैकव्यापारत्वात् । ननु च रागिणोऽपि कुतश्चित्कारणात् परिगृहीतकतिपयकालव्रतस्य वा, रावणप्रायस्य वा सीतादिविषये, दुष्टान्तप्रायस्य वा निर्जातजातिविशेषे कुन्तलादौ किमिय खसौभाग्याभिमानगर्भा तत्स्तुतिगर्भा चोक्तिर्न भवति । वीतरागस्यापि वानादिकालाभ्यस्तरागवासनादिवासिततयामध्यस्थत्वेनापि तां वस्तुतस्तथा पश्यतो नेयमुतिर्न संभाव्या । न हि वीतरागो विपर्यस्तान् भावान् पश्यति । न ह्यस्य वीणाक्कणितं काकरटितकल्पं भांति । तस्मात्प्रस्तुतानुसारेण उभयस्यापीयमुक्तिरुपपद्यते । अन्योक्तावपि धप्रस्तुतः संभवन्नेवार्थों वक्तव्यः । न हि तेजसीत्थमन्योक्तिर्भवति-'अहो धिक् ते कार्यम्' इति । स परंप्रस्तुतपरतयेति नानासंभवः, किं तर्हि सुश्लिष्टतैवेति। सत्यमेतत्। किंतु न ह्ययं श्लोकः क्वचित्प्रबन्ध इति श्रूयते, येन तत्प्रकरणानुगुणार्थतास्य परिकलप्यते तस्मादन्योक्तिरेवेयम् । यस्मादनेन वाच्येन गुणीकृतात्मना निःसामान्यगुणावलेपाध्मातस्य निजमहिमोत्कर्षजनितसमत्सरजनज्वरस्य विशेषज्ञमात्मनो न किंचिदेवापरं पश्यतः परिदेवितमेतदिति प्रकाश्यते । निःसामन्येिनेति निजमहिमेति विशेष.
१. 'न' नास्ति लोचने. २. 'च' ध्वन्यालोके नास्ति. ३. 'शकुन्तलादौ' ध्वन्यालोकलोचने. ४. 'उत स्तुतिगर्भोक्ति' ध्वन्यालोकलोचने. ५. 'न' लोचने तु नास्ति. ६. 'प्रतिभाति' लोचने. ७. 'अप्रस्तुतप्रशंसायामपि' लोचने. ८. 'सा' लोचने. ९. 'दप्रस्तुतप्रशंसेय' ध्वन्यालोके. १०. 'न्येति'. लोचने.
Page #276
--------------------------------------------------------------------------
________________
६ अध्यायः ]
क्वचिदनुभयरूपा ।
यथा
काव्यानुशासनम् ।
'इतो वसति केशवः पुरमितस्तदीयद्विपामितोऽपि शरणागताः शिखरिपक्षिणः शेरते । इतोऽपि वडवानलः सह समस्त संवर्तकै -
-
रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥' अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा ॥ व्यङ्ग्यस्योक्तिः पर्यायोक्तम् ।
२६३
व्यङ्गयस्य प्रतीयमानस्यार्थस्य अभिधानं यत्पर्यायेण भङ्गयन्तरेण कथनं पर्यायोक्तम् । अत एव चान्योक्तेरस्य भेदः । न हि तत्र गम्यमानस्यार्थस्य भङ्गयन्तरेणाभिधानम्, अपि त्वप्रस्तुतद्वारेण तस्या
क्षेप इति ।
ज्ञमिति परिदेवितमिति अमीषां चतुर्णी वाक्यखण्डानामर्थस्य क्रमेण पादचतुष्टयतात्पर्यतया प्रतीयमानत्वात् । तथा चायं विनिश्चयवृत्त्यन्ते धर्मकीर्त्याचार्यस्य लोक इति प्रसिद्धिः । एतदर्थसंसूचकश्चापरो हि स्फुट एव तस्य श्लोको विद्वद्भिः परिपठ्यते । यथा- 'अनध्यवसितावगाहनमनल्पधीशक्तिनाप्यदृष्टपरमार्थतत्त्वमधिकाभियोगैरपि । मतं मम जगत्यलव्धसदृशप्रतिग्राहकं प्रयास्यति पयोनिधेः पय इव खदेहे जराम् ॥ अवगा - हनमध्यवसितमपि न यत्र, आस्तां तस्य संपादनम् । परमं यदर्थतत्त्वं कौस्तुभादिभ्योsप्युत्तमम् | अलब्धं प्रयत्नपरीक्षितमपि न प्राप्तम् सदृशमस्य तथाभूतं प्रतिग्राहम् एकैको ग्राहो जलचर: प्राणी ऐरावणोच्चैःश्रवो धन्वन्तरिप्रायो यत्र तदलव्धसदृशप्रतिप्राकम् । इयति चार्थे साम्यादुपमालंकारोऽनन्तरं तु खात्मनि विस्मयधामतयाद्भुते विश्रान्तिः परस्य च श्रोतृजनस्यात्यादरास्पदतया प्रयत्नग्राह्यतया चोत्साहजनने नैव भूतमत्यन्तोपादेयं सत्कतिपय समुचितजनानुग्राहकं कृतमिति स्वात्मनि कुशलकारिताग्रदर्शनया धर्मवीरस्पर्शनेन वीररसे विश्रान्तिरिति मन्तव्यम् । अन्यथा परिदेवितमात्रेण किं कृतं स्यात् । अप्रेक्षापूर्व कारिलमात्मन्यावेदितं चेत्किं ततः स्वार्थपरार्थासंभवादिति । तदनेन निर्विवादतदीयश्लोकेमैव तदभिप्रायस्य परिदेवितविषयस्य संवेद्यमानत्वात्पूर्वत्राप्यन्योक्तिरेव संभाव्यते । तत्रापि चाद्भुताखादपुरःसरा वीररसविश्रान्ति पर
१. 'अप्रस्तुतप्रशंसोपमालक्षणमलंकारद्वयम्' लोचने. २. 'नैवंभूत' लोचने, ३. 'उत्प्रेक्षा' लोचने.
Page #277
--------------------------------------------------------------------------
________________
काव्यमाला।
यथा
'शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः ।
रामस्यानेन धनुषा देशिता धर्मदेशना ॥ अत्र 'भीष्मेण भार्गवो जितः' इति व्यङ्गयस्य 'देशिता धर्मदेशना' इत्यनया भङ्गया भणनम् ॥ विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः ।
प्रकृतस्यार्थस्य विशेषवर्णनेच्छया भेदस्य व्यत्ययोऽभेदाभिधानं यत्तदतिशयाभिधानादेकातिशयोक्तिः ।
यथा
'सुधाबद्धग्रासैरुषवनचकोरैरनुसृतां
किरज्योत्स्लामच्छां लवलफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मना
गनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥' अत्र मुखचन्द्रयोभैदेऽप्यभेदः ॥
तानुसंधेयेति । तर्हि यत्र प्रकरणमेव किंचिनास्ति तत्र कोऽलंकारः । यथा-'निरतण्ड? दुरारोहम्-' इति । उच्यते । तत्रोभयोरलंकारयोरन्यतरपरिग्रहेण दोषः, नापि साधकं प्रमाणम्, तत्र संकरालंकारो वक्ष्यते । अत्र च शठतरपोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान ज्ञायते । किमियं समासोक्तिरुतान्योक्तिरिति संकरालंकार एव । अन्ये त्वाहुः-यत एव प्रकरणापरिज्ञानमत एवात्र प्राधान्येन पाटलोपवर्णने क इव वस्तुपरिपोष इत्यन्यपरत्वे प्रवृत्तिनिवृत्ती प्रत्युपदेशाय शास्त्र मिव श्लोकाः कल्पन्त इति समासोक्तिपरिग्रहे कुतो दोषाभावः । तस्मादन्योक्तिरेवेयमिति ॥ व्यङ्गयस्येति योग्यतया निर्देशः । अनया भङ्गयाभणनमिति । देशिताधर्मदेशनेति भङ्गयन्तररचितशब्दरित्यर्थः । तेन यद्भङ्गयन्तरेणोच्यते तद्वयङ्गयम् । यथाप्येकघनरूपतात्मकप्रकारेण व्यङ्ग्यं प्रतीयते, न तथा वक्तुं शक्यते । क्रमभाविविकल्पप्रभवानां शब्दानां तथाभिधानशतेरभावात् । यथा गवि शुक्ले चलति दृष्टे गौः शुक्लश्चल इति विकल्पो यदेव दृष्टमभ्यासपाटवापेक्षी तदेव विकल्पयति न तु यथादृष्टम् । अशेषविशेषावच्छिन्नखलक्षणाकारतयानुभवस्योत्पत्तेः । तथा अभिन्नासंसृष्टत्वेन दृष्टं भेदसं. गर्गाभ्यां विकल्पयति । निरंशस्य वस्तुनो भेदसंसर्गयोरभावात् । तौ हि विकल्पस्यैव व्यापारः । स ह्यभिन्नमपि वस्तु गौः शुक्लश्चल इत्येवं भिनत्ति । भिन्नमपि पदार्थजात. मयं गौरयमपि गौरित्येवं संसृजति ॥ अभेदाभिधानमिति । गोण्या वृत्त्येत्यर्थः ।।
Page #278
--------------------------------------------------------------------------
________________
६ अध्यायः ]
काव्यानुशासनम् ।
यथा वा
'अयि' दियर किं न पेच्छसि आयासं किं मुहा पलोएसि ।
'
जायाऍ बाहुमूलम्मि अद्धयन्दाण परिवाडिम् ॥'
अत्र नखार्धचन्द्राणाम् ॥
अभेदस्य व्यत्ययो भेदो द्वितीया ।
यथा
'अण्णं लडहत्तणयं ण्ण चिअ कावि वत्तणच्छाया । 'सामा सामण्णपयावइस्स रेह चिय न होइ ||' अत्र लटभत्वादेरभिन्नस्यैव भेदेनाभिधानम् ॥ योगस्य संवन्धस्य व्यत्ययोऽसंबन्धस्तृतीया ।
यथा
यथा वा
'मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः । क्षौमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥' अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्स्नाबाहुल्योत्कर्षविवक्षया
योग उक्तः ।
२६५
'अपाङ्गतरले दृशौ मधुरवक्रवर्णा गिरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥' अत्र मदोदयस्य लक्षणेऽपि स्वाभाविकविभ्रमाणामुत्कर्षविवक्षया लक्षणस्यायोग उक्तः ॥
१. 'अयि देवर किं न प्रेक्षसे आकाशं ( आयासं वा ) किं मुधा प्रलोकयसि । जायाया वाहुमूलेऽर्धचन्द्राणां परिपाटीम् ॥' [इति संस्कृतम् ॥]
२. 'अइ दिअर किं ण' गाथासप्तशत्याम्.
३. ' अन्यत्सौकुमार्यमन्यैव कापि वर्त्तनच्छाया ।
श्यामा सामान्यप्रजापते रेखैव न भवति ॥' [इति संस्कृतम् । ]
४. 'अण्णा' का० प्र०. ५. 'पआवइणो' का० प्र०.
૨૪
Page #279
--------------------------------------------------------------------------
________________
२६६
काव्यमाला ।
एवम् - 'एसो वि ण सच्चविओ जीसे पसरन्तपल्लवारुणराओ।
मज्झणतम्बेसु भओ तह मदातम्बेसु लोयणेसु शमरिशो ।' इति ।
अयोगस्य व्यत्ययो योगश्चतुर्थी । यथा--
'पश्चात्पर्यस्य किरणामुदीर्ण चन्द्रमण्डलम् ।
प्रायोऽत्र हरिणाक्षीणामुदीणा रागसागरः ।। अनानुद्गते चन्द्रे रागसागरवृद्धरयोगेऽपि चन्द्रस्योद्दीपनविभावनातिशयप्रतिपादनाथ योग उक्तः । यथा वा-~'पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताशयः ।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥' तथा'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥'.
अत्र वराङ्गनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्याप्तेश्योगेऽपि योग उक्तः।
यथा वा'उदयति विततो रश्मिरजावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥'
अत्र वारणेन्द्रलीलां गिरिर्वहतीत्यसंबन्धेति संबन्धः । यद्वा गिरिवारणेन्द्रगतयोर्लीलयोर्भेदेऽप्यैक्यमध्यवसितम् ।
एवमिति । मज्जनाताम्रयोर्लोचनयोर्मदरागे मदाताम्रयोः कोपोपरागे च १. 'एषोऽपि न .... यस्याः प्रसरत्पल्लवारुणरागः ।
मजनतामेषु भवस्ताथा मदातानेषु लोचनेषु ...... ॥' [इति संस्कृतम् । २. 'किरणानुदीर्ण' स्यात्.
Page #280
--------------------------------------------------------------------------
________________
६ अध्यायः ]
यथा वा
काव्यानुशासनम् ।
२६७
'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति चिरं कथमिव कवयो न ते वन्द्याः ॥' अत्र दिवंगतकविगुणानां रमणायोगेऽपि योग उक्तः ।
तथा
'हृदये चक्षुपि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥'
अत्रैकस्य युगपदनेकवृत्तित्वायोगेऽपि योग उक्तः ॥ एवंविधेच सर्वत्र विषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते । तां विना प्रायेणालंकरणत्वायोगादिति न सामान्यमीलितैकावलीनिदर्शनाविशेपाद्यलंकारोपन्यासः श्रेयान् ॥
विवक्षितस्य निषेध इवोपमानस्याक्षेपश्चाक्षेपः । / विशेषविवक्षयेत्यनुवर्तते । वक्तुमिष्टस्य प्राकरणिकत्वात्प्रधानस्याशक्यवक्तव्यत्वमेतिसिद्धत्वं वा विशेषं वक्तुं निषेध इव न तु निषेध एव । निषेधमुखेन विशेष एव तात्पर्यादित्येक आक्षेपः । उपमानस्य च य आक्षेपस्तिरस्कारः सोऽन्यः ।
लक्ष्यमाणेऽपि लक्षणायोगो दर्शनीयः ॥ अलंकरणत्वायोगादिति । तथा चाह'सैषा सर्वेव वक्रोक्तिरनयाथों विभाव्यते । यत्नोऽस्यां कविना कार्यः कोऽलंकारोSनया विना ॥' इति ॥ सामान्येति । 'मल्लिका -' इत्यादी सामान्यम्, 'अपाङ्गतरले ' इति 'ऐत्तोवि' इत्यनयोमीलितम्, 'पुराणि' इति 'न तज्जलम्' इत्यनयोरेकावली, 'उद-' यति -' इत्यादी निदर्शना, 'दिवमप्युपयातानाम्' इति 'हृदये चक्षुपी' इत्यनयोविंशेषचालंकारो यथान्यैः प्रदर्शितस्तथा न दर्शनीय इति ॥ अशक्यवक्तव्यत्वमिति । वक्ष्यमाणविषयतामाह । अतिसिद्धत्वमिति । अतिप्रसिद्धत्वम् । अनेन उक्त
१. 'गिरः कथमिह ' रुद्रटे. २. 'अतिप्रसिद्धत्वं' का० प्र०.
१. ‘सर्वत्र' ध्वन्यालोके. 'यातिशयोक्तिर्लक्षिता सैव सर्वा' लोचने व्याख्योपलम्भात् 'सैव सर्वात्र' इति पाठो भवेत्. २. 'एसो' मूले.
Page #281
--------------------------------------------------------------------------
________________
२६८
काव्यमाला ।
निषेधो यथा--- - 'अहं त्वा यदि नेक्षेय क्षणमप्युत्सुका ततः। ...
इयदेवास्त्वतोऽन्येन किमुक्तेनाप्रियेण ते ॥' अयं वक्ष्यमाणप्रकरणहृदयो निषेधात्माक्षेपः । उक्तविषयोऽपि यथा-- 'ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः
कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर
व्यापाराय भवन्ति हन्त किमनेनोक्तेन न बमहे ।। उपमानाक्षेपो यथा--- 'तस्यास्तन्मुखमस्ति सौम्य सुभगं किं पार्वणेनेन्दुना
सौन्दर्यस्य पदं दृशौ च यदि ते किं नाम नीलोत्पलैः । किंवा कोमलकान्तिभिः किसलयैः सत्येव तत्राधरे.
ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वो ग्रहः ॥' यथा वा'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि कि भने ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ।' अत्र लोचनयुगलस्योपमानीकृतस्याक्षेपः। यथा वा'अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृष्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ॥' अत्र हालाहलस्योपमानस्याक्षेप इति न प्रतीपमलंकारान्तरम् ।।
विषयतामाह । 'विमुक्तेनाप्रियेण ते' इति त्वददर्शनास्तास्ता अवस्था या वक्तुमपि न शक्यत इत्यस्यार्थस्य प्रतिपत्तये ॥ किमनेनेति । त्वदप्राप्तौ ज्योत्स्नादयः स्फुलिङ्गव्या
१. 'मरण' स्यात्. . २. 'श्चे' वामनकाव्यालंकारे. ३. 'चेत्' वामनालंकारवृत्ती. ४. 'भद्रे' रुद्रटे.
१. किमुक्ते' मूले. २. 'नात्तारता' स्यात्.
Page #282
--------------------------------------------------------------------------
________________
६ अध्यायः ]
काव्यानुशासनम् ।
अर्थानां विरोधाभासो विरोधः । जातिगुणक्रियाद्रव्यरूपाणां पदार्थानां सजातीयेन विजातीयेन वा वस्तुवृत्त्या विरोधेऽपि परस्परप्रतिबन्धलक्षणो व्याघातलक्षणो वाद्यो विरोधस्तद्वदाभासमानो विरोधः ।
तत्र जातेर्जात्या यथा
'एकस्यामेव तनौ विभर्ति युगपन्नरत्व सिंहत्वे । मनुजत्ववराहत्वे तथैव यो विभुरसौ जयति ॥' गुणेन यथा
-
-
'द्रोणाश्वत्थामयमेशु श्रुत्वा श्रुत्वा द्वयं स्थितम् । ब्राह्मण्यमथ शौर्य वा को नु चित्रीयते पुमान् ॥' क्रियया यथा --- 'सिंहोऽपि परिभूयते ।'
द्रव्येण यथा
२६९
'सृजति च जैगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥' गुणस्य गुणेन यथा
'सत्यं त्वमेव सरलो जगति जराजनितकुब्जभावोऽपि । ब्रह्मन्परमसि विमलो वितताध्वरधूममलिनोऽपि ॥' क्रियया यथा
'पेशैलमपि खलवचनं दहतितरां मानसं सतत्त्वविदाम् | परुषमपि सुजनवाक्यं मलयजरसवत्प्रमोदयति ॥'
1
पारहेतवस्तस्या भवन्तीत्यतिप्रसिद्धोऽयमर्थं इत्यस्य प्रतिपादनाय ॥ व्याघात इति । एकतरप्रतिबन्धरूपः ॥ तद्वदाभासमान इति । अयं भावः -- विशेषविवक्षयेत्यत्राप्यनुवर्तमानत्वात्, यत्र भावान्तरेभ्यो वैशिष्टयं ख्यापयितुमामुखे विरोधप्रतीतिकारि न तु विरोधपर्यवसायि वचस्तन्नायं विरोधालंकारः, यत्र पुनः परिहारासंभवस्तत्र व्याहत दोष इति ॥ सत्यं त्वमेवेति । अत्र सरलविमलशब्दयोरेकार्थत्वात् श्लिष्टता न· समस्तीति संकराशङ्का न कार्या । चेतसो हि सरलत्वाद्विमलत्वाच्च सोऽपि सरल
१. 'रामेषु स्यात्' २. 'महदिद' का० प्र०. ३. 'पेलव' का० प्र०. ४. 'सतत्त्वतत्त्वशब्दौ पर्यायौ' का० प्र० टी० .
Page #283
--------------------------------------------------------------------------
________________
२७०
काव्यमाला। द्रव्येण यथा'क्रौञ्चाद्रिद्दामदृषदृढोऽसौ यन्मार्गणानर्गलशातपाते ।
अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥' क्रियायाः क्रियया यथा--- 'बालमृगलोचनायाश्चरितमिदं चित्रमत्र यदसौ माम् ।
जडयति संतापयति च दूरे हृदये च मे वसति ॥' द्रव्येण यथा
'सीतां ददाह नैवामिहिमं दहति भूरुहः ।
ताप्यन्ते शशिना चित्रं विरहे कामिनो भृशम् ॥' द्रव्यस्य द्रव्येण यथा'समदमतगजमदजलनिःसङ्गतरङ्गिणीपरिष्वङ्गात् ।
क्षितितिलक त्वयि जटजुषि शंकरजूटापगापि कालिन्दी ॥' एवं दश भेदाः । एषु परस्परप्रतिबन्धो विरोधः । व्याघातो यथा
'अप्यसज्जनसांगत्ये न वसत्येव वैकृतम् ।
अक्षालितविशुद्धेषु हृदयेषु मनीषिणाम् ।। अत्र क्षालनाभावे विशुद्धिाहन्यते । यथा वा
'महर्धिनि कुले जन्म रूपं स्मरसुहृद्धयः ।।
तथापि न सुखप्राप्तिः कस्य चित्रीयते न धीः ॥ तथा
‘स एकस्त्रीणि जयति जगन्ति कुसुमायुधः। हरतापि तनुं यस्य शंभुना न हृतं बलम् ॥'
विमलः ॥ विभावनेति । 'अप्यसज्जनसांगत्ये' इत्यादौ विभावना, 'महर्धिनि' इति
१. 'निस्पन्द' का० प्र०.
Page #284
--------------------------------------------------------------------------
________________
V
६ अध्यायः ]
तथा
'कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वने ॥
दिशों
काव्यानुशासनम् ।
एषु कारणसामग्र्ये फलाभावो व्याहन्यते ।
यथा वा
-
پاشی
'सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः सा 'पीनं परिणाहिनं स्तनभरं धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोपैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥' अत्रान्यदेशस्थितेन कारणेनान्यदेशस्थ कार्योत्पादो व्याहन्यते ।
यथा वा-----
‘दिशामलीकालकभङ्गतां गतस्त्रयीवधूकर्णतमालपल्लवः | चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः ॥' अत्र मलीमसेन शुक्लतरीकरणं व्याहन्यते ।
तथा
'आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥
अत्रानन्ददानं शरीरतापेन व्याहन्यते ।
'शिरीषादपि मृद्वङ्गी केयमायतलोचना । अयं क्व च कुकूलाग्निर्केर्केशो मदनानलः ॥' अत्र मार्दवं कार्कश्येन व्याहन्यते ।
२७१
' स एक:' इति 'कर्पूर इव' इति च त्रिषु विशेषोक्तिः, 'सा वाला' इत्यादावसंगतिः, 'दिशामली कालक' इति 'शिरीषादपि' इति 'आनन्दममन्दमिमम्' इति 'विपुलेन' इति
१. 'मकरकेतवे' का० प्र०. २. पीतोन्नतिमत्पयोधरयुगं' वामनवृत्ती. ३. 'क्वेय' का० प्र०. ४ 'दुःसहो मलयानिलः' का० प्र०.
Page #285
--------------------------------------------------------------------------
________________
२७२
काव्यमाला |
तथा
'विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ।।' 'अत्र हीनेन गुरुकार्यकरणं व्याहन्यते ।
'किं ददातु किमश्नातु भर्तव्याभरणाकुलः । उदारमतिराप्तेऽपि जगत्रितयमात्रके ॥' अत्राधिकेन स्वल्पकार्याकरणं व्याहन्यते ।
यथा वा
'अहो विशाल भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥' अत्र मानाशक्यत्वेन मानं व्याहन्यते ।
तथा
'भवत्संभावनोत्थाय परितोषाय मूर्च्छते । अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥' अत्राङ्गानामतिविपुलतया परितोषाभानं व्याहन्यते ।
यथा ना
' दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' अत्र दृशैव दाहो जीवनं च व्याहन्यते ।
यथा वा-
वलोसि जड़ विसुन्दर तह वि तए मज्झ रञ्जियं हिययम् । रायभरिए विहियए सुहय निहित्तो न रत्तोसि ॥
|
अत्र धवलेन रञ्जनं रागभृतहृदयेनारञ्जनं च व्याहन्यते ॥ एवं च विभावनाविशेषोत्तय संगतिविषमाधिकव्याघातातद्गुणाः
पृथगलंकार-.
'किं ददातु' इति च पञ्चसु विषमम्, 'अहो विशालम्' इति 'भवत्संभावनोत्थाय' इति च द्वयोरधिकम्, 'दृशा दग्धम्' इति व्याघातः, 'धवलोsसि' इत्यत्रातद्गुणश्चेति पृथगलंकारा नं १. 'धवलोsसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् ।
रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥ [ इति संस्कृतम् ॥]
Page #286
--------------------------------------------------------------------------
________________
६ अध्यायः ]
काव्यानुशासनम् ।
२७३
त्वेन न वाच्याः । विरोध एवान्तर्भावात् । उक्तिवैचित्र्यमात्राद्वेदे च
लक्षणकरणेऽलंकारानन्त्यप्रसङ्गः ॥
सहार्थवलाद्धर्मस्यान्वयः सहोक्तिः ।
धर्मस्य क्रियागुणलक्षणस्य सहार्थसामर्थ्याद्योऽन्वयः प्रतिपाद्यतेऽर्थादनेकेषु वस्तुषु सा सहोक्तिः ।
क्रियालक्षणा यथा—
'रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय तथां सहोत्थितः सैनिकहर्षनिःखनैः ॥'
गुणलक्षणा यथा
-
'सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः । पाण्डुराश्च ममैवाङ्गैः सार्धं ताश्चन्द्रभूषणाः ॥'
श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । श्लेषवद्भिरुपमेयविशेषणैर्योपमानस्य प्रतीतिः सा समासेन संक्षेपेणार्थद्वयकथनात्समासोक्तिः ।
वाच्या इति ॥ रघुर्भृशमिति । अत्र रघुगता पतनक्रिया शाब्दी । अश्रुगता तु सहार्थसामर्थ्यादवसीयते ॥ एवं गुणोदाहरणेऽप्यूह्यम् । अत्राभिधाव्यापाराद्धर्मा नोभयान्वंयिनः प्रतीयन्ते, प्राकरणिकत्वाप्राकरणिकत्वाभ्यां चोपमानोपमेयभावः, तेनास्याः सहोक्तर्नोपमादावन्तर्भावः । तथा ह्युपमायामुभयोरुपमानोपमेययोरनुयायित्वं धर्माणामिव वत्याद्यभिधाव्यापारात्प्रतीयते, इह तु तादृशोऽभिधाव्यापारो नो - पलभ्यते तेनात्रोपमात्वाभावः ॥ कश्चित्तु – 'समासोक्तिः सहोक्तिश्च नालंकारतया मता । अलंकारान्तरत्वेन शोभाशून्यतया तथा ॥' इति सहोक्तिरलंकारो न भवतीति प्रतिपादयति । तत्र शोभाशून्यत्वं हृद्यत्वं तत्र चोपमादयोऽप्यलंकारा न भवन्तीति सर्वसंमतमेव । अहृद्यत्वे च शिष्येण सहोपाध्यायः पठति, पुत्रेण सह पिता तिष्ठतीत्यादौ सहो -- किर्मा भवतु । 'सेह दिअसनिसाहिं दीहरा सासदण्डा सह मणिवलएहिं वाहधारा गलन्ति । तुह सुहअ विओए तीए खेम्विरीए सह य तनुलदाए दुब्बला जीविदासा ॥' इत्यादौ तु हृयत्वे किमिति नेष्यते ॥ अथ तत्र परस्परसाम्यसमन्वयो मनोहारितानिबन्धनमिति प्र
१. 'सह दिवस निशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्वाष्पधारा गलन्ति । तव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलतया दुर्बला जीविताशा ॥ ' [इति च्छाया ].
२. 'तीअ उव्विग्गिरीए' का० प्र०.
३५
Page #287
--------------------------------------------------------------------------
________________
२७४
काव्यमाला।
यथा-- 'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥'
अत्र निशाशशिनोरुपमेययोरुपोढरागादिसंश्लिष्टविशेषणबलान्नायकयोरुपमानयोः प्रतीतिः ॥
तीयमानोपमाखरूपं नातिवर्तत इत्युपमैवेष्यते । हन्त तर्हि रूपकापहृत्यप्रस्तुतप्रशंसादयोऽपि पृथङ वक्तव्याः । तत्राप्युपमानोपमेयभावप्रतीतेरुपमैवैकालंकारो वाच्यों नालंकारान्तरम् । यदाह वामनः-'प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः' इति ॥ अथ रूपकादिषु तत्त्वारोपादिलक्षणं विशेषमङ्गीकृत्य रूपकादिव्यवहारः प्रवर्त्यते । तर्हि सहोक्त्यादावपि सहार्थसामर्थ्यावसितसाम्यसमन्वयो विशेषः समस्तीति सहोक्त्यादिभिः किमपराद्धमित्यलं बहुना ॥ उपोढरागणेति । उपोढो धृतो रागः सांध्योऽरुणिमा, प्रेम च येन । विलोलास्तारका ज्योतींषि, नेत्रविभागाश्च यत्र । तथेति झटित्येव, प्रेमरभसेन च । गृहीतमाभासितम् , परिचुम्बितुमाकान्तं च । निशाया मुखं प्रारम्भः, वदनकोकनदं च । यथेति । यथा झटितिग्रहणेन, प्रेमरभसेन च । तिमिरं च अंशुकाश्च सूक्ष्मा अंशवस्तिमिरांशुकं र. श्मिशवलीकृतं तमःपटलम् , तिमिरं वांशुकं नीलजालिका नवोढा प्रौढवधूचित्ता । नतु तिमिरमेवांशुकमिति व्याख्येयम् । एकविषयरूपकत्वापत्तेः । रागाद्रक्तवात्संध्याकृतात् , तदनन्तरं प्रेमरूपाच्च हेतोः । पुरोऽपि पूर्वस्यां दिशि, अग्रे च । गलितं प्रशान्तम् , पतितं च । तया रात्र्या करणभूतया । समस्तं मिश्रितमुपलक्षणत्वेन वा । न लक्षितं रात्रिप्रारम्भोऽसौ इति न ज्ञातम् । तिमिरशवलेतांशुदर्शने हि रात्रिमुखमिति लोकेन लक्ष्यते, न तु स्फुटे आलोके । नायिकापक्षे तु तयेति कर्तृपदं रात्रिपक्षेऽपिशब्दो लक्षितमित्यस्यानन्तरम् । अत्र च नायकेन पश्चाद्गतेन चुम्बनोपक्रमे पुरो नीलांशुकस्य गलनं पतनम् । यदि वा पुरोऽग्रे तथा गृहीतं नायकेन मुखमिति संवन्धः । एतस्याश्च समासोक्तेर्न श्लेषमन्तरेण विविक्तविषयता उपलभ्यते इति श्लेषेण सह संकराशङ्का न कार्या । येषां ह्यलंकाराणां विविक्तविषयतयाप्यात्मलाभः संभवति तेषामेव परस्परसंकीर्यमाणतायां संकरता युक्ता । यथा विरोधव्यतिरेकयोः श्लेषस्य च । श्लेषाभावेऽपि हि ‘एकस्यामेव तनौ-' इत्यादौ विरोधो ‘यस्यावर्जयतो नित्यम्' इत्यादौ व्यतिरेकश्च दृश्यते । विरोधव्यतिरेकाभावे च 'असावुदयमारूढः' इत्यादौ श्लेषश्चेति । भवतु विरोधश्लेषयोः श्लेषव्यतिरेकयोश्च संकरत्वम् । समासोक्तिस्तु समानविशेषणाभिधायिभिः श्लेषपदैरेवात्मानं प्रतिलभत इति नास्या विविक्तो विषय उपलभ्यते । शेषापवादेनेवास्याः प्रवृत्तेरिति ॥ नायकयोरिति ।
१. 'लितांशु' इति स्यात् ; 'संवलितांशु' ध्वन्यालोकलोचने.
Page #288
--------------------------------------------------------------------------
________________
६ अध्यायः] काव्यानुशासनम् ।
२७५ स्वभावाख्यानं जातिः ।
अर्थस्य तादवस्थ्यं स्वभावः । स च संस्थानस्थानकव्यापारादिस्तस्य वर्णनं जातिः। तत्र संस्थानं यथा
'पर्याणस्खलितस्फिजः करतलोत्क्षिप्तोत्तरीयां बला __ वल्गद्भिस्तुरगैर्गता विधुरतामज्ञातवल्गाग्रहाः । नेपथ्यैः कथयन्ति भूपतनयाहुःश्लिष्टसंपादितै
निर्लक्ष्यार्पितचक्षुषः परिचयोपात्तां श्रियं श्रोत्रियाः ॥' स्थानकं यथा'स दक्षिणापाङ्गनिविष्टमुष्टिं नतां समाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥' व्यापारो यथा'ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः । मधुना सह संमिताः कथा नयनोपान्तविलोकितं च तत् ॥
नायकश्च नायिका चेत्येकशेषः ॥ तादवस्थ्यमिति । सा अनुभवैकगोचरा अवस्था । यस्य स इत्यस्य भावस्तादेवस्थ्यमिति । अयमर्थः-कविप्रतिभया निर्विकल्पकप्रत्यक्षकल्पया " विषयीकृता वस्तुखभावा यत्रोपवर्ण्यन्ते स जातेर्विषयः । एवं च 'अलंकारकृतां येषां स्वभावोक्तिरलंकृतिः । अलंकार्यतया तेषां किमन्यदवशिष्यते॥' इति यत्कैश्चित्प्रतिपादितम् , तनिरस्तमेव । वस्तुनो हि सामान्यस्वभावो लौकिकोऽर्थोऽलंकार्यः । कविप्रतिभासंरम्भविशेषविषयस्तु लोकोत्तरार्थोऽलंकरणमिति ॥ तथा चाह—'उच्यते वस्तुनस्तावद्वैरूप्यमिह विद्यते । तत्रैकमन्यसामान्यं यद्विकल्पैकगोचरः ॥ स एव सर्वशब्दानां विषयः परिकीर्तितः । अतं एवाभिधीयन्ते ध्यामलं बोधयन्त्यलम् ॥ विशिष्टमस्य यद्रूपं तत्प्रत्यक्षस्य गोचरः । स एव सत्कविगिरां गोचरः प्रतिभाभुवाम् ॥' यतः 'रसानुगुणशब्दार्थचिन्तास्तिमितचेतसः । क्षणं स्वरूपस्पत्थिा प्रज्ञैव प्रतिभा कवेः ॥ सा हि चक्षुर्भगवतस्तृतीयमिति गीयते । येन साक्षात्करोत्येष भावांस्त्रैकाल्यवर्तिनः ॥ अस्य खभावस्योक्तिर्या सालंकारतया मता । यतः साक्षादिवाभान्ति तत्रार्थाः प्रतिभार्पिताः ॥ यथा । ऋजुतामित्यादि । 'सामान्यस्तु खभावो यः सोऽन्यालंकारगोचरः । श्लिष्टमर्थमलंकर्तुमन्यथा को हि शक्नुयात् ॥ वस्तुमानानुवादस्तु पूरणैकफलो हि यः। अर्थदोषः स दोषज्ञैरपुष्ट इति गी.
१. 'याञ्चला' स्यात्. २. 'तनया दु:-' इति स्यात्.
Page #289
--------------------------------------------------------------------------
________________
२७६
काव्यमाला।
स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः।। स्तुतेनिन्दापरता निन्दायाश्च स्तुतिपरता यत्रोच्यते सा व्याजरूपा व्याजेन वा स्तुतिः व्याजस्तुतिः । यथा'दिनमवसितं विश्रान्ताः सस्त्वया मरुकूप हे
परमुपकृतं शेषं वक्तुं हिया वयमक्षमाः । भवतु सुकृतैरध्वन्यानामशेषजलो भवा
नियमपि घनच्छाया भूयात्तवोपतटं शमी ॥' 'किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ___ स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्या
मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥' वाक्यस्यानेकार्थता श्लेषः । पदानामेकार्थत्वेऽपि यत्र वाक्यस्यानेकार्थता स श्लेषः। यथा---
'दिशः प्रसादयन्नेष तेजोभिः प्रसृतैः सदा ।
न कस्यानन्दमसमं विदधाति विभाकरः ॥' अत्राभिधाया अनियन्त्रणात् द्वावप्यर्क भूपौ वाच्यौ ।।
यते ॥' व्याजरूपेति । छद्मरूपा निन्दाद्वारिकेत्यर्थः ॥ व्याजेनेति । परमार्थेन तु निन्दैवेत्यर्थः । यत्तु निन्दापूर्विकायां स्तुतौ केनचिदुदाहृतम्-'आसीनाथ पितामही तव मही माता ततोऽनन्तरं जाता संप्रति साम्बुराशिरशना जाया कुलोद्भूतये । पूर्णे वर्षशते भविष्यति पुनः सैवानवद्या स्नुषा युक्तं नाम समग्रनीतिविदुषां किं भूपतीनां कुले ॥' इति, तदस्माकं ग्राम्यं प्रतिभाति । अत्यन्तासभ्यस्मृतिहेतुत्वात् । का चानेन स्तुतिः प्रकृता वं वंशक्रमेण राजेति हि कियदिदमित्येवंप्राया व्याजस्तुतिः सहृदयगोष्ठीषु निन्दितेत्युपेक्ष्यैव ।। अनेकार्थतेति । विभां करोतीत्येकमेव हि यौगिकमर्थ प्रतिपादयन् विभाकरशब्दः साधारणार्कभूपलक्षणार्थद्वयप्रतिपादको भवतीति दिगादिशब्दा अप्येकार्थप्रतिपादका एव सन्तोऽनेकार्थाः । तथाहि --दिग्लक्षण एक एवार्थ एकत्र, ककुभोऽन्यत्र तत्स्थाः प्रजाः । प्रसादनं प्रकाशनम् , हर्षाधानं च । तजो ज्योतिः, प्रतापश्च ॥अभिधाया अनि
Page #290
--------------------------------------------------------------------------
________________
२७७
६ अध्यायः काव्यानुशासनम् ।
उत्कर्षापकर्षहेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः। __उपमेयस्य प्राकरणिकस्य यदाधिक्यमर्थादुपमानात्स व्यतिरेकः । स चोत्कर्षापकर्षहेत्वोः क्रमेण युगपद्वोपादाने त्रिविधायामुक्तौ युगपदनुक्तो चैकविधायां चतुर्विधः । पुनश्च साम्यवाचकस्योक्तावनुक्तौ वाष्टभेदः । यथा
'यस्यावर्जयतो नित्यं रिपूनप्युज्वलैर्गुणैः ।
लक्ष्यते नेतरस्येव गाम्भीर्यैकनिधेः स्मयः ॥ अत्र गाम्भीर्येकनिधित्वमुपमेयोत्कर्षहेतुरुक्तः ।
'तुच्छस्यान्यजनस्येव न मयो हन्त लक्ष्यते' इत्यत्रैव पाठे तुच्छत्वमुपमानापकर्षहेतुर्भवति ।
'असिमात्रसहायोऽयं प्रभूतारिपराभवे ।।
नैवान्यतुच्छजनवत्सगर्वोऽयं धृतेनिधिः ॥": अत्रोपमानोपमेयगतौ युगपदुत्कर्षापकर्षहेतू उक्तौ ।
'शीर्णपर्णाम्बुवाताशा कष्टेऽपि तपसि स्थिता ।
समुद्वहन्ती नापूर्वं गर्वमन्यतपखिवत् ॥' । अत्रोत्कर्षापकर्षहेत्वोर्द्वयोरप्यनुक्तिः । एवं साम्योक्तौ चत्वारो भेदाः । साम्यानुक्तौ यथा
'नवीनविभ्रमोद्भेदतरङ्गितगतिः सदा।।
मुखेन सितमुग्धेन जयत्येषा सरोरुहम् ॥' अत्रोपमेयोत्कर्षः । इवादिपदविरहात्तु साम्यस्यानुक्तिः । अत्रैव
यन्त्रणादिति । द्वयोरप्यर्थयोः प्राकरणिकतया विवक्षितत्वादिति भावः ॥ उपमेयस्या- . धिक्यमिति । न तूपमानस्य ॥ यत्तु-क्षीणः क्षीणोऽपि शशी भूयो भूयोऽभिवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥' इत्यादावुपमानस्योपमेयादाधिधिक्यमिति केनचिदुक्तम् , तदयुक्तम् । यौवनगतास्थैर्यस्य हि अत्राधिक्यं विवक्षितमिति
१. 'महाधृतिः' का० प्र०. १. 'नितराम्' का० प्र०; 'नित्यम्' सा० द०.
Page #291
--------------------------------------------------------------------------
________________
काव्यमाला ।
'fasser वक्रेण निश्येव स्मितमम्बुजम्' इंति पाठपरिणामे उपमानापकर्षः ।
' आननेनाकलङ्केन जयतीन्दुं कलङ्कितम्' or युगपदुत्कर्षापकर्षो ।
'अहो विडम्बयत्येषा वदनेन सरोरुहम्' अत्रोत्कर्षापकर्षहेत्वोरनुक्तिः । साम्यं त्वाक्षेपात्सर्वत्र प्रतीयते । लेषव्यतिरेकस्तु संकरालंकारविषय इति तत्रैवोदाहरिष्यते ॥
२७८
विशेषस्य सामान्येन साधर्म्यवैधर्म्याभ्यां समर्थनमर्थान्तरन्यासः। साधर्म्येण वैधर्म्येण वा विशेषो यत्र सामान्येन समर्थ्यते सोऽर्थान्तरस्येव न्यसनमर्थान्तरन्यासः ।
तत्र साधर्म्येण यथा -
'रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभिदध्यौ । वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः ॥ वैधर्म्येण यथा
'अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि न मेदे निर्वृत्तिर्हि मनसो मदहेतुः ॥'
यथोक्तमेव श्रेयः ॥ संकरालंकारविषयतीति । श्लेषव्यतिरेकयोरन्यत्रापि लब्धसत्ताकत्वादिति भावः । ततश्च तद्भेदा अत्र न प्रदर्शयितुमुचिताः । ' यद्यप्यनुपमचरितस्तथापि तव नाच्युतस्तुलां लभते । स हरिर्नाम्ना देवः स हरिवरस्तुरगनिवहेन ।' इत्यादयस्तु श्लिष्टोक्तियोग्यस्य पृथगुपादाने ये भेदाः संभवति उक्तलक्षणेनैव संगृहीताः, तत्र हि एकस्य पदस्य द्विरुपादानान्न श्लेषः । उपमानात्तूपमेयस्याधिक्यमस्तीति व्यतिरेको भवत्येव ॥ अर्थान्तरस्येवेति । यत्र हेतोर्हेतुमता सह व्याप्तिर्गूढत्वात्कथंचित्प्रतीयते, न तु स्पष्टमवभासते, तत्रार्थान्तरस्येवासमानजातीयस्य वस्तुनो यन्यसनमसावर्थान्तरन्यासः । न तु यद्यत्कृतकं तदनित्यमित्येवंप्रायमित्यर्थः ॥ नन्वन्योक्तिनिदर्शनाभ्यां नायं भिद्यते । तथा हि- 'ऐरावणं स्पृशति - इत्यादावन्योक्तौ विशेषेण महेन्द्रवृत्तान्तेन वाच्येन त्वयुक्तेन कश्चित्सुखं 'शेते इति सामान्यं गम्यमानं समर्थ्यते । तथा 'होइ न गुणाणुराओ' इत्यादी
१. ‘निन्दतीन्दुं कलङ्किनम्' का० प्र०.
१. 'षय इतीति' स्यात्.
"
Page #292
--------------------------------------------------------------------------
________________
६ अध्यायः
काव्यानुशासनम् ।
२७१
स्तुत्यै संशयोक्तिः ससंदेहः। स्तुत्यै अलंकारान्तरगर्भीकारेण प्रस्तुतवस्तुवर्णनाथ संशयस्योक्तिनि- . र्णयान्ता अनिर्णयान्ता वा भेदकस्यानुक्तावुक्तौ वा ससंदेहः ।
निदर्शने दृष्टान्तेन दार्टान्तिकं समर्थ्यते, तेनास्य लक्षणस्यातिव्याप्तिः । सत्यम् । उभयत्रापि तत्र समर्थ्यसमर्थकभावो गम्यते किं तु यथार्थान्तरन्यासे न तथा तयोः । अर्थान्तरन्यासे हि समर्थ्यस्य खकण्ठेनोपात्तस्य समर्थनम् । अन्योक्तौ तु न तत्तथा । निदर्शने च यद्यपि खकण्ठेनोपादानं समर्थ्यस्य तथापि न तत्र विशेष प्रति सामान्यस्य समर्थकभावः । अपि तु सामान्यविशेषौ प्रति विशेषस्य । यतो दृष्टान्तस्य विशेषरूपतयैव प्रतिविम्वभावः संगच्छत इति पृथगवस्थित एवायम् ॥ स्तुत्यै इति । स्तुतये यत्संशयवद्वचः प्रयुज्यते तत्र संदेहालंकारसंज्ञा । सह संदेहेन अनिश्चयेन वर्तत इति कृला । त्रिधा खलु संदेहवद्वचो भवति । संदेहस्य प्रतिपादकत्वेन अलंकारान्तरच्छायां गर्भीकृत्यासंदेहेऽपि संदेहस्येव जननेन चेति । संशयश्च शुद्धसंकीर्णमूढभेदात्रेधा । तत्र शुद्धः प्रति. पाद्यो यथा--'वामेक्षणे स्फुरति धीः पुरुषस्य कष्टं स्याद्वा न वेति विदधाति गतागतानि । नार्याः पुनः प्रमदनिर्भररूपमास्ते तन्नास्ति यद्विनिमयादशुभं शुभं वा ॥' अत्र संदेहनिष्ठत्व-7 मेवेति शुद्धः संदेहः । संकीर्णो यथा---'गिरिरयममरेन्द्रेणाद्य निर्मूलपक्षः क्षतगरुदसुरेशैः किं कृतो वैनतेयः । अपरमिह मनो मे यः पितुः प्राणभूतः किमुत वत स एष व्याततायुर्जटायुः ॥' अत्र स्थाणुर्वा पुरुषो वेतिवत्पश्चात्पारमार्थिकेऽपि वस्तुनि परामर्श उदेतीति संकीर्णः संदेहः । यथा किमेष जटायुरिति । पूर्वत्र तु कष्टस्य भविष्यत्वेन भावाभावावुभावपि संदिग्धौ । कदाचन तृतीयस्याप्युपेक्षणीयन्यायेन मध्यरूपस्य प्रादुर्भावसंभावनमित्यनयोर्विवेकः । मूढो यथा—'स्पन्दते दक्षिणं चक्षुः फलकाङ्क्षा न मे क्वचित् । न च मिथ्या मुनिवचः कथयिष्यति किं खिदम् ॥' अत्र न संदेहनिष्टता नापि विद्यमानस्य वस्तुनोंऽशेन परामर्श इति मूढः संदेहः । यथा ह्यगृहीतसंकेतस्यापूर्वपदार्थादर्शने सति किमिदं स्यादिति पदार्थानध्यवसानमित्येवंरूप इत्यर्थः । तदेवं प्रतिपाद्यः संदेहो निदर्शितः ॥ उत्पाद्यो यथा--'व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः । विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ॥' व्यालाः सर्पाः, दुर्जनाश्च । दुरारोहा दुःखोत्कलनीयाः, चिरकालप्रत्यासत्तिलाभाश्च । रत्नान्युपलविशेषाः, गुणवन्तश्च । भूभृतः पर्वताः, राजानश्च । इत्येतस्माद्वचसः प्रतिपत्तुः पर्वतराजविषयः संदेह उपजायते । अलंकारान्तरच्छायागीकारेण जन्यस्तु 'सरोजपने-' इत्यादिना उदाहृतः । एतेषु संदेहवत्सु वचनेषु बहुधा प्रवृत्तेपु प्रथमस्य प्रतिपाद्यसंदेहपक्षस्य रसभावतदाभासालंकारेष्वन्तर्भावः । वितर्कस्य हि व्यभिचारिणः सद्भावादवश्यं क्वचिद्रसेऽङ्गता भवत्यत एव रसादिसद्भावेनान्तरीयकत्वेन तदाभासतापि भवतीति । द्वितीयस्य तु
१. 'ससंदेहा' स्यात्..'
Page #293
--------------------------------------------------------------------------
________________
२८०
यथा
B
काव्यमाला |
'सरोजपत्रे परिलीनषट्पदे विशालदृष्टेः खिदमू विलोचने । शिरोरुहाः स्युर्नतपक्ष्मसंततेर्द्विरेफवृन्दं नु निशब्द निश्चलम् ॥ अगूढहासस्फुटदन्तकेसरं मुखं खिदेतद्विकचं नु पङ्कजम् । इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥' अत्र रूपकगर्भीकारेण निर्णयान्तः संशयः ।
यथा वा-
'अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया । अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलङ्घयितुं नमः ॥' अत्रातिशयोक्तिगर्भीकारेणानिर्णयान्तः ।
यथा वा-
'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो वैषं नियतम् ।
जन्यसंदेहपक्षस्य प्रतिनियतप्रकरणाभावात्प्रकृतस्य कस्यचिदभावात्कस्य स्तुतिरुत्कर्षाभिधायिकेति संदेहो दोष एवेति दोषरूपतेति । तृतीयस्तु जन्यसंदेहाभासलक्षणः पक्षोऽस्य ससंदेहालंकारस्य विषयोऽवगन्तव्यः ॥ सरोजपत्रे इत्यादि । अत्र प्रकृतं विलोचनादि वक्रा निश्चितमेव यदि परं रूपकालंकारापादनमाहात्म्यात्संदेहस्येवशब्देन रूपेणावगतिः । तात्पर्यपर्यालोचनावशेन तूपमादाचेव विश्रान्तिः । संदेहवर्णनभङ्गया तु तस्यैवालंकारता ॥ अथ जयायेति । प्रतिको न्यायेन मेरुजयसंभावना || रसभयेति । त्वरितया । अन्यथा दिग्विजयेनोत्तरकालं सर्वदिगवलोकनमर्जुनस्य भविष्यत्येव । हिमाचलमिति । हिमाचलैकदेशमिन्द्रप्रस्थाख्यं तपोर्थमिति तात्पर्यम् । समुदितमिति । पिण्डीभूतम् । अंबा (?) जयादिव्यापारकर्तृत्वं हिमाचलस्य व्याख्येयम् ॥ अतिशयोक्ति गर्भीकारेणेति । तथा हि योऽसौ पौरुषेयव्यापारतिरस्कारेण नुशब्द त्रितयावद्योत्यमानतया कोटित्रयोलेखेनावास्तवः संशयः प्रतिपादितः सं स्वसिद्धिनिर्वाहाय तथाविधोत्कटोच्छ्रायशून्येऽपि पर्वते मेरुजयादिव्यापारत्रयसंपादनक्षमतयोच्छ्रायातिशयमाक्षिपन्नसंबन्धेऽपि संवन्धात्मिकामतिशयोक्तिमवगमयति ॥ अयं मार्तण्डः किमिति । अत्रोपमेयस्य तद्भावमुपमानेनोक्त्वा
१. 'नैष' का० प्र०.
१. ‘रभसयेति’ स्यात् मूलानुरोधात्. २. 'अत्र जयादि' स्यात्.
Page #294
--------------------------------------------------------------------------
________________
६ अध्यायः] काव्यानुशासनम् ।
२८१ कृतान्तः किं साक्षान्महिपवहनोऽसाविति चिरं
समालोक्याजो त्वां विदधति विकल्पान्प्रतिभटाः ॥' अत्र रूपकगीकारेण भेदस्योक्तौ संशयः ॥ प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपलुतिः ।
प्रकृतेन प्रकृतस्यापलाप एका अपहुतिः । अप्रकृतेन प्रकृतस्यापलापोऽन्या । तत्राद्या यथा'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लस
द्रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं
शैलान्तःपुरमातृमण्डलगणैर्दष्टोऽवताद्वः शिवः ॥' अत्र गिरिजाकरस्पर्शकारणौ पुलकवेपथू सात्त्विकरूपौ प्रकृतौ प्रकृतेनैव तुहिनाचलशैत्येनाप तौ। द्वितीया यथा--
'नेयं विरौति भृङ्गाली मदेन मुखरा मुहुः । अयमाकृप्यमाणस्य कन्दर्पधनुषो ध्वनिः ॥'
पश्चाद्भेदे उच्यमाने यद्यप्यामुखे रूपकावभासः पश्चाव्यतिरेकाकारता, तथापि नास्मिनलंकारद्वयविश्रान्तिः । अपि तु किमित्यादिशब्दोपादानात्संदेह एव वाक्यार्थतया पर्यवस्यति । तस्य परिकरवन्धार्थ रूपकव्यतिरेकावामुखे प्रतिभासेते इति तत्संकराशका न कार्या ॥ भेदकस्योक्ताविति । पूर्वोदाहरणद्वये तु भेदकस्यानुक्तिरित्यर्थः ॥ अप्रकृतेन प्रकृत स्यापलापोऽन्येति । अत्र पारमार्थिकस्यासत्यकरणमपारमार्थिकस्य सत्यतया स्थापनं स्थूलदृष्ट्या योद्धव्यम् । तात्पर्य तु वाक्यस्य सादृश्ये एव । तथा घन पदार्थखरूपविपर्यासोऽभिधीयते । न च तत्र स्वेच्छया पुरुषाणां सामर्थ्यमस्ति तेनोन्मत्तवाक्यता, प्रत्युत सौन्दर्यशालितया सहृदयचमत्कारिता भवति । सोऽयं वाक्यार्थापेक्षयापहृत्यलंकारो लाक्षणिकार्थपरिग्रहः । उपमेयस्यापद्भुतत्वात् न स्फुटेन रूपेणोपमानोपमेयभावश्चकास्तीति रूपकाशका न कार्या ॥ व्यासजो निरोधस्तस्माद्भको भयम् ॥ नेयं विरौतीति ।
१. 'भेदकस्योक्ती' स्यात्.
Page #295
--------------------------------------------------------------------------
________________
२८२
यथा
काव्यमाला ।
'विलसदमरनारीनेत्रनीलाब्जखण्डान्यधिवसति सदा यः संयमाधः कृतानि । न तु ललितकलापे वर्तते यो मयूरे वितरतु स कुमारो ब्रह्मचर्यश्रियं वः ॥'
-
यथा वा— 'इदं ते केन-' इति । एवमियं भङ्गयन्तरैरप्यूा || पर्यायविनिमयौ परावृत्तिः ।
एकस्यानेकत्रानेकस्य चैकत्र क्रमेण वृत्तिः पर्यायः । समेन समस्योत्कृटेन निकृष्टस्य निकृष्टेनोत्कृष्टस्य वा व्यतिहारो विनिमयः । तावेतौ
परावृत्तिः ।
यथा-
""जो तीऍ अहरराओ रत्ति उव्वासिओ पिययमेण ।
सो व्विय दीसइ गोसे सवत्तिनयणे संकतो ॥'
अत्रैकस्यानेकत्र वृत्तिः । रागस्य च वस्तुतो भेदेऽपि एकतयाध्यवसि -
तत्वादेकत्वमविरुद्धम् ॥
'तहं नतभित्ति-' इति । अत्रानेकं गृहाद्येकत्र द्विजे वर्तते ।
विनिमयः समेन समस्य यथा
'आदाय कर्णकिसलयमियमेस्मादत्र चरणमर्पयति । उभयोः सदृशविनिमयादन्योन्यमवञ्चितं मन्ये ॥
अत्र मदमुखमधुकरावलीविरुतं विरहिणां हृदयं भेदित्वा विशेषेण कामकार्मुकक्रेङ्कृतेन समानमध्यवसाय तदैक्यारोपेण तेनैवापहूयत इति ॥ जो तीए इति । अत्र स एवेति ताम्बूलादिजनितरागकोपनिर्वृत्तरागयोरभेदोपचारः ॥ यथा वा 'ने त्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना
१.
'यस्तस्या अधररागो रात्रावुद्भासितः प्रियतमेन ।
स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥ ' [इति संस्कृतम् . ] २. ‘मस्मै चरणमरुणमर्पयति' वामनवृत्ती.
१. 'हृदयभेदित्वाविशेषेण' स्यात्. २. 'नन्वा' का० प्र०.
Page #296
--------------------------------------------------------------------------
________________
६ अध्यायः
काव्यानुशासनम् ।
२८३
'यो बलौ व्याप्तभूसीनि मखेन द्यां जिगीषति ।
अभयं स्वर्गसद्मभ्यो दत्त्वा जग्राह खर्वताम् ॥' अत्रोत्कृष्टेनाभयेन निकृष्टस्य खर्वत्वस्य । 'तस्य च प्रवयसो जटायुषः खर्गिणः किमिव शोच्यतेऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्वलं यशः ॥' अत्र निकृष्टेनोत्कृष्टस्य ॥ हेतोः साध्यावगमोऽनुमानम् ।
अन्यथानुपपत्त्यैकलक्षणाद्धेतोः साध्यस्य जिज्ञासितार्थस्य प्रतीतिर्यत्र वर्ण्यते तदनुमानम् । यथा'सानुज्ञमागमिष्यन्नूनं पतितोऽसि पादयोस्तस्याः ।
कथमन्यथा ललाटे यावकरसतिलकपतिरियम् ॥' यथा वा
'निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनि ।
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः ॥' यथा वा
'संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूलं लीलापमं निमीलितम् ॥' अत्र कमलिनीमीलनेन निशासमयः प्रतिपाद्यत इत्यनुमानमेवेदम् ॥ वससि वाचि पुनः खलानाम् ॥' खर्वतामिति । वामनताम् ॥ स्वर्गिण इति । यश:शेषतां गतस्येत्यर्थः ॥ अर्थस्येति । भावरूपस्याभावरूपस्य वा । तत्र भावरूपसाध्यार्थप्रतीतिः 'सानुज्ञम्-' इत्यत्र निदर्शिता । अभावरूपसाध्यार्थप्रतीतिस्तु यथा--'पण्णवसि अव्वअच्छसि सव्वं विअ सो तएण सव्व विओ। णहु होन्ति तम्मि दिद्वे...... 'सच्छावच्छाई ॥' अत्रादर्शनं साध्यते ॥ निर्णतुं शक्यमस्तीति । अत्र स्तननितम्बयोर्मध्ये मध्यं नोपलभ्यते, स्तनभरावस्थानं च दृश्यते, तत्रेयं पयोधरभरस्थितिः सान्यथानुपपद्यमानाधारकं मध्यमनुपलभ्यमानं बोधयति । उदाहरणान्तरस्य चास्यायमभिप्रायः । यथा केनचिदर्थापत्तिलक्षणोऽलंकारः पृथग्लक्षितस्तथा न लक्षणीयोऽर्थापत्तिलक्षणत्वादनुमानस्येति । अनुमानमेवेदमिति । न तु सूक्ष्मम् , अनुमानान्तर्भूतत्वात्सूक्ष्मस्येति
१. 'कमलनिमीलनेन' इति स्यात्.
Page #297
--------------------------------------------------------------------------
________________
२८४
काव्यमाला । सदृशदर्शनात्स्मरणं स्मृतिः।
पूर्वोपलब्धस्यार्थस्य तादृशदर्शनासंस्कारोबोधे सति यत्स्मरणं सा स्मृतिः। यथा--.
'अदृश्यन्त पुरस्तेन खेलाः खञ्जनपतयः ।
अस्मर्यन्त च निःश्वस्य प्रियानयनविभ्रमाः ॥' विपर्ययो भ्रान्तिः । सदृशदर्शनाद्विपर्ययज्ञानं भ्रान्तिः । यथा'नीलेन्दीवरशङ्कया नयनयोर्बन्धूकवुद्धयाधरे
पाणी पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः। लीयन्ते कबरीषु बान्धवकुलव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति भवती स्थानानि रक्षिष्यति ॥' न चैतद्रूपकं प्रथमा वातिशयोक्तिः । तत्र वस्तुतो भ्रमस्याभावात् ॥ क्रियाफलाभावोऽनर्थश्च विषमम् । न केवलं क्रियाफलाभावोऽर्थात्कर्तुर्यावदनर्थश्च भवति यत्र तद्विषमम्। यथा--- 'उत्कण्ठा परितापो रणरणको जागरस्तनोस्तनुता ।
फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥" अत्र मृगलोचनादर्शनेन न केवलं सुखं न प्राप्तम्, यावद्विच्छेदे उत्कण्ठादिरनर्थः प्राप्तः ॥ योग्यतया योगः समम् । उत्कृष्टमुत्कृष्टस्य निकृष्टं निकृष्टस्य योग्यमिति योग्यतया योगः समम्।
यथा--
'धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी
देवो रूपेऽप्ययमनुपमे दत्तपत्रः स्मरस्य । १. 'रूपो देवो' का०प्र०, २. 'पमो' का० प्र०.
-
-
-
Page #298
--------------------------------------------------------------------------
________________
६ अध्यायः] काव्यानुशासनम् ।
२८५ जातं दैवादुचितमनयोः संगतं यत्र तस्मि
___ शृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ यथा वा'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं
जातो दैवादुचितरचनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फातिरास्वादनीया
यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥' हेतौ कायें चैकत्र हेतुकार्यान्तरोक्तियुगपद्गुणक्रियाश्च समुच्चयः। कस्यचित्कार्यस्य एकस्मिन्हेतौ साधके सति हेत्वन्तराभिधानम्, कार्य चैकस्मिन्प्रस्तुते कुतश्चिन्निमित्तात्कार्यान्तराभिधानं च समुच्चयः । युगपद्गुणौ च क्रिये च गुणक्रिये च समुच्चयः । वहुवचनं व्याप्त्यर्थम् । हेतौ हेत्वन्तरं यथा'दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं
गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुंलं निर्मलम् ।
भावः ॥ समुच्चय इति । अतुल्यकक्ष्यतामनपेक्ष्यैव समुच्चयनं समुच्चय इति सामान्येन व्युत्पत्तिः करणीया । एवं हि 'समाधिः सुकरं कार्य कारणान्तरयोगतः' इत्येवं लक्षणलक्षितः समाधिरपि समुच्चय एवान्तर्भवति । अन्यथा 'मानमस्या निराकतुम्' इत्युदाहरिष्यमाणे तुल्यकक्ष्यत्वाभावान समुच्चयः स्यादिति । एष एव च समुच्चयः सद्योगे असद्योगे सदसद्योगे च पर्यवस्यतीति न पृथग्लक्ष्यते। तथा हि-'कुलममलिनं भद्रा मूर्तिमतिः श्रुतशालिनी भुजवलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दपै राजंस्त एव तवाङ्गुशाः ॥' अत्र सतां योगः । 'दुराः' इत्यादौ त्वसतां योगः । नववयःप्रभृतिहि सत्यपि शोभनत्वे सर्वेषामप्यशोभनवकथनम् , अशोभनत्वेनैव विरहिण्या भावितत्वात् । 'शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं खाकृतेः । प्रभुधनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥' अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः । तथा हि-शशिनः शोभनत्वं प्रकृतिसौन्दर्यात् , अशोभनत्वं धूस
१. 'यत्तदेतच्छ' का० प्र०. १. 'श्रुति' का० प्र०.
Page #299
--------------------------------------------------------------------------
________________
काव्यमाला ।
स्त्रीत्वं धैर्यविधि मन्मथसुहृत्कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मैया ॥' अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति, तेषु सत्सु प्रियतमदूरस्थित्याद्युपात्तम् ।
यथा वा
२८६
'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम् ॥' कार्ये कार्यान्तरं यथा -
'स्फुरदद्धुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥' अत्र त्वां सृजतेत्येकस्मिन्कार्ये प्रस्तुते मनोभवादीनां कार्यान्तराणामुनिबन्धः ।
युगपद्गुणौ यथा
'विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । प्रखमुखानि नराधिप मलिनानि च तानि जातानि ॥' क्रिये यथा
'प्रतिग्रहीतुं प्रणयिप्रियत्वात्रिलोचनस्तामुपचक्रमे च । संमोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥' गुणक्रिये यथा
'कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥' पृष्टेऽपृष्टे वान्यापोहपरोक्तिः परिसंख्या ।
पृष्टेऽपृष्टे वा सत्यन्यव्यवच्छेदपरा योक्तिः सा परिसंख्यानात्परिसं ख्या । उभयत्रोपमानस्य वाच्यत्वं प्रतीयमानता वेति चत्वारोऽस्या भेदाः ।
--
रत्वोत्पादात् । एवं चास्य सदसद्रूपस्य तादृशेनैवापरेण योगादिह सदसद्योगः । गुणक्रि याश्वेत्यत्र यथा रुद्रटेन 'व्यधिकरणे वा यस्मिन्' (७/२७ ) इत्यादिना व्यधिकरणे इति एकस्मिन्देश इति च प्रतिपादितम्, न तथा प्रतिपादनीयम् । 'धुनोति चासिं तनुते च कीर्तिम्' इत्यादेः 'कृपाणपाणिश्च भवान्रणक्षितौ ससाधुवादाच सुराः सुरालये'
१. 'क्षमो' का० प्र०. २. 'शठः' का० प्र०.
Page #300
--------------------------------------------------------------------------
________________
६ अध्यायः ]
काव्यानुशासनम् ।
पृष्टे यथा—
'कोऽलंकारः सतां शीलं न तु काञ्चननिर्मितम् । किमादेयं प्रयत्नेन धर्मो न तु धनादिकम् ॥' ' का विसमा दिव्वगई किं लद्धं जं जणो गुणग्गाही । किं सोक्खं सुकलत्तं किं दुग्गे जं खलो लोओ ॥' अत्र दैवगतिरेव विषमेत्यादिरन्यापोहः प्रतीयते ।
अपृष्टे यथा
'धेहि धर्मे धनधियं मा धनेषु कदाचन ।
सेवख सद्गुरूपज्ञां शिक्षां मा तु नितम्बिनीम् ॥' 'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ||
यथा वा
'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥'
२८७
'दानं वित्ताद्रसं वाचः कीर्तिधर्मौ तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥' 'पोढेमहिलाण जं सुट्टु सिक्खियं तं सु होइ । जं जं असिक्खियं नववहूण तं तं दिहिं देई ||' कौटिल्यं कचनिचये एवेत्यादि, राज्ये सारं च वसुधैवेत्यादि,
एषु
इत्यादेश्चान्यथापि दर्शनादिति ॥ राज्ये सारमिति । अत्र सारालंकारः कैश्चिदुक्तः, स चान्यापोहमन्तरेण न चमत्कारकारीति परिसंख्यैव युक्तोऽलंकारः ॥ दानं वित्तादिति, पोढमहिलाणेत्यत्रापि केनचित्सारालंकार उक्तस्तत्रापि अन्यापोहकृतं चारुत्वमिती
‘का विषमा दैवगतिः किं लब्धं यज्जनो गुणग्राही ।
किं सौख्यं सुकलनं किं दुःखं यत्खलो लोकः ॥ [इति छाया . ] २. ' दुक्खं' का० प्रदी०.
३.
'प्रौढमहिलानां यत्सुष्ठु शिक्षितं तद्वतेषु भवति ।
यद्यदशिक्षितं नववधूनां तत्तत्" " ददाति ॥ [ इति छाया. ]
Page #301
--------------------------------------------------------------------------
________________
२८८
काव्यमाला । वित्तात्सारं दानमेवेत्यादि, प्रौढमहिलानां सुशिक्षितमेवेत्याद्यपोह्यमानस्य प्रतीयमानत्वमन्यापोहाभावे प्रश्नोत्तरोक्तौ न वैचित्र्यं किंचिदिति नोत्तरं पृथग्लक्षितम् ॥ उत्तरात्प्रश्नादिप्रतिपत्तिस्त्वनुमानमेव । यथा'वाणियय हत्थिदन्ता कुत्तो अम्हाण वग्यकित्तीआ ।
जाव लुलियालयमुही घरम्मि परिसप्पते सोण्हा ॥' अत्र विशिष्टोत्तरान्यथानुपपत्त्या प्रश्नानुमानम् । तथा-- ___ भणहतं सहीओ आम करेहामि तं तहा सव्वम् । .
जइ सरहरु संभिडं. मे धीरं संमुहागए तम्मि ॥ तत्र भृकुट्यादिभिर्मानं कुर्विति सख्याः पूर्ववाक्यमनुमीयते ॥ यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला। उत्तरमुत्तरं प्रति पूर्वस्य पूर्वस्य कारणत्वे कारणमाला । यथा'निर्द्रव्यो हियमेति हीपरिगतः प्रभश्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमायाति च । निर्विण्णः शुचमेति शोकविवशो बुद्धया परित्यज्यते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ।। कारणमात्रं तु न वैचित्र्यमिति न हेतुरलंकारान्तरम् ॥
यमपि परिसंख्यैव युक्तेति ॥ अनुमानमेवेति । न तु रुद्रटोक्तः-'प्रश्नादप्युत्तरं यत्र-' (७९३) इत्युत्तरालंकारः ॥ एवं जं भणहेत्यत्रापि वाच्यम् ॥ कारणमात्रं १. 'वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयश्च ।
यावल्ललितालकमुखी गृहे परिसर्पते स्नुषा ॥' इति छाया.] २. एतस्य शुद्धवृद्धावनारोहात्संस्कृतमसंदिग्धं न स्मर्यते, तथापि समन्वयवाक्यानुसारेण तु
'यद्भणिष्यत सख्यः सत्यं करिष्यामि तत्तथा सर्वम् ।
यदि............ मे धैर्य संमुखागते तस्मिन् ॥' इति कल्प्यते. ३. 'आम' इत्यभ्युपगमकाकु: साकाटोपहासा' इति ध्वन्यालोकलोचनम् . .
Page #302
--------------------------------------------------------------------------
________________
२८९
६ अध्यायः]
काव्यानुशासनम् । स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकरः।
परस्परनिरपेक्षत्वं स्वातन्त्र्यम् । उपकारकत्वमङ्गत्वम् । एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एकस्मिन्पदेऽर्थाच्छब्दार्थालंकारयोः समावेश ऐकपद्यम् । एभिरेषां पूर्वोक्तानामलंकाराणामेकत्र वाक्ये वाक्यार्थे वावस्थानं संकीर्यमाणस्वरूपत्वासंकरः। स्वातन्त्र्येण शब्दालंकारयोः संकरो यथा--- 'कुसुमसौरभसौरपरिभ्रमद्भमरसंभ्रमसंभृतशोभया ।
वलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया ॥' अत्र यमकानुप्रासयोः ।
J
त्विति। अग्नेधूम इत्येवंरूपमित्यर्थः ॥ नन्वीहशस्य हेतो«द्यत्वाभावादलंकारत्वं मा भवतु । यत्र तु-वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यतनुरहमग्रेऽपि भविता महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥' इत्यादौ, 'भस्मोद्धूलन भद्रमस्तु भवने रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । अद्याराधनरोषितेन विभुना युष्मत्सपर्यासुखालोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥' इत्यादौ च अपराधद्वये पूर्वापरजन्मनोरनमनलक्षणो हेतुर्वाक्याथीभूतो महामोहे सुखालोकोच्छेदित्वलक्षणश्च पदार्थीभूतो हृद्यतयावसीयते तत्र कथं सालंकारत्वमिति ॥ सत्यमस्ति । हृद्यता परं न हेतोः, किं तर्हि अलंकारान्तरस्य । तथा हि प्रथमे उदाहरणेऽनुमानस्य रामणीयकम् , द्वितीये तु मोक्षस्य महामोहतया रूपणमिति रूपकस्येति हेतुर्नालंकारः । तनिराकरणेन तद्रूपं काव्यलिङ्गमपि निराकृतमेवेति । एवं च 'हेतुमता सह हेतोरभिधानमभेदेतो हेतुः।' इत्येवंरूपोऽपि हेतुर्न वाच्यः । 'आयुघृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणभोजनम् ॥' इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् । गौणे [पचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम् । यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति ॥ 'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाभरः कालः ॥' इत्यत्र तु काव्यरूपतां कोमलानुप्रासमहिनैव समाम्नासिषुः, न तु हेत्वलंकारकल्पनयेति ॥ यद्यप्यव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहोपचारप्रयोजनं व्यङ्गयम,
१. 'तोषितेन' का० प्र०. २. '-दकृद्भवेद्यत्र । सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः ॥' इत्येवं रुद्रटे समुपलभ्यते. ३. 'पूजनम्' रुद्रटव्याख्या. ४. 'करः' रुद्रटे.
Page #303
--------------------------------------------------------------------------
________________
२९०
अर्थालंकारयोर्यथा—
काव्यमाला |
'लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ॥
अत्रोत्प्रेक्षोपमयोः । शब्दार्थालंकारयोर्यथा
'सो नत्थि एत्थ गामे जो एयं महमहन्तलायण्णम् । तरुणाण हिययलूडिं परिसेकन्ति निवारे ॥' अत्रानुप्रासरूपकयोः ।
अङ्गत्वेन संकरो यथा - 'कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते । कीर्त्या ते धवलीकृते त्रिभुवने क्ष्मापाल लक्ष्मीः पुनः कृष्णं वीक्ष्य बलोऽयमित्युपहितत्रीडं शनैर्जल्पति ||' अत्रातिशयोक्तिमपेक्ष्य भ्रान्तिरुद्भूता । तदाश्रयेण चातिशयोक्तिश्चमत्कारहेतुरित्यवयवयोरङ्गाङ्गिभावः ।
‘त्वं समुद्रश्च दुर्वारौ ँ महासत्त्वौ सतेजसा । इयता युवयोर्भेदः स जडात्मा पटुर्भवान् ॥' अत्र श्लेषो व्यतिरेकस्याङ्गम् । 'कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी । याति विश्वसनीयत्वं कस्य ते कलभाषिणि ॥' अत्र श्लेषो विरोधस्याङ्गम् ।
तदसुन्दरमपि काव्यस्य मध्यमत्वनिबन्धनं भवति । तथाप्यलंकारचिन्ताया: प्रक्रान्तत्वादपहुत्यैव हेतोरलंकारत्वं निराक्रियते ॥ दुर्वाराविति । दुर्वारोऽव्याहतप्रसरः, दुष्टं क्षारं वार्जलं च यस्य दुर्वाः । सत्त्वं धैर्यम्, सत्त्वाश्च प्राणिनः । तेजः प्रभावः, वडवानलश्च । जडात्मेति, उदकस्वभावोऽपि ॥ कृष्णार्जुनेति । कृष्णा असिताः । अर्जुनाः शुक्काः ।
१.
'स नास्त्यत्र ग्रामे य एतां स्फुरल्लावण्याम् ।
तरुणानां हृदयलुण्ठनं परिसर्पन्तीं निवारयति ॥ ' [ इति संस्कृतम् . ] २. ''सप्पन्ति' का० प्र०. ३. वार्वारशब्दयोरेकशेषस्तु दुःशक इति ध्येयम्.
Page #304
--------------------------------------------------------------------------
________________
६ अध्यायः ] . .
काव्यानुशासनम् ।
'आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियम् । कोशदण्डसमग्राणां किमेपामस्ति दुष्करम् ॥' अत्र श्लेषोऽर्थान्तरन्यासस्याङ्गम् । संशयेन संकरो यथा -
'निग्गण्डदुरारोहं मा पुत्तय पाडलं समारुहसु । आरूढनिवडिया के इमिए न कया इह ग्गामे ॥'
X अत्र शठतर पोटापाटलयोरन्यतरस्याः प्राकरणिकत्वाभावान्न ज्ञायते किमियं समासोक्तिरुतान्योक्तिरिति संशयः ।
तथा-
'नयनानन्ददायीन्दोर्विम्यमेतत्प्रसीदति । अधुना विनिरुद्धाशमपि शीर्णमिदं तमः ॥
अत्र मुखेन सहाभेदारोपात्किमतिशयोक्तिः, किमेतदिति मुखं निर्दिश्येन्दुसमारोपणाद्रूपकम्, किं मुखनैर्मल्य प्रस्तावेऽन्योक्तिः, अथैतयोः समुच्चयविवक्षायां दीपकम् किं प्रदोषवर्णने विशेषणसाम्यात्समासोक्तिः, किं मदनोद्दीपकः कालो वर्तते इति तात्पर्यात्पर्यायोक्तमित्यनेकालंकारसंशयः ।
तथा
२९१
'शशिवदनासित सरसिजनयनासितकुन्ददशनपङ्गिरियम् । गगनजलस्थलसंभवहृद्याकारा कृता विधिना ॥'
-
अत्र तु रूपकमुपमा वेति संशयः ॥ यत्र तु — 'मोहमहाचलदलने सा सुनिशितवज्रकोटिरेकापि' इत्यादावारोपितकुलिशकोटिरूपाया भक्तेमहस्य · महाचलेनोपमितमात्रस्य दलने कर्तृत्वं न हृदयावर्जकं स्यादिति
.
अनुरक्ता लोहिताः । कर्णावलम्बिनी विपुलतया श्रोत्रसमीपसंश्रिता । विरोधे तु कृष्णो हरिः, अर्जुनः पार्थः, तत्र सानुरागा सा कर्ण राधेयं कथमालम्बत इति । अनयैव च विरोधभङ्गथा अविश्वास्यत्वं निबद्धम् ॥ कोशदण्डसमग्राणामिति । कोशो भाण्डा
१. 'निर्गण्डदुरारोहं मा पुत्रक पाटलं समारोह ।
आरूढनिपतिताः केऽनेन न कृता इह ग्रामे ॥ [ इति संस्कृतम्: ] ..
Page #305
--------------------------------------------------------------------------
________________
२९२
काव्यमाला। रूपकस्य, 'ज्योत्स्नेव हासद्युतिराननेन्दोः' इत्यादौ मुख्यतयावगम्यमाना हसितद्युतिर्वक्र एवानुकूल्यं भजत इत्युपमायाः साधकं प्रमाणमस्ति, 'स्मरन्ति ज्योत्स्नायाः शशिमुखि चकोरास्तव दृशि' इत्यादौ तत्वारोपे स्मरणानुपपत्ते रूपकस्य, 'राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम्' इत्यादौ सदृशं प्रति प्रेयसीप्रयुक्तस्यालिङ्गनस्यासंभवादुपमायाश्च बाधकं प्रमाणमस्ति, न तत्र संशयः । ऐकपद्येन संकरो यथा---
'मेरूरुकेसरमुदारदिगन्तपत्र
मामूललम्बिचलशेषशरीरनालम् । येनोद्धृतं कुवलयं ललना सलील
.. मुत्तंसकार्थमिव पातु स वो वराहः ।।' अत्रैकपदानुप्रविष्टौ रूपकानुप्रासौ । यद्यप्यनेकविषयमिदं रूपकमखिलपाक्पट्यापि (?), तथापि प्रतिपदं रूपकसद्भावादकपदानुप्रवेशो न विरुध्यते ॥ इत्युक्ताः शब्दार्थालंकाराः ॥ । कः पुनरङ्गाश्रितत्वान्निःशेषेऽप्ययं शब्दस्यालंकारोऽयमर्थस्येति विशेषः । उच्यते-दोषगुणालंकाराणां शब्दार्थोभयगतत्वव्यवस्थायामन्वयव्यतिरेकावेव निमित्तम् । निमित्तान्तरस्याभावात् । ततश्च योऽलंकारो यदीयौ भावाभावावनुविधत्ते स तदलंकारो व्यवस्थाप्यते इति ॥ यद्यपि पुनरुक्त- . वदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेकानुविधायिनोऽपि दृश्यन्ते, तथापि तत्र शब्दस्यार्थस्य वा वैचित्र्यमुत्कटमिति उभयालंकारत्वमनपेक्ष्यैव नाष्टालंकारत्वेन नार्थालंकारत्वेन चोक्ताः । इह वापुष्टार्थत्वलक्षणदोषाभावमात्रं साभिप्रायविशेषणोक्तिरूपः परिकरो भन्नप्रक्रमतादोषागारोऽपि । दण्डश्चतुर्थोपायोऽपि ॥ निर्गण्डेति । कठिनदुरारोहम् ॥ साभिप्रायविशेषणोक्तिरूप इति । तथा च 'विशेषणैर्यत्लाकूतैरुक्तिः परिकरस्तु सः' इति । यथा-'कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सोऽभिमानी कृष्णाकेशोत्तरीयव्यपनयनपटुः पाण्डवा यस्य दासाः । राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं वास्ते दुर्योधनोऽसौ कथयत न रुषा द्रष्टुमभ्यागतौ खः ॥ इति । अत्र हि द्यूतच्छलकर्तृत्वादीनां विशेषणानां क्रोधोद्दीपनविभावतया साभिप्रायत्वमित्यपुष्टार्थत्वदोषाभाव एवा
Page #306
--------------------------------------------------------------------------
________________
६ अध्यायः
काव्यानुशासनम् ।
२९३
यम् ॥ यथासंख्यमिति कसिधा बससि चेतसि मामिणा च विनयेन च आमुख
भावमात्रं यथासंख्यं दोपाविधानेनैव गतार्थम् । विनोक्तिस्तु तथाविधह- - द्यत्वविरहात् ॥ भाविकं तु भूतभाविपदार्थप्रत्यक्षीकारात्मकमभिनेयप्रवन्ध एव भवति । यद्यपि मुक्तकादावपि दृश्यते, तथापि न तत्वदते । उदात्तं तु ऋद्धिमद्वस्तुलक्षणमतिशयोक्तेर्जातेर्वा न भिद्यते । महापुरुपवर्णनारूपं च यदि रसपरं तदा ध्वनेविषयः ॥ यम् ॥ यथासंख्यमिति । तथा चाह-'यथासंख्यं क्रमेणैव ऋमिकाणां समन्वयः' इति । यथा--'एकत्रिधा वससि चेतसि चित्रमेव देव द्विपां च विदुपां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुणशौर्याप्मणा च विनयेन च लीलया च॥ इति । अत्र न यथासंख्यकृतं किमपि वैचित्र्यं किंतु एकत्रिधा वससीति आमुखे विरोधप्रतीतिकृतमेवेति ॥ विनोक्तिस्त्विति । तथा चाह-'विनोक्तिः सा वि. नान्येन यत्रान्यः सन्न नेतरः' इति । सन् शोभनः, इतरोऽशोभनः । यथा'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतातिसुन्दराशयोऽयं मुहदा तेन विना नयेन्द्रसूनुः ॥', 'अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥' इति उदाहरणद्वयेऽपि वदन्तु सहृदयाः यदि किमपि विनोक्तिकृतं वैचित्र्यभवभासते, सहोक्तौ तु सहार्थबलात्साम्यसमन्वयप्रतीतेर्युक्तमेव वैचित्र्यमिति । किंच-~-शब्दमानयोगेनालंकारत्वकल्पने हा धिगायुक्तावप्यलंकारत्वप्रसाः प्राप्नोतीति ॥ भाविकमिति । भावः कवेरभिप्रायः स यत्रास्ति तद्भाविकम् । भूतभाविपदार्थप्रत्यक्षीकारात्मकमिति । प्रध्वंसाभावनागभावक्रान्ता अपि भावाः स्वमहिम्नायः प्रसादवशाच यत्पुरः स्फुरन्त इव दृश्यमाना वध्यन्त इत्यर्थः । भूतभाविशब्दस्य परोक्षोपलक्षणपरत्वे परोक्षाणां पुरःस्फुरद्रूपत्वहेतुवर्णनमिति तु व्याख्याने खभावोक्तिर्न भिद्यते । अभिनेयप्रवन्ध एवेति । प्रवेशकविष्कम्भकादिभिस्तत्रैव तत्र वर्ण्यमानत्वादिति भावः ॥ ननु-'आसीदअनमत्रेति पश्यामि तव लोचने । भाविभूपणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥' अनाद्येऽर्थे भूतस्य, द्वितीये भाविनो दर्शनमिति मुक्तकविषयमपि भाविकं दृश्यते, ततः कुतो न लक्ष्यत इत्याशयाह-यद्यपीति ॥ ऋद्धिमद्वस्तुलक्षणमिति । यदाह—'उदात्तं वस्तुनः संपत्' इति । यथा-'मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङ्गणसीनि मन्धरचलद्वालानिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधियः कर्पन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥' न ह्यतिशयैश्वर्योऽपि मुक्तारत्नानामवाकरप्रायत्वेन पुत्रीकरणं संभवति । उक्तं च-'असंवन्धे संवन्धात्मिकामतिशयोक्तिमवगमयति' । तदाह-अतिशयोक्तिरिति । अतिशयोक्तेरलंकारान भिद्यत इत्यर्थः ।।
१. 'मन' का० प्र०. २. 'चेतःप्रसाद' स्यातू. ३. 'स्तद्दान' का० प्र०. ४. 'श्वर्य' स्यात्. ५. 'क्तेरिति' मूलानुसारी.
Page #307
--------------------------------------------------------------------------
________________
२९४
काव्यमाला ।
अथ तथाविधवर्णनीयवस्तु परम्, तदा गुणीभूतव्यङ्गयस्येति नालंकारः ॥ रसवत्प्रेयस्व्यूर्जस्विभावसमाहितानि गुणीभूतव्यङ्गयप्रकारा एव || आशीस्तु प्रियोक्तिमात्रं भावज्ञापनेन गुणीभूतव्यङ्गयस्य
अथ यत्र ऋद्धिमद्वस्तु संभवदेव वर्णयिष्यते तत्रोदात्तं भविष्यतीत्याशङ्कयाह — खभावो - तेर्वेति । किं च । यदि ऋद्धिमद्वस्तुवर्णनमलंकारस्तदा ऋद्धिरहितवस्तुवर्णनमप्यलंकारं कश्चित्प्रसजतीति । महापुरुषवर्णनारूपमिति । यदाह - 'महतां चोपलक्षणम्' इति । यथा—‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्वाहुसहायश्चकार 'रक्षःक्षयं रामः ॥ ' रामो हि पितृवचनमनुतिष्ठन्नयपराक्रमादिधर्मयोगादुत्साहयोगाच्च वीर - रसवानेवेति रसध्वनिरेवायम् ॥ ननु उपलक्षणमङ्गभावोऽर्थादुपलक्षणीयेऽर्थे । ततश्चोपलक्षणीभूतस्य रामचरितस्य वाक्यार्थी भावाभावादङ्गत्वमेव । दण्डकारण्योत्कर्षप्रतिपत्तिर्हि वाक्यार्थः सैव प्रधानं ततः कथं ध्वनिविषयतेत्याशङ्कयाह - अथेति । गुणीभूतव्यङ्गयप्रकारा एवेति । मध्यमकाव्यप्रभेदविषयत्वेन ये प्रतिपादिताः । आशीस्त्विति । आशासनमप्राप्तप्राप्तीच्छारूपमाशीः प्रयोक्तृधर्मः । अथ वा आशास्यमानो योऽसावर्थोऽनर्थप्राप्त्यनर्थोपरमात्मकः स एव प्राप्तकालतयाभ्यनुज्ञात आशीर्विषयत्वादाशीरिति । तत्र पक्षद्वयेऽपि स्नेहाभावे लोकव्यवहारमात्रानुसरणार्थत्वेनाशीर्यदि प्रयुज्यते तदा " गतोऽस्तमर्कः' इत्यादिवद्वातीवर्णनमात्रत्वाद्दूरापेतैवालंकारतेत्याह-- प्रियोक्तिमात्रमिति । सहदयानां किमप्येतदिति चमत्काराभावादित्यर्थः ॥ अथ स्नेहातिशयेनोच्यते, तदा ध्वनेर्विषयः । तथा हि कश्चित्कस्मैचित्स्नेहनिर्भरहृदयतया आशिषं प्रयुङ्क्ते तत्र च तस्य चेतोवृत्तिविशेषः स्नेहात्मा रतिभावविशेषरूप आशीर्द्वारेण प्रतीयत इति भावध्वनिरेवायम् । यथा—‘अस्मिञ्जहीहि सुहृदि प्रणयाभ्यसूयामाश्लिष्य गाढममुनानतमादरेण । विन्ध्यं महानिव घनः समयेऽभिवर्षन्नानन्दजैर्नयनवारिभिरुक्षतु त्वाम् ॥' कयोश्चिन्मैत्रीसंवन्धे पिशुनजनानुप्रवेशनविच्छार्य : ( ? ) कृते सति कस्यचिन्नायकस्य तत्स्नेहदादर्द्धसंपादनायेयमुक्तिः । अत्र च सौहृदमप्यर्थप्राप्तिरूपं मैत्रीसंबन्धस्य प्रवर्धमानतयोपनिबद्धम् । जहीहीति आश्लिष्येति च प्रार्थना पञ्चम्यन्तौ । उक्षत्विति प्राप्तकालतायां पञ्चमी तेनात्राशास्यमानस्य मैत्रीसंबन्धस्योपनिबन्धो न त्वप्राप्तप्राप्तीच्छात्मिका आशिषः । तथा'मदान्धमातङ्गविभिन्नशाला हतप्रवीराद्भुतभीतपौराः । त्वत्तेजसा दग्धसमस्तलीला द्विषां पुरीः पश्यतु राजलोकः ॥' अत्र शत्रुनगरीविनाशोपनिबन्धद्वारेणानर्थोपरमस्य दर्शितत्वादाशास्यमानार्थोपनिबन्ध एव ॥ नन्विदं भूयादित्येवमात्मिकायाः प्रयोक्तधर्मत्वेनावस्थिताया आशिषोऽत्रोपदर्शनम् । तथा ह्येवंविधा शत्रुनगरी राजलोको दृश्यादिति नाय - मत्रार्थः संपन्नत्वादेतस्यार्थस्य किंतु तथाविधानां शत्रुनगरीणां दर्शनमत्र प्राप्तकालतया
1
१. ‘विच्छायीकृ’ स्यात्. २. - ३. लोटो लकारस्य पञ्चमीनामाभिधेयत्वं स्यात्.
Page #308
--------------------------------------------------------------------------
________________
७ अध्यायः ]
काव्यानुशासनम् ।
२९५
विषयः । प्रत्यनीकं च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालंकारान्तरतया
वाच्यम् ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ शब्दार्थालंकारवर्णनः पष्टोऽध्यायः ।
सप्तमोऽध्यायः ।
इह च काव्यं नायकादिप्रतिवद्धं भवतीति नायकादिलक्षणमुच्यते । तत्र तावदुत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिस्रः प्रकृतयो भवन्ति । तत्र केवलगुणमय्युत्तमा । खल्पदोपा बहुगुणा मध्यमा । दोषवत्यधमा । तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटीविदूषकादयो भवन्ति । उत्तममध्यमप्रकृतियुक्तस्तु —
समग्रगुणः कथाव्यापी नायकः ।
समग्रगुणो नेतृत्वादिगुणयोगी वक्ष्यमाणशोभान्वितश्च । तत्र नेतृत्वादिगुणबाहुल्यात् मध्यमप्रकृतावपि समग्रगुणता ।
भ्यनुज्ञायते । अत्रापि शत्रुविनाशलक्षणविभावद्वारेण हर्पात्मनो भावस्योपनिबन्धात्पूर्ववद्भावध्वनिरेवेति । तदाह - भावज्ञापनेनेति । प्रत्यनीकमिति । अनीकप्रतिनिधितुल्यत्वात्प्रत्यनीकम् । यथानीकेऽभियोज्ये तत्प्रतिनिधिभूतमपरं मूढतया केनचिद'भियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयत इत्यर्थः । तथा चाह'प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥' यथा---' त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः ॥ तां त्वय्यनुरक्तां मनोभवशरैस्ता7 डयतीति वास्तवोऽर्थः । तत्र च मनोभवस्य त्वद्रूपेण विनिर्जितत्वाद्योऽसावनुशयः स कारणत्वेनोत्प्रेक्षित इत्युत्प्रेक्षा । सा च प्रतीयमाना इवादिशब्दाप्रयोगात् ॥ जातिगतिरीति... वृत्तिच्छायामुद्रोक्तियुक्तिभणितिगुम्फनाशय्यापीति वाक्ये वाक्याध्येयाप्रेक्ष्यगेयाभिनेयानि शब्दालंकाराः संभवप्रत्यक्षागमोपमानार्था पत्यभावलक्षणाश्चार्थालंकारा ये भोजराजेन प्रतिपादितास्ते केनचिदुक्तेष्वेवान्तर्भवन्ति । केचिच्च कंचनापि चमत्कारं नावहन्ति, केचिच्च ये काव्यशरीरस्खभावा एवेति न सूत्रिताः ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके षष्ठोऽध्यायः ॥
१. 'दिव कामः' का० प्र०. २. 'भवः' स्यात्.
Page #309
--------------------------------------------------------------------------
________________
२९६
नेतृगुणाश्वेमे
'नेता विनीतो मधुरस्त्यागी दक्षः प्रियंवदः । रक्तलोकः शुचिर्वाग्ग्मी व्यूढवंशः स्थिरो युवा || बुद्धयुत्साहस्मृतिप्रज्ञाकलामानसमन्वितः ।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥' कथाप्रबन्धस्तद्व्यापी । नयति व्याप्नोति इतिवृत्तं फलं चेति नायकः ।
तस्य सात्विकान्गुणानाह -
शोभाविलासमधुरललितमाधुर्यस्थैर्य गाम्भीर्यौदार्यतेजांस्यष्टौ स
वजास्तद्गुणाः ।
काव्यमाला |
सत्त्वं देहविकारस्तस्माज्जाताः । क्रमेण लक्षयति
-
शौर्य यथा
दाक्ष्यशौर्योत्साहनीचजुगुप्सोत्तमस्पर्धागमिका शोभा ।
यतः शरीरविकाराद्दाक्ष्यादि गम्यते सा शोभेत्यर्थः ।
दाक्ष्यं यथा---- 'स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतो
रामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः । शुण्डारः कलभेन यद्वदले वत्सेन दोर्दण्डकस्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥'
-
'खरेण खण्डिताशेषगात्रेण रणमूर्धनि । रामव्याजेन लोकेषु शौर्यमुत्सारितं नृणाम् ॥'
उत्साहो यथा---
'मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापतीनाश्वास्याश्रुमुखान्मुहुः प्रियसखान्प्रेष्यान्समादिश्य च । आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने
रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥'
Page #310
--------------------------------------------------------------------------
________________
७ अध्यायः ]
नीचजुगुप्सा यथा
'उत्तालताडकोत्पातदर्शनोऽप्यप्रकम्पितः । प्रयुक्तस्तत्प्रमाथाय सैणेन विचिकित्सति ॥
काव्यानुशासनम् ।
उत्तमस्पर्धा यथा-
'एतां पश्य पुरस्तटीमिह किल क्रीडाकिरातो हरः कोदण्डेन किरीटिना सरभसं चूडान्तरे ताडितः । इत्याकर्ण्य कथाद्भुतं हिमनिधावद्वौ सुभद्रापते
र्मन्दं मन्दमकारि येन निजयोदोर्दण्डयोर्मण्डनम् ॥' धीरे गतिदृष्टी सस्मितं वचो विलासः ।
यथा
'दृष्टिस्तृणीकृतजगत्रयसत्त्वसारा
धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एव ॥
मृदुश्टङ्गारचेष्टा ललितम् ।
यथा
माधुर्यम् । यथा-
‘कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् ।
रजोभिरन्तः परिवेपबन्धि लीलारविन्दं भ्रमयांचकार ॥' क्षोभेऽप्यनुवणं माधुर्यम् ।
महत्यपि युद्धनियुद्धव्यायामादौ क्षोभहेतौ अनुल्यणत्वं मधुरा चेष्टा
'कपोले जानक्याः करिकलभदन्तद्युतिमुपि स्मरस्मेरं गण्डोडुमरपुलकं वक्रकमलम् । मुहुः पश्यशृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थि द्रढयति रघूणां परिवृढः ॥'
१. 'सत्यपि ' स्यात्.
૩૮
२९७
Page #311
--------------------------------------------------------------------------
________________
२९८
काव्यमाला। विघ्नेऽप्यचलं स्थैर्यम् । सत्यपि विघ्न उद्यमादपभ्रंशः स्थैर्यम् । यथा
'यथा यथा समारम्भो दैवात्सिद्धिं न गच्छति ।
तथा तथाधिकोत्साहो धीराणां हृदि वर्धते ॥' हर्षादिविकारानुपलम्भनगाम्भीर्यम् ।।
यस्य प्रभावाबहिर्हर्षक्रोधादीनां विकारा दृष्टिविकासरागादयो नोपल- .. भ्यन्ते तन्निस्तिमितदेहखभावं गाम्भीर्यम् । यथा
'आहूतस्याभिषेकाय विसृष्टस्य वनाय च । . न मया लक्षितस्तस्य खल्पोऽप्याकारविभ्रमः ॥' स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् ।
अभ्युपपत्तिः परित्राणाद्यर्थिनोऽङ्गीकरणम् । परजनविषयं दानादि चेष्टात्मकमेवौदार्यम् । स्वग्रहणं तु दृष्टान्तार्थम् । स्वेष्विव परेष्वपीत्यर्थः ।
दानं यथा'शिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवैव तावत्किं भक्षणात्त्वं विरतो गरुत्मान् ॥' अभ्युपपत्तिर्यथा
'एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत केनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥' संभाषणं यथा'उत्पत्तिर्जमदग्मितः स भगवान्देवः पिनाकी गुरुः __ शौर्य यत्तु न तद्विरां पंथि ननु व्यक्तं यतः कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः
___ सत्यब्रह्मतपोनिधर्भगवतः किं वा न लोकोत्तरम् ॥ पराधिक्षेपाचसहनं तेजः। पराच्छनोर्न तु गुरोमित्रादेर्वाधिक्षेपापमानादेरसहनं तेजः । यथा
'ब्रूत नूतनकूष्माण्डफलानां किं भवन्त्यमी । अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥'
Page #312
--------------------------------------------------------------------------
________________
७ अध्यायः ]
नायकभेदानाह
काव्यानुशासनम् ।
२९९
धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा ।
स इति नायकः । धीरशब्दः प्रत्येकमभिसंबध्यते । तेन धीरोदात्तः, धीरललितः, धीरशान्तः, धीरोद्धत इति ।
दक्षिणघृष्टानुकूलशठभेदादेकैकश्चतुर्धा ।
एते शृङ्गाररसाश्रयिणो भेदाः । इति षोडश भेदा नायकस्य । धीरोदात्तादींल्लक्षयति
गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महासत्त्वो दृढव्रतो धीरोदात्तः ।
गूढगर्यो विनयच्छन्नावलेपः । अविकत्थनोऽनात्मश्लाघापरः । महासत्त्वः क्रोधाद्यनभिभूतान्तःसत्त्वः । दृढव्रतोऽङ्गीकृतनिर्वाहकः । यथा – रामादिः । कलासक्तः सुखी शृङ्गारी मृदुर् निश्चिन्तो धीरललितः ।
कलासु गीताद्यास्वासक्तः । सुखी भोगप्रवणः । शृङ्गारप्रधानः सुकुमाराकारः । सचिवादिसंविहितयोगक्षेमत्वाच्चिन्तारहितः । यथा – वत्सराजः । विनयोपशमवान् धीरशान्तः ।
---
यथा मालतीमाधव-मृच्छकटिकादौ – माधव - चारुदत्तादिः । शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रोऽवलिप्तो धीरोद्धतः ।
मत्सरी असहनः । मन्त्रादिवलेनाविद्यमानवस्तुप्रकाशको मायी । छद्म वञ्चनमात्रम्। रौद्रश्चण्डः। अवलिप्तः शौर्यादिमदवान्। यथा —– जामदग्न्यरावणादिः ।
'देवा धीरोद्धता ज्ञेयाः स्युर्धीरललिता नृपाः । सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ ॥
देवा धीरोद्धता इति । अत्र हि 'धीरोदात्तं जयति चरितं रामनाम्नश्च विष्णोः ' इत्यादेर्दर्शनाज्जनकप्रभृतीनां रामादीनां च न धीरललितत्वानुचितत्वमिति धीरललितत्वं राज्ञ एव वर्णनीयं नान्यस्य । सेनापत्यमात्ययोधीरोदात्तत्वमेव । देवानां धीरोद्धतत्वमेव । द्वि
Page #313
--------------------------------------------------------------------------
________________
काव्यमाला ।
धीरप्रशान्ता विज्ञेया ब्राह्मणा वणिजस्तथा ।
इति चत्वार एवेह नायकाः समुदाहृताः ॥' इत्यन्तरश्लोको।
अथ नायकस्य शृङ्गारित्वेऽवस्थाभेदानाहज्येष्ठायामपि सहृदयो दक्षिणः ।
कनिष्ठायां रक्तो ज्येष्ठायामपि समानहृदयो दाक्षिण्यशीलत्वादक्षिणः । यथा'प्रसीदत्यालोके किमपि किमपि प्रेमगुरवो
रतक्रीडाः कोऽपि प्रतिदिनमपूर्वोऽस्य विनयः । सविस्रम्भः कश्चित्कथयति च किंचित्परिजनो
न चाहं प्रत्येमि प्रियसखि किमप्यस्य विकृतम् ॥' व्यक्तापराधो धृष्टः। यथा-- 'लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
वक्के कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥
जादीनां धीरप्रशान्तत्वमेवेत्येवं परं व्याख्येयम् । धीरोद्धतादिशब्दाश्च यथोक्तगुणसमारोपितावस्थाभिधायिनो वत्सवृषमहोक्षादिवन्न जात्या कश्चिदवस्थितरूपो धीरोद्धतादिरस्ति । तत्त्वे हि महाकविप्रवन्धेषु विरुद्धानेकरूपाभिधानमसंगतमेव स्यात् । जातेरनपायित्वात् । तथा च भवभूतिना एक एव जामदग्न्यः 'कैलासोद्धारसार-' इत्यादिभी रामादीन् प्रति प्रथमं धीरोद्धतत्वेन, पुनः 'ब्राह्मणातिक्रमत्यागो भवतामेव भूयते' इत्यादिना रावणं प्रति धीरोदात्तत्वेन, 'पुण्या ब्राह्मणजाति:-' इत्यादिभिश्च धीरशान्तत्वेनोपवर्णितः । न चावस्थान्तराभिधानमनुचितम् । अङ्गभूतनायकानां नायकान्तरपेक्षया महासत्त्वादेरव्यवस्थितत्वात् । अङ्गिनस्तु रामादेरेकप्रवन्धोपात्तान् प्रत्येकरूपत्वादारम्भोपात्तावस्थातोऽवस्थान्तरोपादानमन्याय्यम् । यथोदात्ताभिमतस्य रामस्य छद्मना वालिवधादमहासत्त्वतया खावस्थापरित्याग इति । वक्ष्यमाणानां च दक्षिणाद्यवस्थानां पूर्वी प्रत्यन्यया हृत इति नित्यसापेक्षत्वेनाविर्भावानुपात्तावस्थातोऽवस्थान्तराभिधानभङ्गाङ्गिनोरप्यविरुद्धमिति । अन्तरश्लो
१. 'भूतये' का० प्र०. २. 'न्तरापेक्षया' स्यात्.
Page #314
--------------------------------------------------------------------------
________________
३०१
७ अध्यायः ___ काव्यानुशासनम् ।
एकभार्योऽनुकूलः। यथा'इयं गेहे लक्ष्मीरियममृतवृष्टिर्नयनयो__ रसावस्याः स्पों वपुषि बहलश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकसरः
किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥' गूढापराधः शठः। यथा--'एकत्रासनसंगते प्रियतमे-' इति । नायकविजेयं प्रतिनायकमाहव्यसनी पापकृल्लुब्धः स्तब्धो धीरोद्धतः प्रतिनायकः । यथा-रामयुधिष्ठिरयो रावणदुर्योधनौ । नायिकालक्षणमाहतद्गुणा स्वपरसामान्या नायिका त्रेधा ।
तद्गुणा यथोक्तसंभविनायकगुणयोगिनी नायिका । सा च वकीया,, परकीया, सामान्या, चेति त्रेधा । . खस्त्रीलक्षणमाह
सयमूढा शीलादिमती वा । आदिग्रहणादावलज्जागृहाचारनैपुण्यादिपरिग्रहः । शीलं यथा___ 'कुलवालियाए पेच्छह जोवणलायण्णबिब्भमविलासा ।
पवसन्ति व पवसिए एन्ति ब पिए घरम इन्ति ॥' वयाकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा ।
वयः शरीरावस्थाविशेषः, कौशलं कामोपचारनैपुण्यम् , ताभ्यां मुग्धा। एवं मध्या प्रौढा चेति । १. 'कुलवालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः ।
प्रविशन्तीव प्रवसिते आगच्छन्तीव प्रिये गृहमागते ॥ इति च्छाया].
Page #315
--------------------------------------------------------------------------
________________
३०२
काव्यमाला |
तत्र वयसा मुग्धा यथा
'दोर्मूलावधिसूत्रितस्तनमुरः स्त्रित्कटाक्षे दृशौ किंचित्ताण्डवपण्डिते स्मितसुधासितोक्तिषु भ्रूलते । चेतः कन्दलितं स्मरव्यतिकरैर्लावण्यमङ्गैर्धृतं तन्वङ्गयास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥' कौशलेन यथा -
'उदितो रसादमथ वेपथुमत्सुदृशोभिभर्तृविधुरं त्रपया । व पुरादरातिशयशंसि पुरः प्रतिपत्तिमूढमपि बाढमभूत ||
वयसा मध्या यथा
'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ
प्रथमः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलता
महो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥' कौशलेन यथा
'स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमो मे
विस्रम्भेऽपि गुरौ पयोधरभरे कम्पे च वृद्धिं गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रिय
स्तन्वङ्गचा हठकेशकर्षणघन श्लेषामृते लुब्धया ||' वयसा प्रौढा यथा
'नितम्बो मन्दत्वं जनयति गुरुत्वाद्द्रुतगते -
र्महत्त्वादुद्वृत्तः स्तनकलशभारः शमयति । विकासिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥
काविति । अन्तरे मध्ये वक्तव्यशेषाभिधायकौ श्लोकावन्तरश्लोकौ । वयसा मुग्धेति । वयसासंपूर्णत्यर्थः । एवं कौशलेनापि । वयसा मध्येति । किंचिदसंपूर्णेत्यर्थः । वयसा
Page #316
--------------------------------------------------------------------------
________________
७ अध्यायः ]
कौशलेन यथा -
काव्यानुशासनम् ।
'उद्धृतैर्निभृतमेकमनेकैश्छेदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥'
धीराधीराधीराधीराभेदादन्त्ये त्रेधा ।
अन्त्ये मध्याप्रौढे । त्रेधा धीरामध्या, धीराधीरामध्या, अधीरामध्या । एवं प्रौढापि त्रेधा ।
पोढापि ज्येष्ठकनिष्ठाभेदाद्वादशधा । मध्याप्रौढयोः प्रत्येकं त्रिभेदत्वम् ।
षड्विधापि ज्येष्ठाकनिष्ठाभेदाद्वादशधा स्वस्त्री भवति । तत्र प्रथममूढा ज्येष्ठा ! पश्चादूढा कनिष्ठा ।
अथासां क्रोधचेष्टामाह
सोत्मासवक्रोक्त्या सवाष्पया वाक्पारुष्येण क्रोधिन्यो मध्याधीराद्याः ।
मध्याधीराद्यास्तिस्रोऽपि यथासंख्यं सोत्प्रासवक्रोक्त्यादिभिः क्रोधं
कुर्वन्ति ।
तत्र सोत्प्रासवक्रोक्त्या धीरामध्या यथा --- ' न खलु वयंममुष्य दानयोग्याः
३०.३
पिबति च पाति च यासकौ र हस्त्वाम् ।
व्रज विटपममुं ददख तस्यै
भवतु यतः सदृशोश्चिराय योगः ॥' सबाष्पया सोत्प्रासवक्रोक्त्या धीराधीरा यथा - 'बाले नाथ - ' इति ।
वाक्पारुष्येणाधीरा यथा
'धिङ्मां किं समुपेत्य चुम्बसि बलान्निर्लज्ज लज्जा क्व ते वस्त्रान्तं शठ मुञ्च मुञ्च शपथैः किं धूर्त निर्बाधसे । . खिन्नाहं तव रात्रि जागरतया तामेव या च प्रियां निर्माल्योज्झितपुष्पदाननिकरे का पट्टदानां रतिः ॥'
-
Page #317
--------------------------------------------------------------------------
________________
३०४
काव्यमाला।
उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संतर्जनघाताभ्यां प्रौढाधीराद्याः।
प्रौढाधीराद्यास्तिस्रोऽपि यथासंख्यमुपचारावहित्थादिद्विकत्रयेण क्रोधिन्यो भवन्ति । . तत्र धीरा प्रौढा सोपचारा यथा
'एकत्रासनसंगतिः परिहृता प्रत्युद्गमाढूरत
स्ताम्बूलानयनच्छलेन रभसाश्लेषोऽपि संविग्नितः । आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके ___ कान्तं प्रत्युपचारतश्चतुरयो कोपः कृतार्थीकृतः ॥' सैव सावहित्था यथा'वरं भ्रूभङ्गास्ते प्रकटितगुरुक्रोधविभवा
वरं सोपालम्भाः प्रणयमधुरा गद्गदगिरः । वरं मानो येन प्रसभजनितोऽनादरविधि
ने गूढान्तःकोपा कठिनहृदये संवृतिरियम् ॥ प्रौढा धीराधीरानुकूला यथा'यत्पाणिर्न निवारितो निवसनग्रन्थि समुद्रन्थय
न्भ्रूभेदो न कृतो मनागपि मुहुर्यत्खण्ड्यमानेऽधरे । यन्निःशङ्कमिहार्पितं वपुरहो पत्युः समालिङ्गने
मानिन्या कथितोऽनुकूलविधिना तेनैव मन्युर्महान् ॥ . सैवोदासीना यथा-- 'आयस्ता कलहं पुरेव कुरुते न संसते वाससो
भन्मभूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे । अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने
तन्व्या शिक्षित एष संप्रति कुतः कोपप्रकारोऽपरः ।। १. 'चतुरया' स्यात्.
Page #318
--------------------------------------------------------------------------
________________
७ अध्यायः ]
प्रौढाधीरा संतर्जनेन यथा' तथाभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयानहमपि हताशा प्रियतमा । इदानीं त्वं नाथो वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥' सैव साघाता यथा—‘कोपात्कोमलबाहुलोल-' इति । परस्त्रीलक्षणमाह
i
काव्यानुशासनम् ।
परोढा परस्त्री कन्या च ।
परेणोढा परस्य स्त्री परस्त्री । सा च नाङ्गिनि रसे उपकारिणीति नास्याः प्रपञ्चः कृतः । ऊढेत्युपलक्षणम् । अवरुद्धापि परस्त्रीत्युच्यते । परोढा यथा - 'दृष्टि हे प्रतिवेशिनि-' इति । कन्या तु पित्राद्यायत्तत्वादनूढापि परस्त्री । यथा'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुलयोः शोभां नवामीहते । नो धत्ते गुरुतां तथाप्युपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥' सामान्यां लक्षयति
गणिका सामान्या ।
कलाप्रागल्भ्यधौर्त्याभ्यां गणयति कलयति गणिका सामान्या सगुणस्य निर्गुणस्य च साधारणी केवलधनलोभालम्बनेन कृत्रिमप्रेमत्वात् । यथा'गाढालिङ्गनपीडितस्तनतटं खिद्यत्कपोलस्थलं
'संदष्टाधरमुक्तसीत्कृत लसद्भूभ्रान्तनृत्यत्करम् । चाटुप्रायवचोविचित्रभणितं घातैरुतैश्चाङ्कितं
-
३०५
·
वेशानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ||'
खपरस्त्रीणामवस्था आहस्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वास
१. 'कुचयोः' स्यात्. ३९
Page #319
--------------------------------------------------------------------------
________________
३०६
! काव्यमाला |
कसज्जा विरहोत्कण्ठिता विमलब्धा अभिसारिका चेति स्वस्त्री
णामष्टावस्थाः ।
रतिगुणाकृष्टत्वेन पार्श्वस्थितत्वात्स्वाधीन आयत्तः पतिर्यस्याः सा
तथा । यथा
'सालोए चिय सूरे घरिणी घरसामियस्स घित्तूण | च्छन्तस्स ये चलणे धुयइ हसन्ती हसन्तस्स ||' इति । कार्याय प्रोषितो देशान्तरं गतो भर्ता यस्याः सा तथा । यथा-' श्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रार्पणं
नेदं न कृतं प्रियस्य विरहे कस्यासवो निर्गताः । सख्येवं यदि नास्मि तेन कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥' . वनितान्तरव्यासङ्गादनागते प्रिये दुःखसंतप्ता खण्डिता । यथा'नवनखपदमङ्कं गोपयस्यंशुकेन
स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प
नवपरिमलगन्धः केन शक्यो वरीतुम् ॥'
ईर्ष्याकलहेन निष्क्रान्तभर्तृकत्वात्तत्संगमसुखेनान्तरिता कलहान्त
रिता । यथा
१.
'निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मूल्यते निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥
'सालोके एव सूर्ये गृहिणी गृहस्वामिकस्य गृहीत्वा । अनिच्छतश्च चरणे धावति हसन्ती हसतः ॥' [इति च्छाया. ] २. ‘वि पाए' इति पाठे 'अपि पादौ ' इत्यर्थः. ३. 'नक्तंदिवं ' स्यात्.'
Page #320
--------------------------------------------------------------------------
________________
७ अध्यायः] . काव्यानुशासनम् ।
३०७ 'परिपाट्यां फलार्थे वा नवे प्रसव एवं वा । दुःखे चैव प्रमोदे च षडेते वासकाः स्मृताः ॥ उचिते वासके स्त्रीणामृतुकाले तु वा बुधैः ।
द्वेष्याणामथ वेष्टानां कर्तव्यमुपसर्पणम् ॥ इति नयेन वासके रतिसंभोगलालसतयाङ्गरागादिना सज्जा प्रगुणा वासकसज्जा । यथा
'तल्पकल्पनविधेरनन्तरं भर्तृमार्गमवलोकते मुहुः ।
दर्पणेक्षणमुदीक्षते वपुर्हर्षभूषणमनिन्द्यभूषणा ।' प्रियमन्या चिरयति भर्तरि विरहोत्कण्ठिता । यथा'अन्यत्र बजतीति का खलु कथा नाप्यस्य ताइक्सुहृ
द्यो मां नेच्छति नागतश्च स हहा कोऽयं विधेः प्रक्रमः । इत्यल्पेतरकल्पनाकवलितखान्ता निशान्तान्तरे ___ बाला वृत्तविवर्तनव्यतिकरा नामोति निद्रां निशि ॥' दूतीमुखेन वयं वा संकेतं कृत्वा केनापि कारणेन वञ्चिता विप्रलब्धा । यथा
प्रौढेति । संपूर्णेत्यर्थः । परिपाट्यामिति । परिपाटियथा कल्पितानुपूर्वी । अस्या एकेन दिनेन वारः अस्या द्वाभ्यामित्यादिः ॥ तदपवादमाह-फलार्थे इति । ऋताविति यावत् । नव इति । नवत्वे प्रसवे वृत्ते चिरविरहखिन्नां सुखयितुम् । दुःखे तदीयवन्धुव्यापत्त्यादौ दुःखिता आश्वसनीयेति । प्रमोद इति । तदीयपुत्रोत्सवादौ । । उत्सवो हि माननीय इत्युक्तम् । वासयन्ति तत्र स्थाने रात्रिमिति वासका रात्र्युचिताः कामोपचाराः। फलार्थ इत्यस्य हेतोः सत्त्वापवादकत्वं दर्शयितुं धर्मवृत्तिना राज्ञा परिपाया दुर्भगापि सेव्येति च निरूपयितुमाह-उचिते वासके इति । आर्तवकालो हि भूयानपि फलतः परिमितीभवति । यथोक्तम्-'ऋतुः षोडश तेऽत्राद्याश्चतस्रो दशमात्पराः । त्रयोदशी च निन्द्याः स्युरयुग्माः कन्यकोद्भवाः। षष्ठ्यष्टमी च दशमी द्वाभ्यां वर्णैश्च साधिका । युग्मा पुत्राय रात्रिः स्यात्' इति । तत्रापि नक्षत्रविशेषपरिवर्जनम् । पुत्रश्च
१. 'अनेककार्यव्यासङ्गाद्यस्या नागच्छति प्रियः । तस्यानुगमदुःखार्ता विरहोत्कण्ठिता भवेत् ॥' इति भरतसंवादात् ‘कार्यासक्या' इति भवेत्.
Page #321
--------------------------------------------------------------------------
________________
३०८
काव्यमाला। 'तत्संकेतगृहं प्रियेण कथितं संप्रेष्य दूतीं वयं .
तच्छून्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भन्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैरश्रुभि
भूमावक्षरमालिकेव लिखिता दीर्घ रुदत्या शनैः ॥ . . अभिसरत्यभिसारयति वा कामात कान्तमित्यभिसारिका । यथा--
'उरसि निहितस्तारो हारः कृता जघने घने ___ कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
यदि किमपरं त्रासोद्वान्ता दिशो मुहुरीक्षसे ॥ तथा. 'न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणमथैनमभिगम्य वदेरभिदूति कांचिदिति संदिदिशे ॥' अन्वर्थ एवासां लक्षणमित्याहत्य लक्षणं न कृतम् । अन्त्यव्यवस्था परस्त्री। परस्त्रियौ तु कन्योढे । संकेतात्पूर्व विरहोत्कण्ठिते, पश्चाद्विदूषकादिना सहाभिसरन्त्यावभिसारिके, कुतोऽपि कारणात्संकेतस्थानमप्राप्ते नायके विप्रलब्धे इति व्यवस्थतैवानयोरिति । .
नायिकानां प्रतिनायिकामाहईर्ष्याहेतुः सपत्नी प्रतिनायिका ।
यथा-रुक्मिण्याः सत्यभामा । दूत्यश्च नायिकानां लोकसिद्धा एवेति । नोक्ताः।
अथ स्त्रीणामलंकारानाहसत्त्वजा विंशतिः स्त्रीणामलंकाराः।
संवेदनरूपात्प्रसृतं यत्ततोऽन्यदेहधर्मत्वेनैव स्थितं सत्त्वम् । यदाह'देहात्मकं भवेत्सत्त्वम्' इति । ततो जाताः सत्त्वजाः राजसतामसशरीरेष्वसंभवात् । चाण्डालीनामपि हि रूपलावण्यसंपदो दृश्यन्ते न तु
Page #322
--------------------------------------------------------------------------
________________
, ७ अध्यायः] . काव्यानुशासनम् ।
३०९ चेष्टालंकारा इति । तासामपि वा भवन्तु । उत्तमतामेव सूचयन्ति । अलं. कारा देहमात्रनिष्ठा न तु चित्तवृत्तिरूपाः । ते यौवने उद्विक्ता दृश्यन्ते । बाल्येऽनुद्भिन्ना वार्धके तिरोभूताः । यद्यपि च ते पुरुषस्यापि सन्ति, तथापि योषितां न एवालंकारा इति तद्गतत्वेनैव वर्णिताः।
पुंसस्तूत्साहवृत्तान्त एव परोऽलंकारः । तथा च सर्वेष्वेव नायकभेदेषु धीरत्वमेव विशेषणतयोक्तम् । तदाच्छादितास्तु शृङ्गारादयो धीरललित इत्यादौ । __ अलंकाराश्च केचन क्रियात्मकाः केचिद्गुणखभावाः । क्रियात्मका: अपि केचन प्राग्जन्माभ्यस्तरतिभावमात्रेण सत्त्वोहद्धेन देहमाने सति भवति ते अङ्गजा इत्युच्यन्ते । अन्ये त्वद्यतनजन्मसमुचितविभाववशस्फुटीभवद्रतिभावानुविद्धे देहे परिस्फुरन्ति ते खाभाविकाः । स्वसादतिभावात हृदयगोचरीभूताद्भवन्तीति । तथाहि कस्याश्चिन्नायिकायाः कश्चिदेव खभावबलाद्भवति अन्यस्या अन्यः कस्याश्चिद्वौ त्रयः इत्याद्यतोऽपि खाभाविकाः । भावहावहेलास्तु सर्वा एव सर्वास्वेव सत्त्वाधिकासूत्तमाङ्गनासु भवन्ति । तथा शोभादयः सप्त । एवमङ्गजाः स्वाभाविकाः क्रियात्मानः । शोभादयस्तु गुणात्मानः ।
ते चायनजाः। याज्जाताः क्रियात्मकाः । इच्छातो यत्नतस्ततो देहे क्रियेति पदार्थविदः । ततोऽन्येऽयलजाः । तान्क्रमेण लक्षयन्तिभावहावहेलास्त्रयोऽङ्गजा अल्पभूयोविकारात्मकाः । यद्यपि
'देहात्मकं भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः ।
भावात्समुत्थितो हावो हावाद्धेला समुत्थिता ॥ इति भरतवचनाक्रमेणैतेषां हेतुभावः, तथापि परम्परया तीव्रतमसत्त्वस्याङ्गस्यैव करणत्वादङ्गजा इत्युक्ताः । एवं च परस्परसमुत्थितत्वेऽप्यमी१. 'भवन्ति' स्यात्.
Page #323
--------------------------------------------------------------------------
________________
३१० ___ काव्यमाला । षामङ्गजत्वमेव। तथा हि-कुमारीशरीरे प्रौढतरकुमार्यन्तरगतहेलावलोकने हावोद्भवो भावश्चेदुल्लासितपूर्वः। अन्यथानुभावस्यैवोद्भवः । एवं भावेऽपि दृष्टे हावो हेला वा । यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा हेलातोऽपि हेला । एवं हावात् हावः, भावाद्भाव इत्यपि , वाच्यम् । एवं परकीयभावादिस्मरणात्सरसकाव्यादेरपि हेलादीनां प्रयोगो भवतीति मन्तव्यम् । एतदन्योन्यसमुत्थितत्वं तत्राङ्गस्याल्पो विकारोऽन्तगंतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयन् सूचयन् भावः । यथा'दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा
श्रोत्रं प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि । . पुंसामेकमपेतशङ्कमधुना नारोहति प्राग्यथा
बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥' बहुविकारात्मा भूतारकचिबुकग्रीवादेर्धर्मः खचित्तवृत्तिं परत्र जुह्वती ददती कुमारी हावयतीति हावः । सा चाद्यापि स्वयं रतेः प्रबोधं न मन्यते केवलं तत्संस्कारबलात्तथा विकारान्करोति पैदृष्टा तथा कल्पयति । यथा
'स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः __ परिस्यन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलयति लीलापरिकरः
स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदृशः ॥' . . । यदा तु रतिवासनाप्रबोधात्तां प्रबुद्धां रतिमभिमन्यते केवलं समुचितविभावोपग्रहविरहान्निर्विषयतया स्फुटीभावं न प्रपद्यते तदा तज्जनितबहुतराङ्गविकारात्मा हेला हावस्य संबन्धिनी क्रिया प्रसरत्वावेगवाहित्वमित्यर्थः । वेगेन हि गच्छन् हेलतीत्युच्यते लोके इति । एवं चोद्भिद्योद्भिद्य विश्राम्यन् हावः । स एव प्रसरणैकखभावो हेलेति । यथा'कुरङ्गीवाङ्गानि-' इति ।
Page #324
--------------------------------------------------------------------------
________________
७ अध्यायः काव्यानुशासनम् ।
___ ३११ अत्र ह्यन्तर्गतिरतिप्रबोधमात्रमुक्तं न त्वभिलाषशृङ्गार इति मन्तव्यम् । तदेतद्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसद्मपीठबन्धत्वेन योषितामामनन्ति ।
लीलादयो दश स्वाभाविकाः। विशिष्टविभावलामे रतौ सविषयत्वेन स्फुटीभूतायां तदुपबृंहणकृता देहविकारा लीलाविलासविच्छित्तिविम्वोकविभ्रमकिलिकिंचितमोट्टायितकुट्टमितललितविहृतनामानः । एते च प्राप्तसंभोगेऽप्राप्तसंभोगे च भवन्ति । शोभादयश्च सप्त वक्ष्यमाणाः प्राप्तसंभोगतायामेव ।
लीलादीन् लक्षयतिवाग्वेषचेष्टितैः प्रियस्यानुकृतिीला। . प्रियगतानां वाग्वेषचेष्टानां प्रियबहुमानातिशयेन नत्वघट्टकरूपेणात्म-1 नियोजनमनुकृतिबला ।
यथा__ 'जं जं करेसि जं जं च जंपसे जह तुमं नियंसेसि ।
तं तमणुसिस्किरीए दियहो दियहो न संवडइ ॥' स्थानादीनां वैशिष्ट्यं विलासः । ___ स्थानमूर्धता । आदिशब्दादुपवेशनगमनहस्तभ्रनेत्रकर्मपरिग्रहः । तेषां वैशिष्ट्यं विलासः । यथा
'अत्रान्तरे किमपि वाग्विभवातिवृत्तं
वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः। तद्भरिसात्त्विकविकारविशेषरम्य
माचार्यकं विजयि मान्मथमाविरासीत् ॥ ! गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः । * सौभाग्यगर्वादनादरेण कृतो माल्याच्छादनभूषणविलेपनरूपस्याल्पस्याकल्पस्य न्यासः सौभाग्यमहिम्ना शोभाहेतुर्विच्छित्तिः । यथा१. 'यद्यत्करोषि यद्यच्च जल्पसे यथा त्वं नियमयसि ।
तत्तदनुस्खीकुर्वे दिवसो दिवसो न संवर्धते ॥' [इति च्छाया.]
Page #325
--------------------------------------------------------------------------
________________
३१२
काव्यमाला |
'त्रिहिपिच्छकण्णऊरा जाया वाहस्स गविरी भमइ । मुत्ताहलरइयपसाहणाण मज्झे सवत्तीणम् ॥'
इष्टेऽप्यवज्ञा विव्वोकः । सौभाग्यगर्वादिष्टेऽपि वस्तुन्यनादरो विव्वोकः । यथा'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा । शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥'
वागङ्गभूषणानां व्यत्यासो विभ्रमः । वचनेऽन्यथावक्तव्येऽन्यथाभाषणं हेस्तेवादातव्ये पादेनादानं रसनायाः
कण्ठे न्यासः । यथा
' चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्तिनितम्बबिम्बे च बबन्ध हारम् ॥' स्मितहसितरुदितभयरो पगर्व दुःखश्रमाभिलाषसंकरः किलिकिं
चितम् ।
सौभाग्यगर्वात्स्मितादीनां संकरः किलिकिंचितम् । यथा— ' रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्या वणितकलकण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदित
स्मितक्रुद्धोद्धान्तं पुनरपि विदध्यान्मयि सुखम् ॥'
प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । प्रियस्य कथायां दर्शने वा तद्भावभावनं तन्मयत्वं ततो योद्भूता चेष्टा लीलादिका सा मदनाङ्गपर्यन्ताङ्गपर्यन्ताङ्गमोटनान्मोट्टायितम् । यथा— 'स्मरदवथुनिमित्तं गूढमन्वेतुमस्याः
सुभग तव कथायां प्रस्तुतायां सखीभिः ।
१.
'शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलर चितप्रसाधनानां मध्ये सपत्नीनाम् ॥' [इति च्छाया. ] २. 'हस्तेना' स्यात्.
Page #326
--------------------------------------------------------------------------
________________
७ अध्यायः
काव्यानुशासनम् । हरति विनतपृष्ठोदग्रपीनस्तनाग्रा
___ नतवलयितबाहर्जम्भितैः साङ्गभङ्गैः ॥' अधरादिग्रहादुःखेऽपि हर्षः कुट्टमितम् ।
अधरस्तनकेशादीनां ग्रहणात् । प्रियतमेनेति शेषः । दुःखेऽपि हर्षः कुट्टमितम् । यथा'ईषन्मीलितलोललोचनयुगं व्यावर्तितभ्रूलतं
संदष्टाधरवेदनाप्रलपितं मा मेति मन्दाक्षरम् । तन्वङ्गायाः सुरतावसानसमये दृष्टं मया यन्मुखं
वेदार्दीकृतपाण्डुगण्डपुलकं तत्केन विस्मार्यते ॥' मसृणोऽङ्गन्यासो ललितम् ।
अङ्गानां हस्तपादभ्रूनेत्राधरादीनां मसृणः सुकुमारो विन्यासो ललितम् । यथा
'सभ्रभङ्गं करकिसलयावर्जनैरालपन्ती
सा पश्यन्ती ललितललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया खैरपातै
निःसंगीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥' कर्तव्यवशादायते एव हस्तादिकर्मणि यद्वैचित्र्यं स विलास - यत्र तु बाह्यव्यापारयोग एव न कश्चिदस्ति नादातव्यवुद्धिरथ च सुकुमारकरादिव्यापारणं तल्ललितम् । अन्ये तु 'लड विलासे' इति पाठं प्रमाणयन्तो विलासमेव सातिशयं ललितसंज्ञमाहुः ।
व्याजादेः प्राप्तकालस्याप्यवचनं विहृतम् । व्याजो मौग्ध्यादिप्रख्यापनाशयः । आदिग्रहणान्मौर्यलज्जादिपरिग्रहः । ततो भापणावसरेऽप्यभाषणं विहृतम् । यथा---
'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् । . . सा रजयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥
__ राज्ञां मुख्यं फलम् । यथाह-'प्रजायै गृहमेधिनाम्' इति ॥ अनेनेति । अलक्तकोपर
Page #327
--------------------------------------------------------------------------
________________
३१४
केचिद्वाल्यकौमारयौवनसाधारणविहारविशेषं क्रीडितम् । क्रीडितमेव च प्रियतमविषयं केलिं चालंकारावाहुः । यथा—
‘मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ 'व्यपोहितं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः । पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥' शोभादयः सप्तायत्नजाः । शोभाकान्तिदीप्तिमाधुर्यधैर्यौदार्य प्रागल्भ्यनामानः सप्तालंकारा अय
लजाः ।
काव्यमाला |
क्रमेण लक्षयति
रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीवाङ्गच्छाया शोभा कान्तिर्दीप्तिश्च ।
तान्येव रूपादीनि पुरुषेणोपभुज्यमानानि छायान्तरं श्रयन्तीति सा छाया मन्दमध्यतत्रत्वं क्रमेण संभोगपरिशीलनादाश्रयन्ती शोभा कान्तिदीप्तिश्च भवति । शोभा यथा
'कर किसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहुः पत्युर्नैत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुः ॥
-
कान्तिर्यथा
'उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीकेशमंसं वहन्त्याः ।
क्तस्य हि चन्द्रमसि परं भागलाभः । अनवरतपादपतनप्रसादनैर्विना न पत्युर्झटिति यथेष्टानुवर्तिन्या भाव्यमिति चोपदेशः । शिरोविधृता च या चन्द्रकला तामपि परिभवेति सपत्नीलोकविजय उक्तः ॥
इत्याचार्यश्री हेमचन्द्रविरचिते विवेके सप्तमोऽध्यायः ।
Page #328
--------------------------------------------------------------------------
________________
७ अध्यायः ]
काव्यानुशासनम् ।
भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गच नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥'
३१५
दीप्तिर्यथा
'आलोलामलकावली विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्बुनः शीकरैः । तन्व्या यत्सुरतान्तकान्तनयनं वक्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरस्कन्दादिभिर्दैवतैः ॥' चेष्टामसृणत्वं माधुर्यम् ।
ललितेषु व्रीडादिषु यथा मसृणत्वं चेष्टायास्तथा दीप्तेष्वपि क्रोधादिषु यत्तन्माधुर्यम् । यथा—
' कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
शिरस्याज्ञा न्यस्ता प्रतिवचनमत्यानतिमतिः । न दृष्टेः शैथिल्यं मिलितमिति चेतो दहति मे निगूढान्तः कोपा कठिनहृदये संवृतिरियम् ॥' अचापलाविकत्थनत्वे धैर्यम् । चापलानुपहतत्वमात्मगुणानाख्यानं च धैर्यम् । यथा'ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाध्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥' प्रश्रय औदार्यम् ।
अमर्ष्या क्रोधाद्यवस्थाखपि प्रश्रय औदार्यम् । यथा'भ्रूभङ्गे सहसोद्वतेऽपि वदनं नीतं परां नम्रता
मीषन्मां प्रतिभेदकारि हसितं नोक्तं वचो निष्ठुरम् । अन्तर्वाष्पजडीकृतं प्रभुतया चक्षुर्न विस्फारितं
क्रोधश्च प्रकटीकृतो दयितया मुक्तश्च न प्रश्रयः ॥'
Page #329
--------------------------------------------------------------------------
________________
३१६
प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् । प्रयोगे कामकलादौ । चातुःषष्ठि इत्यर्थः ।
यदाह
--
काव्यमाला |
'अन्यदा भूषणं पुंसः शमो लज्जेव योषितः । पराक्रमः परिभवे वैजात्यं सुरतेष्विव ॥' मनःक्षोभपूर्वकोऽङ्गसादः साध्वसं तदभावः प्रागल्भ्यम् । 'यथा -- 'आशु लङ्घितवतीष्टकरा - ' इति ।
अत्र शोभाकान्तिदीप्तयो बाह्यरूपादिगता एव विशेषा आवेगचापलामर्षत्रासानां त्वभाव एव माधुर्याद्या धर्मा न चित्तवृत्तिखभावा इति नैतेषु भावशङ्कावकाशः । शाक्याचार्य राहुलादयस्तु - मौग्ध्यमद्भाविकत्वपरितपनादीनप्यलंकारानाचक्षते । तेऽस्माभिर्भरतमतानुसारिभिरुपेक्षिताः ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्तौ नायकवर्णनः सप्तमोऽध्यायः समाप्तः ।
1
अष्टमोऽध्यायः ।
अथ प्रबन्धात्मकान्काव्यभेदानाह
काव्यं मेक्ष्यं श्रव्यं च ।
'नानृषिः कविः 'कवृ वर्णे' इति च दर्शनाद्वर्णनाच्च कविस्तस्य कर्म काव्यम् । एवं च दर्शने सत्यपि वर्णनाया अन्तर्भावादितिहासादीनां न काव्यत्वमिति तल्लक्षणं न वक्ष्यते ।
तथा चाह भट्टतोतः
-
‘नानृषिः कविरित्युक्तमृषिश्च किल दर्शनात् । विचित्रभावधर्माशतत्त्वंप्रख्या च दर्शनम् ॥ स तत्वदर्शनादेव शास्त्रेषु पठितः कविः । दर्शनाद्वर्णनाच्चाथ रूढा लोके कविश्रुतिः ॥ तथा हि दर्शने स्वच्छे नित्येऽप्यादिकवेर्मुनिः । नोदित कविता लोके यावज्जाता न वर्णना ||' इति प्रेक्ष्यमभिनेयम् ।
Page #330
--------------------------------------------------------------------------
________________
८ अध्यायः ]
काव्यानुशासनम् ।
३१७
प्रेक्ष्यं विभजतेप्रेक्ष्यं पाठ्यं गेयं च । तत्र पाठ्यं भिनत्ति -
पाठ्यं नाटकप्रकरणनाटिका समवकारेहामृगडिमव्यायोगोत्सृष्टि
काङ्कप्रहसनभाणवीथी सट्टकादि ।
तथा च नाटकादीनि वीथ्यन्तानि वाक्यार्थाभिनयखभावानि भरतमु - निनोपदर्शितानि । सट्टकश्च कैश्चिद्यथा
'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकम् । राजर्षिवंश्चरितं तथैव दिव्याश्रयोपेतम् ॥
प्रख्यातेति । प्रख्यातमितिहासाख्यानादि वस्तु विषयो यस्य । तत्र हि लोकस्य कथापरिचयादादरातिशयो भवति । यद्वा प्रकर्षेण ख्यातं वस्तु विष्टितं तथा विषयो मालवपञ्चालादिर्यस्मिन् । चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्त विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वैरस्याय भवति । वस्तुविषययोः प्रख्यातिमुक्ला तृतीयां प्रख्यातिमाह — प्रख्यातोदात्तेति । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्धतधीरोदात्ताश्चत्वारोऽपि गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशेन साधुनोचितं तथा प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिवाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशसाधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किं तु दिव्यानामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽङ्गीकरणं यत्र । तथाहि नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षात्करणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवं नाम देवताः प्रसीदन्ति । तस्माद्देवताराधनपुरःसरमुपायानुष्ठानं कार्यमिति ॥ ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्मान्न व्याख्यायते । व्याख्यायेत यद्येवं लक्षणेन नाटकेन कश्चिदर्थो व्युत्पाद्येत । न चैतदेवं दिव्यानां दिव्यप्रभावैश्वर्ययोगाद्दुरुपपादेष्वर्थेष्विच्छामात्रमेव प्रयत्नो नैव सिद्धौ व्याहन्यते । तस्माचरितं मत्यैर्वि'धातुमशक्यमिति नैवोपदेशयोग्यम् । तथा युक्तम्- 'देवानां मानसी सिद्धिर्गृहेषूपवनेषु श्च । क्रियायत्नाभिनिष्पन्नाः सर्वे भावा हि मानुषाः । तस्माद्देवकृतैर्भावैर्न विस्पर्धेत मानुषः ॥' इति । तस्मादिष्टानिष्टदैवमानुषकर्मोपपादितशुभाशुभफलभाजां मर्त्यानामेव समुपभोगविपत्प्रतिविधानमत्युत्पादकं चरितमाश्रित्य नाटकं निवन्धनीयमिति नृपतय एवं नाटकेपु युज्यन्ते । नायिका तु दिव्याप्यविरोधिनी । यथोवंशी । नायकचरितेनैव तद्वृ
Page #331
--------------------------------------------------------------------------
________________
३१८
काव्यमाला ।
नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ||' 'यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैत्र । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ यदनार्थमथाहार्यं काव्यं प्रकरोत्यभृतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ||
त्तस्याक्षेपात् । प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह-- नानाविभूतिभिर्युतमिति । धर्मार्थकाममोक्षविभावैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्राप्यर्थकामौ सर्वजनाभिलषणीयाविति तद्वाहुल्यं दर्शनीयमिति । ऋद्धिविलासादिभिरिति । ऋद्धिरर्थस्य राज्यादे: संपत्तिः । विलासेन कामो लक्ष्यते । आदिशब्दः प्रधानवाची | तत्प्रधानाभिः फलसंपत्तिभिर्युक्तमित्यर्थः । तेन राज्ञा सर्व राज्यं ब्राह्मणेभ्यो दत्त्वा वानप्रस्थं गृहीतमित्येवंप्रायं फलं नोपनिबद्धव्यम् । धर्ममोक्षवहुलमिति । दृष्टसुखार्थी हि वाहुल्येन लोक इति तत्रास्य प्रतीतिर्विरसी भवेत् । गुणैरिति || अप्रधानभूतानि यानि चेष्टितानि हेयानि प्रतिनायकगतागतान्यपनयप्रधानानि तैर्युक्तम् । तेषां पूर्वपक्षस्थानीयानां प्रतिक्षेपेण सिद्धान्तकल्पस्य नायकचरितस्य निर्वाहात् जनकोशादिसंपत्तिर्ऋद्धिः । कौमुदीमहोत्सवादयो विलासाः । संधिविग्रहादयो गुणा इति चाणक्यपरिया(?)वेदनमात्रफलम् । वस्तुशब्देन राजर्षिवंश्यचरितशब्देन च सर्वस्याप्यर्थस्य राशेः संग्रहात् । अवान्तरवस्तुसमाप्तौ विश्रान्ताय ये विच्छेदा अङ्कास्तैः पञ्चाद्यैर्दशाधरैः ये च निमित्तबलादप्रत्यक्षदृष्टानां चेष्टितानामावेदकाः प्रवेशकास्तैश्वाढ्यं तन्नाटकं नाम रूपकम् ॥ आत्मशक्त्येति | इतिहासादिप्रसिद्धिं निरस्यति। वस्त्विति । साध्यं फलम् । शरीरमिति । तदुपायम् । नायक' मिति । साधयितारम् । चकारः पूर्वसमुच्चये । द्वितीयस्त्वसमग्रसमुच्चये । एवकारः समुन्चयाभावे । उत्पत्तौ भवमौत्पत्तिकं निर्मितम् । तदयमर्थः -- त्रितयमपि यत्र विकृतं द्वयमेकं वा, अन्यत्तु पूर्वोपनिबद्धं तत्सर्व प्रकरणम् । भेदसप्तकमयम् । वस्त्वादिकं का व्याभिधेयमात्मशक्त्या प्रकुरुते यत्र काव्ये तत्प्रकरणमिति बुधैर्ज्ञेयमिति संवन्धः ॥ यत्र सर्वमुत्पाद्यं भवति तत्र योऽनुत्पाद्योंऽशः स कुत्रस्थो ग्राह्य इति दर्शयितुमाह-यदनार्षमिति । पुराणादिव्यतिरिक्तवृहत्कथाद्युपनिबद्धं मूलदेवतच्चरितादि ॥ आहार्यमिति । पूर्वकविकाव्याद्वाहरणीयं समुद्रदत्ततश्चेष्टितादि ॥ ननु च तत्रांशे कविकृतत्वाभावात्कथं प्रकरणवाचोयुक्तिरित्याह-उत्पन्नेति । पूर्वसिद्धे बीजं वस्तु च यत्र तादृशमपि तद्यदिति यस्मादभूतैर्वृहत्कथादौ काव्यान्तरे वा प्रसिद्धैर्गुणैर्युक्तं प्रकरोति तदिति तस्माद्धेतोरेतदपि प्रकरणम् । तेन बृहत्कथादिसिद्धस्य मूलदेवादेरधिकावापं कविशक्तिर्यदा विधत्ते
१. 'कुरुते प्रभुत' भरते.
Page #332
--------------------------------------------------------------------------
________________
३१९
८ अध्यायः काव्यानुशासनम् ।
यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिषु तु ॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैकविध तज्ज्ञेयं प्रकरणं नाम ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभोगः । बाह्यजनसंप्रयुक्तं तज्ज्ञेयं प्रकरणं नाम ॥ दासविटश्रेष्ठियुतं वेशख्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्ये कार्य प्रकरणे तु ॥'
तकविः प्रकरणं कुर्यादिति ताहव्यन्नाटके इति । भागम् ॥ वृत्तिभेदा
तदा प्रकरणम् । एवं पूर्वकविसमुत्प्रेक्षितसमुद्रदत्तचेष्टितादिवर्णनेऽप्यधिकावापं विदधत्कविः प्रकरणं कुर्यादिति तात्पर्यम् ॥ नन्वस्येतिवृत्तस्य कथं योजनेत्याशङ्कय पूर्वोक्तमेवातिदेशद्वारेण स्मारयितुमाह-यन्नाटके इति । 'नानाविभूतिभिर्युतमृद्धिविलासादिभिः' इत्यादिना यत्फलचयमुक्तं तद्वस्तुशरीरमित्यङ्कप्रवेशकाद्यम् ॥ वृत्तिभेदाश्चेति । नानारसभावचेष्टितैर्वहुधा सुखदुःखोत्पत्तिकृतमिति ॥ सलक्षणमिति । लक्षणमङ्कपरिमाणम् । अङ्कान्तरसंनिधानहेतुषु च प्रवेशकेषु यत्प्रयोज्यमुक्तं दिवसावसानकार्य यद्यकेनोपपद्यत इत्यादि तत्सर्व प्रकरणेऽपि योज्यम् ॥ अतिदेशायातमतिप्रसङ्गं वारयत्यार्याद्वयेन-विप्रेत्यादि । अमात्योऽधिकृतः । सार्थवाहो दिगन्तरात्पण्यानामाहर्ता । तद्देशक्रयविक्रयकृतो वणिजोऽन्य एव । नेकविधमित्यनेकरसयुक्त इति । तदितिदेशमात्रमिति सूचितं प्रख्यातोदात्तेत्यतिप्रसक्तं निषेधति । तनिषेधे चार्थानाटकवैपरीत्यमायातम् । नाटके च देवो नायकत्वेन निषिद्ध इति प्रकरणे कर्तव्यत्वेनापाद्यत इत्यत आह-न दिव्यचरितमिति । तथा दिव्याश्रयमिति यदतिदेशाद्देवानामुपायत्वेन प्रयोज्यत्वं प्रसक्तम् , तदप्यनेन निषिद्धम् । नाटके देवानामिवेहापि राज्ञः प्रवेशं शङ्कमानो निराकरोति-नराजसंभोग इति । यदि वात्रौत्पत्तिकत्वेऽपि न राजोचितसंभोगोत्प्रेक्षा विप्रादिषु करणीयेत्यनेन शिक्षयति । अत एव राजनि य उचितोऽन्तःपुरजनःकञ्चकिप्रभृतिस्तव्यतिरिक्तो वाह्यजंनोऽत्र चेटदासादिः प्रवेशकादौ कार्य इत्यर्थः । एतदेव दर्शयति-दासविटेति। कञ्चकिस्थाने दासः, विदूषकस्थाने विटः, अमात्यस्थाने श्रेष्ठीत्यर्थः । वेश्यावाटो वेशस्तत्र या स्त्री तस्या उपचारो वैशिके प्रसिद्धः स कारणं यस्य शृङ्गारस्य तेनोपेतम् । कुलस्त्रीविषयं चेष्टि
१. 'कार्य केवलमुत्पाद्यवस्तु स्यात्' भरतैकपुस्तके.
१. 'तदतिदेशमात्र' स्यात्. २. 'नोदात्तनायकेति' इति प्रतीकं त्रुटितं भवेत्.
Page #333
--------------------------------------------------------------------------
________________
३२०
काव्यमाला |
'प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या ॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुगीतनृत्यवाद्या रतिसंभोगात्मिका चैव ॥
राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूतीस परिजना नाटिका ज्ञेया ॥'
समवकारस्तु
'देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशृङ्गारः । द्वादशनायकबहुलो ह्यष्टादशनालिकाप्रमाणश्च ' ॥ इति |
तम् । प्रकरणेति । बहुषु प्रकरणभेदेषु नाटकभेदेषु च स्त्रीप्राप्तिफलात्संभोगशृङ्गारप्रायात् कैशिकी प्रधानाच्च प्रकरणभेदान्नाटकभेदाच्च नाटिका ज्ञेयेति दूरेण संवन्धः ॥ उत्पाद्यं वस्तुचरितं नायकं च नृपतिमन्तःपुरकन्यां संगीतकशालाकन्यां वाधिकृत्य प्राप्यत्वेनाभिसंधाय कर्तव्या च। तेन स्त्रीप्राप्तिः संभोगशृङ्गारोऽभ्यन्तरः कैशिकी च वृत्तिः । तथावस्थासंध्यङ्गार्थ प्रकृतिपताकाप्रकरीयताकास्थानाविष्कम्भकप्रवेशकादीन्युभयभेदसाधारणानि नाटिकायां प्रयोज्यानि । यदपि किंचित्साधारणं तदपि योज्यते । अतश्च 'उत्पाद्यं वस्तु' इति प्रकरणधर्मः । ‘नायकं नृपतिम्' इति नाटकधर्मः । ' अन्तःपुरसंगीतककन्याम्' इति कन्यायोगे ईर्ष्याविप्रलम्भश्च नाटकधर्म एव ।। अथास्य विशेषलक्षणमाह-- स्त्रीप्रायेति । स्त्रियः प्रायेण बाहुल्येन यत्र । चत्वारोऽङ्का यस्याम् । कस्याश्चिदवस्थायाः सरसेऽवस्थान्तरे समावापः कर्तव्य इति यावत् । सुष्ठु पूर्णतया विहितानि चत्वार्यप कैशिक्यङ्गानि यत्र । एतेन स्त्रीप्रायेति ललितेति बहुनृत्येति च कैशिकीं वृत्तिं बाहुल्येन दर्शयति । रतिपुरःसरः संभोगो राज्यप्राप्त्यादिलक्षण आत्मा प्रधानभूतं फलं यस्याम् । अत एवाह – राजगतैरुपचारैर्व्यवहारैर्युक्ता । अन्यां चेदुद्दिश्य तत्र व्यवहारस्तदा पूर्वनायिकागतैः क्रोधप्रसादनवञ्चनैरवश्यं भाव्यमिति दर्शयति - प्रसादनेति । आर्यानुरोधात्कोधस्य पश्चात्पाठः । ननु यस्याः क्रोधो भवति सा न कदाचिदुक्तेत्याशङ्कयाह — नाय - केति । नायकस्य येयं देवी आद्यनायिका तथाभिलषितनायकान्तरविषया येयं दूती तत्कृतं सपरिजनं परिजनसमृद्धिर्यस्याम् ॥ देवासुरेति । देवासुरस्य यद्वीजं फलसंपादनोपायस्तेन कृतो विरचितः । देवासुरा अपि वा प्रख्याता वृहत्कथादौ श्रूयन्ते स्वयं वा केनचिदूह्यन्त इति तन्निरासार्थं प्रख्यातपदम् । यद्यपि देवाः पुरुषापेक्षया दूतास्तथापि स्त्रापेक्षया गाम्भीर्यप्रधानतयोदात्ता उच्यन्ते भगवत्रिपुररिपुप्रभृतयः, प्रशान्ता ब्रह्मादयः, उद्धता नृसिंहादयः । अर्थत्रयस्य तावत्येव समापन्ना (?) त्र्यङ्क इत्युक्तम् । कपटो वञ्चना
Page #334
--------------------------------------------------------------------------
________________
८ अध्यायः ]
काव्यानुशासनम् ।
'दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥ उद्धतपुरुषप्रायस्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः संस्फोटकृतस्तथा चैव ॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥
।
३२१
मिथ्याकल्पितः सत्यानुकारी प्रपञ्च इत्यर्थः । स त्रिधा --यत्रानपराद्ध एव वञ्चकेन वयते ' स एकः । यत्र तु वञ्चनीयोऽपि सापराधः स द्वितीयः । यत्र तु द्वयोरपि न कश्चिदभिसंधिदोषः काकतालीयेन तुल्यफलाभिसंधानवतोरप्येक उपचयेनापरस्त्वपचयेन युज्यते स देवकृतस्तृतीयः । चेतनकृतमन्यकृतमुभयकृतं वा यदनर्थात्मकं वस्तु यतो विद्रवन्ति जनाः स विद्रव इति । तत्र चेतनं गजेन्द्रादि । अचेतनं जलवाद्यादि । उभयं नगरो -
१
परोधादिति । तस्य युद्धाग्निदानादिसंपाद्यत्वात् । शृङ्गारस्त्रिधा — धर्मार्थकामभेदात् । धर्मो यत्र हेतुः साध्यो वा नायिकालाभे स धर्मशृङ्गारः । एवमर्धकामंयोर्वाच्यम् । अथ नाय - कयोगं कार्यनिष्पत्तिकालविभागं चाह - द्वादशेति । द्वादशनायकबहुलमिति प्रत्येकमिति केचित् । अन्ये तु प्रत्यङ्कं नायकप्रतिनायकौ तत्सहायौ चेति । चतुर आह— समुदायापेक्षया हि द्वादशेति । बहुलग्रहणान्यूनाधिकत्वेऽप्यदोषः । अष्टादशेति । अष्टादशनालिकमेव तत्र कार्यं निबन्धनीयमित्यर्थः ॥ दिव्येति । दिव्यानां पुरुषाणां च यदाश्रयणं नायकतया तेन कृतः । दिव्यस्त्रीनिमित्तमुपगतं युद्धं यत्र । दिव्यानुप्रवेशात्समवकारवदसंवद्धार्थता मा प्रसासीदित्याह - सुविहितेन संश्लिष्टेन वस्तुंना निवद्धः विगतानि प्रत्ययकारणानि विश्वासहेतवो यत्र । मध्ये चात्र दिव्यानामपि प्रवेशो भवतीति दर्शयति । उद्धतेति । उद्धता उद्वृत्ताः पुरुषाः प्रायेणं यत्र स्त्रीनिमित्तको रोषः । संक्षोभ आवेगः । विद्रवो व्याख्यातः । संस्फोटो विरोधिनां विद्याविक्रमसंघर्षजो व्यासङ्गः । तथेत्युक्तसादृश्यार्थः । चः समुच्चये । एवशब्दोऽधारणे । एतल्लक्षणयुक्त एवेत्यर्थः । स्त्रीनिमित्तं भेदनापहरणावमर्दनानि यथायोगं स्त्रीविषयाण्यन्यविषयाणि वा तैः प्राप्तं वस्त्वधिष्ठानं प्रमदालक्षणं यस्य तादृशः शृङ्गारो यस्मिन् । भेदसामदानादिना अवमर्दनं दण्डः । ईहा चेष्टा मृगस्येव स्त्रीमात्रार्था यत्र । सुसमाहितकाव्यवन्ध इत्यनेन वीथ्यङ्गानि अन्न योज्यानीति । अङ्कपरिमाणं नायकसंख्यं वृत्तिरसविभागं च व्यायोगातिदेशेनाह
१. 'प्रहितो' भरते. २. 'चतुरङ्कविभूषितश्चैव' भरतैकपुस्तके.
१. 'दीति' स्यात्.
४१
Page #335
--------------------------------------------------------------------------
________________
३२२.
काव्यमाला।
ययायोगे कार्य ये पुरुषावृत्तयो रसाश्चैव । ईहामृगेऽपि तत्स्यात्केवलमत्र स्त्रिया योगः ॥ : 'प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । । षडूसलक्षणयुक्तश्चतुरको वै डिमः कार्यः ॥ शृङ्गारहास्यवर्ज शेषैरन्यै रसैः समायुक्तः । दीप्तरसकाव्ययोनि नाभावोपसंपन्नः ।। निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसंस्फोटकृतश्च विज्ञेयः ॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ . षोडशनायकबहुलः सात्वत्यारभटिवृत्तिसंपन्नः । कार्यों डिमः प्रयत्नान्नानाश्रयभावसंपन्नः ।।
यदिति । कार्यशब्देनाङ्क उच्यते । तेन एक एवाङ्कः । नायकास्तु द्वादश समवकारातिदेशेन व्यायोगे तल्लाभात् । अत्र तु समवकारातिदेशेन सर्वासंपत्तेौरवं स्यात् ॥ प्रख्यातेति । षड्सा यस्मिन् तल्लक्षणं षड्रसं तेन युक्तः । नाटकतुल्यं सर्वमन्यत्केवलं संधीनां रसानां च समग्रतात्र शृङ्गारहास्यवर्ज षड्सत्वे उक्ते पर्यायेण शान्तस्य प्रयोगः स्यादित्याह-दीप्तरसेति । दीप्ता. रसा वीररौद्रादयस्ते काव्ययोनियंत्र । नानाविधाभावा व्यभिचारिणः । आधर्षणं वलात्काररूपः पराभवः । माया शब्दरूपादीनामन्यथापादमसतां वा प्रकाशनम् । पुस्तं लेप्यं किलिञ्जचर्मवस्त्रकाष्ठकृतानि रूपाणि, । देवादयो वाहुल्येनात्र । वहुलग्रहणं व्यभिचारार्थम् । तेन न्यूनाधिका अपि नायकाः प्रयोज्याः । सात्वती चारभटी चेति 'द्वन्द्वेऽप्राणिपश्वादेः' इत्येकवद्भावो 'द्वन्द्वैकला-. व्ययीभावौ' इति नपुंसकलिङ्गता च । वृत्तिसमुदाये च वर्तमानेन वृत्तिशब्देन कर्मधारयः । तया संपन्नः । डिमो डिम्बो विद्रव इति पर्यायास्तद्योगादयं डिमः ॥ नानाश्रयभावसंपन्न इति । नानेत्येकस्यान्योऽपरस्यान्य इति नानारूप आश्रयो येषां ते नानाश्रया भावास्तैः संपन्नः । वहूनां नायकानां विभागेन हि भावा व्यवतिष्ठन्ते । अत एवेति वृत्त
१. 'नम् , असतां' स्यात्.
Page #336
--------------------------------------------------------------------------
________________
८ अध्यायः
काव्यानुशासनम् ।
३२३
'व्यायामस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः ।
अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्षणसंघर्षकृतश्च कर्तव्यः ।। एवंविधस्तु कार्यों व्यायोगो दीप्तकाव्यरसयोनिः ॥' 'वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टिकाङ्कस्यः । प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुर्वियुक्तः शेषैरन्यैर्भवेत्पुंभिः ॥
करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च । वैचित्र्यमानोपदिशन्ति । व्यायोगस्त्विति । व्यायोगः पुनर्डिमस्यैव शेषभूतो दिव्यनायकाभावात् केवलमत्रोदात्तस्य राजादेन नायकता, अपि समात्यसेनापतिप्रभृतेर्दीप्तरसस्य । अत एव प्रख्यातनायकेल्यत्र उदात्तग्रहणं न कृतम् । शरीरमितिवृत्तम् । प्रख्यातो नायकः शरीरं च यत्र स तथा । अल्पश्च स्त्रीजनश्च तेन युक्तः । चेट्यादिना न तु नायिकादूत्यादिभिः कौशिकीहीनखात् । एकाहःकृत इति । एकदिवसनिर्वयं यत्कार्य तत्कृतम् ॥ यथा समवकार इति । द्वादशेत्यर्थः । तावदङ्कपरिमाणाशङ्कामिति देशात्प्रत्यासत्त्या वा प्रसक्तां वारयितुमाह-एकाङ्क एवेति । एवकारेण एकाहचरितविषयखान्यायप्राप्तमेवात्रैकाङ्कलमित्याह-ननु प्रख्यातनायकशब्देन किमत्र गृहीतमित्यतिप्रसङ्गं शमयति-न चेति । चो भिन्नक्रमः । दिव्यैर्देवैर्नृपैर्ऋषिभिश्च नायकैर्न निबद्धोऽयं भवतीत्यर्थः । ननु कस्मादयं व्यायोग इत्याह युद्धनियुद्धति । व्यायोगे युद्धनियुद्धप्राये युज्यन्ते पुरुषा यत्रेति-व्यायोग इत्यर्थः । संघर्षः शौर्यविद्याकुलधनरूपादिकृता स्पर्धा । दीप्तं काव्यमोजोगुणयुक्तम्, दीप्ता रसा वीररौद्राद्याः, तदुभयं योनिः कारणमस्य । प्रख्यातेति । प्रख्याते भारतादियुद्धे विषये निमित्ते सति यत्तत्करुणबहुलं चेष्टितं वर्ण्यते तत्ख्यातम् । श्रीपर्ववृत्तान्तवद्भवतु मा वा भूदित्यप्रख्यातग्रहणेनोक्तम् । तेनोभयोपादानस्य परस्परविरुद्धार्थत्वादकिंचित्करलं नाशङ्कनीयम् । दिव्यपुरुषैर्वियुक्त इति । दुःखात्मकत्वात् । शेषैरन्यैरिति । अर्थापत्तिफलम् । करुणो रसः प्रायो यत्रेति काव्यशरीरमुच्यते । तत्र कृतः । निवृत्तयुद्धा उद्धतप्रहाराः पुरुषा यस्मिन् । परिदेवितं १..'व्यायोगस्तु' भरते विवेके च. १. सविसर्गपाठः प्रामादिकः. २. 'मतिदेशा' स्यात्.
Page #337
--------------------------------------------------------------------------
________________
३२४
काव्यमाला ।
स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ नानाव्याकुलचेष्टः सात्वत्यारभटिकैशिकीहीनम् । कार्यः काव्यविधिज्ञैः सततं द्युत्सृष्टिकाङ्कस्तु ॥' 'प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा च संकीर्णम् । वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षणविशेषम् ॥ भगवत्तापस विप्रैरन्यैरपि हासवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषणप्रायम् ॥ अधिकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ वेश्याचेटनपुंसक विटधूर्ता बन्धकी च यत्र स्युः । अनियतवेषपरिच्छदचेष्टितकरणं च संकीर्णम् !' 'आत्मानुभूतशंसी परसंशयवर्णनाप्रयुक्तश्च ।
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥
देवोपालम्भात्मनिन्दादिरूपमनुशोचनं यत्र । निर्वेदितानि येषु श्रुतेषु निर्वेदो जायते तादृशि भाषितानि यत्र । व्याकुलाश्चेष्टा भूमिनिपातविवर्तिताद्याः । सात्वत्यारभरिकैशिकीहीनमिति । समाहारद्वन्द्वगर्भद्वन्द्वान्तरगर्भस्तृतीयासमासः । उत्क्रमणोन्मुखा दृष्टिजीवितं प्राणा यासां ता उत्सृष्टिकाः शोचन्त्यः स्त्रियस्ताभिरङ्कित इति तथोक्तः ॥ प्रहसनमपीति । अपिशब्दो भिन्नक्रमः । तथेति । सामान्ये लक्षणम् । तदयमर्थः । द्विविधमपि ग्रहसनरूपं हास्यरसप्रधानमित्यर्थः । लक्षणविशेषं विशेषलक्षणम् । भगवत्तापसविप्रा यतिवानप्रस्थगृहस्थाः । अन्ये शाक्तादयस्तैरुपलक्षितं हास्यप्रधानवचनसंबद्धं शीला - दिना कुत्सितैः पुरुषैः अत एव प्रहस्यमानैः सामर्थ्यात्तैरेव भगवदादिभिर्युक्तम् । तथापि च भाषाचारौ यत्र न विकृतावसत्याश्लीलरूपौ तथा विशेषेण भावैर्व्यभिचारिभिरुपपन्नानि पदानि कथाखण्डानि यस्मिन् । नियतगति एकप्रकारं यद्वस्तु तद्विषयः प्रहसनीय - लक्षणोऽर्थो यत्र तच्छुद्धं प्रहसनम् । अत्र निर्वचनं यतः परिहासप्रधानान्याभाषणान्यत्र वाहुल्येन भवन्ति । तेन यत्रैकस्यैव कस्यचिचरितं दुष्टत्वात्प्राधान्येन प्रहस्यते तच्छुद्धमित्यर्थः । यत्र तु वेश्यादिभिर्योगोऽत्युल्बणं वा कल्पादि तदेकद्वारेणानेकवेदयादिचरितेन हसनीयेन संकीर्णत्वात्संकीर्णम् । आत्मानुभूतशंसीति । एकेन पात्रेण हरणीयः सामाजिकहृदयं प्रापयितव्योऽर्थो यत्र स भाणः । एकमुखेनैव भण्यन्ते उक्तिमन्तः क्रियन्ते अप्रविष्टा अपि पात्रविशेषा यत्रेति स भाणः । तत्र स प्रविष्टपात्रविशेष आत्मा
1
१. 'सृष्टि' स्यात्.
Page #338
--------------------------------------------------------------------------
________________
-
८ अध्यायः ]
काव्यानुशासनम् ।
परवचनमात्मसंस्थैः प्रतिवचनैरुत्तरोत्तरग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयेच्च ॥ धूर्तविटसंप्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥' 'सर्वरसंलक्षणाढ्या युक्ता ह्यङ्गैस्तथा त्रयोदशभिः । art स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥' 'विष्कम्भकप्रवेशकरहितो वस्त्वेकभाषया भवति ।
अप्राकृतसंस्कृतया स सट्टको नाटिकाप्रतिमः ॥' इति । आदिशब्दात्कोलाहलादिलक्षितास्तोटकादयो ग्राह्याः ।
३२५
1
नुभूतं वा शंसति परगतं वा वर्णयति । तत्र च प्रयोगयुक्तिमाह – परवचनमिति । परसंबन्धि वचनं स्वयमङ्गविकारैरभिनयेत् । (आहो) आकाशे यानि पुरुषकथितानि दृष्टान यंत्र ह्यन्ये तं पश्यन्त्येकंश्च पश्यत्याकर्णयति च तत्र तद्वचनं स एवानुवदन् सामाजिकान्वोधयति । यथा रामाभ्युदये- 'तापसः - ( आकाशे 1) भावाद्वलेत्कावकाशे (?) रामभद्रस्तिष्ठति । किं ब्रवीषि । तेऽस्या एव पथिकजनमनोहारिण्याः पुष्करिण्याः परिसरे सीतया लक्ष्मणेन च सह न्यग्रोधच्छायायां सुखोपविष्टस्तिष्ठति ।' इति । न केवलं परवचनमभिनयेत् । किं तु प्रतिवचनैः खोक्तैः सह । अत एवोत्तरोत्तरग्रथितैर्योजनाभिरुपलक्षितैः । ननु योऽसावेकोऽत्र प्रविशति स क इत्याह- धूर्तेति । नानाप्रकारावस्थाविशेषाः लोकोपयोगिव्यवहारात्मका आत्मा वाच्यं यस्य । अत एव बहुचेष्टः सततं कार्यं इति । सकलसामान्यपृथग्जनोपयोग्यत्र लोकव्यवहारो वेश्याविटादिवृत्तान्तात्मा निरूप्यत इति । बाहुल्येन पृथग्जनव्युत्पत्त्युपयोगिरूपकमिदम् । राजपुत्रादीनामपि शंभलावृत्तान्तो ज्ञेय एवावञ्चनार्थमिति स प्रयोज्य इत्यर्थः । सर्वरसेति । सर्वै रसैः शृङ्गारादिभिर्लक्षणैश्च विभूषणादिभिः षट्त्रिंशता तत्साहचर्याद्गुणालंकारादिभिरपि सर्वैराढ्या । तदुपरि चान्नैस्त्रयोदशभिर्युक्ता तथाशब्दादुक्तप्रकारव्यतिरिक्तवक्रोक्त्यन्तरसहस्रसंकुलापीत्यर्थः । एकाङ्केति । इतिवृत्तसंक्षेपमस्यां दर्शयति – एकहार्येति । आकाशपुरुषभाषितैरित्यर्थः । द्विहायैति । उक्तिप्रत्युक्तिवैचित्र्येणेत्यर्थः ॥ पुमर्थोपयोगश्चामीषां प्रदर्श्यते । तथा हि-नाटके धर्मकामानामन्यतमस्यः गुणीभूतेतरार्थद्वयवृत्तेरीधनं राज्ञां वृत्तं नाट्ये साक्षादिव पश्यन्त उपादेयतया ' १. प्रमादपतितं भवेत्. २. ' तस्या' स्यात्. ३ 'धर्मार्थकामाना' स्यात्. ४. 'राराधनं' स्यात्.
-
Page #339
--------------------------------------------------------------------------
________________
३२६
काव्यमाला। प्रतिपद्यन्ते । तत्रापि धर्माराधने दानतपोयोगरूपमनुष्ठानं यशस्करं दृष्टफलमामुष्मिकफलं च व्युत्पाद्यते । अर्थाराधने तु शत्रूच्छेदपुरःसरा यशोवतंसा लाभपालनसमेधनफलविनियोगपर्यन्ता कपटातिसंधानबहुला संधिविग्रहात्मिका राजवृत्तिव्युत्पाद्यते । कामाराधने चानुपजातसंभोगासु च दिव्यासु कुलजासु कृतशौचासु च स्वाधीनपतिकादिषु अष्टासु परस्परावलोकनादि, दिवा संभोगो रात्रौ वा सोपचार इत्याभ्यन्तरः कामोपभोगो राज्ञस्तासां च राजनि व्युत्पाद्यते । तथा राज्ञामभ्यन्तरोपभोगे महादेवी देवी खामिनी स्थापिता भोगिनी शिल्पकारिका नाटकीया नर्तकी अनुचारिकापचारिका प्रेषणकारिका महत्तरा प्रतीहारी कुमारी स्थविरा युक्तिकासु यथोचिता राज्ञो वृत्तिस्तासां च यथाखं राजनिवृत्तिः। तथा स्थापत्यकञ्चुकिवर्षवरोपस्थायिकनिर्मुण्डादीनामन्तर्भवनकक्षासंचारः । तथा युवराजसेनापतिमन्त्रिसचिवप्राडिवाककुमाराधिकृतानां वाह्यसंचारिणां वृत्तम् । तथा विदूषकशकारचेटादिवृत्तं व्युत्पाद्यते । नायकप्रतिपक्षाणां च राज्ञामुक्तगुणविपर्ययादशुभोदयं वृत्तं त्याज्यतया व्युत्पाद्यते ॥ प्रकरणे तु सचिवसार्थवाहादीनां पूर्ववत्खाचिता त्रिवर्गप्राप्तिस्तदर्जनस्थैर्यधैर्यादि, व्यापत्खमूढता, कुलस्त्रियां वृत्तं कुलस्त्रियाश्च भर्तरि वृत्तिर्वेश्यासु संभोगो वैशिष्टनायकलक्षणं विटस्य गुणा दूतकर्मणि योज्यविवेको दूतकर्मसमागमे देशकालौ नायिकाया रागापरागलिङ्गानि नायकयोरपरागकारणानि नायका हृदयग्रहणमप्रयोगः । उत्तममध्यमाधमनायिकालक्षणयैव न लाभाः । चतुरोत्तममध्यमा नायकाः सामदानभेददण्डोपेक्षाणामुपायानां प्रयोगविभाग इत्यादि प्रयोगतो व्युत्पाद्यते ॥नाटिकायां तु विलासपराणां राज्ञां धर्मार्थाविरोधिरतिफलं वृत्तं नाटक इव व्युत्पाद्यते ॥समवकारे च देवासुरनिमित्तो युद्धादिसंभवो विद्रवस्तथा कपटः संक्षिप्तश्च शृङ्गारो हास्यादि सर्वमेव लौकिकीभिरुपपत्तिभिहीनं दिव्यप्रभावसाध्यं व्युत्पाद्यते । पूर्वापरानुसंधानशून्यधियां प्रहसनकपटविद्रवादिरुचीनां पुस्तावप्लुतलङ्घनच्छेद्यमायेन्द्रजालचित्रयुद्धादि बहुलयारभट्या परितोष उत्पाद्यते । तथा चाह—'शरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च । बाला मूर्खाः स्त्रियश्चैव हास्यशोकभयादिषु ॥' तुष्यन्तीति गम्यते । इष्टं देवता कर्मप्रभावानुकीर्तनाच्च तद्भक्तानां प्रीतिः । यात्राजागरादिषु च प्रेक्षाप्रवर्तनं च ॥ ईहामृगडिमयोरप्येवमेव ॥ व्यायोगे तु . मन्त्रिसेनापतिप्रभृतीनां वृत्तं युद्धनियुद्धाधर्षणसंघर्षबहुलं व्युत्पाद्यते॥उत्सृष्टिकाङ्के चोत्तमानां मध्यमानां च वैरस्यार्दितानां स्त्रीपरिदेवितवहुलं वृत्तं प्रेक्षकाणां चित्तस्थेयं विधातुं व्युत्पाद्यते । एवंविधव्यसनपतितानां चित्तस्थैर्यात्पुनरुत्पत्तिदृश्यते इति तत्प्रयोगदर्शनात्प्रतिपद्यमाना व्यसनेऽपि न विषीदन्ति ॥ प्रहसने तु स्त्रीवालमूर्खाणां हास्यप्रयोगदर्शनेन नाट्ये प्ररोचना क्रियते । ततः क्रमेण नाट्ये प्रवृत्ताः शेषरूपकैर्धर्मार्थकामेषु व्युत्पाद्यन्ते । प्रसङ्गतश्च भगवत्तापसविप्रादीनां वृत्तच्युतानां कापुरुषाणां वृत्तं शुद्धं तथा वेश्याचेटनपुंसक- :विटधूर्तवण्टकीप्रभृतीनां प्रवर्तकाख्यस्य च कामिनो वृत्तं संकीर्ण लोकवार्तादम्भधूर्तविवा- : दबहुलं त्याज्यतया व्युत्पाद्यते ॥ भाणे च धूर्तविटवेश्याशंभलीनां परस्य वञ्चनपरं प्रेक्ष
१ 'खोचिता' स्यात् .
Page #340
--------------------------------------------------------------------------
________________
८ अध्यायः ]
काव्यानुशासनम् ।
३२७
गेयं विभजते
गेयं
डोम्बिकाभाणमस्थानशिङ्गभाणिकामेरणरामाक्रीडहल्लीस
करासकगोष्ठी श्रीगदितराग़काव्यादि । पदार्थाभिनयनस्वभावानि डोम्बिकादीनि गेयानि रूपकाणि चिरंतनै
रुक्तानि । तद्यथा -
'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः ।
आचर्यते मनः सा तु मसृणा डोम्बिका मता ॥' 'नृसिंहशूकरादीनां वर्णनं जल्पयेद्यतः । नर्तकी तेन भाणः स्यादुद्धताङ्गः प्रवर्तितः ॥' 'गजादीनां गतिं तुल्यां कृत्वा प्रवसनं तथा । अल्पाविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते || ' 'सख्याः समक्षं पत्युर्यदुद्धृतं वृत्तमुच्यते । मसृणं च क्वचिद्धूर्तचरितं शिङ्गकस्तु सः ॥ 'बाला क्रीडानियुद्धादि तथा शूकरसिंहजा । धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥'
काणामवञ्चनीयत्वमववोधादापादयितुं वर्ण्यते ॥ वीथ्यां तु बहुविधा वक्रोक्तिविशेषा व्युत्पाद्यन्ते ॥ सट्टके च नाटिकायामिव रतिफलं वृत्तं व्युत्पाद्यते । एवं नाटकादीनां स्वरूपं तत्फलं च दर्शितम् । तच्छरीरभूतसंधिसंध्यङ्गाधिलक्षणं विस्तरतस्तु भरतादेवावसेयः ॥ मसृणेति । त्रिविधो हि गेयकाव्यस्य प्रयोगः । मसृण उद्धतो मिश्रश्च । तथा हिडोम्बिकासु नरपतिचाटुकप्राधान्येन प्रपत्तासु सुकुमारमेव शुद्धं रूपम् ॥ भाणकेषु नृसिंहादिचरितवर्णने उद्धतमेव । यत्पुनर्मसृणेऽप्युद्धतं प्रविशति तदुचितमेव । तत्राप्यल्पत्व-' बहुत्वकृतो भेदः । पूर्वप्रस्थानप्रवन्धः । उत्तरः शिङ्गटकभेदः । उद्धते तु मसृणानुप्रवेशोद्भाणिकाभेदः । अन्यदपि प्रेरणरामाक्रीडरासकहल्लीसकादिकमल्पत्ववहुत्ववैचित्र्यकृतमिहैव प्रविष्टं वेदितव्यम् ॥ ननु डोम्बिकाशिङ्गटका दौ अन्योन्यानुचितत्वं वाक्यानां ततश्चानन्वये कथं रञ्जकत्वमिति चेत्, न । देवतास्तुतेः स्त्रीपुंभावसमाश्रयस्य च शृङ्गारस्य सर्वत्रानुगमात् । तथा चाह—‘देवस्तुत्याश्रयकृतं स्त्रीपुंभावसमाश्रयम् ।' इति । तत एव चूडामणि
१ ‘संध्यङ्गादिलक्षणविस्तरस्तु ' स्यात्.
Page #341
--------------------------------------------------------------------------
________________
३२८
काव्यमाला। 'हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम् ।' 'ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ।। 'मण्डलेन तु यन्नृत्तं हल्लीसकमिति स्मृतम् । एकस्तत्र तु नेता स्याद्गोपस्त्रीणां यथा हरिः ॥' 'अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । ____ आचतुःषष्टियुगलाद्रासकं मसृणोद्धतम् ॥ 'गोष्ठे यत्र विहरतश्चेटितमिह कैटभद्विषः किंचित् । रिष्टासुरप्रमथनप्रभृति तदिच्छन्ति गोष्ठीति ॥'
डोम्विकादौ तु कामस्यैव प्रच्छन्नानुरागपरमरहस्योपदेशात् । यद्वामाभिनिवेशिवमित्यनेन मन्मथसारत्वेनाभिधानात् । सिंहशूकरधवलादिवर्णनेनापि भाणकप्रेरणभाणिकादावप्रस्तुतप्रशंसार्थान्तरन्यासनिदर्शनादिना पुरुषार्थस्यैवोपदेशदर्शनात् । अथ पाठ्यस्य गेयस्य च रूपकस्य को विशेषः । अयमाख्यायते-पाट्ये हि अङ्गं गीतं चेत्युभयमप्रतिष्ठितम् । तथा हि करकरणचारी मण्डलादि यत्तत्राझोपयोगि तत्खरूपेण लयादिव्यवस्थया चानियतमेव यथारसं प्रयुज्यमानत्वेन विपर्यासात् । गेये तु गीतमङ्गं च द्वयमपि वप्रतिष्ठम् । तथा हि-यस्य यादृशं लक्षयति स्वरूपादिकं निरूपितं तन विपर्ययेति मन्त्रादिवत् । यद्यपि क्वचिद्वर्णाङ्गप्राधान्यं यथा प्रस्थानादौ, क्वचिद्वाद्यप्राधान्यं यथा भाणकादिषु भग्नतालपरिक्रमणादौ, क्वचिद्गीयमानरूपकाभिधेयप्राधान्यं यथा शिङ्गटकादौ, क्वचिनृत्यप्राधान्यं यथा डाम्बिलिकादिप्रयोगानन्तरं हुडुत्काराद्यवसरे । अत एव तत्र लोकभाषया वल्लिमार्ग इति प्रसिद्धिः । तथापि गीताश्रयत्वेन वाद्यादेः प्रयोग इति गेयमिति निर्दिष्टम् ॥ रागकाव्येषु च गीतेनैव निर्वाहः । तथा हि-राघवविजयस्य विचित्रवर्णनीयत्वेऽपि ढक्करागेणैव निहिः, मारीचवधस्य तु ककुभग्रामरागेणैवेति ॥ किं च पाठ्ये साक्षात्कारकल्पानुव्यवसायसंपत्त्युपयोगिनः पात्रं प्रति भाषानियमस्य नियतस्य छन्दोलंकारादेश्चाभिधानं दृश्यते । गीयमानं च नाभिधीयते असंगल्यापत्तेरपि तु यादृशा लयतालादिना याहगर्थसूचनयोग्योऽभिनयः सात्विकादिः प्रेभानरसानुसारितया प्रयोगयोग्यस्तदुचितार्थपरिपूरणं ध्रुवागीतेन क्रियते । गेये च स्तदादेरिव वस्तुभूतरूपरसादिमध्यपातिविषयविशेषयोजनया.. कृता, प्रतीतिः साध्या।डोम्बिकादेन नटस्येवालौकिकरूपप्रादुर्भावनया। तथा हि-डोम्बि. कादौ च वर्णच्छटा वर्णादिप्रयोगे तावदभिनयकथैव नास्ति किं तत्र विचार्यते.. केवलवृत्तखभावं हि तत् । तदनन्तरं तु धारापरिक्रमपूर्वकलयप्रयोगावसरे 'पाआलअलोससाहिणिहु जय जय लच्छिवच्छमतिआ' इत्यादि यद्गीयते. तत्कस्योक्तिरूपम् । यदि तावन्नर्ति
१. 'विपर्येति' स्यात्. २. 'प्रधान' स्यात्. ३. 'सूदादे' स्यात. ४. 'नदस्येवा' स्यात.
Page #342
--------------------------------------------------------------------------
________________
८ अध्यायः]
काव्यानुशासनम् । 'यस्मिन्कुलाङ्गना पत्युः सख्यग्रे वर्णयेद्गुणान् । .........
उपालम्भं च कुरुते यत्र श्रीगदितं तु तत् ॥ . . . . 'लयान्तरप्रयोगेण रागैश्चापि विवेचितम् । .
नानारसं सुनिर्वाह्यकथं काव्यमिति स्मृतम् ॥' आदिग्रहणात् शम्याच्छलितद्विपद्यादिपरिग्रहः । प्रपञ्चस्तु ब्रह्मभरतकोलाहलादिशास्त्रेभ्योऽवगन्तव्यः । प्रेक्ष्यमुक्त्वा श्रव्यमाह
श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च । तुमागताया लौकिक्या डोम्बिकाप्रभृतेर्नर्तक्यास्तदा सैवेदानीमेवंभूतं वसुरूपं लौकिकं वचनमभिधत्ते । गायनादिसंक्रमितखवास्तव्यतयेति कः साक्षात्कारकल्पत्वाध्यवसायगोचरीकार्यत्वे च पाठ्यस्य प्रधानोंऽशः । तेन यथा लोके कश्चित्कंचिदन्योपदेशगानादिक्रमेण वस्तूद्वोधनकरणद्वारेण वा छन्दोनुप्रवेशितया वाक्यस्य चिन्मनस्यावर्जनातिशयं विधत्ते नृत्यनपि गायन्नपि । तद्वदेव डोम्बिकाकाव्यादौ द्रष्टव्यम् ॥ 'हठे वि डोम्वी' इत्यादावपि वचसि सैव । डोम्बिका नयपतिपरितोषकार्थाभिधायिवचननिष्ठेन गीतेन वाद्येन नृत्येन च राजानमनुरजयितुं गृहीतोद्यमा वक्रीत्वेन पूर्वस्थिता मध्ये काचिदीदृशी चौर्यकामुककेलिलालसमानसा, काचित्पुनरेवंविधा, कश्चिदेवंभूतश्चौर्यकामुकः, कोऽप्येवंभूतस्तत्र काचिंदेवं प्रौढदूतीत्येवमादिराजपुत्रहृदयानुप्रवेशयोग्यं तत्प्रसादनेन धनाद्यर्जनोपायमभिदधती तमेव राजपुत्रं परत्वेन तथैव वा समुद्दिश्य अन्यदपि चेष्टितमभिधायान्ते डोम्बिकाकृत्यमेवोपसंहरति । गुणमालायां 'जामि तारा अनुडिअपुणुणम्वीसमि' इत्यादौ । तत्र तु सा नृत्यन्ती डोम्विका वहुतरोपरञ्जकगीतादिपटुपेटकपरिवृता खां प्रत्येवमहमुपश्लोकितवतीति तन्मध्यवर्तिगायनमुखसंक्रमितनिजवचना लौकिकेनैव रूपेण तद्गीयमानरूपकगतलयतालसाम्येन तावनृत्यति । तद्गीयमानपदार्थस्य च सातिशयमावर्जनीये राजादौ हृदयानुप्रवेशितां दर्शयितुं लौकिकव्यवहारगतहस्तस्तू(?) कर्मरोमाञ्चाक्षिविकारतुल्ययोगक्षेमतयैवाङ्गविकारादिसंभवमप्याक्षिपति । एवं गीतेन रञ्जनं प्राधान्येन विधाय तदुपयोगिनं चाङ्गव्यापार प्रदर्य नृत्येन पुनश्चित्तग्रहणं कुर्वती नृत्यं प्रधानभावं गीतं च तदुपसर्जनभावं नयन्ती तत एव तदभिनयमनाद्रियमाणा तद्गीयमानाङ्गभावाक्षिप्ततत्समुचितभावमेवाझविक्षेपं करोति लयपरिष्वत्कणादौ । तत्रेयत्यंशे लौकिकमात्रखभाव एव रामनटादिव्यवहारवत्वाप्रयोज्यप्रयोजकभावाशङ्का । तदनन्तरं च यथैव सा गीतनृत्यादि प्रायुत तथैव तत्सदृशं नर्तकी प्रयुते । न तु डोम्विका साक्षात्कारंकल्पेन दर्शयति तदीया हार्यादिना स्वात्म. १. 'वा कस्यचि' स्यात्. . ..
Page #343
--------------------------------------------------------------------------
________________
३३०
काव्यमाला। एतानि क्रमेण लक्षयति
पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिवद्धभिन्नान्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधि शब्दार्थवैचित्र्योपेतं महाकाव्यम् । ।
छन्दोविशेषरचितं प्रायः संस्कृतादिभाषानिबद्धैभिन्नान्त्यवृत्तैर्यथासंख्यं सर्गादिभिर्निर्मितं सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुन्दरं शब्दार्थवैचित्र्योपेतं महाकाव्यम् । मुखादयः संधयो भरतोक्ता इमे
'यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा।।
काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥ रूपप्रच्छादनाद्यभावात् । तत एव न डोम्विका साक्षात्कारकल्पेन सा दर्शयति,अपि तु तदैव नृत्यं साभिनयं केवलं च प्रदर्शयतीति सा लौकिकरूपान्तरप्रादुर्भावेनेति । व्युत्पत्त्यभिसंधानं च गेये नास्ति । पाठ्ये तु तदेव प्रधानं भरतमुनिप्रभृतीनां तथैव मूलतः प्रवृत्तेरित्यलं बहुना अप्रस्तुतप्रपञ्चेनेति ॥ भिन्नाल्त्यवृत्तरिति । उपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्यर्थः । यथा कुमारसंभवे-'अथ स ललितयोषिद्धलता चारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥' यथा वा हरिप्रबोधे आर्यागीतिच्छन्दोवद्धाश्वासकान्ते पुष्पिताग्रा-'भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम् । गततमसतया विभावरीणां सघनमहः समतां विभावरीणाम् ॥' संधिवन्धेषु च नाराचतोटकादीनि विचित्राणि छन्दांसि दृश्यन्ते ॥ यत्र बीजेति । वीजस्य यत्र समुत्पत्तिः कविप्रयत्नतो निबन्धः । नानारूपोऽर्थः प्रयोजनं येषां ते नानार्थाः संभवन्तीति संभवः । नानार्थरसाः संभवो यस्याः सा तथा । काव्ये नाटकादौ । तत्र च संधीनां युक्ततयावभासात् । अत एव तत्रैवोदाहरिष्यते-शरीरानुगता इति । वृत्तानुगता इति वृत्तव्यापिनी। तन्मुखम् । यथा वेणीसंहारे कुरुपाण्डवानामुभयेषां क्षेमप्रतिपादकं स्थापकस्य वचनं सहदेवः क्रुद्धस्य भीमसेनस्यानुकूल्येन शमनाय कुरुनिधनपरं व्याचचक्षे–'निर्वाणवैरदहना प्रशमादरीणाम्' इति । अत्र प्रशमोऽवसानमुदयनिरोधात् । यथा शान्तो वायुः शान्तोऽग्निरवसित इत्यर्थः । तदेवमरीणामवसानेन दाह्याभावानिर्वाणवैराग्नयः पाण्डुतनया नन्दन्तु सह माधवेन । कुरुराजसुतास्तु सभृत्या रुधिरप्रसाधितभुवः क्षतशरीराः खर्गस्था भवन्विति शत्रुक्षयपूर्वस्थस्य पाण्डवानां समृद्धिरूपस्य फलस्य बीजं कविप्रयत्ना१. 'संधिविधेषु' ख. २. 'शरीरानुगता' स्यात्
Page #344
--------------------------------------------------------------------------
________________
८ अध्यायः ]
काव्यानुशासनम् ।
'बीजस्योद्घाटनं यत्र दृष्टनष्टमिव कचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥'
'उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्वान्वेषणं यत्र स गर्भ इति संज्ञितः ॥'
३३१.
दुत्पन्नम् । नानारससंभवा चास्योत्पत्तिः । नाटकानेकत्वेन पात्रानेकत्वविवक्षया नानार्थता रसानाम् । तथा हि-अत्र, 'एष कुरुसंधानममृष्यमाणः पृथुललाटतटघटितभीषणभ्रुकुटिरापिवन्निव नः सर्वान् दृष्टिपातेन सहदेवानुयातः क्रुद्धो भीम इत एवाभिवर्तते' इति पारिपार्श्वकवचनात्सूचितक्रोधस्थायिभावानुभावः 'लाक्षागृहानलविषान्नसभाप्रवेशैः-' इत्यादिखवचनप्रकाशितखविभावो भीमसेनस्य रौद्रो रसः कुरुक्षयप्रयोजनो बीजेन प्रकाशि- तत्वाद्वीजोत्पत्तेरेव संभवन्निवद्धः । कुरूणां च कुलक्षयनिमित्तकः करुणः पाण्डवसिद्धिप्रयोजनो बीजोत्पत्तेरेव संभवन्निवद्धः । यथा दुर्योधनः शोचन्नाह-- ' अद्यैवावां रणमुपगतौ तातमम्वां च दृष्ट्वा प्रातस्ताभ्यां शिरसि विनतो हन्त दुःशासनश्च । तस्मिन्वाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्व पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ तदेवं भीमसेनस्येव क्रोधात्मकं चेष्टितं शत्रुक्षयफलमित्युपादेयम् । दुर्योधनस्येव च दौरात्म्यभूयिष्ठं चेष्टितं शोकफलत्वात्त्याज्यमिति विधिनिषेधविषयव्युत्पत्तेर्नानार्थता पात्रानेकत्वाश्रया रसानाम् । नाटकानेकत्वाद्यथा सागरिकाप्राप्त्यर्थो वत्सराजस्य शृङ्गारः वीजसमुत्पत्तिरिति । वीजं समुत्पन्नमुक्तैर्विशेषणैर्विशिष्टमिष्यते । तथा हि वीजमेव काव्यशरीरव्यापि यतो मुखसंधौ तस्योत्पत्तिः । प्रतिमुखे दृष्टनष्टमिव तस्योद्घाटनं गर्भे चोद्भेदस्तस्य अवमर्शे च गर्भनिर्भेदः । निर्वहणे च समानयनमिति काव्यशरीरव्यापिता ॥ बीजस्योद्घाटनमिति । अयमर्थ:दृष्टनष्टमिव कृत्वा तावन्मुखे 'द्वीपादन्यस्मात् -' इत्यादिना न्यस्तं भूमाविव बीजम् अमात्येन सागरिकाचेष्टितं वसन्तोत्सवकामदेवपूजादिना तिरोहितत्वान्नष्टमिव नहि तन्नष्टमेव । सागरिकाचेष्टितस्य हि बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिवत्प्रत्युत कार्यजननशक्त्युद्बोधकम् । तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्यते । एवं कुङ्कुमवीजस्य यदुद्घाटनं तत्कल्पं यत्रोद्घाटनं सर्वत्रैव कथाभागसमूहे स प्रतिमुखम् । प्रतिराभिमुख्ये । मुखस्याभिमुख्येन यतोऽत्र वृत्तिः । पराङ्मुखता हि दृष्टनष्टकल्पता । तथा हि रत्नावल्याम् — 'पैरपेसणकरिसिदं पि सरीरमेदस्स दंसणेण अज्ज मे बहुमदं संपण्णम्' इत्यादिसागरिकोक्तरनन्तरं सुसंगतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसंधिरुद्धाटित्वाद्वीजार्थस्य ॥ उद्भेदस्तस्येति । प्राप्तिरप्राप्तिरन्वेषणमित्येवंभूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिः युक्तो गर्भसंधिः । प्राप्तिसंभवाख्ययावस्थया युक्तत्वेन फलस्य गर्भीभावात् । तथा हि रत्ना
१. 'परप्रेषणकर्षितमपि शरीरमेतस्य दर्शनेनाद्य मे बहुमदं संपन्नम्' इति च्छाया.
Page #345
--------------------------------------------------------------------------
________________
काव्यमाला। वल्यां द्वितीयाङ्के सुसंगता-सहि, अदक्खिण्णासि तुवम् । दाणी जा एवं भट्टिणा हत्थेण गहिदा वि कोवं न मुश्चेसि' इति प्राप्तरूप उद्भेदः । ततोऽत्र 'सागरिका-(सभ्रूभङ्गम् ।) सुसंगदे, इआणि पि न विरमसि' इति कुमारीभावसमुचितकृतकोपेनापि परिपूर्णरतिप्रकाशनादन्वेषणम् । ततो 'भो, एसा खु अवरा देवी वासवदत्ता' इति विदूषकोक्ते राजनि सचकितं सागरिकां मुञ्चति सागरिकासुसंगतयोश्च निष्कमावासवदत्ताप्रवेशाच्चारभ्य तृतीयाङ्के प्रवेशके 'साहु रे वसन्तय, साहु । अदिसइदो ते अमच्चजोअन्धराअणो इमाए संधिविग्रहचिन्ताए' इति काञ्चनमालयोक्तं यावदप्राप्तिस्ततोऽस्याः 'अज्ज क्खु मए राअउलाओ पडिणीव्वत्तन्तीए चित्तसालिआदुआरे वसन्तअस्स सुसंगदाए सह आलावो सुदो' इत आरभ्य 'ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कवयति कथामात्मविषयाम् । सखीषु स्मेरस्ते प्रकटयति वैलक्ष्यमिति मे प्रिया प्रायेणास्ते हृदयनिहितातविधुरम् ॥ तद्वान्वेिषणाय गतश्चिरयति वसन्तकः' इति वत्सराजोक्तिं यावदन्वेषणम् । ततश्च "ही ही । कोसम्वीरजलम्भेणावि ण तादिसो पिअवअस्सस्स परिदोसो आसि, जादिसो मम सआसादो पियवयणं सुणिअ भविस्सदि।' इत्यादिविदूषकोक्तेन प्राप्तिरसोऽस्यां समागमसंकेतस्थानप्राप्तिं यावदन्वेषणम् । ततः 'प्रिये, पश्य पश्य । उदयोवीभृत एष त्वद्वदनापहृतकान्तिसर्वखः । पूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥' इति राजोक्तिपर्यन्तं परिपूर्णा प्राप्तिः । ततः 'दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे' इति वासवदत्तामुखोद्धाटनादनन्तरम् 'राजा--कथं देवी वासवदत्ता। वयस्य, किमेतत् । विदूषकःअह्माणं जीविदसंसओ' इत्यादिना अप्राप्तिः । अस्यां च 'दिट्ठिा इमिणा विरइदभट्टिणीवेसेण केण वि इमादो चित्तसालादो णिक्कमन्ती ण लक्खिदह्मि' इति सागरिकोक्त्या अन्वेषणम् । ततश्च सागरिकाया लतापाशे कृते 'कहं एसा देवी वासवदत्ता उव्वन्धिय अप्पाणों वावादेदि' इति विदूषकोक्ते राजनि च समुपेत्य कण्ठपाशमपनयति, सागरिकया अंज
१. 'सखि, अदक्षिणासि त्वम् । इदानीं या एवं भा हस्तेन गृहीतापि कोपं न मुञ्चसि' इति च्छाया. २. 'सुसंगते, इदानीमपि न विरमसि' इति च्छाया. ३. 'भोः, एषा खलु अपरा देवी वासवदत्ता' इति च्छाया. ४. 'साधु रे वसन्तक, साधु । अतिशयितस्त्वयामात्ययौगन्धरायणोऽनया संधिविग्रहचिन्तया' इति च्छाया. ५. 'अद्य खलु मया राजकुलात्प्रतिनिवर्तमानया चित्रशालिकाद्वारे वसन्तकस्य सुसंगतया सह आलापः श्रुतः' इति च्छाया. ६. 'स्याधो नयति' कलिकातामुद्रितपुस्तके. ७. 'मधिकम्' कलिकातामुद्रितपुस्तके. ८. 'आश्चर्यम् । कौशाम्वीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य परितोष आसीत् , यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यति' इति च्छाया. ९. 'अस्माकं जीवितसंशयः' इति च्छाया. १०. 'दिष्ट्या अनेन विरचितभत्रिवेषेन केनापि अस्याश्चित्रशालिकाया निष्कामन्ती न लक्षितास्मि' इति च्छाया. ११. 'कथमेषा देवी वासवदत्ता उद्बव्यात्मानं व्यापादयति' इति च्छाया. १२. 'आर्यपुत्र, मुञ्च मुञ्च । पराधीनः खल्वयं जनः न पुनर्मतुमीदृशमवसरं प्राप्नोति' इति च्छाया. . . . . . . . . .
Page #346
--------------------------------------------------------------------------
________________
८ अध्यायः ]
काव्यानुशासनम् ।
'गर्भनिर्भिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः ॥' 'समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेन्निर्वहणं तु तत् ॥' इति ।
३३३
1
उत्त, मुञ्च मुञ्च । पराहीणो क्खु अअं जणो ण पुण मरिदुं ईदिसं अवसरं पावेदि । (पुनः कण्ठे पाशं दातुमिच्छति ।) राजा - ( निर्वर्ण्य सहर्षम् 1 ) कथं प्रिया मे सागरिका । अलमलमतिमात्रं साहसेनामुना ते त्वरितमयि विमुञ्च त्वं लतापाशमेनम् । चलितमपि निरोद्धुं जीवितं जीवितेशे क्षणमिह मम कण्ठे वाहुपाशं निधेहि ॥' इत्यादिना स्फुटमेव प्राप्तिरित्येवं गर्भः । अप्राप्त्यंशश्चात्रावश्यंभावी । अन्यथा हि संभावनात्मा प्राप्ति - संभवः कथं निश्चय एव हि स्यात् । विमर्शे त्वप्राप्तेरेव प्रधानाप्राप्त्यंशस्य च न्यूनतेति विशेषः । गर्भनिर्भिन्नेति । वीजशब्देन वीजफलम् । अर्थशब्देन निवृत्तिरुच्यते । तेन गर्भान्निर्भिन्नं प्रदर्शितमुखं वहिर्निःसरणोन्मुखं यद्वीजफलं तस्या योऽर्थो निवृत्तिः पुनस्तत्रैव प्रवेश इव यत्र स विमर्शसंधिः । स इति । तच्छब्देन यत्रेत्याक्षिप्तम् । सा च निवृत्तिः क्रोधेन वा निमित्तेन लोभेन वा व्यसनेन वा शापादिना वा । अपिशब्दाद्विघ्ननिमित्तान्तराणां प्रतिपदमशक्यनिर्देशानां संग्रहः । तत्र क्रोधाद्यथा रत्नावल्यां तृतीयेऽङ्के 'क्रोधोवेशेन वासवदत्तया कारानिक्षिप्तायां सागरिकायाम् । तथा हि तत्र चतुर्थेऽङ्के प्रवेशकः सागरिकाप्राप्तिसंदेहेन करुणरसात्मकः । अत्रैव सागरिकाप्राप्तिसंदेहं मन्यमान आह— 'राजा—अम्भोजगर्भसुकुमारतनुस्तदासौ कण्ठग्रहे प्रथमरागधने विलीय । सद्यः पतन्मदनमार्गणरन्ध्रमागैर्मन्ये मम प्रियतमा हृदयं प्रविष्टा ॥ योऽपि मे विश्वासस्थानं वसन्तकः सोऽपि देव्या संयतः । तत्कस्याग्रतो वाष्पमोक्षं करिष्ये ।' पुनरत्रैव 'अप्पिअं दे ण पारेमि आचक्खिदुम्' इति विदूषकोक्ते 'राजा - (समाश्वस्य ।) प्राणाः परित्य जत मां ननु सत्पथोऽयं हे दक्षिणा भवत मद्वचनं कुरुध्वम् । शीघ्रं न यात यदि तन्मुषिताः स्थ मूढा याता सुदूरमधुना गजगामिनी सा ॥' इति राज्ञः सागरिकाप्राप्तिनैराश्यरूपैव "भो, मा अण्णहा संभावेहि । सा खु देवीए उज्जेणिं पेसिदा । अदो भए अप्पिअं ति भणिदम्' इति विदूषकोक्त्या संदेहमानीता । तथा हि । तद्विसृष्टां रत्नमालां हृदये विन्यस्य पुनराह –'अहह । कण्ठाश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया । तुल्यावस्था सखी चेयं तनुराश्वास्यते मम ॥ इतीन्द्रजालप्रयोग यावद्विघ्ने वासवदत्ताक्रोधो निमित्तम् । एवं लोभादावुदाहार्यम् ॥ समानयनमर्थानामिति । मुखाद्यानां चतुर्णा संधीनां येऽर्थाः प्रार
<
१. ‘विकल्पन' भरतैकपुस्तके.
१. ‘क्रोधावेशेन’ स्यात्. २. 'अप्रियं ते न पारयामि आख्यातुम्' इति च्छाया. ३. ‘रे’ कलिकातामुद्रितपुस्तके. ४. 'भोः, मान्यथा संभावय । सा खलु देव्योज्जयिनीं प्रेपिता । अतो मयाप्रियमिति भणितम्' इति च्छाया.
Page #347
--------------------------------------------------------------------------
________________
३३४
काव्यमाला |
शब्दवैचित्र्यं यथा -- असंक्षिप्तग्रन्थत्वम्, अविषमबन्धत्वम् अनतिविस्तीर्णपरस्परनिबद्धसर्गादित्वम्, आशीर्नमस्कारवस्तु निर्देशोपक्रमत्वम्, वक्तव्यार्थतत्प्रतिज्ञानतत्प्रयोजनोपन्यासकविप्रशंसासुजनदुर्जनखरूपवदादि
म्भयत्नप्रत्याशानियताप्तिलक्षणास्तेषां सह वीजिभिर्वजविकारैः क्रमेणावस्थाचतुष्टये भवद्भिरित्युद्घाटनोद्भेदलक्षणैर्वर्तमानानां नानाविधैः सुखदुःखात्मकै रतिहासशोकक्रोधादिभिर्भावैरुत्तराणां चमत्कारास्पदत्वेन जातोत्कर्षाणां यत्समानयन्ति यस्मिन्नर्थराशौ समानीयन्ते फलनिष्पत्तौ योज्यन्ते तन्निवर्हणं फलयोगोऽवस्थया व्याप्तम् । तत्र यदा सुखप्राप्तेः फलत्वं तदा रतिहासोत्साहविस्मयस्थायिभावबाहुल्यं धृतिहर्षगवैौत्सुक्यमदादिव्यभिचारिभावबाहुल्यं च प्रारम्भादीनाम्, दुःखहानेस्तु फलत्वे क्रोधशोकभयजुगुप्सास्थायिभावबाहुल्यम् । आलस्यौग्यव्यभिचारिभाववाहुल्यं च द्रष्टव्यम् । रत्नावल्यामैन्द्रजालिकप्रवेशात्प्रभृत्यासमाप्तेरेषामवस्थासंध्यादीनां नायकप्रतिनायकतदमात्यतत्परिवारनायिकादिमुखेनापि नियोजनम् । न त्वेकमुखेनैवेति । असंक्षिप्तग्रन्थत्वमिति । अनेन ग्रन्थगौरवमाचक्षाणः कथारसविच्छेदशङ्किनां मनांस्यावर्जयति । अविषमबन्धत्वमिति । अनेन शब्दसंदर्भवेदिनां मनो मुदमादधाति । अनतिविस्तीर्ण परस्परनिबद्धसर्गादित्वमिति । अनेन ग्रन्थविस्तरभीरूणां चित्तमाकर्षति । सर्गादीनां परस्परमेकवाक्यतया महावाक्यात्मकस्य प्रबन्धस्योपकारितां च दर्शयति । आशीर्नमस्कारवस्तुनिर्देशोपक्रमत्वमिति । तत्र आशीर्यथा हरविलासे—‘ओमित्येकाक्षरं ब्रह्म श्रुतीनां मुखमक्षरम् । प्रसीदतु सतां खान्तेष्वेकं त्रिपुरुषीमयम् ॥' नमस्कारो यथा रघुवंशे - ' वागर्थाविव-' इत्यादि । वस्तुनिर्देशो यथा हयग्रीववधे~~‘आसीद्दैत्यो हयग्रीवः' इत्यादि । वक्तव्यार्थेत्यादि । वक्तव्यार्थ - प्रतिज्ञानं यथा सेतुबन्धे - "तं तिअसवन्दिमोक्खं समत्तलोअस्स हिअअसद्दुद्धरणम् । सुह अणुराहइन्हं सीयादुक्खक्खयं दसमुहस्स वहम् ॥' प्रयोजनोपन्यासो यथा - 'परिवह विन्नाणं संभाविज्जइ जसो विटप्पन्ति गुणा । अव्वइसुपरिसुचरिअं कित्तं जेण हरन्ति कव्वा - लावा ॥' कविप्रशंसा यथा रावणविजये - 'सैयलं चेव निवन्धं दोहिं पएहिं कसं पसण्णन्तविअं । जाणन्ति कईण कई सुद्ध सहोवेहिं लोअणेहिं व हिअअम् ॥' सुजनदुर्जनस्वरूपं
'तं त्रिदशवन्दिमोक्षं समस्तलोकस्य हृदयशल्योद्धरणम् ।
शृणुतानुरागचिह्नं सीतादुःखक्षयं दशमुखस्य वधम् ॥' [ इति च्छाया ]
1
॥' [ इति च्छायां ]
1
॥ [ इति च्छाया ]
Page #348
--------------------------------------------------------------------------
________________
८ अध्यायः ]
वाक्यत्वम्, दुष्करचित्रादिसर्गत्वम्, स्वाभिप्रायखनामेष्टनाममङ्गलाङ्कितसमाप्तित्वम्, इति ।
काव्यानुशासनम् ।
३३५
अर्थवैचित्र्यं यथा— चतुर्वर्गफलोपायत्वम्, चतुरोदात्तनायकत्वम्, रसभावनिरन्तरत्वम्, विधिनिषेधव्युत्पादकत्वम्, सुसूत्र संविधानकत्वम्, नगराश्रमशैल सैन्यावासार्णचादिवर्णनम्, ऋतुरात्रिंदिवार्कास्तमय चन्द्रोदयादिवर्णनम्, नायकनायिका कुमारवाहनादिवर्णनम्, मन्त्रदूतप्रयाणसंग्रामा
यथा हरविलासे --' इतस्ततो भषन्भूरि न पतेत्पिशुनः शुनः । अवदाततया किं च न भेदो हंसतः सतः ॥' दुष्करचित्रादिसर्गत्वमिति । आदिग्रहणेन यमकश्लेषादयो गृह्यन्ते । तेच किरातार्जुनीयादौ दृश्यन्त एव ॥ स्वाभिप्रायेत्यादि । तेष्वभिप्रायाङ्कता यथा - धैर्य मायुराजस्य, उत्साहः सर्वसेनस्य, अनुरागः प्रवरसेनस्येति । खनामाङ्कता यथा - राजशेखरस्य हरविलासे । इष्टनामाङ्कता यथा - लक्ष्म्यङ्कता किराते भारवेः, श्रयङ्कता शिशुपालवधे माघस्य । मङ्गलाङ्कता यथा —— अभ्युदयः कृष्णचरिते, जय ऊषाहरणे, आनन्दः पञ्चशिखशूद्रककथायाम् इति । चतुर्वर्गफलोपायत्वमिति । अनेन चत्वारो वर्गा धर्मार्थकाममोक्षाः त एव व्यस्ताः समस्ता वा फलं तस्योपायतया महाकाव्यं ज्ञापयन् मुक्तकादिभ्यो भेदमाचष्टे। चतुरोदात्तनायकत्वमिति । अनेन कथाशरीरव्यापिनो नायकस्य धर्मार्थकाममोक्षेषु वैचक्षण्यमभिदधान आशयविभूत्योरप्युत्कर्षमभिदधाति । रसभावनिरन्तरत्वमिति । अनेन रसग्रहणेनापि तत्कारणभूतानां भावानां परिग्रहे पृथग्भावग्रहणेन रसभावानां परस्परं कार्यकारणभावमभिदधद्रसेभ्यो भावाभावेभ्यो रसा रसेभ्यश्च रसा इति नैरन्तर्यस्य रसभावसाध्यत्वेन भोजनस्येवैकरसस्य प्रवन्धस्यापि वैरस्यमपाकरोति । विधिनिषेधव्युत्पादकत्वमिति । अनेन गुणवतो नायकस्योत्कर्षप्रकाशनेन दोषवतश्चोच्छेदप्रदर्शनेन जिगीषुणा गुणवतैव भाव्यं न दोषवतेति व्युत्पादयति । सुसूत्र संविधानकत्वमिति । अनेन प्रोक्तलक्षणाः पदार्थास्तथा निबन्धनीया यथा प्रबन्धस्य शोभायै भवन्तीति कवीन् शिक्षयति । नगराश्रमेत्यादिना देशप्रशंसामुपदिशति । नगरवर्णनं यथा हरिविजय रावणविजय-शिशुपालवध-कुमारसंभवादौ । आश्रमवर्णनं यथा रघुवंश - किरातार्जुनीयादौ । शैलवर्णनं किरातार्जुनीयादौ । सैन्यावासवर्णनं माघे । अर्णववर्णनं सेतुबन्धादौ । ऋत्वित्यादिना कालावस्थापवर्णनं लक्षयति । तत्र ऋतुवर्णने शरवसन्तग्रीष्मवर्षादिवर्णनानि सेतुबन्ध-हरिविजयरघुवंश - हरिवंशादौ । रात्रिवर्णनं किरातार्जुनीय - कुमारसंभव - शिशुपालवध - हयग्रीववधादौ । दिवसवर्णनं प्रभातपूर्वाह्णमध्याह्नापराह्नवर्णनानि शिशुपालवध - किरातार्जुनीयादौ । अर्का - स्तसमयवर्णनं कुमारसंभव-हरिविजय-रावणविजय -सेतुवन्धादौ । चन्द्रोदयवर्णनं कुमारसंभवकिरातार्जुनीय-शिशुपालवध -सेतुबन्धादाविति । नायकेत्यादिना पात्रविशेषाभिनन्दनं सूचयति । तत्र नायकवर्णनं हरिविजय रावणविजय जानकीहरण-रघुवंशादौ । नायिकावर्णनं
1
Page #349
--------------------------------------------------------------------------
________________
३३६ . .: काव्यमाला। भ्युदयादिवर्णनम्, वनविहारजलक्रीडामधुपानमानापगमरतोत्सवादिवर्णनम्, इति ।
उभयवैचित्र्यं यथा-रसानुरूपसंदर्भत्वम्, अर्थानुरूपच्छन्दस्त्वम् , कुवलयाश्वचरित-कुमारसंभव-जानकीहरण-सुभद्राहरणादौ । कुमारवर्णनं रघुवंशादौ । वाहनवर्णने हस्त्यश्वगरुत्मत्पुष्पकावर्णनानि हरिविजय-रावणविजयादौ । मन्त्रेत्यादिना अर्थप्रधानचेष्टानामुपदेशाच्चतुर्वर्गफलत्वेऽपि भूयसार्थोपदेशकृन्महाकाव्यं भवतीत्यभिधत्ते । तत्र मन्त्रः पञ्चाङ्गः प्रतिपादितः । स यथा-किरातार्जुनीय-शिशुपालवध-भट्टिकाव्य-हयग्रीववधादौ । दूतस्त्रिधानिसृष्टार्थः, परिमितार्थः,शासनहरश्च । निसृष्टार्थो यथा-उद्योगपर्वणि वासुदेवः, हरिविजये वासात्यकिः । परिमितार्थो यथा-'रामायणेऽङ्गदः । शासनहरो यथाकादम्वों केयूरक इति । प्रयाणं त्रिधा-खशक्त्यपचये, परव्यसने, अभिमतार्थसिद्धये च। तत्र वशक्त्यपचये यथा-रघुवंशे। परव्यसने यथा--जरासंधव्यसनिनः शिशुपालस्योच्छेदाय वासुदेवस्य शिशुपालवधे। अभिमतार्थसिद्धये यथा-विष्णोः पारिजातहरणाय हरिविजजये, यथा वा-दिव्यास्त्रलाभायार्जुनस्य किरातार्जुनीये इति । संग्रामस्त्रिधा-समः, विषमः, समविषम इति । तत्र समः-द्वन्द्वयुद्धे चतुरङ्गयुद्धे च । द्वन्द्वयुद्धं यथा-रामरावणयोः । 'चतुरङ्गयुद्धं कुरुपाण्डवानाम् । विषमो यथा-रामस्य खरदूषणनिशिरोभिः सह 'चतुर्दश सहस्राणि चतुर्दश च राक्षसाः । हतान्येकेन रामेण मानुषेण पदातिना ॥' इति । संमवि‘पमो यथा-महेश्वरार्जुनयोः किरातार्जुनीये रघुमघोनोर्वा रघुवंश इति । अभ्युदयस्त्रिधाअरिविजयः, स्त्रीलाभः,पुत्रोत्पत्तिः । तत्रारिविजयो द्विधा-शत्रूच्छेदेन, तदुपनत्या च। स पूर्वो रावणवधादौ, द्वितीयो हरिविजयादौ । स्त्रीलाभो यथा--इन्दुमतीस्वयंवरे। पुत्रलाभो दिलीपस्य रघुवंश इति । वनविहारेत्यादिना सोद्दीपनविभावस्य संभोगशृङ्गारस्योपदेशात् । मन्त्रभूतप्रयाणसंग्रामाभ्युदयादिभिस्ताननधिगम्य तैस्तैर्विलासविशेषैः कामसेवया तदुपयोगः कर्तव्य इति शिक्षयति । तत्र वनविहारो द्विधा--मृगयादिः, पुष्पावचयादिश्च । तत्राद्यो यथा--दशरथस्य रघुवंशे । द्वितीयो यथा-यदूनां शिशुपालवधे, अप्सरसां वा किरातार्जुनीय इति । जलक्रीडा द्विधा-एकस्य वा वह्वीभिः स्वयोषाभिर्वहूनां वा वह्वीभियथास्वमङ्गनाभिः । तत्राद्या यथा-कार्तवीर्यस्य नर्मदायाम् , कुशस्य वा सरय्वाम् । द्वितीया - यथा-अप्सरसां सिद्धसिन्धौ, यदूनां रैवतकहद इति । मधुपानं द्विधा-गोष्ठीगृहे, वासभवने च । तत्राद्यं हरिविजये शिशुपालवधे च । द्वितीयं 'किरातार्जुनीये कुमारसंभवे च ॥ मानापगमो द्विधा--प्रायनिकः, नैमित्तिकश्च । प्रायनिको हरिविजये सत्यभामायाः । नैमित्तिको रामान्तिकानिशाचरीणां सेतुवन्धे । रतोत्सवोऽपि द्विधा-सामान्यतः, विशेषतश्च । सामान्यतः किरातार्जुनीये शिशुपालवधे च । विशेषतः कुमारसंभवे जानकीहरणे च ।रलानुरूपसंदर्भत्वमिति । अनेन रतिप्रकर्षे कोमलः, उत्साहप्रकर्षे प्रौढः, क्रोधप्रकर्षे कठोरः, शोकप्रकर्षे मृदुः, विस्मयप्रकर्षे तु स्फुटः शब्दसंदर्भो विरचनीय इति उपदिशन् 'नैकमोजः प्रसादो वा रसभावविदः कवेः' इति ख्यापयति । अर्थानुरूपच्छन्दस्त्वमिति । अनेन
Page #350
--------------------------------------------------------------------------
________________
८ अध्यायः]
काव्यानुशासनम् ।
३३७
समस्तलोकरजकत्वम् , सदलंकारवाक्यत्वम् , देशकालपात्रचेष्टाकथान्तरानुषञ्जनम्, मार्गद्वयानुवर्तनं च, इति । * तत्र संस्कृतभाषानिबद्धसर्गबन्धं हयग्रीववधादि । प्राकृतभाषानिबद्धाश्वासकबन्धं सेतुबन्धादि । अपभ्रंशभाषानिबद्धसंधिबन्धमब्धिमथनादि । ग्राम्यापभ्रंशभाषानिबद्धावस्कन्धकबन्धं भीमकाव्यादि । प्रायोग्रहणात्संस्कृतभाषयाप्याश्वासकबन्धो हरिप्रबन्धादौ न दुष्यति । प्रायोग्रहणादेव रावणविजय-हरिविजय-सेतुबन्धेष्यादितः समाप्तिपर्यन्तमेकमेव च्छन्दो भवतीति । गलितकानि तु तत्र कैरपि विदग्धमानिभिः क्षिप्तानीति तद्विदो भाषन्ते ।
-
शृङ्गारे द्रुतविलम्बितादयः, वीरे वसन्ततिलकादयः, करुणे वैतालीयादयः, रौद्रे स्रग्धरादयः, सर्वत्र शार्दूलविक्रीडितादयो निवन्धनीया इत्युपदिशति । समस्तलोकरञ्जकत्वमिति। अनेनालौकिकतां परिहरन् प्रीतिनिबन्धनस्य प्रवन्धस्य लोके प्रतिष्ठया प्रयासवैयर्थ्यमपाकरोति। सदलंकारवाक्यत्वमिति । अनेन यद्यप्युपात्तलक्षणानां गुणानामलंकाराणां च खरूपसांकर्येणैव काव्यशोंभाकरत्वम् तथाप्यलंकारवनैवैनं भारं भूयसा उद्वोढुमलमित्येतदुपर्युपदेशेनोपपादयति । देशेत्यादिना परिपूर्णाङ्गेऽपि संविधानके देशकालाद्यविरोधेन तद्वर्णनादिकं निर्दिशति । तत्र देशान्तरानुषजनं यथा-'मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गः। भवन्तिनोद्दामगिरां कवीनामुच्छायसौन्दर्यगुणा मृषोद्याः ॥' कालान्तरानुषञ्जनं यथा —'सपदि हरिसखैर्वधूनिदेशाद्धनितमनोरमवल्लकीमृदङ्गैः। युगपदनुगुणस्य संनिधानं विचति वने च यथायथं वितेने ॥' पात्रान्तरानुपञ्जनं यथा-'करिष्यसे यत्र सुदुष्कराणि प्रसत्तये गोत्रभिदस्तपांसि । शिलोच्चयं चारुशिलोच्चयं तमेष क्षणानेष्यति गुह्यकस्त्वाम् ॥' चेष्टान्तरानुषञ्जनं यथा-'मदश्युतः इयामितगण्डलेखाः कामन्तविक्रान्तनराधिरूढाः । सहिष्णवो वेह युधामभिज्ञा नागा नगोच्छ्रायमिवाक्षिपन्तः ॥' कथान्तरानुषञ्जनं यथा-'कुसुमायुधपनि दुर्लभस्तव भर्ता न चिराद्भविष्यति । शृणु येन स कर्मणागतः सैलभत्वं हरलोचनार्चिषाम् ॥' मार्गद्वयानुवर्तनमिति । अनेन महाकवीनां समयमुपलक्षयति । तत्र 'गुणतः प्रागुपन्यस्य नायकं तेन विद्विषाम् । निराकरणमित्येष मार्गः प्रकृतिसुन्दरः॥ वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि । तज्जयानायकोत्कर्षकथनं च धिनाति नः॥' इति । (अर्थाः का) एतानि नगरवर्णनादीनि समुच्चयप्रयोज्यानि, उत विकल्पप्रयोज्यानि । समुच्चयप्रयोज्यानीति चेत्, किरातार्जुनीयादौ किरातार्णवार्कोदयविवाहकुमाराभ्युदयादीनामभणनम् ।
१. 'धिनोति' स्यात्. २. प्रमादपतितं स्यात्.
Page #351
--------------------------------------------------------------------------
________________
काव्यमाला |
नायकाख्यातस्ववृत्ता भाव्यर्थशंसिवक्रादिः सोच्छ्रासा संस्कृता गद्ययुक्ताख्यायिका |
धीरप्रशान्तस्य गाम्भीर्यगुणोत्कर्षात्स्वयं स्वगुणोपवर्णनं न संभवती - त्यर्थाद्यस्यां धीरोद्धतादिना नायकेन स्वकीयवृत्तं सदाचाररूपं चेष्टितं कन्यापहारसंग्रामसमागमाभ्युदयभूषितं मित्रादि वा व्याख्यायते, अनागतार्थशंसीनि च वक्रापरवकार्यादीनि यत्र बध्यन्ते, यत्र चावान्तरप्रकरसमाप्तावच्छ्वासा बध्यन्ते सा संस्कृतभाषानिवद्धा अपादः पदसंतानो गद्यं तेन युक्ता । युक्तग्रहणादन्तरान्तरा प्रविरलपद्यनिबन्धेऽप्यदुष्टा आख्यायिका । यथा – हर्षचरितादि ।
-
३३८
धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा कथा ।
आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः । तस्य तु वृत्तमन्येन कविना वा यत्र वर्ण्यते सा च काचिदुद्यमयी । यथाकादम्बरी । काचित्पद्यमयी । यथा - लीलावती । यावत्सर्वभाषा काचित्संस्कृतेन काचित्प्राकृतेन काचिन्मागध्या काचिच्छूरसेन्या काचित्पैशाच्या काचिदपभ्रंशेन बध्यते सा कथा ।
1
अर्थाविकल्पेन यथेष्टकल्पनाया मलत्वप्रसङ्गः । तत्र अङ्गकलज ( ? ) स्योभयापीष्टत्वात् । यदा कथाशरीरस्य परिपूर्णाङ्गसंभवस्तदा समुच्चयेन | यदान्यथा तदा विकल्पेनेति । तत्रापि केषांचिदङ्गानां विकल्पोऽपरेषां नियमेन प्रयोगः । यानि पुरुषार्थस्यार्थ कामादेरासन्नोपकारीणि तानि नियमतः प्रयुज्यन्ते । यथा मन्त्रदूतप्रयाणादिनायकाभ्युदयादयः । यथा च शैलतूंद्यानगमनजलक्रीडा चन्द्रोदय मधुपानरतोत्सवादयः । तानि च यदि कथाशरीरे न स्युस्तदा ( कथान्तरानुषञ्जनेनापि कर्तव्यानीति प्रचक्षते ॥ वृत्तमिति । वृत्तशब्दः सदाचार एव वर्तते । तदेव मनुराह - 'न विद्यया केवलया तपसा वापि पात्रता । यस्य वृत्तमिवोवेते तद्धि पात्रं प्रकीर्तितम् ॥' इति । तदाह - वक्रेति । वक्रशब्देन वक्रप्रकरणं लक्ष्यते । तद्यथा - 'अनुष्टुभ नाश्वाश्चातुर्याद्यो वक्रम्' इत्यादि । नजज्ञा अपरवक्रम् । दृगोषष्ठो जोऽन्तो वा पूर्वेऽर्धे परे षष्टो लायगाथेत्येवं छन्दोनुशासनलक्षितानि । वक्रं यथा. हर्षचरिते - 'निजवर्षाहितस्नेहा बहुभक्तजनान्विता । सुकाला इव जायन्ते प्रजाः पुण्येन भूभृतः ॥' अपरवकं यथा -- ' तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते । अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम् ॥' आर्या यथा
Page #352
--------------------------------------------------------------------------
________________
अध्यायः ]
काव्यानुशासनम् ।
३३९.
प्रवन्धमध्ये परप्रबोधनार्थ नलाद्युपाख्यानमिवोपाख्यानमभिनयन् पठन् गायन् यदैको ग्रन्थिकः कथयति तद्गोविन्दवदाख्यानम् ।
کنیم
तिरश्चामतिरश्चां वा चेष्टाभिर्यत्र कार्यमकार्य वा निश्चीयते तत्पञ्चतन्त्रादिवत् धूर्तविटकुट्टिनीमतमयूरमार्जारिकादिवच्च निदर्शनम् । प्रधानमधिकृत्य यत्र द्वयोर्विवादः सोऽर्धप्राकृतरचिता चेटकादिव - महिका ।
प्रेतमहाराष्ट्रभाषया क्षुद्रकथा गोरोचनानङ्गवत्यादिवन्मतल्लिका | यस्यां पुरोहितामात्यतापसादीनां प्रारब्धानिर्वाहे उपहासः सापि मतल्लिका । यस्यां पूर्वं वस्तु न लक्ष्यते पश्चात्तु प्रकाश्यते सा मत्स्यहसितादिव - न्मणिकुल्या |
एकं धर्मादिपुरुषार्थमुद्दिश्य प्रकारवैचित्र्येणानन्तवृत्तान्तवर्णनप्रधाना शूद्रादिवत्परिकथा |
‘सकलमहीभृत्कम्पकृदुत्पद्यत एक एव नृपवंशे । विपुलेऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥' उपाख्यानमिति । यदाह - ' नलसावित्रीषोडशराजोपख्यानवत्प्रधावन्तः । अन्यप्रवोधनार्थं यदुपख्यानं ह्युपाख्यानम् ॥' आख्यानमिति । तथा चाह - 'आख्यानकसंज्ञां तलभते यद्यभिनयन् पठन् गायन् । ग्रन्थिक एकः कथयति गोविन्दर्यदवहिते सदसि ॥' निदर्शनमिति । तथा च — 'निश्चीयते तिरश्चामतिरश्चां वापि यत्र चेष्टाभिः । कार्यमकार्य वा तन्निदर्शनं पञ्चतत्वादि ॥ धूर्तविटकुट्टनीमतमयूर माजरिकादिकं लोके । कार्याकार्यनिरूपणरूपमिह निदर्शनं तदपि ॥' प्रवह्निकेति । तथा च - 'यत्र द्वयोर्विवादः प्रधानमधिकृत्य ज्ञायते सदसि । सार्थप्राकृतरचिता प्रवह्निका चेक मन्थल्लिकेति । तथा च -- 'क्षुद्रकथा मन्थली प्रेतमहाराष्ट्रभापया भवति । गोरोचनेव कार्या सानङ्गवतीव वार्कचेटीभिः ॥' सापीति । तथा च - - 'यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीनाम् । प्रारब्धानिर्वाहे सापि हि मैन्थलिका भवति ॥ मणिकुल्येति । तथा च-' -'मणिकुल्यायां जलमिव च लक्ष्यते यत्र पूर्वतो वस्तुं । पश्चात्प्रकाशते सा मणिकुल्यामिवादिः॥’परिकथेति । तथा च - ' पर्यायेण बहूनां यत्र प्रतियोगिनां कथाः कुशलैः ।
१. 'वद' स्यात्. २. 'तन्त्रादि' मूले. ३-४-५ 'मत' स्यात्. ६. 'मत्स्य हसितादिः ' मूलानुरोधात्.
Page #353
--------------------------------------------------------------------------
________________
काव्यमाला |
मध्यादुपान्ततो वा ग्रन्थान्तरप्रसिद्धमितिवृत्तं यस्यां वर्ण्यते सेन्दु
मत्यादिवत्खण्डकथा |
३४०
समस्तफलान्तेतिवृत्तवर्णना समरादित्यवत्सकलकथा | एकतरचरिताश्रयेण प्रसिद्ध कथान्तरोपनिबन्ध उपकथा । लम्भाङ्किताद्भुतार्था नरवाहनदत्तादिचरितवद्दृहत्कथा । एते च कथाप्रभेदा एवेति न पृथग्लक्षिताः ।
गद्यपद्यमयी साङ्का सोच्छ्रासा चम्पूः ।
संस्कृताभ्यां गद्यपद्याभ्यां रचिता प्रायेण यान्यङ्कनानि स्वनामा परनाम्ना वा कविः करोति तैर्युक्ता उच्छासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा ।
अनिवद्धं मुक्तकादि । मुक्तक-संदानितक- विशेषक-कलापक- कुलक-पर्याकोश-प्रभृत्यनिबद्धम् एषां लक्षणमाहएकद्वित्रिचतुश्छन्दोभिर्मुक्तक संदानितक विशेषककलापकानि । एकेन च्छन्दसा वाक्यार्थसमाप्तौ मुक्तकम् । यथा अमरुकस्य शृङ्गारशते रसस्यन्दिनो मुक्तकाः । द्वाभ्यां संदानितकम् । त्रिभिर्विशेषकम् | चतुर्भिः कलापकम् । एतानि च विशेषानभिधानात्सर्वभाषाभिर्भवन्ति । पञ्चादिभिश्चतुर्दशान्तैः कुलकम् ।
छन्दोभिरिति वर्तते । मुक्तकानामेव प्रघट्टको पनिबन्धः । अवान्तरवाक्यसमाप्तावपि वसन्ताद्येकवर्णनीयोद्देशेन मुक्तकानामुपनिबन्धः । पर्यासा कोशेषु प्रचुरं दृश्यते । स्वपरकृतसूक्तिसमुच्चयः कोशः । यथा सप्तश
-
श्रूयन्ते शूद्रकवज्जिगीषुभिः परिकथा सा तु ॥' खण्डकथेति । तथा च - ' ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः । मध्यादुपान्ततो वा सा खण्डकथा यथेन्दुमती ॥' सकलकथेति । चरितमित्यर्थः ॥ उपकथेति । तथा च - 'यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः। चरितं विचित्रमन्यत्सोपकथा चित्रलेखादिः ॥' बृहत्कथेति ।
Page #354
--------------------------------------------------------------------------
________________
८ अध्यायः]
काव्यानुशासनम् ।
तकादिः । एकप्रघट्टके एककविकृतः सूक्तिसमुदायो वृन्दावनमेघदूतादिः . संघातः । विप्रकीर्णवृत्तानामेकत्र संधानं यदुवंशदिलीपवंशादिवत्संहिता । एवमनन्तोऽनिबद्धगणः स आदिग्रहणेन गृह्यते । इह च सत्संधित्वं शब्दार्थवैचित्र्ययोगश्च महाकाव्यवदाख्यायिकाकथाचम्पूष्वपि द्रष्टव्यः ।। इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञखोपज्ञकाव्यानुशासनवृत्ता
वष्टमोऽध्यायः समाप्तः ।
तथा च-'लम्भाङ्कितामृतार्था पिशाचभाषामयी महाविषया । नरवाहनदत्तादेश्चरितमिव वृहत्कथा भवति ॥'
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेकेऽष्टमोऽध्यायः ।
समाप्तोऽयं ग्रन्थः।
-
-
-
-
Page #355
--------------------------------------------------------------------------
Page #356
--------------------------------------------------------------------------
________________
अकाराद्यनुक्रमेण सटीककाव्यानुशासनोदाहरणानुक्रमणिका ।
م
ب
2
س
س
*
. 0
१४
१४३
१९८
अनङ्गः
: : : :
१६८ २१७
१०२
२४८
पृष्टाङ्काः
पृष्टाङ्काः अकलिततपस्ते ... ... १५२ अनोपचार (टी.) अकुण्ठोत्कुण्ठ ...
२०२/ अथ जयाय ... अखण्डमण्डल (टी.)
२३२ | अथ पथि (टी.)... अगस्त्यचुल (टी.)
१२७ | अथ स ललि (टी.) अगा गां गा ...
| अदृश्यन्त पु ... अगूढसाहसस्फुट -
अद्यैवावां रण (टी.) अग्रादपि मध्या (टी.)
| अधरदलं ते ... अघौघं नो नृ ...
अधरे विन्दु (टी.) अकाधिरोपि (टी.) ...
अधिकरतल ... अहं चन्दन (टी.) ७ अधिकृतभा
३२४ अनानि चन्दन (टी.)
... ...
.९७ अनानीलेकमपि ... ... १०५ । अनगमङ्गल इलीभिरिव ...
अनङ्गलहल. (टी.) अचिरभामिव ... ...
अनणुरणन्म (टी.)
१८५ अजित्वा साण
अनध्ववसि (टी.)
२६३ अज्ञानाद्यदि (टी.)
अनाधिव्या ...
२४२ अट्टहासच्छले (टी.) | अनुत्तमानुभा ...
१८३ अण्णं लडहत्तय...
| अनुरागवती ...
२३२ अतथ्यान्यपि (टी.)
अनेकनर्तकी ...
३२८ अतन्द्रचन्द्रा ...
अन्तर्व्याज (टी.)
१३५ अतिकान्त (टी.)
१३४ अन्नप्रोत ... ... ... अतिथि नाम ...
१५६ मत्रैः कल्पित (टी.) अतिनवधूरोप (टी.)
| अन्यत्र यूयं ... अत्ता इत्य... ...
अन्यत्र व्रज ... ... अत्युच्चपदाध्या ...
| अन्यदा भूष ... अत्रान्तरे किम... ...
| अन्ययान्यव ...
२७८ अत्रान्तरे रणि (टी.) ... ... १९९ | अन्यास्ता गु ... ... ... १४८ अत्रावदात (टी.) ... ... १३१ | अपङ्किलत (टी.) ... ... १३१
१. अस्यामनुक्रमणिकायां यत्र यत्र पङ्की (टी.) एतच्चिहमुपलभ्यते, तदुदाहरणं टीकायामन्वेपणीयम्. यत्र च पकौ चिहं नास्ति, तदुदाहरणं मूले मृग्यम्. .
...
११९
: :: :
Page #357
--------------------------------------------------------------------------
________________
H
पृष्ठाकाः
:::
२५१ २१७
१८८
१४२
१४८
२३२
१७६
२८९
३
२१४
१६७
२४८
- पृष्ठाङ्काः
२०१ अलिकुलकुन्त ... २६५ अलिनीलाल (टी.)
अलिभिरञ्जल ...
अलिवलयैर ... २७० अलोलकमले १८३ अलौकिकमहा (टी.) १३५ अवन्तिनायो (टी.)
अवितथमनो (टी.) २५८ | अविरलक ...
अविरकर (टी.) १४८ | अवीनादौ (टी.)... ३३३ अशूच्यत (टी.)... ५५ असतामहि (टी.)
असंतोषदि
| असंशयं क्षत्र ... ... २८० असावुदयमा ... २८०
| असिमात्रसहा ... ... १०५
असोढा तत्का (टी.)
असौ मरुच्चु ... २६५ अस्त्युत्तस्यां (टी.) ...
अस्म(ग्ण)त्थ अस्माकमद्य ... ... अस्मान्साधु अस्मिञ्जहीहि अस्मिन्नेव ल
अहयं उज्जुअ ... १८५ अहमेव गुरुः ... | अहं त्वा यदि ...
अहिणवमण
१२३
::
अयमहिमरु (टी.) अपाङ्गतरले (टी.) अपूर्वमधुरा अप्यवस्तुनि अप्यसजन अभिधाय ... अभिनवकु ... अमरसदनानि (टी.) अमी ये दृश्य ... अमुं कनक . ... अमृतममृतं ... अम्भोजगर्भ (टी.) अयमेकपदे ... अयं पद्मास ... अयं प्रसूनो (टी.) अयं मार्तण्डः . ... अयं स भुवः (टी.) अयं स रस ... अयि जीवित ... अयि दीयर ... अयि पश्य ... अरण्ये नि (टी.) अरातिविक ... अरुचिनिश (टी.) अरे रामाह ... • अर्थः स एव (टी.) अर्थित्वे प्रकटी ... अलसलुलित ... भलसविल (टी) अलंकारश ... अलंकृत (टी.) ... अमंस्थित्वा... ...
.
...
:::::::::::::::::::::::::::::
८
.
:: :: :: :: :: :: :: :::::::::::::
...
१२९
::
.
२९४
:
७७
१०७
२६८
अहो विशा ...
:::
१४१ २७२ २५७
१७ | अहो संसार ... ___५१ आकम्पितक्षि (टी.)
१२७
Page #358
--------------------------------------------------------------------------
________________
१६४
of
my
१००
mr
.१२
-
.
५२
१९७
२८२
... ...
१४२
आकाशयान (टी.) ... आक्षिपन्त्य आख्यानक (टी.) आगच्छागच्छ (टी.) आगममणिसु (टी.) ... आच्छिद्य कुसु (टी.) आज्ञा शक ... आज्ञा जगन्मा (टी.) आतन्वत्सरसां (टी) आत्तमात्तमधि (टी.) आत्मनश्च परे ... आत्मानुभूत आदाय कर्ण ... आदाय चापल (टी.) आदाय वारि प... ... आदावञ्जनपु (टी.) ... आदित्योऽयं ... ... आनन्दममन्द ...' ... आनन्दसंदोह (टी.) ... आपातमारत (टी.) ... आपृष्टास्मि व्यथ ... आमूलयष्टेः (टी.) ... आयस्ता कलहं ... आयाते दयिते ... आरोग्यमाप्त (टी.) आर्द्राविले व्रज (टी.) ... आर्यस्यास्त्र (टी.) आलिख्य पत्र ... आलिङ्गितस्तत्र ... आलोकमार्ग ... आलोलामल ... आवर्जिता किंचि ... आवर्तशोभी (टी.) ....
:::::::::::::::::::::::::::::::: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: ::
पृष्टाङ्काः
धृष्ठाङ्काः १२३ | आशुलम्बित २९१ आश्लिष्टभूमि ३३९ / आश्लेषिताः ... ९७ आश्लेषे ... ...
आसाइयं ... | आसीदन्ति भ (टी.) ... आसीत्यो हय (टी.)... आसीदञ्जनम (टी.) ... आसीनाथपिता (टी.) ...
आस्तीकोऽस्ति (टी.) ... ... ... २६०
आस्थानकुहिम (टी.) ... ... ... ३२४ आहतं कुचतटे (टी.) ... ...
आहूतस्याभि ... ... ... २९७ ... २३२ आहूतेषु वि ... ... २५८ इतस्ततो भषन् (टी.)
इतो वसति के... ५१ । इदं ते केनोक्तं ... २७१ | इदं भासं भ (टी.)
इन्द्रस्त्वं तव वा... १४ इयं गेहे लक्ष्मी ...
१०१ | इयं सा लोला (टी.) ... १२७ ईदृशस्य भवतः (टी.) ... १९७ | ईषन्मीलित ...
... ... ३१३ ईसाकलुस्स (टी.) उच्चिणसु उत्कण्ठा परि ...
उत्कम्पिनी ११) उत्कृत्योत्कृत्य
उत्कृत्योत्कृत्य ९० / उत्खातनिर्मल (टी.)
३१५ उत्तानोच्छून ... ... ... २४८ | उत्तालताडको ... ...
२४०
७ | उत्तिष्ठन्त्या रता (टी.) ...
२९
२५१
३०१
११९
...
३०४
:: :: :: :: :: :: :: :: :: :: : :
१६६
Page #359
--------------------------------------------------------------------------
________________
१५१
३०४ २९६
७०
.
२६९
१२९
..
११९
पृष्ठाङ्काः उत्तिष्ठन्त्या रता... ...
३१४ उषःसु वधुरा (टी.) ... ... उत्पश्मणो... ...
१०० ऊरुद्वन्द्वं सरस (टी.) ... उत्पत्तिर्जमद ...
ऊरुद्वयं कद (टी.)... उत्पादकः क (टी.)
१० | ऊर्ध्वाक्षिताप (टी.) उत्फुल्लकमल ...
ऋजुतां नय ... ... उत्सित्तस्य तपः...
८६ एकत्तो रुअइ (टी.) ... उदयति वित ...
| एकत्रासनसंग ... ... उदान्वच्छिन्ना ...
१५१ | एकस्त्रिधा वससि (टी.)...
टा.)... ... उदाररचना (टी.)
२०९ | एकस्मिञ्शयने ... ... उदितो रसा ...
एकस्यामेव तनौ... ... उदीच्यचण्डा (टी.)
एकं ज्योतिर्दृशौ (टी.)... उद्दण्डोदर (टी.)
एकं ध्याननि (टी.) ... उद्दामोत्कलिकां ...
| एण्यःस्थलीषु (टी.) ... ... उद्देशोऽयं... ..,
३६ | एतत्सुन्दरि (टी.) उद्धतपुरुषप्रा ...
३२१ एतास्ता मल (टी.) उद्धृतैनिभृत ...
| एतां पश्य पु ... उद्भि ही च सं (टी.)
५ एतेनाक्ष्णा प्रवि (टी.) ... उद्भेदस्तस्य ...
३३५ एते लक्ष्मण ... ... उद्यता जयि ...
१४५ एते वयममी दा (टी.) ... उद्ययौ दीर्घिका...
१६४ एते वयममी दा (टी.) .. उद्यानानां (टी.)
१३२ | एहमित्तत्थ ...
... ... उन्नतः प्रो ...
४२ / एमे जाणाति (टी.) उन्मजन्मकर ... ... १३७
एवमालि नि ... ... ..... उपपन्नं ननु (टी.)
१७७ | एवं वादिनि ... उपरि घनं
२५२ एष ब्रह्मा (टी.) उपपरिसरं
१८९ | एसो वि ण स ... उप्पह जायाए (टी.)
.... २५९ | एहि गच्छ ... उपशमफला (टी.)
४ | एह्येहि वत्स (टी.) ... उपानयन्ती (टी.) १३१ | ऐरावणं स्पृ ... उपोढरागेण ...
२७४ | औत्सुक्यगर्भा (टी.) उभौ यदि व्यो ...
२४७ | औत्सुक्येन कृ ... उरसि निहित ...
३०८ | कः कः कुत्र ... उर्वशीहाप्सराः (टी.) ... ... . ५ | कण्ठाश्लेषं... (टी.)
:::::::::::::::::::::::::
३०३ / एता
२९७
:::::::::::::::::::::::::::::::::
११९
४०
१५०
८८
०
१
२६६ ११६
१
:::::::
२५७ २६० १११
१४६
mm
Page #360
--------------------------------------------------------------------------
________________
पृष्ठाङ्काः १२४ १६६
३४
२१९
१२
१७४
س
.
س
م
... १४८
mr wr
कथमवनिप (टी.) ... कदा नौ संगमो... ... कनककलश ... ... कपाटविस्तीर्ण ... ... कपोले जानक्या (टी.)... कपोले जानक्या (टी.)... कपोलफलका ... ... कमनेकतमादा (टी.) ... कमलदलैरधरैः ... ... कमलिनीमिलि (टी.) ... कर किशलयं करभाः शरभाः (टी.) ... करिष्यसे यत्र (टी.) ... करिहस्तेन संवा... करुणरसप्राय .., करेण ते रणे ... करोषि तास्त्व (टी.) कर्कन्धूनां ना (टी.) ... कर्कन्धुफलमु ... कर्कोट: कोटि (टी.) कर्णाभ्यर्ण (टी.) कर्ता द्यूतच्छ (टी.) कर्तुमक्षमया (टी. कर्पूर इव... ... कर्पूरचूर्ण' (टी.) कर्पूरधूलिध (टी.) कलिकलुष (टी.) कलुषं च तवा ... कल्लोलवेल्लि
... कश्चित्कराभ्या ... कश्चित्कराभ्या ... कष्टा वेधव्यथा ... कस्त्वं भोः कथ (टी.) ...
पृष्ठाकाः २८ | कस्माद्भारत (टी.)...
| कस्सिन्कर्मणि ... ७६ कस्स व न होइ...
काङ्क्षन्पुलोमत (टी.) | काझ्याः पूरो (टी.) कातर्यकेवला कान्ते तल्प ... कामं भवन्तु (टी.) कामे कृतमदा (टी.) कायं खाइइ ...
का विसमा ... | काश्मीरीगा (टी.) । काष्टानिमेषो (टी.) काहमस्मि गुहा (टी.)
किं करोमि क्व ... २१२ | किं किं सिंह ... २२४ किं गौरि मां ...
किंचिद्वच्मि न ... ( किं ददातु कि ... | किं लोभेन वि (टी.)
किं वृत्तान्तैः | किमानेनाय (टी.)
किमपि किमिह (टो.) २७१ किमपि किमपि...
किमपेक्ष्य फलं... | किमीहः किं का (टी.) किमुच्यतेऽस्य ... कियतापि यत्र (टी.) कियन्मानं ज (टी.)
किशलयमिव ... २९७ | कीर्ति स्वर्गफ (टी) १४५ कुन्दे मन्दस्त (टी.) २५९ / कुमुदकमल ... ...
::::::::::::::::::::::::::
WW.
KG ०८
:::::::::::::::::::::::::::::::: ::::::::::::::::::::::::::::::::
:10.
न्तिः
...
१८०
.
.
Surs v vr
...
९१
.
२५६
Page #361
--------------------------------------------------------------------------
________________
-
N
२१५
११५
o
१९७
- 1
0
पृष्ठाकाः
पृष्ठाङ्काः कुमुदवनमप (टी.) ... ... १० | क्षितिं खनन्तो (टी.) ... ... १३१ कुरङ्गीवाङ्गानि ...
२४९ क्षितिविजित (टी.) ... कुरु लालस भू ...
२२८ क्षितिस्थिति (टी.) ... कुलवालिया ए ...
३०१ | क्षिप्तो हस्ताव ... ... कुलममलिनं (टी.)
२६ क्षीणः क्षीणोऽपि (टी.)... कुललालिलाव (टी.)
२२९ क्षुद्रः कथा मन्थ (टी.) ... कुविन्दस्त्वं ता ...
१६८ क्षुद्रः कोऽयं तप (टी.)... कुसुमसौरभ ...
२८९ क्षेमः स्तोमो (टी.) कुसुमायुधप (टी.) ३३७ खमिव जलं ...
१५२ कृच्छ्रणोरुयु (टी.) १०४ | खं येऽभ्युज्जल ...
४३ कृतककुपि (टी.)
१७८ खं वस्ते कलवि (टी.) कृतवानसि ...
| खरेण खण्डिता... कृतो दूरादेव ...
३१५ खर्जूरजम्बू (टी) कृष्णार्जुनरक्त
| खाद्यो द्यग्नि (टी.) कृष्णेनाम्ब
ख्यातिकल्पन (टी.) केदार एव (टी.)
| गगनगमनलीला (टी.) केनेमौ दुर्वि
| गङ्गातीरे हिम ... केलिकन्दलि ...
| गजादीनां गतिं... कैलाशगौरं (टी.) १४ | गजो नगः कुथा...
२५१ कोपात्कोमल
२१ | गन्तव्यं यदि ना (टी.)... कोपान्मानिनि (टी.)
___९ गर्भग्रन्थिषु (टी.)... कोऽयं द्वारि ह ...
| गर्भनिर्भिन्न ... कोराविऊण ... १८६ गर्भ वलाकासु (टी.) कोऽलंकारः स ... ... २८७ | गर्वमसंवाह्य ... ... ... २६८ कौटिल्यं कच ... ... ... २८७ | गाढालिङ्गन ... ... ... क्रीडन्ति प्रसर ...
२३३ / गाढालिङ्गन
___ ... ... ... ...
१४० क्रोधं प्रभो सं (टी.)
| गाढालिङ्गन ... क्रौञ्चाद्रिरुद्दाम २७० | गाम्भीर्यमहिमा ...
२४२ क्वचिदने प्रसर ...
गाहन्तां महिषा (टी.)
२०० क सूर्यप्रभवो
२५३ गिरिरयमपरे (टी.) ... कायं शशल
गुणतः प्रागुपन्य (टी.)... क्षणं कामज्व ... ... ... २४१ गुणानामेव दौ ... ... ... २५३ क्षणं स्थिता प (टी.) ... ... १९६ / गुणानुरागमिश्रे (टी.) ... ... १२
::::::::::::::::::::::::::::::: : :
m
::::::::::::::::::::::::: : : :
१३४
mm
-
१२५ गाना
२०
-
m
Page #362
--------------------------------------------------------------------------
________________
गुरुगर्भभर
गुरुवणपरवश गुर्वर्थमथ गूवाकानां ना (टी.)
(टी.)
गृहाणि नाम गृहीत येनाशी... गेहाजिरेषु (टी.) गेहे वाहीक (टी.) गोत्राग्रहारं (टी.) गोमायवः श (टी.)
::
...
गोरपि यद्वाह
गोष्ठे यत्र .. ग्रन्थान्तरप्रसि (टी.) ग्रीवाभङ्गाभिरा... ग्रीष्मी ची रीना (टी.) ग्रैष्मिक समय (टी.) घनाघ नायं न (टी.) घोरघोरतरा ( टी.) चकार काचित्
चकास्ति वदन चकोरहषीं (टी.) चक्रं दहतारं
चक्रं रथो मणि (टी.) चक्री चक्रारपति..
...
...
www
...
...
...
चञ्चद्भुजभ्रमि चतसृष्वपि (टी.) चतुःसमुद्र (टी.) चतुरसखीजन ... चन्दनासक्त (टी.)
...
...
...
...
...
...
...
...
...
...
चन्द्रं गता पद्म • चन्द्राद्दुधः समभव (टी.) चन्दम ऊ एहिं चमहियमाण (टी.)
...
...
...
...
...
...
...
...
...
...
...
...
ABG
...
...
...
...
...
...
पृष्ठाङ्काः १०१ || चम्पककलि
३७ | चरां वाल्ये डि (टी.) १७८ | चलच्चटुल
(टी.)
१३३ चलति कथं
६९ | चलापाङ्गां.. १८५ | चापं पुष्प
१३१ | चापाचार्य
१३५ | चारुता वपुरभूष.
...
(टी.)
१३
१९५ | चित्रं चित्रं वत.. १८३ | चिरकालपरि
...
(टी.)
...
३२८ | चुम्वलङ्का ३४० | चूअङ्कुरावयसं ७८ चूडा प्रोतेन्दुमा (टी.) चैत्रे चित्रौर (टी.)
चैत्रे मदधि:
७७
१२९ | जम्बूद्वीपः ... १२७ | जयति क्षुण्ण
१३४
१३४
(टी.)
२१४ | च्युतसुमनसः (टी.) ६ च्युतामिन्दोर्ले (टी.)
३१३ |छन्नानुरागपू
१९० | छायामपास्य
१३० | जगदेकगुरुर्यो (टी.) २११ | जङ्घांकाण्डोरु
१२७ } जडचन्दनचार (टी.) जनको जनको (टी.)
१९०
जनस्थाने भ्रान्तं ...
चित्तमेव हि सं (टी. ) .
...
...
040
...
१६८ | जयति सितवि (टी.)
४८ | जयन्ति धवल (टी.)
:::
...
२५४ |जय मदनगज
५० | जयाशा यत्र (टी.)
...
...
...
...
⠀⠀⠀
...
...
...
...
⠀⠀
⠀⠀⠀
...
⠀⠀
...
...
::
...
...
⠀⠀⠀
...
...
१८६ | जयन्ति नील (टी.) :.. जयन्ति वाणासु (टी.)
...
...
...
:
...
...
...
...
...
...
6.3
...
303
...
...
...
...
...
...
...
...
...
...
...
...
पृष्ठाङ्काः २३३
४
१३०
९१
१८
१४
१६२
१५२
२३०
२८५
१८३
१३३
५०
२१९
१३३
१३२
१९७
१९९
३२७
१६५
२१३
१६२
१३४
१७७
१०६
१२६
१४३
१०
८
१५
२१५
१७९
Page #363
--------------------------------------------------------------------------
________________
जलसमयजा (टी.) जस्स रणन्ते उरदा जस्सु पर यस्य (टी.)
शत्रु
जं जं करे सि जं
जं भह तं
जायेज्ज वणुद्दे (टी.) जितानया यान (टी.)
जितेन्द्रियत्वं
जीविताशा
जुगोपात्मान
जो तीए अहर ज्योतीरसारम ज्योत्स्नापूर (टी.) ज्योत्स्ना मौक्ति
ज्योत्स्नां लिम्प
ज्योत्स्नेव नयना ज्वलतु गगने
दुि
यह मुह प
लेई अणो
...
...
तत्संकेतगृहं (टी.) तथाभूतां तथाभूते त तथाभूदुस्सा तथा हि दर्शने.
तदाननं निर्जि (टी.) तदिदमरण्यं य (टी.)
:
(टी.)
ततोऽरुणपरि
तत्तावदेव शशि (टी. ) .... तत्तावदेव शशि (टी. ) ... तत्रागारं (टी.)
तत्त्वं वीतावत
::
⠀⠀⠀⠀
...
...
...
...
:
900
::
...
...
⠀⠀
...
...
...
...
:
...
पृष्ठाङ्काः
१३४ | तद्नेहं नतभित्ति... २५१ | तद्वक्रं यदि मु २३० | तद्वक्राभिमुखं १८५ | फेन्दुबिलो (टी.) ३११ | तद्वेषोऽसदृशो
...
२८८ | तनुलग्ना इव (टी.)
२१५ | तन्वङ्गी यदि (टी.) तपखिभिर्या
२१९
१४४ | तमालश्यामलं ३१ | तमेनमवधी (टी.) १७२ | तरङ्गय दृशो २८२ | तरन्तीवाङ्गानि १४६ | तरलयसि दृशं (टी.) १२३ | तल्पकल्पन विधे
२६८ | तव कुसुमशर
१४७ तव नवनव २४२ | तव प्रसादात्कु
३१५ | तव शतपत्र (टी.)
२४२ | तवाननमिवा
३३ | तस्य च प्रव ३६ | तस्याधिमात्रे २०६ | तस्यारिजातं
९ | तस्यास्तन्मुख
तं कृपामृदु
در
...
...
:
(टी.)
...
:
...
:
...
...
१२९ | तं ताण सिरि २२३ | तं तिअसवन्दि (टी.) ३०८ | तं शंभुरासुरसु (टी.) ३६ | ताताजन्मव (टी.) १२२ | तापापहारच (टी.) ३०५ | तापीनेयं...
३१६ | तामुक्तीर्य व्रज (टी.) २०० | ताम्बूलभृत
...
२९४ | ताम्यत्यामज (टी.)
...
::
::
⠀⠀⠀
...
...
...
0.0
...
:
...
⠀⠀
...
...
...
पृष्ठाङ्काः
५५
१५३
१०१
१२१
१५६
१२
१६७
१८४
१२७
१५३
३०२
३३८
३०७
१५२
१३०
१८७
१०५
२४७
२८३
१६०
२०९
२६८
१७१
४७
३३४
१५
१७९
१३
४७
१५
१५८
२००
Page #364
--------------------------------------------------------------------------
________________
०
२२४
०
०
२००
८५६५
१०१
०
०
१४१
१४५
०
.
०
पृष्ठाङ्काः
पृष्ठाकाः तारे शरणमुच्य(टी.) २२३ त्वं विनिर्जितम (टी.) ... २९५ ताला जायन्ति ... ... १४४ त्वं समुद्रश्च ... तालैः सिञ्ज ...
५४ / त्वं साज्ञासु ज (टी.) तासां तु पश्चात्...
२४७ | दक्षिणो दक्षि (टी.) तासां माधव (टी.) १३० ददृशाते जनै (टी.) तिष्ठन्त्या जनसं...
१५ ददृशुरदेश (टी.) तिष्ठेत्कोपक्शा ... ... . ८५ ददौ सरः पङ्कज... तीक्ष्णं रविस्त (टी.) ... १३१ दन्तक्षतानि ... ... ... ११८ तीव्राभिषङ्ग
दर्पणे च प ... तीर्थान्तरेषु
। दलत्कन्दल ... तीर्थे तदीये
दलत्कुटज (टी.) तीर्थे तोयव्य
दशदिक्कुट (टी.) तुह वल्लहस्स
| दशरश्मिशतो ... ते काकुत्स्थट (टी.)
दातारो यदि ... ते गच्छन्ति महा ... २२७ दानं वित्ताद्रसं ते ताणहयच्छाय ... १०० दानवाधिपते (टी.) ... ... ते दृष्टिमात्र
दारुणरणे रण तेनावरोधप्रम (टी.) । दासविटश्रेष्ठि
३१९ तेऽन्यैर्वान्तं
दिङ्मातङ्गघटा ... ते पाण्डवा (टी.)
दिनमवसितं ...
२७६ ते हिमालय
१५० | दिवमप्युपया त्रासाकुल (टी.)
| दिवाकराद्रक्षति
१६८ त्वत्कटाक्षा ...
दिव्यपुरुषाश्रय ...
३२१ त्वत्संप्राप्ति (टी.)
दिशः प्रसादयन्... त्वदाज्ञया ज (टी.)
दिशामलीकाल ... .... ... ...
२७१ त्वदीयमुखमा ...
दीर्घाकुर्वन् (टी.) __ ११ त्वदुद्धृतामयस्था... ...
दुर्वाराः स्मरमा ... त्वद्विप्रयोगे कि (टी.) ...
दूराकर्णमोह ... त्वन्मुखं त्वन्मुख ... २४७ दूराकृष्टशिली त्वमेव देव पा (टी.) ...
दूरावीयो ... त्वमेवं सौन्दर्या (टी.) ... ... १९९ दूरादुत्सुकमा .... त्वयि निवद्ध ... ... ... १३९ | दुरोद्दण्डतडित् (टी.) ... ... त्वं वादे साधु (टी.)... ... २२२ दृढतरनिवद्ध ... ...
०
१४९
...
३६७
.
.
0
Page #365
--------------------------------------------------------------------------
________________
१०
..
१२
७. 2
1
-
:: :: :: :: :: :: :: :: :: :: :: :: ::
१६
२४२
पृष्ठाङ्काः
पृष्ठाङ्काः दृष्टा यूयं नि (टी.) ... १२२ द्रविणमापदि ...
१४३ दृष्टि मृतवर्षि (टी.) ...
द्रुमोद्भवानां (टी.) ...
१३५ दृष्टिस्तृणीकृत ...
द्रोणाश्वत्थाम ... दृष्टिः शैशवम ... ३०५ | द्वयं गतं संप्रति (टी.)
१३० दृष्टिः सालसतां ... | द्वारोपान्त ...
३७ दृष्टिं हे प्रति
द्विगुरपि सद्ध (टी.) ... दृष्टे लोचन ... ... ...
| द्वित्रिमुचुकुन्द (टी.) दृष्ट्वा प्रयुज्य १६४ | द्वित्रैर्कोम्नि (टी.)
१२९ दृष्ट्वैकासन ७० | द्विषतां मूल
२१० दृशा दग्धं । (टी.) १३९ | द्वीपान्तराणां (टी.)
१२८ दृशा दग्धं ... २७२ | द्वीपान्यष्टाद
१२७ दे आ पसीय ... ... ... ३२ | द्वौ वज्रवर्णों (टी.) ... देधीवेवीङ्
१६९ | धनुर्माला... देयानश्चण्डधा (टी.)
२२० धन्यस्यानन्य देव स्वस्ति वयं ...
धम्मिल्लस्य
१७०
धर्मार्थकाममो देवानां नन्दनो (टी.)
धवलोसि जई
२७२ देवानां मानसी (टी.)
धातुः शिल्पा
२८४ देवासुरबीजक ...
धिङ्मां किं स ... देवार्चनरतः ... ८२ | धीरो विनीतो
१४७ देवि त्वा ये (टी.)
धूर्तविटकु
३३९ देवीभावं गमि ... २५३ धूर्तविटसं
३२५ देवीखीकृत (टी.) ...
| धूलीकदम्ब (टी.) देवे वर्षय (टी.) ... ९७ धेहि धर्मधन ...
२८७ देव्या स्वप्नोद् (टी.) ... २२५ धैर्येण विश्वा देशः सोऽयमरा (टी.)...
१७७ न केवलं भाति ... देशः सोऽयम ... ...
| नखदलित (टी.) दैवायत्ते हि (टी.)
| न खलु वय ... दोर्मन्दीरितम (टी.) ... ... १४ न च दिव्यना ... ... ... ३२३ दोर्मूलावधि ...
| न च मेऽवगच्छ... द्यामासौ... (टी.) ... ... ७ न तज्जलं यन्न ... ... २६६ युवियद्गामि ... ... ... १२६ न त्वाश्रयस्थि (टी.) ... ... द्योतितान्तप्र (टी.) ...
२८२ ... . ११ नदीतूणे क (टी.) .... ... . . १३.
दवा दवा
:::::::::::::::::::::::::::::::::
::::::::::::::::::::::::::::::::::
M
१५०
२४०
३
mr mmm
.
Page #366
--------------------------------------------------------------------------
________________
पृष्टाकाः
पृष्टाङ्काः २०७
२४६
5A
२२६
३२२ २८३
...
२९
२८८
mr
.
१०३
م
ه
१२ .
४०
२१८
م
३५
नद्यो वहन्ति (टी.) ननोनुननो ... नभ इव विम ... न भवति भवति न मया गोरसा ... नमस्त्रिभुवना (टी.) ... नयनानन्द ... नवजलधर (टी.) नवनखपदम ... न विद्यया के (टी.) नवीनविभ्रमो
नवसावित्री (टी.) : न स शब्दो (टी.)
न स संकुचि (टी.) ... ! नानाकारेण का (टी.)
नानावासश्चित्र (टी.) ... ४ नानाविभूतिभिः... | नानाव्याकुल ...
नानृषिः कविरि... नान्तर्वर्तयति ... . नाभिवादप्र ... नारीणामलसं (टी.) नालस्य प्रसरो ... नालिङ्गितः कुर (टी.) ... नाश्चर्य यदि' (टी.) ... नासतो वि (टी) ... नास्त्यचौरः कवि (टी.)... नांष्ट्रा त्वाष्ट्रारि (टी.) ... ... निअदई ... ... ... निग्गणुदुरारोहं ... ... निग्रहात्स्वसु (टी.) ... निघ्ननाभिसु ... ... निजवर्षाहित (टी.) ... ....
नितम्बगुवीं ... ... २१६ नितम्बो मन्दत्वं...
निद्रानिमीलि ... निरवधि च (टी.)
निर्धातोप्रैः कु ... १२६ निर्घातोल्कापा ...
निर्णतुं शक्यः निद्रव्यो ह्रियमे ... | निर्माल्यं नयन ... निर्वाणवैर निर्वाणवैर ... | निर्विभुज्यदश ... निवेदितं नि ... निशितासि रतो (टी.) निश्चीयते (टी.) निःशेषच्युत ...
निःश्वासावद ... ३२४ निष्कन्दामर ...
निहुयरमणम्मि ... नीलामरश्मि (टी.) नीलाश्मरदिम (टी.) नीलेन्दीवर ... नीविराग्रन्थ (टी.) नृसिंहशूकर नेरिवोत्पलैः ... | नेयं विरौति ... | नोदात्तनायक ...
| न्यकारो ह्ययमे (टी.) ३१/न्यश्चत्कुश्चित ... ... ...
न्यस्ताक्षरा (टी.)
पतौ विशन्तु ... ... २३९ पच्यन्त इव (टी) ... ३३८ | पणयकुवियाण ... ...
३०६
س
२६३
११२
س
१२
१७
२८४
.३२७
२४१
२८१
३१९ १८१
س
२
س
१७७
१०८
و
سه
س
Page #367
--------------------------------------------------------------------------
________________
१३२
ه ه ه
.
२१३
ه ه ه ه س
२१३
م س و
पृष्ठाङ्काः
पृष्ठाहाः पण्णवसि अव्व (टी.) ... ... २८३ पातालमिव ... .... .... १६८ पंतिते पतङ्ग .::. ... १६४ पातु वो भगवा ... ... २१२ पत्त नि अम्ब ..:. .... १४६ पादन्यासक्वणि (टी.) ... ... पत्युः शिरश्चन्द्र .... ....
| पानेऽम्भसोः सुर(टी.).... पदद्वयं कपा- ...
| पायावश्चन्द्रधारी(टो.) ... पर्नेसोदि बहु (टी.) .... १३५ | पिअमुहससंक (टी.) ... ... पंन्थिय न एत्य....
| पिनद्धमाहार (टी.) ... ... पयखिनीनांधे (टी.)
पिनाकिने नमः (टी.) ... पयोधरभस- ....
२२५ | पिहिते कारागा(टी.) ...' पयोधरास्वा (टी.)
पुत्रक्षयेन्ध . .:: परमा या तपो (टी.) २२२ पुन्नागरोन (टी:) ... परमा या समृ (टी.)
| पुराणि यस्यां ... ... परंवचनमात्म .::. ..:
३२५
पुष्पक्रिया म (टी:) ... परागतरुराजी ... .....
| पुष्पं प्रवालो (टी.) ... ... परापकारनिपु ........
| पुंसः कालातिपा(टी.) परार्थे यः पीडा (टो.)
पुस्कोकिलः कू (टी.) परिणतशतकाण्ड (टी.)... १९७ पुंस्त्वादपि प्रवि... परिपन्थिमनो ... ....
२४४
| पूर्णेन्दुकल्प ... परिभ्रमन्मूल (टी:) ...
पृथुकार्तखर ...
१६७ परिवदृइ विन्ना (टी.) ....
३३४ | पृथु शास्त्र . (टी.)
(डा.) ... ... ७ परिस्फुरन्मीन ...
९५ पृथ्वि स्थिरी (टी.) परिहरति रति ....
११८ पृष्टेषु शङ्ख . (टी.) पर्याणस्खलित ....
२७५
पेशलमपि ख (टी.) पर्याप्तपुष्पस्तव ...
२६९ १०१ / पोढमहिलाण ... पर्यायेण वहूनां (टी.) ३३९ । पौरस्त्यस्तोय (टी.) पश्चात्पर्यस्य
... १३१ ... ... १८६ १८६ | पौलस्त्यः स्व (टी.) ... ...
(टी.) पश्चात्पर्यस्य' ...
२६६ प्रकरणनाटक पश्यामि ता. ...
९५ प्रख्यातवस्तु पश्याम्यनङ्ग .... .... ... १६६ प्रख्यातवस्तु ... ... ... . ३२२ पश्येत्कश्चित् (टी.)
| प्रज्ञा नव ... .... पाणौ कङ्कण' ... ... ... ७५ प्रणयकुपितां ... ... ... पाण्डोर्नन्दन (टी.) .... ...
७३ १२३ प्रतिगृहमुपला (टी.) .... ... . ८ पातयाशु रथं ... ... ... .२१० प्रतिग्रहीतुं प्रण .... ....... २८६
:: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: ::
२५९
२४३ ।
१३७/
१५१
م
س
• २८७
م
* १७८
ه
तिवस्तु ...
.....
س
१०६
w.
Page #368
--------------------------------------------------------------------------
________________
م
م
· २२८.
س
س س دس
.
.
२६:
पृष्टाकाः
पृष्ठाडा: प्रतीच्छत्याशी (टी.) ... .... १९८ वालनीमूढ (टी.) ... ... ... प्रतीयमानं (टी.) ... ... २६ बाला क्रीडा . ... ... . ... ३२७ प्रत्यग्रमजन ... ... . ... १५६ ! वाले नाथ वि ... ... ... १४९ प्रत्यग्रोन्मेष ... ... ... ९२ वाले मालेय ... , ... .... २०२ प्रयत्नपरिवो
| विभ्राणः शक्ति(टी.) ... १८१. प्रवंणः प्रणयो ...
। बीजस्योद्घाटनं .... ...
. ३३.१ प्रवर्तते कोकिल (टी.)...
| ब्रह्मचर्योपतप्तो (टी.)
१९८ प्रवादिमतभेदे (टी.) ... २२३ ब्राह्मणातिकम ... प्रसरंन्ति की (टी.)
ब्रूत नूतनकूष्मा...
२९७ प्रसादे वर्तख ...
११२ भक्तिप्रववि .... प्रसाधितस्या ...
| भगत्तापसवि ... प्रसीदत्यालोके ...
| भगवति सहि (टी.) प्रहसनमपि वि ...
| भञ्जन्भूर्जद्रुमा (टी.) ... प्रागप्राप्त
१४७ | भण तरुणि रम... ... ८४. । प्राज्यप्रभावः ...
२३१ | भम धम्मिअ ... प्राणा येन सम ...
२५८ | भवतु विदितं (टी.) प्राणाः परित्यज (टी.) ३३३ | भवत्संभावनो ...
. २७२ः प्राणेश्वरपरि ... ... १८८ | भवानि ये निर ... ... प्राप्तश्रीरेप ...
३६ | भवानि शं वि .., प्राप्तावेकरथा (टी)
| भस्म वर्म फ (टी.) .. प्राप्ताः श्रियः स...
| भस्मोद्भूलन (टी.) ... ..... २८९ प्रावृष्यम्भोझ (टी.) ... | भाति पतितो (टी.) प्रियङ्गुश्यामम (टी.)
| भासते प्रति (टी.) प्रियेण संग्रथ्य ...
भूतियोजित ... प्रेक्षामृदङ्ग (टी.) ... १९६ भूपतेरुपस... ... ... ... १६१. प्रेयान्साय (टी.)
| भूरिभिर्भरि (टी.) प्रोन्मादयन्ती (टी.)
१३१ | भूरेणुदिग्धा ... ... ... ११४. प्रौढोच्छेदानु (टी)
२०५ भ्रमर द्रुमपु (टी.) ... .... . २०९. फुलकरं.... ...
भ्रमिमरति ... बभूव भस्मैव ... १५० भ्रूभङ्गे सहसो ...
.३१५. बहवश्च तत्र ... .... ... ३२३ मञ्जीरादिषु ... ... .... १६४: बहुर्थेष्वभि (टी.)
६ मणिकुल्यायां (टी.) ... ... . ३३९; बालमृगलोचना... ... ... २७० / मण्डलीकृत्य (टी.) . ... ......... , १३. .
:::::::::::::::::::::::::::::::::
:::::::::::::::::::::::::::::::::
२१..
१८०
१८८
१३१
ए
.
१४४
2
१५८
6
Page #369
--------------------------------------------------------------------------
________________
३
با
س
س
११
م
م
पृष्टाकाः
पृष्ठाङ्काः मण्डलेन तु य ... ... ... ३२८ माद्यन्मतङ्गः (टी.) ... ... १३२ मध्नाति कौरव ... ... १०८ माधवाय नम (टी.) ... ... मदमन्थर (टी)
१० मा धाक्षीन्मा (टी.) ... ... १३८ मदश्चतः श्या (टी.)
| माननापरुषं (टी.) मदं नवैश्वर्य (टी.) ...
मानमस्या नि (टी.) मदान्धमातङ्ग (टी.) ...
मा पान्थं ... ... ... मदो जनयति ... ...
|मा भवन्तम (टी.) ... मधुसुरभिणि (टी.) ... | मा भवन्तम (टी.) ... मध्ये जम्बूद्वी (टी.) ...
मा भैः शशाङ्क (टी.) ... मनुष्यवृत्त्या ...
५५ मामभीदा शरण्या (टी) । मनोऽधिकं चात्र .... | मायावित्तं महा (टी) ... मनोरोगस्तीनं ... ... ८९ मायेन्द्रजाल ... ... मन्थायस्तार्णवा ... ... २०४ मारारिशक ... ... मन्दाकिनीसैकत ...
| मालतीविमुख (टी) ... ... मम दृष्टस्य राजेन्द्र (टी.) २०० | मालायमान (टी.) मरकतसदृशं (टी.) ...
मासि मासि (टी.) मरुबकदमन (टी.) ...
| मीनध्वजस्व (टी.) मल्लिकामाल ... ...
मुक्ताः केलिवि (टी.) महतां त्वं श्रि (टी.) ... ... २२४ | मुक्तालताश्च (टी.) ... ... १३३ महर्धिनि... ... ...
मुक्तिभुक्तिकृ ... ... महानवम्यां (टी.) ... १३१ | मुखं विकसित (टी.) ... १०७ महाप्रलयमा ...
१६३ मुदे मुरारेरम (टी.) ... महासुरसमाजे (टी.) ... ... १५ | मुमूर्षोः किं तवा (टी.)
१० महिलासहस्स ... ... १०८ मुह्यन्मुहु ... ... महुएहिम् ... ...
| मूनी जाम्बव ... ... महेश्वरो वा (टी)
१९९ मूर्धामुद्धृत्य ... मा गर्वमुद्रह ...
१०२ | मूलैक्यं यत्र (टी.) मा गाः पाताल (टी.) १२३ मृगरूपं परि (टी.) मा गाः पान्थ (टी.)
मृगलोचनया ... मातङ्गाः किमु ...
१६९ मृदुपवनविभि ... माता नतानां ... ... २२० । मृधे निदाघज्ञ ... मात्सर्यमुत्सार्य ... ... १८६ मेघश्यामेन (टी.)
१३ माद्यदिग्गज (टी.) ... १८१ | मेरूरुकेशर ... ...
१४
:::::::::::::::::::::::::::::::::
:: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: ::
م
سه
و
१३६
०
०
or
२४३
Page #370
--------------------------------------------------------------------------
________________
1
मैनाक: किमयं
य एते यज्वान: (टी.)...
यचेष्टया तव (टी.) यतो याति ततो (टी.)... यत्कविरात्म
यत्कायमानेषु (टी.) यत्कालागुरु (टी.)
...
...
...
यत्र दुमावि (टी.) यत्र द्वयोर्विवा (टी)
यत्र वीजसमु यत्रानुलिखि यत्रानेक (टी.)... यत्राश्रित्य कथा ( टी . ) .. यत्पाणिर्न निवा यत्प्राचि मासे (टी.) यथा यथा पुष्प (टी. ) .. यथा यथा साप (टी.)
यथायं दारुणा यदना मथाहार्य
...
...
...
...
...
...
...
...
...
...
...
093
...
...
यदा लामह यदादित्यगतं (टी.) यदिन्दोरन्वेति (टी.) यद्यपि चन्दन (टी.) यद्यप्यनुपम (टी.) यद्वञ्चनाहित यद्वर्ज्याभिर्जंगा हे (टी.)... यद्विश्रम्य विलो ... ययायोगे कार्य ... यन्नाट के मयो यशोऽधिगन्तुं यस्मिन्कुलाङ्गना यस्य न सविधे
...
यस्य पश्चिम (टी.)
...
...
...
...
...
...
...
...
...
...
4.
#10
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
...
१५
पृष्ठाङ्काः
८७
...
यस्य प्रकोप ६ यस्याधोऽधः (टी)
२२३ | यस्या वीजमहं
...
२२४ | यस्यामुपहास (टी.) ३१८ | यस्यारातिनि (टी.)
...
...
...
१३३ | यस्यावमत्य गुरु (टी. ) ...
४९ | यस्यावर्जयतो १२७ यस्याहुरति (टी.) ३३९ | यस्योत्तमां (टी.) ३३० | य: सर्व कषति (टी.) १९२ | यः स्थलीकृतः (टी.)
७
या केलियात्रा (टी.) ३४० | या चन्द्रिकाचन्द्र (टी.)
३०४ | याते गोत्रवि
१३५ | याते द्वारवतीं
...
...
...
२२२ | यावदथ पदां १४ युधिष्ठिरको (टी.)
०११
येन ध्वस्तम (टी.)
२७८ | येन ध्वस्तम
१४३ | येन स्थलीकृ (टी.)
१९० | ये नाम केचिदि... ६७ ये पूर्व यवसू (टी.)
...
...
...
३२२ | ये यान्त्यभ्युद ३१९ | येषां तास्त्रिद १५० | येषां मध्ये म (टी.) १२९ | ये संतोषसु (टी.)
२०८ | यैर्दृष्टा सा न (टी.)
१२९ | यैः शान्तराग
***
***
...
***
...
...
१३१ | यादमानवमान २०० यादांसि हे (टी.)
१५८ या निशा सर्व
0.0
३१८ | यान्त्या मुहुर्व (टी. ) ...
१६९ | याम इव याति
...
...
...
...
400
...
...
...
...
...
...
***
...
...
...
:
::
...
...
...
...
...
...
...
...
...
804
...
...
::
...
...
...
...
086
...
...
...
...
***
...
...
...
***
:.
पृष्ठाङ्काः
१७५
१४
२५१
३३९
८
१७८
२७७
१९६
१२७
१८०
१७७
१३०
१३३
८५
७३
२२०१
१२९
४३
१८०
२४६
१६५
१३०
१४
१५९
१७६
१७४
१९९
२५७
१५४
१३२
१९५
२५६
६९
Page #371
--------------------------------------------------------------------------
________________
योगिगम्यं गुणा ( टी . ) ... यो गोपीजनवल्ल (टी. ) .
यो वलौ व्याप्तः... यो माधवीमुकु (टी.)
यो यः शस्त्रं (टी)
यो विकल्प (टी.) योषितामति
रइके लिहि रक्तस्त्वं .
रक्ताशोककृशो ..
रघुर्भृशं वक्षसि ... रङ्गतरङ्गभ्रूभङ्गे (टी.) रतिक्रीडायूते रथस्थमालोक्य रम्याणि वीक्ष्य (टी.)
...
...
...
...
:
...
01.
...
रविसंक्रान्त रागस्यास्पदं (टी.) रागोपचारयु राजीवमिव ते राज्ञो मानधनं (टी.)
राज्ये सारं वसु... रात्रिर्विचित्र (टी.) | राम इव दशरथो
राममन्मथ
रुदता कुत एव (टी. ) .. रुधिरविसर
...
...
रुद्ध रोदसी (टी.) रेणुरक्तविलि (टी.) रोहितका (टी.) लकुचाद्यन्त (टी.) लग्नं रागाव
...
लम्पाकीनां (टी.) लम्भाङ्किता (टी.)
...
***
...
...
...
...
...
***
...
...
...
***
...
...
...
9.8
...
...
...
...
...
...
•20
100
...
...
...
...
...
...
...
...
190
१
पृष्ठाङ्काः
२१३ | लयान्तरप्रयो
२३२ | ललनाः सरो
२८३ | ललितमङ्गमपा (टी.)
...
.
...
१३३ || लाक्षागृहान
२०५ | लाक्षालन
...
१८२ | लावणो रसम (टी.)
१३६ | लावण्यकान्ति (टी.)
५६ | लावण्यद्रविण (टी.) २० | लिखन्नास्ते १६९ | लिम्पतीव तमो. २७३ | लीलातामरसा १५ लीलादाढ (टी.) ३१२ | लीलावधूत २७८ | लीलाविलास (टी.) ६३ | लेख्यया विम (टी.) ४३ | लोकोत्तराणि (टी.) ११४ | वक्तारवीति
३२० वक्ता हर्ष भया
२४३ | वक्राम्भोजे
१७६ | वक्ष्याम्यतः परं ... २८७ | वच्च महं विय १३२ | वज्रेणान्तर्नु २५५ वत्सस्याभय (टी.)
...
११८ | वदनं वरवर्णि १५१ | वधूः श्वश्रूः (टी.)
४२ | वनानि नीली (टी.) १२६ | वन्द्या विश्वसृ (टी.)
१७९ वपुः प्रादुर्भाव (टी.) १३३ | वपुर्विरूपाक्ष १३५ | वयं भ्रूभङ्गास्ते १४५ | वयमिह परितु १३२ | वरं कृतध्वस्त ३४१ | वल्मीकः किमु
...
:.
...
...
...
...
...
...
::
: : :
...
...
::
: : :
...
...
::
...
:
...
...
...
...
...
⠀⠀⠀
...
...
...
...
...
⠀⠀⠀
...
...
...
...
...
...
:
::
...
...
...
::
...
...
:::
...
::
...
...
:::
...
::
...
...
...
...
...
...
...
...
...
...
पृष्ठाङ्काः
३२९
२५१
१९७
९५ ३००.
१२७
१०४
२६१
५४
२.९०
१६०
५२
१८
१९६
१४
१०४
१७३
१८९
१९२
३२३
३३
१९५ ९७.
२०८
१२३
१३०
१४
२९८
१७१
३०४
- ८७
१५२
१०४.
Page #372
--------------------------------------------------------------------------
________________
२८
२०१
१५६
س
س
३२५
१५५
९८
१०
३२४
३१४
पृष्टाहाः
पृष्ठाकाः सन्ते शीत (टी.) ... ... - १३ | विलासभूमि (टी.) ... १२७ इस्त्रायन्ते... ...
२०८ विवरीयरए (टी:)..... हलंतमाः ...
विविच्य वाधा (टी.) ... वाक्प्रपञ्चैक ...
विविधधव (टी.).. ... आगाविव (टी.)
विवृद्धात्मा (टी.) · ... वाच्या वैचित्र्य ....
विषयस्य यत्र (टी:) ... वाणियय. . ...
विषं निजगले ... ... पाणियय... ...
विष्कम्भकः- प्र... ... वाणीरकुड.....
वीराण रमयी ... ... वाणीव विमलं ...
| वृद्धास्ते न विचा . ... वाण्यर्थाविव (टी.). ...
वेणीभूतप्र... ... ... १०१ वाताहारतया .... .... १९ | वेदापने स शु (टी.) ... २१८ वात्याचक्रक (टी.)... १३४ / वेश्याचेटनपुं ... ... चामेक्षणे स्फुर (टी.) ... २७९ वैधैरैनैशै (टी.). .
२१५ वारणागगभीरा ... ... २१७ व्यपोहितं लोच :.. वारांहवध्राणि (टी.) ...
व्यर्थं यत्र... ... विसंतरअक्ख (टी.)
व्यायामस्तु .... ... ३२३ विकसद्रजःकलु (टी.)....
व्यालवन्तो (टी.). ... विकसित (टी.) ... ...
व्यूतसुमनसः (टी.) ... विकाशकारी (टी.) .... । व्योम तारतर (टी.) ... विचकिलकेशर (टी.) ... १३५ व्रजतः व तात... ... १५४ विदलितशक ... ...
शक्तिर्निस्त्रिंश ... विद्वान्दारस- (टी.) ... १७६ शङ्खद्रावित (टी.). विनेयानुन्मुखी .... ... ११३ शत्रुच्छेद ... विन्ध्यश्च पारि (टी.) ....
शब्दप्राधान्य ... विपदोऽभिभव ... ...
| शब्दार्थोक्तिघु (टी.) विपुलेन सागर ... ...
शंभोः केयं (टी.). ... विश्वणिक्सचि ... ... ३१९ शय्या शाहल ... ... विभजन्ते न ये... ... ... १६५
शरदिन्दुसुन्दर ... ... विमानपर्यतः ...... ११४ शरद्भवानामनु (टी.) ... १३४ विमुक्तवहीं (टी.). ... १३२ / शरीरमात्र (टी.). ... वियति विसर्प ... ... ... २४८ शशिवदना... ... ... ... विलसदमरनारी ... ... ... २८२ | शशी दिवस (टी.) ......
१३४
१४४
.
१५०
२७२
.
९८५
Page #373
--------------------------------------------------------------------------
________________
१८
पृष्टाङ्काः
पृष्ठाङ्काः
bum
... ...
१९९
-
२५७
___ ४६
१३८ ३१६ २६९
११३
२३८ २११
२१२
शाखास्मेरं (टी.) ... ... शिखरिणी व (टी.) ... ... शिञ्जानमञ्जु ... शिरामुखैः स्यन्द शिरीषादपि ... शिशिरशनिश्च ... शीतांशोरमृ ... शीर्णघ्राणाङ्गि शीर्णपर्णाम्बु ... शून्यं वासगृहं ... शूरास्तु वीररौ ... शूलं शलन्तु शं... शृङ्गारहास्यवर्ज ... शृङ्गारी गिरिजा... शृङ्गोत्खातभुवः (टी.)... शेतां हरिर्भवतु (टी.) शैलात्मजापि ... शैलेन्द्रप्रतिपा ... शैशवेऽभ्यस्त (टी.) ... शोकेन (टी.) ... ... शोभान्धौ गन्ध (टी.) श्यामाखङ्गं ... श्यामां श्यामलि... ... श्यामां स्मित (टी) श्यामेष्वङ्गेषु (टी.) श्रियः पतिः (टी.) श्रीपरिचया ... श्रुतिसमधिक ... श्रुतेन बुद्धिय॑ ... श्वासा वाष्पजलं... षोडशनायक ... स एकत्रीणि ... स एषभुवनत्र ...
::::::::::::::::::::
२२२
: :: :: :: :: :: :::::::::::::::::::::: :: :: :: :: :: :: :: :: :: :: :: :: :: :::::::
१२९ | सकलमहीभृत् (टी.) ... ४६ / स किलेन्द्रप्रयु (टी.) ...
| स खञ्जरीटा (टी) ... २९७ | सग्गं अप्परिया... २७१ | स गतः क्षिति ...
स च्छिन्नवन्ध (टी.) | सज्जेइ सुरहि (टी.)
सततमनङ्गो (टी) | स तत्त्वदर्शना ...
सत्यं त्वमेव सर... ३२६ | सत्यं मनोरमाः ...
सत्वं सम्यक्स ... सलारम्भरतो ... | सत्वारम्भरतो ... सदक्षिणापाङ्ग ... ... सदाप्नोति पति (टी.) सदा मध्ये यासा ... सदाव्याजवशा (टो.) ... संध्यां यत्प्रणि ... ... सपदि पति ... ... | सपदि हरिसखै (टी.)... | स पातु वो यस्य (टी.) | स पातु वो यस्य (टी.) सभायां तादृश्यां (टी) सभ्रूभङ्गं कर ... ... समदमतङ्गज ... ... समस्तगुणसंप (टी.) समानयनमा ... समुत्थिते धनु ...
सम्यग्ज्ञातम ... ३२२ सयणं चेवणि (टी) २७० | स यस्य दशकन्ध २०७ / स रणे सरणेन ... ...
१८४
२२२
...
१०६
...
१२३
in22 ०
-
२७० १०६
mr
११३ १५८
२१४
Page #374
--------------------------------------------------------------------------
________________
पृष्ठाकाः ।
.
१४०
२७१
५१
२११
१३०
ه
सरले साहसराग ... सरखति पदं ... ... सरस्वति यथा ... ... सरखत्यास्तत्त्वं (टी.) सरांसीवामलं ... ... सरोजपत्रे परि ... ... सर्वकार्यशरी ... ... सर्वत्र ज्वलितेषु (टी.) सर्वप्राणप्रगुण (टी.) ... सर्वः सलक्षणा ... ... सर्वाशारुधि द ... ... स वक्तुमखिला ... सविता विधवति सनीडा दयितानने सशमीधान्य (टी.) सशल्लकीशात्म (टी.) ... सशोणितैः ऋव्य ...
... स संचरिष्णुर्भु (टी.) ... स सत्वरतिदे नि (टी.)... ससार साकं (टी.) ... सन्नुः पयः पपुः... ... सहकाररसार्चि (टी.) ... सह दिअसनिसा (टी.) सह दीर्घा मम ... ... सहस्राक्षैरङ्गै ... सह्याद्रेरुत्तरे (टी.) सहंसा नलिनी ... संकेतकाल ... संक्षिपता (टी.) संख्यासमक्षं ... संचारिणी ... संप्रहारे प्रहर ... संप्राप्तेऽवधि ... संयतं याच ...
पृष्टाङ्काः ... २३३ / संरम्भः करि ... ... ...
१७३ २१२ | संवादिसारसंप (टी.) ...
२२९ | संस्तम्भिनी (टी.) ...
संहयवक्काय ... ... १५५ साकं कुरङ्ग (टी.) ... सा तत्र चामी (टी.)...
१२७ सा दयितस्य (टी.)
१७९ साधनं सुमह ...
१६० २०१ / साधु चन्द्रमसि ...
१७४ ३२५ | सानुज्ञमागमि ...
२८३ २०७ सा बाला वय ...
सा भाति पु (टी.) २४५ साम्यं संप्रति (टी.)
१३४ १११
| सा रक्षतादप ... १३२ | सालोए चिय
३०६ सावशेषपद ... ... ११४ | साहेन्ती सहि ...
| सांयात्रिकैर (टी.) २१९
| सिणियं वच्च ...
| सितनृशिरः स्र ... ... १५० सिता संसत्सु ...
२२४ | सिद्धार्थयष्टिषु (टी.) २७३ सीतां ददाह
२७० २७३ | सीतासमागम (टी.)
१० सुधावद्धग्रासै १२९ सुब्बई समा ...
सुमातरक्षया (टी.) | सुरदेशस्य ते (टी.) सुरालयोलास
१६७ सुरासुरशिरो (टी.)
... २१३ १०० सुवर्णपुष्पां ...
. ४५ १११
| सूर्याचन्द्रमसौ (टी.) ९८ सूर्यायति सुधा ...
२४४ २११ / मृजति च जग...
२६९
س
३
::::::::::::::::::::::::::::::::::.
م
WW
س
२१४
ه
م
س
م
२६४
ه
२८३
२२३ २२३
می
१७७
Page #375
--------------------------------------------------------------------------
________________
२०
पृष्टाङ्काः ।
१८२
... ...
२५५ २४३
..
.
__M
"
mrr
ow.
.
- r mr mo
०
'..
सेना लीलाली (टी.) ... ... २१९ स्वास्थ्यं प्रतिभा (टी.)... ...
पृष्टाङ्काः सो नत्थि एत्थ ... ...
१० २९० विद्यति कूणति... सोऽपूर्वो रसना (टी.)...
२५६ २६० स्वेदाम्भःकणि ... सोऽयं करैस्त (टी.)
१३४ | हंस प्रयच्छ (टी.) सोह ब्व लक्ख... ... ... २४६ | हंस प्रयच्छ सौधादुद्विजते (टी.) ...
| हंसाण सरोहिं ... ... सौन्दर्यस्य तरङ्गि
२५० हंसो ध्वास ... ... स्तनकर्पर (टी.)
| हंहो स्निग्धसखे (टी.)... स्तनजघनाभिरा...
हन्त हन्तरराती (टी.) ...
२०९ स्तनयुगमश्रु (टी.)
हन्तुमेव प्र ... ...
१८५ स्तेनतास्तेनता (टी.)...
हत्र्यो रुषः क्ष (टी.)... ...
२२४ स्तुमः कं वामा ...
| हरहासहरावास (टी.)... १२६ स्त्रियः प्रकृति (टी.)
हरेः कुमारोऽपि (टी.)
१९८ स्त्रीणां केतक (टी.)
| हरेः स्वसारे दे (टी.)...
२२२ स्त्रीप्राया चतुर ... ...
| हयं रम्यं (टी.)
१३४ स्त्रीभेदनापह ...
| हलमगुवल (टी.)
... ... १२६ स्थूलावश्याय (टी.)
हा धिक्सा कि ... ...
१६२ स्निग्धश्यामल ...
हा नृप हा वुध...
. १४८ निहिपिच्छकण्ण
हास्यप्रायं प्रेरणं
३२८ स्नेहं समादिश (टी.)
हिअअहिअ (टी.)
४८ स्पन्दते दक्षिणं (टी.)... ... २७९ / हिमवन्ध्य (टी.)
... १२८ स्पृशति तिग्मरु...
| हिरण्मयी सा ... स्फुरदद्भुत ...
| हिरण्यकशिपु (टी.) ... स्फूर्जद्वजसहस्र ...
२९६ हुमि अवह (टी.) ... स्मरदवथुनिमि ...
| हृदये चक्षुषि ... स्मरनवनदी ...
| हृदये वससीति ... स्मितं किंचित् ... | हे नागराज (टी.)
१५ स्मृत्या यन्निज (टी.)
हे लङ्केश्वर ... त्रस्तस्रग्दाम ...
हेलापि कस्य (टी.) ... स्रस्तां नितम्बा ... ...
हे सततमपा (टी.) ... स्रोतस्यम्भांसि (टी.) ..."
हे हस्तदक्षिण (टी.) खश्चितपक्ष्म
२१ हे हेलाजित (टी.) खपिति याव ...
... ... २८
१८५ होई न गुणांणु ... ... खयं च पल्ल
२३१ हिया सर्वस्या (टी.)
"
w
::::::::::::::::::::::::::::::::::.
.
2
७६
-
-
४९
१०१
१७६
"
Page #376
--------------------------------------------------------------------------
_