________________
काव्यानुशासनम् । समुद्रयोः, सागरसमुद्रयोः, दैत्यदानवासुराणां चैक्यम् । तथा चक्षुरादेरनेकवर्णोपवर्णनम्, बहुकालजन्मनोऽपि शिवचन्द्रमसो बालत्वम् , कामस्य मूर्तत्वममूर्तत्वं चेत्यादि ।
पिता या खयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तम्भयन् । तां लक्ष्मी पुरुषोत्तमः पुनरसौ लीलाश्चितभ्रलतानिर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम् ॥' नागसर्पयोरैक्यं यथा-'हे नागराज बहुमस्य नितम्वभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः । सोढा विषह्य वृषवाहनयोगलीला पर्यङ्कबन्धनविधेस्तव कोऽतिभारः ॥' क्षीरक्षारसमुद्रयोरैक्यं यथा-'शेतां हरिभवतु रत्नमनन्तमन्तर्लक्ष्मीप्रसूतिरिति नो विवदामहेऽहो । हादूरदूरसपया(?)स्तृषितस्य जन्तोः किं त्वस्ति सिक्तपयसः स मरोर्जघन्यः ॥' सागरमहासमुद्रयोरैक्यं यथा-'रङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमि. वापगाः । स ददर्श पुरो गङ्गां सप्तसागरवल्लभाम् ॥' दैत्यदानवासुराणामिति । हिरण्याक्षहिरण्यकशिपुप्रह्लादविरोचनबलिवाणादयो दैत्याः, विप्रचित्तिशंवरनमुचिपुलोमप्रभृतयो दानवाः, वलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः, तेषामैक्यं यथा-'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदक्ष्यम्वकपादपांसवः ॥' यथा च-तं शंभुरासुरसुराशनिशल्यसारकेयूररत्नकिरणारुणवाहुदण्डम् । पीतांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं जयेत्कः ॥' यथा च'आसीदैत्यो ह्यग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं वाह्वोः सितच्छवस्मिताः श्रियः ॥' यथा च हयग्रीवं प्रति-'दानवाधिपते भूयो भुजोऽयं किं न नीयते । सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु ॥' यथा च-'महासुरसमाजेऽस्मिन्न च कोऽप्यस्ति सोऽसुरः । यस्य नाशनिनिष्पेषनीराजितमुरःस्थलम् ॥ एवमन्येऽपि भेदा अभ्यूह्याः ॥ चक्षुरादेरनेकवर्णोपवर्णनमिति । चक्षुषः शुक्लता यथा--'तिष्ठन्या जनसंकुलेऽपि सुदृशा सायं गृहप्राङ्गणे तद्वारं मयि निःसहालसतनौ वीजामृदु प्रेक्षति । हीनम्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमाः शशिखण्डपाण्डिममुखे(खा) मुक्ताः कटाक्षच्छटाः ॥' श्यामता यथा-'अथ पथि गमयित्वा रम्यकृप्तोपकार्ये कतिचिदवनिपालः शर्वरी(?)शर्वकल्पः । पुरमविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरुद्गतानाम् ॥' कृष्णता यथा-'पादन्यासक्कणितरशनासूतलीलावधूत रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वन्नो नखपदसुखान्प्राप्य वर्षाग्रविन्दूनामोक्षत्तैत्वयैव(?) मधुकरश्रेणिदीर्घान्कटाक्षान् ॥' मिश्रवर्णना यथा-तामुत्तीर्थ ब्रजपरिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरि विलसत्कृष्णसारप्रभाणाम् । कुन्दे क्षेपानुगमधुकरश्रीमुखामात्मविम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥' शिवचन्द्रमसो वालत्वं यथा--'मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुमं भवस्य । दाक्षायणीदर्पणविभ्रमश्रि बाले