________________
८ अध्यायः ]
काव्यानुशासनम् ।
'बीजस्योद्घाटनं यत्र दृष्टनष्टमिव कचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ॥'
'उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्वान्वेषणं यत्र स गर्भ इति संज्ञितः ॥'
३३१.
दुत्पन्नम् । नानारससंभवा चास्योत्पत्तिः । नाटकानेकत्वेन पात्रानेकत्वविवक्षया नानार्थता रसानाम् । तथा हि-अत्र, 'एष कुरुसंधानममृष्यमाणः पृथुललाटतटघटितभीषणभ्रुकुटिरापिवन्निव नः सर्वान् दृष्टिपातेन सहदेवानुयातः क्रुद्धो भीम इत एवाभिवर्तते' इति पारिपार्श्वकवचनात्सूचितक्रोधस्थायिभावानुभावः 'लाक्षागृहानलविषान्नसभाप्रवेशैः-' इत्यादिखवचनप्रकाशितखविभावो भीमसेनस्य रौद्रो रसः कुरुक्षयप्रयोजनो बीजेन प्रकाशि- तत्वाद्वीजोत्पत्तेरेव संभवन्निवद्धः । कुरूणां च कुलक्षयनिमित्तकः करुणः पाण्डवसिद्धिप्रयोजनो बीजोत्पत्तेरेव संभवन्निवद्धः । यथा दुर्योधनः शोचन्नाह-- ' अद्यैवावां रणमुपगतौ तातमम्वां च दृष्ट्वा प्रातस्ताभ्यां शिरसि विनतो हन्त दुःशासनश्च । तस्मिन्वाले प्रसभमरिणा प्रापिते तामवस्थां पार्श्व पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ तदेवं भीमसेनस्येव क्रोधात्मकं चेष्टितं शत्रुक्षयफलमित्युपादेयम् । दुर्योधनस्येव च दौरात्म्यभूयिष्ठं चेष्टितं शोकफलत्वात्त्याज्यमिति विधिनिषेधविषयव्युत्पत्तेर्नानार्थता पात्रानेकत्वाश्रया रसानाम् । नाटकानेकत्वाद्यथा सागरिकाप्राप्त्यर्थो वत्सराजस्य शृङ्गारः वीजसमुत्पत्तिरिति । वीजं समुत्पन्नमुक्तैर्विशेषणैर्विशिष्टमिष्यते । तथा हि वीजमेव काव्यशरीरव्यापि यतो मुखसंधौ तस्योत्पत्तिः । प्रतिमुखे दृष्टनष्टमिव तस्योद्घाटनं गर्भे चोद्भेदस्तस्य अवमर्शे च गर्भनिर्भेदः । निर्वहणे च समानयनमिति काव्यशरीरव्यापिता ॥ बीजस्योद्घाटनमिति । अयमर्थ:दृष्टनष्टमिव कृत्वा तावन्मुखे 'द्वीपादन्यस्मात् -' इत्यादिना न्यस्तं भूमाविव बीजम् अमात्येन सागरिकाचेष्टितं वसन्तोत्सवकामदेवपूजादिना तिरोहितत्वान्नष्टमिव नहि तन्नष्टमेव । सागरिकाचेष्टितस्य हि बीजस्येव तदाच्छादकमप्युत्सवादिरूपं भूमिवत्प्रत्युत कार्यजननशक्त्युद्बोधकम् । तस्य दृष्टनष्टतुल्यं कृत्वा न्यस्यते । एवं कुङ्कुमवीजस्य यदुद्घाटनं तत्कल्पं यत्रोद्घाटनं सर्वत्रैव कथाभागसमूहे स प्रतिमुखम् । प्रतिराभिमुख्ये । मुखस्याभिमुख्येन यतोऽत्र वृत्तिः । पराङ्मुखता हि दृष्टनष्टकल्पता । तथा हि रत्नावल्याम् — 'पैरपेसणकरिसिदं पि सरीरमेदस्स दंसणेण अज्ज मे बहुमदं संपण्णम्' इत्यादिसागरिकोक्तरनन्तरं सुसंगतारचितराजतत्समागमपर्यन्तं काव्यं द्वितीयाङ्कगतं प्रतिमुखसंधिरुद्धाटित्वाद्वीजार्थस्य ॥ उद्भेदस्तस्येति । प्राप्तिरप्राप्तिरन्वेषणमित्येवंभूताभिरवस्थाभिः पुनः पुनर्भवन्तीभिः युक्तो गर्भसंधिः । प्राप्तिसंभवाख्ययावस्थया युक्तत्वेन फलस्य गर्भीभावात् । तथा हि रत्ना
१. 'परप्रेषणकर्षितमपि शरीरमेतस्य दर्शनेनाद्य मे बहुमदं संपन्नम्' इति च्छाया.