________________
काव्यमाला। वल्यां द्वितीयाङ्के सुसंगता-सहि, अदक्खिण्णासि तुवम् । दाणी जा एवं भट्टिणा हत्थेण गहिदा वि कोवं न मुश्चेसि' इति प्राप्तरूप उद्भेदः । ततोऽत्र 'सागरिका-(सभ्रूभङ्गम् ।) सुसंगदे, इआणि पि न विरमसि' इति कुमारीभावसमुचितकृतकोपेनापि परिपूर्णरतिप्रकाशनादन्वेषणम् । ततो 'भो, एसा खु अवरा देवी वासवदत्ता' इति विदूषकोक्ते राजनि सचकितं सागरिकां मुञ्चति सागरिकासुसंगतयोश्च निष्कमावासवदत्ताप्रवेशाच्चारभ्य तृतीयाङ्के प्रवेशके 'साहु रे वसन्तय, साहु । अदिसइदो ते अमच्चजोअन्धराअणो इमाए संधिविग्रहचिन्ताए' इति काञ्चनमालयोक्तं यावदप्राप्तिस्ततोऽस्याः 'अज्ज क्खु मए राअउलाओ पडिणीव्वत्तन्तीए चित्तसालिआदुआरे वसन्तअस्स सुसंगदाए सह आलावो सुदो' इत आरभ्य 'ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कवयति कथामात्मविषयाम् । सखीषु स्मेरस्ते प्रकटयति वैलक्ष्यमिति मे प्रिया प्रायेणास्ते हृदयनिहितातविधुरम् ॥ तद्वान्वेिषणाय गतश्चिरयति वसन्तकः' इति वत्सराजोक्तिं यावदन्वेषणम् । ततश्च "ही ही । कोसम्वीरजलम्भेणावि ण तादिसो पिअवअस्सस्स परिदोसो आसि, जादिसो मम सआसादो पियवयणं सुणिअ भविस्सदि।' इत्यादिविदूषकोक्तेन प्राप्तिरसोऽस्यां समागमसंकेतस्थानप्राप्तिं यावदन्वेषणम् । ततः 'प्रिये, पश्य पश्य । उदयोवीभृत एष त्वद्वदनापहृतकान्तिसर्वखः । पूत्कर्तुमिवोर्ध्वकरः स्थितः पुरस्तान्निशानाथः ॥' इति राजोक्तिपर्यन्तं परिपूर्णा प्राप्तिः । ततः 'दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे' इति वासवदत्तामुखोद्धाटनादनन्तरम् 'राजा--कथं देवी वासवदत्ता। वयस्य, किमेतत् । विदूषकःअह्माणं जीविदसंसओ' इत्यादिना अप्राप्तिः । अस्यां च 'दिट्ठिा इमिणा विरइदभट्टिणीवेसेण केण वि इमादो चित्तसालादो णिक्कमन्ती ण लक्खिदह्मि' इति सागरिकोक्त्या अन्वेषणम् । ततश्च सागरिकाया लतापाशे कृते 'कहं एसा देवी वासवदत्ता उव्वन्धिय अप्पाणों वावादेदि' इति विदूषकोक्ते राजनि च समुपेत्य कण्ठपाशमपनयति, सागरिकया अंज
१. 'सखि, अदक्षिणासि त्वम् । इदानीं या एवं भा हस्तेन गृहीतापि कोपं न मुञ्चसि' इति च्छाया. २. 'सुसंगते, इदानीमपि न विरमसि' इति च्छाया. ३. 'भोः, एषा खलु अपरा देवी वासवदत्ता' इति च्छाया. ४. 'साधु रे वसन्तक, साधु । अतिशयितस्त्वयामात्ययौगन्धरायणोऽनया संधिविग्रहचिन्तया' इति च्छाया. ५. 'अद्य खलु मया राजकुलात्प्रतिनिवर्तमानया चित्रशालिकाद्वारे वसन्तकस्य सुसंगतया सह आलापः श्रुतः' इति च्छाया. ६. 'स्याधो नयति' कलिकातामुद्रितपुस्तके. ७. 'मधिकम्' कलिकातामुद्रितपुस्तके. ८. 'आश्चर्यम् । कौशाम्वीराज्यलाभेनापि न तादृशः प्रियवयस्यस्य परितोष आसीत् , यादृशो मम सकाशात्प्रियवचनं श्रुत्वा भविष्यति' इति च्छाया. ९. 'अस्माकं जीवितसंशयः' इति च्छाया. १०. 'दिष्ट्या अनेन विरचितभत्रिवेषेन केनापि अस्याश्चित्रशालिकाया निष्कामन्ती न लक्षितास्मि' इति च्छाया. ११. 'कथमेषा देवी वासवदत्ता उद्बव्यात्मानं व्यापादयति' इति च्छाया. १२. 'आर्यपुत्र, मुञ्च मुञ्च । पराधीनः खल्वयं जनः न पुनर्मतुमीदृशमवसरं प्राप्नोति' इति च्छाया. . . . . . . . . .