________________
३३०
काव्यमाला। एतानि क्रमेण लक्षयति
पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिवद्धभिन्नान्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधि शब्दार्थवैचित्र्योपेतं महाकाव्यम् । ।
छन्दोविशेषरचितं प्रायः संस्कृतादिभाषानिबद्धैभिन्नान्त्यवृत्तैर्यथासंख्यं सर्गादिभिर्निर्मितं सुश्लिष्टमुखप्रतिमुखगर्भविमर्शनिर्वहणसंधिसुन्दरं शब्दार्थवैचित्र्योपेतं महाकाव्यम् । मुखादयः संधयो भरतोक्ता इमे
'यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा।।
काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥ रूपप्रच्छादनाद्यभावात् । तत एव न डोम्विका साक्षात्कारकल्पेन सा दर्शयति,अपि तु तदैव नृत्यं साभिनयं केवलं च प्रदर्शयतीति सा लौकिकरूपान्तरप्रादुर्भावेनेति । व्युत्पत्त्यभिसंधानं च गेये नास्ति । पाठ्ये तु तदेव प्रधानं भरतमुनिप्रभृतीनां तथैव मूलतः प्रवृत्तेरित्यलं बहुना अप्रस्तुतप्रपञ्चेनेति ॥ भिन्नाल्त्यवृत्तरिति । उपक्रान्तवृत्तव्युदासेन सर्गादीनां वृत्तान्तरैरुपसंहारः कर्तव्य इत्यर्थः । यथा कुमारसंभवे-'अथ स ललितयोषिद्धलता चारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥' यथा वा हरिप्रबोधे आर्यागीतिच्छन्दोवद्धाश्वासकान्ते पुष्पिताग्रा-'भगवति शयिते विभावरीणां द्युतिमपहृत्य यशोविभावरीणाम् । गततमसतया विभावरीणां सघनमहः समतां विभावरीणाम् ॥' संधिवन्धेषु च नाराचतोटकादीनि विचित्राणि छन्दांसि दृश्यन्ते ॥ यत्र बीजेति । वीजस्य यत्र समुत्पत्तिः कविप्रयत्नतो निबन्धः । नानारूपोऽर्थः प्रयोजनं येषां ते नानार्थाः संभवन्तीति संभवः । नानार्थरसाः संभवो यस्याः सा तथा । काव्ये नाटकादौ । तत्र च संधीनां युक्ततयावभासात् । अत एव तत्रैवोदाहरिष्यते-शरीरानुगता इति । वृत्तानुगता इति वृत्तव्यापिनी। तन्मुखम् । यथा वेणीसंहारे कुरुपाण्डवानामुभयेषां क्षेमप्रतिपादकं स्थापकस्य वचनं सहदेवः क्रुद्धस्य भीमसेनस्यानुकूल्येन शमनाय कुरुनिधनपरं व्याचचक्षे–'निर्वाणवैरदहना प्रशमादरीणाम्' इति । अत्र प्रशमोऽवसानमुदयनिरोधात् । यथा शान्तो वायुः शान्तोऽग्निरवसित इत्यर्थः । तदेवमरीणामवसानेन दाह्याभावानिर्वाणवैराग्नयः पाण्डुतनया नन्दन्तु सह माधवेन । कुरुराजसुतास्तु सभृत्या रुधिरप्रसाधितभुवः क्षतशरीराः खर्गस्था भवन्विति शत्रुक्षयपूर्वस्थस्य पाण्डवानां समृद्धिरूपस्य फलस्य बीजं कविप्रयत्ना१. 'संधिविधेषु' ख. २. 'शरीरानुगता' स्यात्