________________
७ अध्यायः ]
काव्यानुशासनम् ।
२९५
विषयः । प्रत्यनीकं च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालंकारान्तरतया
वाच्यम् ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायामलंकारचूडामणिसंज्ञस्वोपज्ञकाव्यानुशासनवृत्तौ शब्दार्थालंकारवर्णनः पष्टोऽध्यायः ।
सप्तमोऽध्यायः ।
इह च काव्यं नायकादिप्रतिवद्धं भवतीति नायकादिलक्षणमुच्यते । तत्र तावदुत्तममध्यमाधमभेदेन पुंसां स्त्रीणां च तिस्रः प्रकृतयो भवन्ति । तत्र केवलगुणमय्युत्तमा । खल्पदोपा बहुगुणा मध्यमा । दोषवत्यधमा । तत्राधमप्रकृतयो नायकयोरनुचरा विटचेटीविदूषकादयो भवन्ति । उत्तममध्यमप्रकृतियुक्तस्तु —
समग्रगुणः कथाव्यापी नायकः ।
समग्रगुणो नेतृत्वादिगुणयोगी वक्ष्यमाणशोभान्वितश्च । तत्र नेतृत्वादिगुणबाहुल्यात् मध्यमप्रकृतावपि समग्रगुणता ।
भ्यनुज्ञायते । अत्रापि शत्रुविनाशलक्षणविभावद्वारेण हर्पात्मनो भावस्योपनिबन्धात्पूर्ववद्भावध्वनिरेवेति । तदाह - भावज्ञापनेनेति । प्रत्यनीकमिति । अनीकप्रतिनिधितुल्यत्वात्प्रत्यनीकम् । यथानीकेऽभियोज्ये तत्प्रतिनिधिभूतमपरं मूढतया केनचिद'भियुज्यते तथेह प्रतियोगिनि विजेये तदीयोऽन्यो विजीयत इत्यर्थः । तथा चाह'प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥' यथा---' त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः ॥ तां त्वय्यनुरक्तां मनोभवशरैस्ता7 डयतीति वास्तवोऽर्थः । तत्र च मनोभवस्य त्वद्रूपेण विनिर्जितत्वाद्योऽसावनुशयः स कारणत्वेनोत्प्रेक्षित इत्युत्प्रेक्षा । सा च प्रतीयमाना इवादिशब्दाप्रयोगात् ॥ जातिगतिरीति... वृत्तिच्छायामुद्रोक्तियुक्तिभणितिगुम्फनाशय्यापीति वाक्ये वाक्याध्येयाप्रेक्ष्यगेयाभिनेयानि शब्दालंकाराः संभवप्रत्यक्षागमोपमानार्था पत्यभावलक्षणाश्चार्थालंकारा ये भोजराजेन प्रतिपादितास्ते केनचिदुक्तेष्वेवान्तर्भवन्ति । केचिच्च कंचनापि चमत्कारं नावहन्ति, केचिच्च ये काव्यशरीरस्खभावा एवेति न सूत्रिताः ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके षष्ठोऽध्यायः ॥
१. 'दिव कामः' का० प्र०. २. 'भवः' स्यात्.