________________
२९४
काव्यमाला ।
अथ तथाविधवर्णनीयवस्तु परम्, तदा गुणीभूतव्यङ्गयस्येति नालंकारः ॥ रसवत्प्रेयस्व्यूर्जस्विभावसमाहितानि गुणीभूतव्यङ्गयप्रकारा एव || आशीस्तु प्रियोक्तिमात्रं भावज्ञापनेन गुणीभूतव्यङ्गयस्य
अथ यत्र ऋद्धिमद्वस्तु संभवदेव वर्णयिष्यते तत्रोदात्तं भविष्यतीत्याशङ्कयाह — खभावो - तेर्वेति । किं च । यदि ऋद्धिमद्वस्तुवर्णनमलंकारस्तदा ऋद्धिरहितवस्तुवर्णनमप्यलंकारं कश्चित्प्रसजतीति । महापुरुषवर्णनारूपमिति । यदाह - 'महतां चोपलक्षणम्' इति । यथा—‘तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्वाहुसहायश्चकार 'रक्षःक्षयं रामः ॥ ' रामो हि पितृवचनमनुतिष्ठन्नयपराक्रमादिधर्मयोगादुत्साहयोगाच्च वीर - रसवानेवेति रसध्वनिरेवायम् ॥ ननु उपलक्षणमङ्गभावोऽर्थादुपलक्षणीयेऽर्थे । ततश्चोपलक्षणीभूतस्य रामचरितस्य वाक्यार्थी भावाभावादङ्गत्वमेव । दण्डकारण्योत्कर्षप्रतिपत्तिर्हि वाक्यार्थः सैव प्रधानं ततः कथं ध्वनिविषयतेत्याशङ्कयाह - अथेति । गुणीभूतव्यङ्गयप्रकारा एवेति । मध्यमकाव्यप्रभेदविषयत्वेन ये प्रतिपादिताः । आशीस्त्विति । आशासनमप्राप्तप्राप्तीच्छारूपमाशीः प्रयोक्तृधर्मः । अथ वा आशास्यमानो योऽसावर्थोऽनर्थप्राप्त्यनर्थोपरमात्मकः स एव प्राप्तकालतयाभ्यनुज्ञात आशीर्विषयत्वादाशीरिति । तत्र पक्षद्वयेऽपि स्नेहाभावे लोकव्यवहारमात्रानुसरणार्थत्वेनाशीर्यदि प्रयुज्यते तदा " गतोऽस्तमर्कः' इत्यादिवद्वातीवर्णनमात्रत्वाद्दूरापेतैवालंकारतेत्याह-- प्रियोक्तिमात्रमिति । सहदयानां किमप्येतदिति चमत्काराभावादित्यर्थः ॥ अथ स्नेहातिशयेनोच्यते, तदा ध्वनेर्विषयः । तथा हि कश्चित्कस्मैचित्स्नेहनिर्भरहृदयतया आशिषं प्रयुङ्क्ते तत्र च तस्य चेतोवृत्तिविशेषः स्नेहात्मा रतिभावविशेषरूप आशीर्द्वारेण प्रतीयत इति भावध्वनिरेवायम् । यथा—‘अस्मिञ्जहीहि सुहृदि प्रणयाभ्यसूयामाश्लिष्य गाढममुनानतमादरेण । विन्ध्यं महानिव घनः समयेऽभिवर्षन्नानन्दजैर्नयनवारिभिरुक्षतु त्वाम् ॥' कयोश्चिन्मैत्रीसंवन्धे पिशुनजनानुप्रवेशनविच्छार्य : ( ? ) कृते सति कस्यचिन्नायकस्य तत्स्नेहदादर्द्धसंपादनायेयमुक्तिः । अत्र च सौहृदमप्यर्थप्राप्तिरूपं मैत्रीसंबन्धस्य प्रवर्धमानतयोपनिबद्धम् । जहीहीति आश्लिष्येति च प्रार्थना पञ्चम्यन्तौ । उक्षत्विति प्राप्तकालतायां पञ्चमी तेनात्राशास्यमानस्य मैत्रीसंबन्धस्योपनिबन्धो न त्वप्राप्तप्राप्तीच्छात्मिका आशिषः । तथा'मदान्धमातङ्गविभिन्नशाला हतप्रवीराद्भुतभीतपौराः । त्वत्तेजसा दग्धसमस्तलीला द्विषां पुरीः पश्यतु राजलोकः ॥' अत्र शत्रुनगरीविनाशोपनिबन्धद्वारेणानर्थोपरमस्य दर्शितत्वादाशास्यमानार्थोपनिबन्ध एव ॥ नन्विदं भूयादित्येवमात्मिकायाः प्रयोक्तधर्मत्वेनावस्थिताया आशिषोऽत्रोपदर्शनम् । तथा ह्येवंविधा शत्रुनगरी राजलोको दृश्यादिति नाय - मत्रार्थः संपन्नत्वादेतस्यार्थस्य किंतु तथाविधानां शत्रुनगरीणां दर्शनमत्र प्राप्तकालतया
1
१. ‘विच्छायीकृ’ स्यात्. २. - ३. लोटो लकारस्य पञ्चमीनामाभिधेयत्वं स्यात्.