________________
काव्यानुशासनम् ।
२३
---
षयः शब्दो मुख्यो वाचक इति चोच्यते । यथा - गौः, शुक्लः, चलति, देवदत्तः, इति । यदाह महाभाष्यकार : - ' चतुष्टयी शब्दानां प्रवृत्तिः' इति । जात्यादिखरूपं च प्रकृतानुपयोगान्नेह विपञ्च्यते । जातिरेव संकेत - · विषय इत्येके । तद्वानित्यपरे । अपोह इत्यन्ये ॥
मिति । चतुष्टयीति । जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्च । तथा हि । सर्वेषां शब्दानां स्वार्थाभिधानाय प्रवर्तमानानामुपाध्युपदर्शित विषयविवे[च]कत्वादुपाधिनिबन्धना प्रवृत्तिः । उपाधिश्व द्विविधः । वस्तुकृतसंनिवेशितो वस्तुधर्मश्च । तत्र यो वक्ता ( फा ) यदृच्छया तत्तत्संज्ञिविषयशक्तिव्यक्तिद्वारेण तस्मिंस्तस्मिन् संज्ञिनि निवेश्यते स वस्तुकृतसंनिवेशितः । यथा डित्थादीनां शब्दानामन्त्यबुद्धि निर्ग्राह्यं संहृतक्रमं खरूपम् । तत्खलु तां तामभिधाशक्तिमभिव्यञ्जयता वा यदृच्छया तस्मिं - स्तस्मिन् संज्ञिन्युपाधितया संनिवेश्यते अतस्तन्निबन्धनाद्यदृच्छाशब्दा डित्थादय: ॥ येषामपि च [ ए ] डकारादिवर्णव्यतिरिक्तसंहृतक्रमस्वरूपाभावान्न डित्यादिशब्दस्वरूपं संहतक्रमसंज्ञिष्वध्यस्यत इति तेषामपि वक्तृयदृच्छाभिव्यज्यमानशक्तिभेदानुसारेण काल्पनिकसमुदायरूपस्य डित्थादेः शब्दस्य तत्संज्ञाभिधानाय प्रवर्तनत्वात् यदृच्छाशब्दत्वं डित्थादीनामुपपद्यत एव ॥ वस्तुधर्मस्य च द्वैविध्यम् । सिद्धसाध्यताभेदात् । तत्र साध्योपाधिनिबन्धनाः क्रियाशब्दाः । यथा - पचतीति । सिद्धस्य तूपाधेद्वैविध्यम् । जातिगुणभेदात् । तत्र पदार्थ प्राणप्रद उपाधिर्जातिः । न हि कश्चित्पदार्थो जातिसंबन्धमन्तरेण स्वरूपं प्रतिलभते । यदुक्तं वाक्यपदीये - 'गौः खरूपेण न गौर्नाप्यगौगत्वाभिसंबन्धात्तु गौः ' इति ॥ लब्धस्वरूपस्य च वस्तुनो विशेषाधान हेतुर्गुणः । न हि शुक्लादेर्गुणस्य पटादि वस्तुस्वरूपप्रतिलम्भनिबन्धनत्वम् । जातिमहिम्नैव तस्य वस्तुनः प्रतिलब्धस्वरूपत्वात् ॥ जातिरेवेति । तथा हि-- गुणशब्दानां तावच्छुक्लादीनां पयः शङ्खबलाकाद्याश्रयसमवेता ये शुक्लादिलक्षणा गुणास्तत्सम वेतसामान्यर्वाचिनः । एवं क्रियाशब्दानामपि गुडतिलतन्दुलादिद्रव्याश्रिता ये पाकादयोऽन्योन्यमन्यत्वेनावस्थिताः क्रियाविशेषास्तत्समवेतं सामान्यमेव वाच्यम् । यदृच्छाशब्दानां तु डित्थादीनां शुकसारिकामनुष्याद्युदीरितेषु डित्थादिशब्देषु समवेतं डित्थत्वादिकं सामान्यमेव यथायोगं संज्ञिष्वध्यस्तमभिधेयम् । यदि वोपचयापचययोगितया डित्थादौ संज्ञिनि प्रतिकलं भिद्यमानेऽप्यभिद्यमानो यन्महिम्ना डित्थो डित्य इत्येवमादिरूपत्वेनाभिन्नाकारः प्रत्ययो बाधशून्यः संजायते तत्तथाभूतं डित्यादिशब्दावयवस्तुसमवेतमेव डित्थत्वादिसाम्यमत्रेष्टव्यम् । तच डित्थादिशब्दैरभिधीयते । इति गुणक्रियायदृच्छाशब्दानामपि जातिशब्दत्वाज्जातिरेवैकः शब्दार्थ इति । तद्वानिति । जातेरर्थक्रियायामनुपयोगाद्विफल : संकेत: । यदाह - जातिर्दाहपाकादाबु
--
१. 'चल:' इति स्यात्.
१. ' वाचिता' इति भवेत्.