________________
२४
काव्यमाला।
गौणं लक्षयतिमुख्यार्थवाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः।
गौर्वाहीको गौरेवायमित्यादौ मुख्यस्यार्थस्य सास्नादिमत्त्वादेः प्रत्यक्षादिना प्रमाणेन बाधे निमित्ते च सादृश्यसंबन्धादौ प्रयोजने ताद्रूप्यप्रतिपत्तिरूपे सत्यारोप्यारोपविषययोर्भेदेनाभेदेन च समारोपितोऽतथाभूतोऽपि तथात्वेनाध्यवसितो गुणेभ्य आयातत्वाद्गौणः तद्विषयः शब्दोऽपि गौणः, उपचरित इति चोच्यते । तत्र सादृश्ये निमित्ते भेदेनारोपितो यथा'गौर्वाहीकः' । इदं वक्ष्यमाणरूपकालंकारस्य बीजम् । अभेदेन यथा'गौरेवायम्' इति । इदमतिशयोक्तिप्रथमभेदस्य ॥ ___ अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने निमित्तत्वमुपयान्तीति केचित् ॥ | स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्ते, न तु परार्थोऽभिधीयते इत्यन्ये ॥
साधारणगुणाश्रयेण परार्थ एव लक्ष्यते इत्यपरे ॥ । संबन्धे कार्यकारणभावे आयुर्घतम् , आयुरेवेदम् । अत्रान्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि प्रयोजनम् । तादयें-इन्द्रार्था स्थूणा इन्द्रः । स्वखामिभावे-राजकीयः पुरुषो राजा ग्रामस्खामी ग्रामः । अवयवावयविभावे--अग्रहस्त इत्यग्रमात्रेऽवयवे हस्तः । मानमेयभावे-आढको व्रीहिः । संयोगे--रक्तद्रव्यसंयोगाद्रक्तः पटः । तात्क\---अतक्षा तक्षा । वैपरीत्ये-अभद्रमुखे भद्रमुखः ॥
लक्ष्यमर्थ लक्षयति
मुख्यार्थसंबद्धस्तत्वेन लक्ष्यमाणो लक्ष्यः । पयुज्यत इति । व्यक्तेश्वार्थक्रियाकारित्वेऽप्यानन्त्यव्यभिचाराभ्यां न संकेतः कर्तुं शक्यत इति जात्युपहिता व्यक्तिः शब्दार्थ इति । जातिव्यक्तितद्योगजातिमद्बद्धयाकारणाशब्दार्थत्वस्यानुपपद्यमानत्वाद्गवादिशब्दानामगोव्यावृत्त्यादिरूपस्तद्विशिष्टं वा बुद्धिप्रतिबिम्बकं सर्वथा वाह्यार्थस्पर्शशून्यमन्योपोहशब्दवाच्यं शब्दार्थ इति ॥ मुख्या इति । इदमेव हि शब्दानां मुख्यानां मुख्यत्वं यत्साक्षात्संकेतविषयत्वम् । संकेते च रूढिरेव कारणम् । १. वीजम्' इति शेषः.