________________
काव्यानुशासनम् । .. मुख्यार्थों गङ्गादिशब्दानां स्रोतःप्रभृतिस्तेन संबद्धस्तटादिरर्थस्तत्त्वेनाभेदेन लक्ष्यमाणो लक्ष्यः । तत्त्वेन लक्ष्यमाण इति वचनाद्भेदाभेदाभ्यामारोपित इति न वर्तते, शेषं तु गौणलक्षणमनुवर्तत एव । तद्विषयः शब्दो लक्षकः । यथा---'गङ्गायां घोषः, कुन्ताः प्रविशन्ति' । अत्र गङ्गाया घोषाधिकरणत्वस्य कुन्तानां प्रवेशस्य वा संभवान्मुख्यार्थबाधः, सामीप्यं साहचर्य च निमित्तम् , गङ्गातट इति कुन्तवन्त इति च प्रयोगाद्येषां न तथा प्रतिपत्तिस्तेषां पावनत्वरौद्रत्वादीनां धर्माणां तथा प्रतिपादनं प्रयोजनम् ।
गौरनुबन्ध्य इति तु नोदाहरणीयम् । अत्र हि श्रुतिनोदितमनुबन्धनं जातौ न संभवतीति जात्यविनाभावित्वाध्यक्तिराक्षिप्यते, न तु शब्देनोच्यते।
विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिविशेषणे ।' इति न्यायात् । न चात्र प्रयोजनमस्ति । अविनाभावादाक्षेपे च यदि लक्ष्यत्वमिष्यते तदा क्रियतामित्यत्र कर्तुः, कुरु इत्यत्र कर्मणः, प्रविश पिण्डीम् इत्यादौ गृहं भक्षयेत्यादेश्च लक्ष्यत्वं स्यात्। 'पीनो देवदत्तो दिवा 'न मुझे इत्यादौ न पीनत्वेन रात्रिभोजनं लक्ष्यते, अपि तु अर्थापत्त्या
आक्षिप्यते इति ॥ इह च यत्र वस्त्वन्तरे वस्त्वन्तरमुपचर्यते स गौणोऽर्थः, यत्र न तथा स लक्ष्य इति विवेकः । कुशलद्विरेफद्विकादयस्तु साक्षात्संकेतविषयत्वान्मुख्या एवेति न रूढिर्लक्ष्यस्यार्थस्य हेतुत्वेनास्माभिरुक्ता ॥
व्यङ्गयं लक्षयतिमुख्याध्यतिरिक्तः प्रतीयमानो व्यङ्गन्यो ध्वनिः ।
ततो यदि रूढिमपेक्ष्य लक्षणा प्रवर्तेत तदातिप्रसङ्गः स्यादिति ॥ अस्माभिरिति । न तु भट्टमुकुलादिभिः । तैर्हि रूढिमपि प्रयोजनतया उपन्यस्य लक्षणतया प्रवर्तिता।
१. 'अनुसरणीयो हन्तव्यो वा' टिप्पणी. २. 'अत्र परै रूढिसक्ता सानेन प्रकारेण गता' टिप्पणी.